लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५८३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५८२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५८३
[[लेखकः :|]]
अध्यायः ५८४ →

श्रीनारायण उवाच-
अथ तेऽत्र चमत्कारं कथयामि शृणु प्रिये ।
मूर्तिरूपोऽस्म्यहं दिव्यो मोक्षदः सुखदः शुभः ।। १ ।।
यथा पृथ्व्यादितत्त्वानि जीवात्मनो हि मूर्तयः ।
अमूर्तस्य गृहं मूर्तं तथा मे प्रतिमा गृहम् ।। २ ।।
एकतत्त्वात्मकं चात्मस्वरूपं चर्मचक्षुषा ।
वीक्ष्यते न ततश्चाऽहं मूर्त्यात्मा दृश्यतां गतः ।। ३ ।।
पृथ्वीशरीरकश्चाऽहं वारिशरीरकस्तथा ।
तेजशरीरकश्चापि वायुशरीरकस्तथा ।। ४ ।।
आकाशमूर्तिकश्चाहं तन्मात्रामूर्तिकस्तथा ।
मनोबुद्ध्यादिशरीरश्चात्मेश्वरशरीरकः ।। ५ ।।
ब्रह्मशरीरकश्चाऽहं मुक्तशरीरकस्तथा ।
सर्वशरीरकश्चाहं सर्वं दिव्यं मदाश्रयात् ।। ६ ।।
दिव्यत्वे वेदमन्त्रादिकर्मकाण्डः प्रयोजकः ।
प्रतिष्ठा कारणं तत्र मुख्यं मम प्रवेशने ।। ७ ।।
ततोऽहं तच्छरीरेण सर्वं करोमि देहिवत् ।
यद्येवं मां विजानीयान्मुक्तो भवति मच्छ्रितः ।। ८ ।।
निश्चेष्टो दारुवर्ष्माऽपि दिव्यलीलाविलासकृत् ।
क्षमेऽहं स्वल्पभक्त्याऽपि भक्ताऽपराधकोटिकम् ।। ९ ।।
कुरुक्षेत्रे पुरा त्वास्तां ब्राह्मणक्षत्रियावुभौ ।
सखायौ धर्महीनौ च वृत्तच्युतौ विमोहितौ ।। १० ।।
पण्ययोषित्सहवासौ स्वधास्वाहाविवर्जितौ ।
पारलौकिकचिन्ता तु तयोः स्वप्नेऽपि नागता ।। ११ ।।
एकदा तु कुरुक्षेत्रे विष्णुयागो व्यवर्तत ।
अगच्छतां यज्ञवाटमपश्यतां क्रियाविधिम् ।। १२ ।।
शृण्वानौ वैदिकान् मन्त्रान् पापं तयोर्न्यवर्तत ।
धर्मे मतिस्तयोर्जाता पुण्डरीकाऽम्बरीषयोः ।। १३ ।।
विवेकोऽपि समुद्भूतस्तरितुं वै भवार्णवम् ।
कृतपापप्रपुञ्जानां क्षालनार्थं च भूसुरान् ।। १४।।
अपृच्छतामभिवाद्य विज्ञाप्य कल्मषं निजम् ।
सुरामिषव्यवायादि चौर्यं नार्यादिहिंसनम् । । १५ । ।
तच्छ्रुत्वा वैष्णवश्रेष्ठो महाभागवतो द्विजः ।
दिव्यक्रियापरश्चैतावुवाच भक्तिसंभृतम् । । १६ । ।
भो द्विज क्षत्रदायाद पापराशेः सुदारुणात् ।
मुक्तिं चेद् वाञ्च्छतस्तूर्णं गच्छतं पुरुषोत्तमम् ।। १७ ।।
क्षेत्रोत्तमं दारुमयो यत्रास्ते पुरुषोत्तमः ।
तमाराध्य जगन्नाथं लक्ष्मीराधाप्रभापतिम् । । १८ ।।
पापक्षयं तथा मुक्तिं प्रयस्यथाऽक्षरे पदे ।
तन्मा विलम्बं कुरुत प्रयातं तत्र सत्वरम् । । १९ ।।
उत्कले नीलशैले च वारिधेः सन्निधौ तटे ।
इत्युक्तौ तौ ऋषीन्नत्वा ययतुः पुरुषोत्तमम् । । 1.583.२० । ।
ध्यायन्तौ मनसा विष्णुं शुद्धाहारव्रतावुभौ ।
गत्वा स्नात्वा सर्वतीर्थाश्रयाब्धौ मन्दिरं प्रति । । २१ ।।
द्वारि कृत्वा दण्डवच्च तिष्ठन्तौ दर्शनेच्छया ।
भगवन्तं निरीक्षन्तौ नाऽपश्यतां यदा हि तौ ।। २२ । ।
निराशौ तु तदा भूत्वाऽऽरभेतेऽनशनं व्रतम् ।
कीर्तयन्तौ हरेर्नामाऽभवतां लीनमानसौ । । २३ । ।
अथ तृतीयरात्रौ तौ ज्योतिरेकमपश्यताम् ।
पुनर्लयं गतं ज्योतिस्तौ चोपवसतां स्थिरौ । । २४।।
मध्ये सप्तमरात्रेश्च तौ श्रीहरिमपश्यताम् ।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।। २५ ।।
चतुर्भुजं सायुधं च रत्नाढ्यपादुकास्थितम् ।
कमलाक्षं हास्यमुखं वामे लक्ष्मीं स्वबाहुना ।। २९६ । ।
पार्श्वे चाकर्षयन्तं च गृह्णन्तं श्रीकराच्छुभम् ।
ताम्बूलकं मुखे चाक्ष्णोः प्रेमप्रवाहपूरितम् ।। २७ ।।
तेजःपरिधिसंव्याप्तं सखीभिः परिवारितम् ।
रत्नवेत्रकराभिश्च तथा चामरपाणिभिः ।। २८ । ।
धृतगन्धप्रदीपाभिर्भूषिताभिर्विभूषणैः ।
रत्नछत्रं धृतवत्या शोभितं पुरुषोत्तमम् ।। २९ । ।
धूपपात्रं धृतवत्या धूपितं पुरुषोत्तमम् ।
कांचित् सहासां पश्यन्तं हसन्तं सुमनोहरम् ।। 1.583.३० । ।
तथा स्तुवतो देवांश्च सिद्धांश्च सनकादिकान् ।
नारदाद्याँश्च गन्धर्वान् प्रह्लादादींश्च वैष्णवान् । । ३१ ।।
नृत्यन्तं च प्रसादार्थमग्रतोऽप्सरसो गणम् ।
एवं सर्वं च तौ दृष्ट्वा दिव्यज्ञानौ बभूवतुः । । ३२ ।।
त्रिः परिक्रम्य तं कृष्णनारायणं कृताञ्जली ।
तुष्टुवाते मुहुस्तौ च हृदयस्थं दृशोश्चरम् ।। ३३ ।।
आवां कामार्थलुब्धौ च पापमात्राभिचारिणौ ।
ऋषीणां कृपया चात्र शरणं ते ह्युपागतौ ।।३४।।
अनुकम्पय नौ नाथ सुदीनौ शरणागतौ ।
मूढौ दुष्कृतकर्माणौ पतितौ भवसागरे ।।३५।।
कोऽन्यस्त्वत्सदृशो बन्धुर्महाभयनिवारकः ।
स्वार्थशून्यः पराथैकध्येयोऽनाथपतिः प्रभुः ।।३६ ।।
नारायणेति त्वन्नाम चतुर्वर्गैकसाधनम् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।३७।।
मन्त्रस्ते मोक्षदश्चातिपापिनां पावकोऽस्ति हि ।
जप्तो भवान् परं पारं प्रापयत्येव तेन हि ।।३८।।
तन्नौ प्रसीद देवेश दृढां भक्तिं प्रदेहि नौ ।
घोराद् दुस्तरखाताच्च समुत्तारय केशव ।।३९।।
इन्द्रियाणि मनो बुद्धिस्तव मूर्तौ वसन्तु नः ।
आत्मा संस्कारसहितश्चार्पितस्तव पादयोः ।।1.583.४० ।।
प्रसीद देव सर्वात्मन्नसंख्येयशिरोभुज ।
असंख्यघ्राणनयनपाणिपाद नमोऽस्तु ते ।।४१ ।।
षङ्विंशस्त्वं चान्तरात्मन् निष्प्रपंचः प्रवर्तसे ।
चतुष्पुमर्थमूर्तिस्त्वं जगन्नाथ नमोऽस्तु ते ।।४२।।
त्वदाराधनया कृष्ण भवन्ति सर्वसिद्धयः ।
योगाभ्यासं विना चास्मै कृष्णाय ते नमोनमः ।।४३ ।।
भक्तिं दृढां प्रदेह्यावां नास्त्यन्यत्प्रार्थनीयकम् ।
यावत्प्राणान्धारयावस्तावद्भक्तिर्दृढा त्वयि ।।४४।।
ततः पारेऽपि ते भक्तिं देहि नारायणप्रभो ।
अगाधभवपंकेऽत्र निमग्नयोः परायणम् ।।४५।।
दास्यं नाथ सदा देहि चानुकम्पय नौ विभो ।
इतिस्तुवन्तौ तौ भक्तौ पेततुर्दण्डवत् क्षितौ ।।४६।।
प्रसीदेति वदन्तौ च मुहुश्चक्रतुर्दर्शनम् ।
दिव्यदृष्ट्या विलोक्यैवं नेमतुश्च मुहुर्मुहुः ।।४७।।
तावददृश्यतां यातो लक्ष्मीनारायणः पतिः ।
तावुभौ चर्मनेत्राभ्यां पुण्डरीकाम्बरीषकौ ।।४८ ।।
मायया दर्शनं दिव्यं स्वप्नदृष्टमबुध्यताम् ।
ततः सिंहासनस्थं श्रीपतिं ददृशतुः पुनः ।।४९।।
काष्ठरूपं दिव्यकल्गिशोभाढ्यमुकुटान्वितम् ।
ललाटफलके स्वर्णवर्णबिन्दूर्ध्वपुण्ड्रकम् ।।1.583.५० ।।
नवजीमूतसंकाशं फुल्लपद्मायतेक्षणम् ।
सद्रत्नसारजडितसौवर्णकुण्डलोज्ज्वलम् ।।५१ ।।
रक्ताधरं तिलपुष्पनासिकं वनमालिनम् ।
शंखचक्रगदापद्मायुध चायतवक्षसम् ।।।५२।।
मन्दहास्याननं दिव्यस्वर्णकटकबाहुकम् ।
श्रीवत्सकौस्तुभमौक्तिकादिहाराढ्यवक्षसम् । । ५३ । ।
आजानुयुगलं स्वर्णशृंखलाढ्यप्रकोष्ठकम् ।
सद्रत्नखचितोर्मिकाशोभिताङ्गुलिकाकरम् । । ५४ । ।
अभयं दर्शयन्तं च करेण मालिकान्वितम् ।
क्षौमपिशंगधौत्रं च दिव्यचन्दनचर्चितम् । । ५५ । ।
पुष्पहारालिसंशोभद्वक्षःस्थलस्थितश्रियम् ।
पुष्पगुच्छान्वितकरं सुवर्तुलकपोलकम् ।
धनुःकम्मानिकाकाराऽधरद्वयमनोहरम् । । ५६। ।
ईषद्गोचरश्मश्रुसत्सूक्ष्मरेखाऽधरान्वितम् ।
कामकोटिप्रलावण्यप्रेमाऽब्धिकंजलोचनम् । । ५७ । ।
आह्वयन्तं कटाक्षेण ज्ञापयन्तं च हृच्छ्रयम् ।
सप्तविंशतिहारालिसौवर्णरशनाकटिम् । । ५८ । ।
मञ्जीरकिंकिणीजालशब्दितचरणद्वयम् ।
अलक्तकादिसंलग्नशोणरूपाढ्यपत्तलम् । । ५९ । ।
सूक्ष्मचन्द्रकृतावासोन्नतवर्तुलसन्नखम् ।
धनुर्ध्वजत्रिशूलस्वस्तिकमत्स्यादिहस्तकम् । । 1.583.६० । ।
ऊर्ध्वरेखाऽर्धचन्द्रादिवज्राॆकुशादिपत्तलम् ।
नवयौवनपूरस्थं चित्तचौरं पतिं प्रभुम् । । ६१ । ।
अद्राष्टां च तौ सुभक्तौ श्रीस्वामिपुरुषोत्तमम् ।
तौ श्रीहरेर्दक्षभागे ददृशाते हलायुधम् । । ६२ । ।
संकर्षणं प्रभुं शेषं नैकब्रह्माण्डसत्फणम् ।
तं बलं यत्सहस्रादिफणामण्डलभूषितम् । । ६३ । ।
धवलं समुकुटं च सौवर्णकुण्डलाञ्चितम् ।
दिव्यमालाधरं नीलाम्बरं पंकजनेत्रकम् । । ६४ । ।
प्रोन्नतपीनवक्षःस्थमणिहारालिराजितम् ।
शंखचक्रगदापद्ममूशलहलधारिणम् । । ६५ । ।
अथ मध्ये तयोः सौम्यां भद्रां चम्पकसूज्ज्वलाम् ।
ददृशाते च तौ रम्यां समारब्धसुयौवनाम् । । ६६ । ।
कुंकुमारुणबिन्द्वाढ्यललाटफलकोज्ज्वलाम् ।
सौवर्णतन्तिकाराजद्भावकेसरचन्दनाम् । । ६७ । ।
कबरीभारशोभाढ्यां धम्मिलाकर्षणान्विताम् ।
कर्णनासागलबाहुप्रकोष्ठकटिभूषणाम् । । ६८ । ।
विद्युत्प्रभोज्ज्वलशाटीकञ्चुकीघर्घरीयुताम् ।
सर्वलावण्यसहितां लक्ष्मीं कृष्णप्रियां ध्रुवाम् । । ६९। ।
ताम्बूलकमलाद्यैश्च शोभितां व्यजनान्विताम् ।
दिव्यनेपथ्यसौन्दर्यसौरतानन्दवासिनीम् । । 1.583.७० । ।
अद्राष्टां च शतसूर्यसमैकारसुदर्शनम् ।
सहस्रार च भक्तानां रक्षाकरं प्रमुक्तिदम् ।। ७१ ।।
दार्वग्रनिर्मितं चक्रं हरिं भद्रां बलं तथा ।
चतुर्धाऽवस्थितं कृष्णं दृष्ट्वा तौ विप्रबाहुजौ ।।1७२ ।।
विस्मयं जग्मतुः प्रातः श्रद्दधतुश्च दिव्यताम् ।
न दारुप्रतिमा चेयं साक्षाद् ब्रह्म प्रकाशते ।। ७३ ।।
दारुमिश्रेण भगवान् तीर्थराजतटे स्थितः ।
वटमूले दिव्यरूपो यं दृष्ट्वा मुच्यते जनः ।।७४।।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
क्षितौ यदावतरति चतूरूपः प्रकाशते ।।७५ ।।
जगन्नाथस्य निकटे चावां स्थास्याव एव तु ।
इति निश्चित्य भक्तौ द्वौ कृष्णे भक्तिपरायणौ ।।७६ ।।
तत्र स्थितौ चिरं संप्रजयन्तौ कृष्णमानसौ ।
दिव्यौ भूत्वा ययौ श्रीमत्कृष्णनारायणाक्षरम् ।।७७।।
मुक्तिपदं परं धामाऽपुनरावृत्तिलक्षणम् ।
एवं ये भजमानास्तमनादिश्रीनरायणम् ।।७८ ।।
वासं यास्यन्ति पुरुषोत्तमपुर्यां नराः स्त्रियः ।
दिव्याश्चतुर्भुजा भूत्वा प्रयास्यन्ति ममाऽक्षरम् ।।७९ ।।
अपि कीटपतंगाद्या वियुज्यन्तेऽसुभिश्च ये ।
तेऽपि कृष्णस्य सामर्थ्यात् प्रयास्यन्ति परं पदम् ।।1.583.८ ० ।।
सकामाः स्वर्गमेष्यन्ति लोकान् वैराजसंज्ञकान् ।
ऐश्वराँस्तेषु वै दिव्यान् भोगान् भुक्त्वा ततः परम् ।। ८१ ।।
प्रयास्यन्ति मम लोकं चाक्षरादपि तूत्तमम् ।
इत्याह भगवान् लक्ष्मीं चोत्कले पुरुषोत्तमे ।। ८२ ।।
दक्षिणस्योदधेस्तीरे वसन्ति वैष्णवा मम ।
नरा नार्यो धर्मयुक्ता मम भक्तिपरायणाः ।।८३ ।।
ऋषिकुल्यां समासाद्य दक्षिणोदधिगामिनीम् ।
स्वर्णरेखामहानद्योर्मध्ये देशः स उत्कलः ।।८४।।
भूस्वर्ग एष एवाऽस्ति देशः श्रीपुरुषोत्तमः ।
धर्मार्थकाममोक्षाणां प्रदो नारायणाश्रयात् ।।८५।।
नार्यः पतिव्रता यत्र नरा पत्नीव्रतस्थिताः ।
सदा कृतयुगो यत्र मद्भक्तेषु प्रवर्तते ।।८६ ।।
तेषां तु दर्शनाल्लक्ष्मि! मुक्तिर्भवति शाश्वती ।
पठनाच्छ्रवणाच्चास्य भुक्तिं मुक्तिं लभेज्जनः ।।८७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने श्रीजगन्नाथपुर्यां विप्रक्षत्रिययोर्भगवत्साक्षात्कारेण मुक्तिरित्यादिनिरूपणनामा त्र्यशीत्यधिकपञ्चशततमोऽध्यायः ।। ५८३ ।।