लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५८७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५८६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५८७
[[लेखकः :|]]
अध्यायः ५८८ →

श्रीनारायण उवाच--
ततो लक्ष्मि! यथाजातं शृणु मूर्तिप्रघट्टनम् ।
एवं दिने दिने याते दिव्यगन्धोऽनुभूयते ।। १ ।।
पारिजातप्रसूनानां वृष्टिर्या मर्त्यदुर्लभा ।
दिव्यसंगीतनादाश्च गीतिका रुचिरास्तथा ।। २ ।।
श्वेतवारिबिन्दवश्च चन्दनानां च बिन्दवः ।
ऐरावतादिवारणेन्द्राणां मदा बभूविरे ।। ३ ।।
अदृश्यदेवतासंघैः पूज्यते व्योममार्गतः ।
उपासांचक्रिरे देवा दिव्यचिह्नानि जज्ञिरे ।। ४ ।।
प्राप्ते पञ्चदशाहे च स्वयं पूर्णो बभूव ह ।
दिव्यसिंहासनसंस्थो वेदिकायां व्यदृश्यत ।। ५ ।।
चतुर्मूतिर्जगन्नाथो बलो भद्रा सुदर्शनम् ।
सर्वाभरणशोभादिसम्पूर्णं वै चतुष्टयम् ।। ६ ।।
भद्रा चेयं स्वयं लक्ष्मीः सर्वचैतन्यरूपिणी ।
त्वमासीः मे प्रिये भेदस्तव क्वचिन्न युज्यते ।। ७ ।।
क्षणं न सहसे त्वं मां मोक्तुं लीलावतारिणम् ।
एवं तु मूर्तयस्तेन चतस्रो वै प्रकाशिताः ।। ८ ।।
व्योमवाण्यभवत्तत्र राजन् रंगे प्रकारय ।
नीलं विष्णुं, बलं श्वेतं, रक्तं चक्रं, प्रचित्रय ।। ९ ।।
भद्रामरुणां च नानालंकारशोभितां तथा ।
विना वै चित्रकारं तु नान्यः कश्चिद् विलोकयेत् ।। 1.587.१ ०।।
गोपनीया प्रयत्नेन पटनिर्यासवल्कलैः ।
वर्षे वर्षेऽपि संस्कार्याः पूर्वसंस्कारमोचनात् ।। ११ ।।
वल्कललेपसहिता मूर्तिर्दिव्या चिरन्तनी ।
वल्कललेपनाशे तु दुर्भिक्षं मरणं तथा ।। १ २।।
सन्ततेश्च क्षयः स्याद्वै नेक्ष्यास्ता अपवारणाः ।
प्रमादान्मानवैश्चापि दृष्टाः स्युर्भयहेतवः ।। १ ३।।
तस्मात् सचित्रा द्रष्टव्या बहुशृंगारचित्रिताः ।
नीलाद्रौ कल्पवृक्षस्य वायव्यां शतहस्ततः ।। १४।।
उत्तरे च नृसिंहस्य सहस्रकरमुच्छ्रयम् ।
प्रासादं शिखराढ्यं च सुदिव्यं सुदृढायतम् ।। १५।।
कारयित्वा प्रतिष्ठाप्य तत्रैता विनिवेशय ।
नीलमाधवसेवाकृच्छबरो वैष्णवोत्तमः ।। १६।।
विश्वावसुः पुरा मित्रं पुरोहितस्य तेऽभवत् ।
शबरस्य तथा त्वपुरोहितस्य च सन्ततिः ।। १७।।
नियुज्यतां च पूजायां सदा सर्वोत्सवादिषु ।
इतिश्रुत्वा व्योमवाचं भूपस्त्वावृतिवस्त्रकम् ।। १८।।
क्षणं चोत्तार्य मूर्तीस्ताः पूर्णा ददर्श शोभनाः ।
रत्नसिंहासस्थाश्च तेजोव्याप्ताः सुवर्तुलाः ।। १ ९।।
कृष्णं पद्मस्थितं नीलं पार्श्वे च धवलं बलम् ।
फणामण्डलविस्तीर्णं मध्ये भद्रां तयोः शुभाम् ।।1.587.२०।।
विष्णोर्वामस्थितां कृष्णहस्ते सुदर्शनं तथा ।
क्षणं दृष्टास्तथा सर्वैः पुनर्वस्त्रेण चावृताः ।।२१ ।।
सर्वे नेमुस्ततश्चित्रशिल्पी रंगादि चाकरोत् ।
ततश्च वेदविधिना पूजां सूक्तैरकारयत्। ।।२२।।
पौरुषेण तु सूक्तेन कृष्णं राजा ह्यपूजयत् ।
लक्ष्मीसूक्तेन च भद्रां द्वादशार्णेन वै बलम् ।।२३।।
सुदर्शनं सौदर्शन्यां ततो दानान्यदापयत् ।
अश्वमेधाऽङ्गभूताश्च कोटिशो गा ददौ धनम् ।।२४।।
तासां खुरोद्धृतेर्योगाद् गर्तोऽभूत्पावनः परः ।
दानाऽम्बुनापि संसृष्टस्तीर्थं चेन्द्रसरो हि तत् ।।२५।।
बभूव तारकं पित्रुद्धारकं जलदानतः ।
स्नानात्स्वर्गप्रदं पानाद्वैकुण्ठधामदं तथा ।।२६।।
दानात्स्मृद्धिप्रदं वासान्मोक्षदं मरणादपि ।
तीर्थानां परमं ख्यातं सर इन्द्रद्युतिकृतम् ।।२७।।
ततः प्रासादघटनामुपचक्राम भूपतिः ।
पूर्णे तु मन्दिरे जाते सौवर्णकलशान्विते ।।२८।।
शुभे काले मुहूर्ते च विप्रान् प्रपूज्य देवताः ।
स्वस्तिवाचं च कर्मर्द्धिं वाचयित्वा नृपस्ततः ।।२९।।
अर्घ्यं ददौ जगन्नाथ सौधस्थित्यै चिरं क्षितिम् ।
सम्प्रार्थ्य शिल्पिनोऽभ्यर्च्य वास्तुयागं विधाय च ।।1.587.३० ।।
कृत्वा महोत्सवं पूजां ददौ दानानि भोजनम् ।
राजा सभायामगदद् यन्मयोपार्जितं धनम् ।।३ १ ।।
जगन्नाथालयार्थं तत्सर्वं ददामि मुक्तये ।
कलेवरमिदं क्षेत्रं यत्राऽहंभाववान् विभुः ।।३२।।
तत्सेवया च राज्यर्द्धिः सफला मेऽस्तु तत्पदे ।
एष दारुवपुर्विष्णुः सुखदो धामबान्धवः ।।३३।।
अथ मूर्तेः पृष्ठदेशादागत्याऽच्युतनामकः ।
विप्रो जगाद रहसि तेजोमण्डलशोभितः ।।३४।।
परधामाऽक्षरधामाऽमृतधामाऽव्याकृतम् ।
गोलोंक चापि वैकुण्ठं क्षीरोदं श्वेतद्वीपकम् ।।३५।।
बदरीं चान्यधामानि यदि गन्तुं समिष्यते ।
अत्र स्थेयं तदा क्षेत्रे दिव्ये श्रीपुरुषोत्तमे ।।३६।।
परब्रह्माऽक्षरब्रह्ममुक्तब्रह्माऽवतारकान् ।
व्यूहान् दिव्यान् विभवाँश्च तदंशान् द्रष्टुमिष्यते ।।३७।।
पुरुषोत्तममूर्तेश्च कर्तव्यं दर्शनं तु तैः ।
ईशलोकान् सत्यलोकान् वैराजान् स्वर्गसंज्ञकान् ।।३८।।
मानुषान् दिव्यपातालान् यदि भोक्तुं समिष्यते ।
दानं स्नानं पूजनं च कर्तव्यं त्वस्य तैरिह ।।३९।।
ऐश्वर्याणि समग्राणि विद्याश्च सकलाः कलाः ।
गुगान् सामर्थ्यसत्तादि यदि प्राप्तुं समिष्यते ।।1.587.४०।।
तदाऽयं श्रीजगन्नाथः सेव्यतां यावदर्पणैः ।
इदं दारुमयं ब्रह्म भुक्तिमुक्तिप्रदायकम् ।।४१ ।।
सच्चिदानन्दकैवल्यमुक्तिदं दर्शनादपि ।
नाण्वप्यत्र प्रभेदोऽस्ति धाम्नि श्रीपुरुषोत्तमे ।।४२।।।
तस्माद् राजन्नत्र वासं कुरु मोक्षं प्रसाधय ।
विद्वत्तमोऽसि भक्तश्च सांगोपांगममुं भज ।।४३।।
पत्रपुष्पजलकन्दकणवस्त्रसुचन्दनम् ।
जलमण्वप्यर्पितं स्यादब्जगुण जगत्प्रभौ ।।४४।।
लक्ष्मीर्माता ऋद्धिदा सा भोगान् दास्यति भक्तके ।
दात्रे दास्यामि सर्वं मे नात्र कार्या विचारणा ।।४५।।
इत्युक्त्वाऽदृश्यतां यातो विप्रो मूर्तौ हरेस्ततः ।
सर्वेषां समभूद् दिव्यमाश्चर्यं गोचरो हरिः ।।४६।।
आत्मना वर्तते मूर्तौ प्रेम्णाऽश्रूणि ह्यवासृजन् ।
नारदः स्थिरतां यातो ध्यानमुद्रामनैमिषीम् ।।४७।।
कुर्वन् समाधिप्रजडः प्रेममग्नोऽभवत् क्षणम् ।
आनन्दः प्रासरत्तत्र गोलोके इव तत्क्षणम् ।।४८।।
कार्यं पूर्णं त्वद्य जातं प्रोक्त्वा नारद आह तम् ।
एनमाराध्य तिष्ठाऽत्र भूप यामि पितामहम् ।।४९।।
प्रासादं कुरु भूपाल धनेन महता ततः ।
नृसिंहं च प्रतिष्ठाप्य विमुच्यसे सुखी भव ।।1.587.५०।।
कृतं निवेदयिष्यामि ब्रह्माणं तव दासताम् ।
इन्द्रद्युम्नश्च तं प्राह निवसाऽत्र मया सह ।।५१ ।।
मन्दिरं कारयित्वा च यास्यावो नौ पितामहम् ।
आवां विज्ञपयिष्यावः सः समागत्य वै स्वयम् ।।५२।।।
महोत्सवं भगवतः प्रासादेऽत्र करिष्यति ।
ओमित्यङ्गीचकारैव नारदश्चाऽथ भूपतिः ।।५३।।
यियासुस्त्वरितं कर्म मन्दिरस्याऽन्वचालयत् ।
सहस्रशस्ततः शिल्पिवर्यांस्तत्र न्ययोजयत् ।
वित्तव्ययस्तु कोटीनां न संख्यातुं प्रशक्यते ।।५४।।।
नृपतेः श्रद्धया भक्त्या सत्त्वभावेन श्रीरपि ।
प्रसन्ना मन्दिरं कर्तुं तदा साहाय्यमाचरत् ।।५५।।
गर्भप्रतिष्ठां विधिवत् कृत्वा धृत्वा च ताम्रजाम् ।
वज्रपातादिविघ्नघ्नां न्यस्य पार्श्वे सुपट्टिकाम् ।।५६।।
शिखरस्य घट्टनार्थं चाज्ञाप्याऽमात्यकोत्तमान् ।
गिरिशृंगोपमं कर्तुं शिखरं गगनंगमम् ।।५७।।
राजा शृण्वन् देवगाथां प्रासादविषयां शुभाम् ।
भूपतेर्दुर्लभं किं स्यात्सहायो यस्य नारदः ।।५८।।।
ब्रह्मा विष्णुस्तथा लक्ष्मीः का चात्र निम्नता भवेत् ।
प्रासादः कार्यते तादृङ् न भूतो न भविष्यति ।।५९।।
नेदृग् वै वर्तते चोर्ध्वंगमः पृथ्व्यां स्थलान्तरे ।
इति शृण्वन्ननामाऽसौ नारदं चाह नारदः ।।1.587.६०।।
तीर्थैर्मन्त्रैर्जपैर्दानैः क्रतुभिर्भूरिदक्षिणैः ।
व्रतैरध्ययनैर्भूप तपोभिश्च यदर्जितम् ।।६ १ ।।
न शक्यं तव राजेन्द्र भक्त्या तत्करमागतम् ।
अतः परं न शोचस्व भक्तियोगेऽतिरेकिणि ।।६२।।
पितामहं द्रष्टुकामो गन्ता चेदन्तिकं विभोः ।
उपदेक्ष्यति सोऽप्यस्य यात्रास्तास्ता महोत्सवाः ।।६३।।
स्वयं च भगवानेव तुभ्यं वरं प्रदास्यति ।
प्रतिष्ठापिते प्रासादे तस्मिन् काले स्वयंभुवा ।।६४।।
अहमप्यागमिष्यामि तदा सप्तर्षिभिः सह ।
तदावां तत्र गच्छावो ब्रह्मलोकमकल्मषम् ।।६५।।
इत्युक्त्वा नारदो भूपो नत्वा कृष्णं बलं सतीम् ।
अनुज्ञां प्रार्थयामास ब्रह्मलोकगतिं प्रति ।।६६।।
उभौ दिव्यविमानेन ब्रह्माणं प्रति जग्मतुः ।
नारदो भक्तियोगेन चेन्द्रद्युम्नोऽपि वैष्णवः ।।६७।।
चतुर्दशभुवनानि जिग्यतुः कृपया हरेः ।
राजाऽप्यचिन्तयद् याने ब्रह्मलोके क्षणं च यत् ।।६ ८ ।।
पृथ्व्यां युगशतं याति प्रासादस्य तु किं भवेत् ।
पुनरागमने मे तु लयं यास्यति मत्कृतम् ।।६९ ।।
कथं प्रतिष्ठां संवीक्ष्य गमिष्यामि कृतार्थताम् ।
इतिचिन्तापरं भूपं नारदः प्राह मा शुचः ।।1.587.७ ० ।।
कृष्णनारायणः स्वामी कालस्य दैर्घ्यकारकः ।
ह्रस्वताधायकः सोऽपि क्षणं सूक्ष्मं करिष्यति ।।७ १ ।।
सत्यभूलोकयोः काले त्वदर्थं समतां प्रभुः ।
स्वेच्छया संविधायैव निजकार्यं करिष्यति ।।७२ ।।
यस्य कार्येषु भगवान् सहायोऽस्ति चतुर्मुखः ।
तत्र कालकृतं द्रव्यकृतं विघ्नं न जायते ।।७३ ।।
पश्याऽग्रतश्चन्द्रकोट्याह्लादकं तेजसां चयम् ।
विजानीहि ब्रह्मणश्च सद्मनस्तं समागतम् ।।७४।।
पश्य ब्रह्मपुरं त्वेतत् सभां पश्य सुशोभनाम् ।
ततः परं च वैकुण्ठं जलोपरि हि वर्तते ।।७५ ।।
ततः परं च वैराजं धाम तस्मात्परेऽमृतम् ।
परवैकुण्ठकं चापि गोलोकं चापि तत्परम् ।।७६ ।।
तत्परं चाक्षरं धाम तत्परं परमं पदम् ।
पुरुषोत्तमधामाऽस्ति यत्परं नान्यदस्ति वै ।। ७७।।
इन्द्रद्युम्नं वदन्नित्थं नारदस्य विमानकम् ।
ब्रह्मसभोत्तरद्वारं समासाद्य स्थिरं ह्यभूत् ।। ७८ ।।
नृपं च नारदं दृष्ट्वा ननाम द्वारपालकः ।
ब्रह्माज्ञां च समागृह्य प्रावेशयच्च तौ सभाम् ।।७९ ।।
ब्रह्माणं प्रणमन् दूरे सावित्रीशारदान्वितम् ।
राजा तस्थौ क्षणं तावद् ब्रह्मा भूपं समाह्वयत् ।।1.587.८ ० ।।
एहि राजन् स्वागतं ते साक्षात् त्वं भगवत्प्रियः ।
नारदस्य तु योगेन समायातोऽसि दुर्गमे ।।८ १ ।।
गृहाण चामृतं भोज्यं पिब स्वाद्वामृतं रसम् ।
वद किं चागमने ते कारणं हृदयंगमम् ।।८२।।
इत्युक्तो नृपतिः प्राह प्रासादः कृपया तव ।
जातोऽस्ति तत्र चागत्य प्रतिष्ठापय माधवम् ।।८३ ।।
आगत्य श्रीजगन्नाथं स्थापयिष्यसि चेत् पितः ।
त्वदनुग्रहः सफलो भवेन्मयि पितामह ।।८४।।
प्रसीद मां कुरुष्वेदं जगन्नाथस्त्वमेव यत् ।
इतिस्तुतस्तदा ब्रह्मा प्राह भूपं तु सादरम् ।।८५।।
राजन् कृतस्त्वया सत्यं प्रासादो भगवत्स्थितौ ।
नास्मिन् काले तव राज्यं न वा त्वत्सन्ततिर्नृप ।।८६।।
अत्राऽऽगतस्य ते कालः पृथ्व्यां भूयान् गतो नृप ।
मन्वन्तराधिकः कालो युगानां शतकं गतम् ।।८७।।
तव वंशोऽपि विच्छिन्नः कोटिशः क्षितिपा गताः ।
किन्तु राजन् दिव्यक्षेत्रे नाम्ना श्रीपुरुषोत्तमे ।।८८।।
कालस्य ह्रासशक्तिर्या कालश्च संहृतौ मया ।
श्रीकृष्णस्य निदेशेन यावन्मन्दिरपूर्णता ।।८९।।
सत्यलोकसमास्तत्र क्षणा देशाश्च तत्प्रजाः ।
कृता मयाऽऽज्ञया हरेस्तत्र सन्ति त एव वै ।।1.587.९०।।
श्रीस्वामिना मुकुटस्य मणिर्व्योम्नि रविः कृतः ।
सत्यलोकसमं चाहर्निर्माति दिव्यतां नयन् ।।९ १ ।।
तस्माद् गच्छ महाराज! तवाऽनुपदमेव ह ।
आयाम्येव प्रतिष्ठार्थं संभारान् कुरु चोचितान् ।।९२।।
पूर्वे परार्धे भो राजन् क्षेत्रं श्रीपुरुषोत्तमम् ।
नीलाऽश्मवपुरास्थाय न तत्याज जनार्दनः ।।९३ ।।
साम्प्रतं मे द्वितीयं तु परार्धं समुपस्थितम् ।
दारुमूर्तिरयं देवो मदायुः स्थास्यते पुनः ।।९४।।
श्वेतद्वीपस्थकृष्णस्य रोमाणि कल्पपादपाः ।
तन्मध्याद् वटवृक्षस्तु दारुमूर्त्यर्थमाहृतः ।।९५ ।।
स्वयमुत्पतितः सिन्धोः सलिले सत्यपूरुषः ।
घोरसंसारनाशार्थं मया पूर्वं प्रयाचितः ।।९६ ।।
अनेकभक्तभक्त्या च दारुवर्ष्मा जनार्दनः ।
श्रुत्वैवं ब्रह्मवचनं प्रणिपत्य पितामहम् ।।९७।।
विमानेन नारदेनाऽऽजगामेन्द्रद्युतिर्भुवम् ।
मन्दिरं सुभगं दिव्यं पूर्णं वीक्ष्य जहर्ष सः ।।९८।।
ननाम दण्डवद्भूमौ श्रीनृसिंहं ननाम च ।
शिल्प्यादीन् प्राह भूपश्च स्वयं ब्रह्मा पितामहः ।।९९।।
एतत्प्रतिष्ठानविधौ सुरैः सहाऽऽगमिष्यति ।
तावत् पद्मनिधिस्तत्र ब्रह्मप्रेरित आगतः ।। 1.587.१० ०।।
राजा सत्कारपूजादि चक्रे स्वागतमाचरत् ।५
नारदः सर्ववस्तून्यालिख्य सञ्चयपत्रके ।। १०१ ।।
प्रतिष्ठार्थं ददौ पद्मनिधये सोऽपि सत्वरम् ।
सम्पादनं सुवस्तूनामकारयत्तथा शुभाम् ।। १ ०२।।
शालां स्वर्णमयीं तद्वन्नगरं नैकयोजनम् ।
मण्डपं च तथा कुण्डं कारयामास सत्वरम् ।। १०३ ।।
कारयामास च रथत्रयं सौवर्णमुत्तमम् ।
रथं षोडशचक्रं च विष्णोर्वै गरुडध्वजम् ।। १ ०४।।
पद्मध्वजे सुभद्राया वरं द्वादशचक्रकम् ।
बलस्य च चतुर्दशचक्रकं दर्पणध्वजम् ।। १०५।।
अथवा सीरिणः कार्यः सीरध्वजः समुत्तमः ।
स्थितो हस्ततले नित्यं निर्मलस्तस्य दर्पणः ।। १०६ ।।
तलस्थत्वादसौ तालस्तेन तालाङ्कितो बलः ।
हस्तषोडशविस्तारो रथश्चक्रधरस्य वै ।। १ ०७।।
चतुर्दश बलस्यापि सुभद्रायास्तु द्वादश ।
न वासितव्यो देवोऽसावप्रतिष्ठे रथे यतः ।। १ ०८।।
प्रासादे मण्डपे वापि पुरे तन्निष्फलं भवेत् ।
राजा रथप्रतिष्ठां च कारयामास सत्वरम् ।। १ ०९।।
रथस्येशानदिग्भागे शालां कृत्वा सुशोभनाम् ।
तन्मध्ये मण्डपं कृत्वा वेदीं तत्र च निर्मलाम् ।। 1.587.११० ।।
चतुरस्रां चतुर्हस्तमितां हस्तोच्छ्रिता तथा ।
प्रकारयेत् पूर्वरात्रावुत्तरतः शुभे क्षणे ।। १११ ।।
स्वस्ति प्रवाच्य चांकुरार्पणं प्रकारयेत्ततः ।
द्वात्रिंशद्देवताभ्यश्च बलिं दद्याद् यथाविधि ।। ११ २।।
प्रातर्वेद्यां मण्डले स्वस्तिके कुंभं निधापयेत् ।
पञ्चपादपक्वाथेन पुण्यतोयैश्च पल्लवैः ।। ११३ ।।
रत्नगन्धौषधिगणैः पञ्चगव्यैः प्रपूरयेत् ।
पूजयेद् वेष्टयेद् वस्त्रामावाहयेच्च तं हरिम् ।। १ १४।।
तं पूजयेच्च विधिना वायव्यां समिधस्तथा ।
आज्यं चरुं मन्त्रयित्वाऽष्टसाहस्रं हुनेत् ततः ।। ११ ५।।
सम्पातान्प्रापयेत् कुंभे रथं शंगारयेत्ततः ।
सुगन्धयेद् धूपयेच्च ध्वजे न्यस्य समीरणम् ।। १ १६।।
प्रपूज्य गरुडं प्रार्थ्य रथमूर्ध्नि निवेशयेत् ।
तं कुंभं सेचयेत् प्लावयेद्रथं गरुडोपरि ।। १ १७।।
ततः पूर्णाहुतिं दत्वा दक्षिणां भूयसीं ददेत् ।
भोजयेच्च जनान् बलरथं प्रपूजयेत्ततः ।। ११८ ।।
द्वादशाक्षरमन्त्रेण लक्ष्मीसूक्तेन श्रीरथम् ।
प्रार्थयेत् कमलं कृष्णनाभेस्त्वं चासनात्मकम् ।। ११ ९।।
जातं चाऽसि च देवानामाबोधार्थं स्थिरं भव ।
इति पद्मध्वजे चोर्ध्वं समुच्छ्रयेन्नमेत्ततः ।। 1.587.१२० ।।
रथे प्रतिष्ठिते चैवं देवानारोप्य सर्वशः ।
मनुष्यैश्च नरैः स्त्रीभिर्गजाश्ववृवभादिभिः ।। १२१ ।।
नेतव्यास्ते रथा ग्रामे भ्रामयित्वा सुरालयम् ।
रथे स्थित्वा विप्रवर्यैर्बलिर्दातव्य उत्तमः ।। १२२।।
बलिं गृह्णन्तु भो देवा आदित्या वसवो ग्रहाः ।
मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगादयः ।। १ २३ ।।
असुरा यातुधानाश्च रथदेवा विनायकाः ।
दिक्पाला लोकपालाश्चर्षयः कुर्वन्तु स्वस्ति च ।। १ २४।।
अविघ्नमाचरन्त्वेते मा सन्तु परिपन्थिनः ।
सौम्या भवन्तु तृप्ताश्च दैत्या भूतगणादयः ।। १ २५।।
ततो वैदिकसूक्तैश्च चालयेत् तान् रथान् शनैः ।
तत्रोत्पातान् शृणु लक्ष्मि! हानिदा ये भवन्ति ३ ।। १ १६।।
ईषाभंगे द्विजभयं भग्नेऽक्षे क्षत्रियक्षयः ।
तुलाभंगे वैश्यनाशः शम्या शूद्रक्षयस्तथा ।। ११७।।
धुराभंगे त्वनावृष्टिः पीठभंगे प्रजाभयम् ।
चक्रभंगे परराज्यं ध्वजपातेऽन्यभूपतिः ।। १ २८।।
मूर्तिभंगे मरणं च पर्यस्ते देशविप्लवः ।
अधोमुखे रथे जाते सर्वजानपदक्षयः ।। १२९।।
एवं जाते बलिकर्म शान्तिहोमं प्रकारयेत् ।
पूर्वोत्तरे च दिग्भागे रथस्याऽग्निं प्रकल्पयेत् ।। 1.587.१३० ।।
समिद्भिर्घृतमध्वाज्यमूलाग्राभिश्च होमयेत् ।
शान्तिवाचं स्वस्तिवाचं भग्नांगे हवनं चरेत् ।। १३१ ।।
स्वस्ति भवतु भक्तेभ्यः स्वस्ति पुंस्त्रीभ्य इत्यपि ।
गोपशुभ्यः स्वस्ति चास्तु जगतः स्वस्ति चास्तु वै ।। १ ३२।।
शान्तिरस्तु शिवं चास्तु सर्वतः स्वस्ति चास्तु नः ।
स्वामिनाथ जगन्नाथ रक्षां शान्तिं करोतु नः ।। १३३ ।।
इति लक्ष्मि! कारयेत्तु शान्तिग्रहार्चनादिकम् ।
राज्ञा तत्कारितं सर्वं नारदेनर्षिणा तदा ।। १ ३४।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चतुःप्रतिमानां सम्पूर्णता, पूजनं, मूर्त्यर्थं प्रासादनिर्माणम्, इन्द्रद्युम्ननारदयोर्ब्रह्माणं प्रति गमनम्, प्रतिष्ठार्थं पद्मनिधेरागमनम्, रथानां निर्माणं, पूजा, ध्वजादिः, रथे विघ्नफलम्, शान्तिकर्मादि चेति निरूपणनामा सप्ताशीत्यधिकपञ्च-
शततमोऽध्यायः ।। ५८७ ।।