लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५८८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५८७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५८८
[[लेखकः :|]]
अध्यायः ५८९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि यदा चेन्द्रद्युम्नः सत्यं जगाम ह ।
तदा खण्डेशराजा वै नियुक्तोऽभून्निरीक्षणे ।। १ ।।
गालो नाम महीपालश्चोत्कलेलाप्रभूपतिः ।
ओढ्रराजः स वै प्रोक्तस्तेन माधवमूर्तिका ।। २ ।।
स्थापिता स्वल्पकालार्थं नित्यदर्शनहेतवे ।
अपसार्य च तां मूर्तिं सिंहासनवराणि च ।। ३ ।।
कारयामास नृपतिः प्रासादे मध्यमे स्थले ।
तानि संशोभयामास राजा चेन्द्रद्युतिस्तदा ।। ४ ।।
तावद्व्योम्नि सन्ददृशे विमानं ब्रह्मणः शुभम् ।
हंसवाह्यं सावित्र्यादिशोभितं तेजसाऽन्वितम् ।। ५ ।।
ब्रह्मा चाऽवातताराऽस्माद् गंगाजलसमन्वितः ।
जयशब्दा हर्षशब्दा नमःशब्दास्तदाऽभवन् ।। ६ ।।
चतुर्दशभुवनानां देहिनां दर्शनेच्छया ।
सम्मर्दश्च महानासीदहंपूर्विकया तदा ।। ७ ।।
ब्रह्माणं वर्धयामासुर्लाजाकुसुमकाऽक्षतैः ।
ब्रह्मा कृष्णरथं गत्वा ननाम च ददर्श च ।। ८ ।।
ततो बलरथं पश्चाद् भद्रारथं जगाम च ।
ननाम च प्रतुष्टाव पुपूज दिव्यवस्तुभिः ।। ९ ।।
नमः कृष्णाय शेषाय लक्ष्म्यै चक्राय वै नमः ।
विष्णुरामसुभद्राणामभेदाय नमो नमः ।। 1.588.१० ।।
अज्ञाननाशकर्त्रे च सुदर्शनात्मने नमः ।
एवं प्रणम्य विवृत्य नारदादिष्टपत्सृतिः ।। ११ ।।
नीलाचलस्थप्रासादं वीक्षितुं समुपागमत्। ।
मन्दिरं मण्डपं वेदीं शालां दृष्ट्वा तुतोष ह ।। १२।।
ब्रह्मासने कानने च ह्युपविष्टः स्वयं ह्यजः ।
देवा ऋषयो विप्राश्च निषेदुस्तत्र मण्डपे ।। १३ ।।
ऋत्विगाद्या यथास्थानं स्थिता ब्रह्माज्ञया ततः ।
भारद्वाजः समारेभे कर्तुं शान्तिकपौष्टिके ।। १४।।
त्रैलोक्यवासिनां पूजा चकार नृपतिस्तदा ।
कलेवरं भगवतः प्रासादं च मनोहरम् ।। १ ५।।
प्रतिष्ठाप्य भरद्वाजः समुच्छ्रितमहाध्वजम् ।
व्यज्ञापयत् प्रतिष्ठायै प्राणानां तु पितामहम् ।। १६।।
कृतस्वस्त्ययनो ब्रह्मा ऋषिभिर्ब्राह्मणारिभिः ।
सह गत्वा रथान् वाद्यघोषैर्जयरवैः सह ।। १७।।
स्तुत्वाऽवतारयामासुः रथात् सोपानवर्त्मना ।
भक्ता भागवता निन्युः शनैः प्रासादसन्निधिम् ।। १८ ।।
तूलिकासु स्थितास्वासु पुष्पवृष्टिरभून्मुहुः ।
जय त्वं जगतां नाथ जय कृष्णनरायण ।। १ ९।।
जय संकर्षण भद्रे जय सौख्यं विधेहि नः ।
इत्युद्धोषैः समानिन्युः प्रासादद्वारि मण्डपे ।। 1.588.२० ।।
वासयित्वाऽभिषेकाय सम्मुखाऽऽदर्शमण्डले ।
अधिवासितकुंभैश्च तीर्थवार्युपसंभृतैः ।।२ १ ।।
सूक्ताभ्यां श्रीपुरुषयोश्चकाराऽजोऽभिषेचनम् ।
ततो ह्यलंकृतान् देवान् गन्धमाल्योपशोभितान् ।। २२।।
विप्रा स्तान् संप्रचक्रुवैं सिंहासनगतान् प्रभून् ।
ब्रह्मा शलाकया नेत्रे त्वंजयामास निम्नदृक् ।। २३ ।।
न्यासाँश्चकार विधिवद् दिव्यशृंगारशोभितान् ।
भावयामास दिव्यांस्तान् मूर्तिस्थान् संप्रचेतनान् ।। २४।।
ततो नीराजयित्वा तान् प्रार्थयामास भक्तितः ।
सर्वजगत्प्रतिष्ठ त्वं मूर्तावत्र स्थिरो भव ।। २५।।
त्वयि प्रतिष्ठिते देवा वयं चापि प्रतिष्ठिताः ।
दिव्यमूर्तिमयो भूत्वा प्रासादेऽत्र स्थिरो वस ।।२६।।
त्वदाज्ञया प्रतिष्ठेयं पूर्णाऽऽस्तां त्वत्प्रसादतः ।
इत्युक्त्वा हृदयं स्पृष्ट्वा जजाप मन्त्रमाच्युतम् ।। २७।।
भोगान् निवेदयामास भोजयामास देहिनः ।
दापयामास दानानि परिहारं चकार सः ।।२८।।
वैशाखस्याऽमले पक्षे चाष्टम्यां पुष्ययोगतः ।
कृता प्रतिष्ठा च गुरौ ब्रह्मणा परमेष्ठिना ।। २९।।
तद्दिने च कृतं पुण्यं स्नानं दानं जपादिकम् ।
तपो व्रतं पूजनं च सर्वमक्षयतां व्रजेत् ।।1.588.३ ०।।
तद्दिने तत्र गत्वा च कृष्णं रामं च भद्रिकाम् ।
सुदर्शनं च पश्यन्ति मुक्तास्ते मम धामगाः ।। ३१ ।।
अथ लक्ष्मि! दिने तस्मिन् कृष्णमूर्तावदृश्यत ।
सायं नृसिंहो भगवान् सर्वैरद्भुतदर्शनः ।।३२।।
अथ क्षणान्तरे मत्स्यस्तथाऽदृश्यत कच्छपः ।
वाराहोऽदृश्यत क्षणान्तरे हंसोऽप्यदृश्यत ।।३३।।
हयग्रीवोऽदृश्यताऽपि कपिलोऽदृश्यताऽपि च ।
हरिश्चाप्यदृश्यताऽपि वासुदेवोऽप्यदृश्यत ।।३४।।
पृथुरदृश्यत तत्र दत्तात्रेयोऽप्यदृश्यत ।
ऋषभोऽदृश्यत पश्चाद् वामनोऽथाप्यदृश्यत ।।३५।।
परशुरामोऽदृश्यत यज्ञनारायणस्ततः ।
रामादित्योऽदृश्यताथ कुमाराः सनकादयः ।।३६।।
अदृश्यन्त नारदोऽदृश्यताऽपि राजराजकः ।
व्यासो बुद्धस्ततः स्वामिकृष्णनारायणः पुनः ।।३७।।
वैराजोऽदृश्यत तत्र लक्ष्मीनारायणोऽपि च ।
नरनारायणश्चैतेऽदृश्यन्ताऽपि क्षणे क्षणे ।।३८।।
अत्याश्चर्यं गताः सर्वे ज्ञातवन्तश्च वै तदा ।
अवतारा हरेः सर्वे पुरुषोत्तमसंभवाः ।।३९।।
अस्मादेव प्रजायन्ते भक्तानुरूपदर्शनाः ।
प्रजहृषुर्नृपाद्याश्च दृष्ट्वा हरिं हि तादृशम् ।।1.588.४०।।
संशया नाशमापन्ना अवताराऽवतारिणोः ।
सर्वरूपमयो मूलं साक्षात् यत् पुरुषोत्तमः ।।४१ ।।
आराध्यते यथा येन तथा तस्य फलप्रदः ।
यस्य यावाँस्तु विश्वासस्तस्य सिद्धिस्तु तावती ।।४२।।
अथ ब्रह्मा जगन्नाथं प्रार्थयामास गद्गदः ।
भगवन् इन्द्रद्युम्नस्य सहस्राणि तु जन्मनाम् ।।४३।।
तव भक्तिं कुर्वतोऽत्र व्यतीतानि पुरा पुरा ।
अद्य जन्मनि भक्तेश्च फलं प्राप्तस्तवेच्छया ।।४४।।
भक्तियोगेन राजा त्वां समर्चयितुमिच्छति ।
उपदेशं प्रदेह्येनं व्रतोत्सवान् समादिश ।।८५।।
इत्यर्थितो ब्रह्मणाऽऽह काष्ठमूर्तिर्हसन् हरिः ।
इन्द्रद्युम्न प्रसन्नोऽस्मि तव भक्त्याऽतिभावया ।।४६।।
वरं ददामि ते भूप मयि भक्तिः स्थिराऽस्तु ते ।
उत्सृज्य वित्तकोटीस्तु यन्ममाऽऽयतनं कृतम् ।।४७।।
भंगेऽप्येतस्य राजेन्द्र नैतत् त्यक्ष्ये कदाचन ।
अनेन दारुवपुषा स्थास्याम्यत्र परार्धकम् ।।४८।।
द्वितीयं पद्मयोनेस्तद् यावत्परिसमाप्यते ।
अथ न्यग्रोधोत्तरस्थकूपस्य ये जलेन माम् ।। ४९।।
रामं भद्रां स्नापयेयुस्ते मल्लोकमवाप्नुयुः ।
स्नानस्थितं तु मां पश्येत् स यायात् परमं पदम् ।।1.588.५ ०।।
चतुर्दश्यां स्वर्णकुंभैरुद्धरेयुर्द्विजा जलम् ।
ज्येष्ठ्यां प्रातर्मञ्चके मां रामं भद्रां तु मण्डपे ।।५१।।
ऐशानीस्थे स्थापयित्वा स्नापयित्वा पुनर्नयेत् ।
दक्षिणाभिमुखं यान्तं संपश्येन्मां स मुच्यते ।।५२।।
ततः पञ्चदशाहानि स्थापयित्वा तु मां नृप ।
विरूपमभिरूपं वा न पश्येत्तु कदाचन ।।५३।।
ज्येष्ठस्नानमिदं दत्वा कृत्वा मुच्यैेत बन्धनात् ।
अथ माघस्य पञ्चम्यामष्टम्यां चैत्रशुक्लके ।।५४।।
गुण्डिचयात्रां कुर्याच्च मोक्षदा सुखदा हि सा ।
आषाढस्य द्वितीया पुष्यर्क्षयुताऽपि मोक्षदा ।।५५।।
ऋक्षाभावे तिथौ यात्रोत्सवः कार्योः मम नृप ।
तस्यां रथे समारोप्य रामं मां भद्रिकां तथा ।।५६ ।।
गुण्डिचामण्डपं नाम यत्राऽहमजनं स्थलम् ।
अश्वमेधसहस्रस्य वेदी यत्र त्वया कृता ।।५७।।
तत्र यात्रा प्रकर्तव्या मम स्थाने धरागते ।
दिनानि नव यास्यामि तडागं चेन्द्रद्युम्नकम् ।।५८।।
ततः परं मम देवालयं यास्यामि वै पुनः ।
तदा द्रष्टुः प्रतिपदं त्वश्वमेधफलं भवेत्। ।।५९।।
ममोत्थानं मम स्वापं मत्पार्श्वपरिवर्तनम् ।
मार्गप्रावरणं चापि पुष्यस्नानमहोत्सवम् ।।1.588.६ ०।।
फाल्गुन्यां क्रीडनं कुर्याद् दोलायां सुमहोत्सवम् ।
चैत्रे सितत्रयोदश्यां कुर्यात् कर्मप्रपूरणम् ।।६ १ ।।
चैत्रे शुक्लचतुर्दश्यां दमनैर्मे प्रपूजनम् ।
वैशाखशुक्लतृतीये लेपयेच्चन्दनैश्च माम् ।।६२।।
इत्युत्सवाः प्रकर्तव्यास्त्वयेन्द्रद्युम्न सर्वदा ।
भुक्तिमुक्तिप्रदा मे ते प्रसादसन्मुखा यतः ।।६३।।
ब्रह्मन् सत्यं याहि देवाः स्वर्गं यान्तु नृपोऽत्र च ।
तिष्ठतु चात्र स्थास्येऽहं ब्रह्मायुःपूर्णिमावधिम् ।।६४।।
इत्युक्ताः प्रययुः सर्वे कृष्णो मूर्तिर्बभूव ह ।
ब्रह्मा सत्यं ययौ पश्चाद् राजा चकार चोत्सवान् ।।६५।।
शृणु लक्ष्मि कथयामि ज्येष्ठस्नानं शुभावहम् ।
ज्येष्ठशुक्लदशम्यां च व्रतं संकल्प्य वाग्यतः ।।६६।।
एकादशे प्रगे यायान्मार्कंडेयाऽवटं ततः ।
आचम्य शंकरं नत्वा स्नात्वा वृषणयोर्वृषम् ।।६७।।
स्पृष्ट्वाऽङ्गुष्ठेन लिंगं च मुष्टिना शक्तिमित्यपि ।
पूजयित्वा ततो यायान्नारायणमनामयम् ।।६८।।
न्यग्रोधं प्रणमेत् कुर्यात् प्रदक्षिणं नमेत्ततः ।
गरुडं प्रणमेच्चाथ प्रविशेत् कृष्णमन्दिरम् ।।६९।।
तं त्रिःप्रदक्षिणं कृत्वाऽर्चयेत् कुर्याच्च दर्शनम् ।
उपदाः सम्प्रदायैवोग्रसेनमनुज्ञाप्य च ।।1.588.७० ।।
स्वर्गद्वारस्य मार्गेण यायात् स्नातुं समुद्रकम् ।
आचम्य प्राङ्मुखो लिखेन्मण्डलं न्यासमाचरेत् ।।७१ ।।
प्राणायामत्रयं कृत्वा बघ्नीयात्कवचं दृढम् ।
'पूर्वे मां पातु गोविन्दो वारिजाक्षस्तु दक्षिणे ।।७२।।
प्रद्युम्नः पश्चिमे पातु हृषीकेशस्तथोत्तरे ।
आग्नेय्यां नरसिंहश्च नैर्ऋत्यां मधुसूदनः ।।७३ ।।
वायव्यां श्रीधरः पातु ऐशान्यां च गदाधरः ।
ऊर्ध्वं त्रिविक्रमः पातु त्वधो वाराहरूपधृक् ।।७४।।
सर्वत्र पातु मां स्वामी मनः कृष्णो नरायणः ।
चित्तं पातु गरुडस्थो बुद्ध्यहं तु जनार्दनः ।।७५।।
इन्द्रियाणि सदा पातु श्रीमान् पतिः प्रभापतिः ।
इति वर्म धारयित्वा षोडशाद्युपचारकैः ।।७६ ।।
मण्डले पूजयेत्तत्र श्रीस्वामिपुरुषोत्तमम् ।
अन्तःशुद्ध्यर्थमाचामेद् बाह्ये दर्भजलं क्षिपेत् ।।७७।।
समुद्रे च त्रिःस्नायाच्च सर्वपापक्षयो भवेत् ।
तिलकं बिन्दुकं कुर्याद् वस्त्रे धृत्वाऽर्चयेद्धरिम् ।।७८।।
मण्डले श्रीधरायुक्तमावाहयेद् बृसीं ददेत् ।
पाद्यमर्घ्यमाचमनं मधुपर्कं तथाऽऽप्लवम् ।।७९।।
वस्त्रं यज्ञोपवीतं भूषणं गन्धानुलेपनम् ।
पुष्पमालां धूपनं च दीपं मिष्टान्नपानकम् ।।1.588.८० ।।
ताम्बूलं चारार्त्रिकं प्रदक्षिणं स्तवनादिकम् ।
क्षमाऽपराधनं विसर्जनं कुर्यात् क्रमार्चनम् ।।८१ ।।
ध्यानं दानं तपो जाप्यं श्राद्धं च सुरपूजनम् ।
सिन्धुराजे कृतं सर्वं कोटिकोटिगुणं भवेत् ।।८२।।
अब्धिं च मन्दिरं नत्वा यायादिन्द्रद्युतेः सरः ।
नरसिंहमनुप्रार्थ्य तत्र स्नायाद् यथाविधि ।।८३।।
पश्चिमाभिमुखं ततो यायान्नृसिंहमर्चयेत् ।
समुद्रे स्नपनं कृत्वा प्रपश्येत् पुरुषोत्तमम् ।।८४।।
एवं कुर्यात् पञ्चतीर्थी ध्रुवं मोक्षमवाप्नुयात् ।
ज्येष्ठशुक्लपूर्णिमायां ज्येष्ठागश्च शशी गुरुः ।।८५।।
तदा तीर्थानि गच्छन्ति क्षेत्रं श्रीपुरुषोत्तमम् ।
ज्येष्ठपंचकसंज्ञं च व्रतमुद्यापनं चरेत् ।।८६।।
कृष्णं बलं नृसिंहं च भद्रां चक्रं प्रपूजयेत् ।
नीलमाधवं गरुडं पूजयेत् पुरुषोत्तमम् ।।८७।।
स्वर्णकलशे दशमीदिनेऽर्चयेत्तु माधवम् ।
नारायणं त्वेकादश्यां द्वादश्यां यज्ञसूकरम् ।।८८।।
त्रयोदश्यां च प्रद्युम्नं चतुर्दश्यां तु नृहरिम् ।
पूर्णिमायां सर्वदेवान् पूजयित्वा विधानतः ।।८९।।
नित्यं वा पूर्णिमायां वा नैवेद्यं पायसं ददेत्। ।
मिष्टान्नानि सुपेयानि फलाद्यानि समर्पयेत् ।।1.588.९० ।।
होमं चाष्टोत्तरशतं हुनेत् साधून् प्रभोजयेत् ।
गवां दानानि कुर्याच्च यथेष्टफलभाग्भवेत् ।।९१ ।।
एवं यात्रादिकरणान्मोक्षमवाप्नुयाद् ध्रुवम् ।
पठनाच्छ्रवणाल्लक्ष्मि तद्यात्राफलभाग् भवेत् ।।९२।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्मण आगमनं, जगन्नाथादिप्राणप्रतिष्ठा, स्वमूर्तौ अवताराणां दर्शनम्, उत्सवाः, रथयात्रा, रथयात्राफलानि, पञ्चतीर्थी, तद्विधिरित्यादिनिरूपणनामाऽष्टाशीत्यधिकपञ्चशततमोऽध्यायः ।।५८८।।