लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५५७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५५६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५५७
[[लेखकः :|]]
अध्यायः ५५८ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततः शंभुः पार्वतीं प्राह पावनम् ।
आख्यानं तत् कथयामि त्वादिकल्पे कृते युगे ।। १ ।।
मनुर्नामाऽभवद्राजा सूर्यवंशो महाबली ।
साकेता तस्य नगरी प्रधानाऽऽसीत्तदा भुवि ।। २ ।।
अवध्या दानवैस्तस्मादवध्या नामतोऽभवत् ।
सप्तप्राकाररक्षाढ्या परिखासप्तवर्तुला ।। ३ ।।
दशयोजनविस्तीर्णा सरयूमनुसंस्थिता ।
नवखण्डां मेदिनीं स शशासैकप्रियाव्रतः ।। ४ ।।
एकदा स महाराजो वसिष्ठं प्रत्यभाषत ।
यज्ञो मया प्रकर्तव्यो दूरं चारण्यकस्थले ।। ५ ।।
पावनं तादृशं स्थानं प्रदर्शय यथारुचि ।
वसिष्ठश्चापि तच्छ्रुत्वा गृहीत्वा विप्रसम्मतिम् ।। ६ ।।
ऋक्षे वै पर्वतेऽरण्ये यतो रेवा प्रवर्तते ।
तत्र यज्ञं कुरु राजन्नित्याज्ञां प्रददौ पुरा ।। ७ ।।
हयमेधं महायज्ञं गत्वा तत्र चकार सः ।
भूगोसुवर्णरत्नानि यज्ञे ददौ स भूपतिः ।। ८ ।।
दशयोजनपर्यन्तं यज्ञकार्यार्थमण्डपम् ।
अकारयच्च रेवायास्तीरे यज्ञपरो नृपः ।। ९ ।।
आहूय देवताः सर्वा देवेन्द्रम् पाकशासनम् ।
अतर्पयत् त्वर्घपाद्यैर्मधुपर्कैश्च विष्टरैः ।। 1.557.१ ०।।
अतर्पयद् भूमिदेवान् साधूंश्च भोजनादिभिः ।
हारकेयूरकटकैः कण्ठाभरणभूषणैः ।। १ १।।
भोजनानां प्रशालासु पंक्तिष्वपि समागताः ।
वयांसि पक्षिणश्चान्ये कीटा वा वनचारिणः ।। १२।।
यज्ञोच्छिष्टेषु लुलिता जाताः सर्वे हिरण्मयाः ।
एवं निवर्तितो यज्ञो नर्मदायास्तटे महान् ।। १ ३।।
अवभृथे स्तुता रेवा राज्ञा तोषं गता नदी ।
स्वर्गसोपानभूताऽसि पितॄणां मोक्षकारिणी ।। १४।।
पापहा सर्वलोकानां माता चातिगरीयसी ।
दिवं नय महासाध्वि! पापतापप्रणाशिनि! ।। १५।।
स्तोत्रं श्रुत्वा महाभागा मनोर्नृपस्य सा ततः ।
प्रत्युवाच नृपं तुष्टा मकरासनसंस्थिता ।। १६।।
सर्वाभरणशोभाढ्या चन्द्रकान्तिनिभानना ।
कन्यारूपा हास्ययुक्ता वरं वृणु हृदीप्सितम् ।। १७।।
राजा प्राह सदा लोके तीर्थरूपाऽसि तारिणी ।
तारयाऽत्र शुभे तीर्थे यज्ञभूमौ सदा सति ।। १८।।
मम राज्ये तथा नद्यो वसन्तु भवतारिकाः ।
युगानि शाश्वतानीह प्रजाकल्याणहेतवे ।। १९।।
आगच्छ च मया साकं रूपान्तरेण नर्मदे ।
साकेतायां नगर्यां मे सरय्वा सह संवस ।।1.557.२०।।
तथाऽस्त्वित्याह तं रेवा ययौ रूपान्तरेण सा ।
साकेतायां नगर्यां च रेवाकुण्डेऽवसत्ततः ।।२ १ ।।
यज्ञभूमौ महत्तीर्थं यज्ञस्थानं तु ऋक्षके ।
स्नानात् तत्र दिवं यान्ति देहिनः पुण्यशालिनः ।।२२।।
अथाऽऽस्ते भगवान् विष्णुर्ब्रह्मकुण्डं सुपावनम् ।
रेवा चोत्तरवाहाऽत्र स्नात्वा मोक्षमवाप्नुयात् ।।२३।।
हंसतीर्थं ततश्चास्ते हंसा यत्र दिवं गता ।
ततश्चाग्रे सिद्धतीर्थं सिद्धा वसन्ति तापसाः ।।२४।।
ततो गंगायमुनासंगमो रेवाजले शुभः ।
मतंगर्षिः पुरा गंगां यमुनां च समाह्वयत् ।।२५।।
ऋषीणां महीमानानां स्नानार्थं प्रातरेव ह ।
मूर्ता गंगा यमुना च समाययौ जले तदा ।।२६ ।।
जलरूपाऽभवत् तीर्थं त्रिसंगमात्मकं शुभम् ।
अथ रम्यं योगतीर्थं तथा ऋक्षेश्वरं परम् ।।२७।।
तीर्थमाप्सरसं नाम वर्तते शापवारकम् ।
पुरा त्विन्द्रसभायां चाप्सरसो नृत्यमाचरन् ।।२८।।
कामः स्वयं परं रूपं धृत्वा तत्र समाययौ ।
नर्तक्यस्तं तदा दृष्ट्वा मुमुहुर्विस्मयान्विताः ।।२९।।
तालगीतिस्वरन्यासनृत्यक्रमान् विसस्मरुः ।
तदा त्विन्द्रश्चुकोपाऽति नर्तकीस्ताः शशाप ह ।।1.557.३ ० ।।
चम्पके सीमपऽनामे केशिनि चापि भामिनि ।
कौमुदि सुप्रभे तथोत्पले महोदयेऽसिमे ।।३ १ ।।
लोकपाला विराजन्ते सभायामत्र चेश्वराः ।
यथांगं नर्तनं प्राप्तं विक्रमं च प्रमादतः ।।३२।।
ततो निषादयोनिं संयान्तु तच्छिक्षणं ह्यलम् ।
नर्मदायां ततः स्नात्वा कुंभयोगे पुनः पुनः ।।३ ३।।
माघे मासि तृतीयायां निराहाराश्च निर्जलाः ।
गौरीं शंभुं त्वर्चयित्वा दिवं पुनरवाप्स्यथ ।।३४।।
इत्युक्तास्ता निषाद्यश्च तथा भूत्वा तु नार्मदे ।
जले स्नात्वा ययुर्मुक्तिं तीर्थं चाप्सरसं हि तत् ।।३५।।
अथ तीर्थ परं दत्तात्रेयानदी च रेवया ।
संगता तत्र संस्नात्वा पूजयित्वा च केशवम् ।।३६।।
निर्धूय सर्वपापानि यात्यन्ते श्रीहरेः पदम् ।
ततो गांजालभेदाख्यं तीर्थं कार्यं प्रमोक्षदम् ।। ३७।।
सोमवंशे नृपश्चासीद् देवानीक इतिप्रथः ।
तदात्मजश्चक्रवर्ती हरिकेशः स नामतः ।।३८।।
कन्यापुरेऽभवत् तस्य राजधानी परात्परा ।
तुंगभद्रातटे तेन मखाश्च बहवः कृताः ।।३९।।
हरिकेशो ददौ दानं दोग्ध्रीणामेकलक्षकम् ।
सूर्यग्रहे च निष्काणां सहस्रं प्रतिभूसुरम् ।।1.557.४०।।
ददावथ पुनर्वेदविद्यायां विजयाय वै ।
ब्राह्मणानां सभा तत्र चकार महतीं पुनः ।।४१ ।।
यो वै तत्र विजयेत तस्मै गौरेकवत्सिका ।
दोग्ध्री सुवर्णभूषाढ्या हीरकस्रक्सुशोभिता ।।४२।।
दातव्येति विनिश्चित्य प्रश्नं राजा चकार ह ।
अत्र राहुसूर्ययोगे स्नाने प्रयागजं फलम् ।।४३।।
स्नानं प्रारब्धजं किं वा विना प्रारब्धमीयते ।
सुमुख्यं कारणं किन्नु किं भवेद्वा प्रयोजकम् ।।४४।।
प्रयागभूमिर्नाऽत्राऽस्ति संयोगो नास्ति तद्भुवः ।
कथं तज्जं फलं स्याच्च हेतुं विना न जन्यता ।।४५।।
इति प्रश्ने कृते राज्ञि पण्डिताः ऋषयस्तदा ।
केचिदाहुस्त्वर्थवादं तदा प्राशस्त्यबोधकम् ।।४६।।
अन्ये प्राहुर्विना भूमिं प्रयागस्य न तत्फलम् ।
अपरे च तदा प्राहुः प्रयागसदृशं फलम् ।।४७।।
स्नानं प्रयागस्नानेन सदृशं जगदुः परे ।
स्नानं प्रारब्धजं चान्ये परे प्रारब्धमन्तरा ।।४८।।
प्रयत्नेन भवत्येव स्नानं पुण्यं विनापि च ।
मुख्यं तु कारणं तत्र मुमुक्षा वा बुभुक्षता ।।४९।।
इच्छाऽस्ति कारणं मुख्यं या काचिद्वा भवेद्धि सा ।
सार्थवाहस्तदेच्छाया उत्तेजको भवत्यपि ।।1.557.५०।।
प्रयोजिका तु जिज्ञासा शास्त्रजन्या पुनः पुनः ।
शास्त्रयोगे कारणं तु कृपा गुरोः सदा मता ।।५१ ।।
एवंविधा भवेयुश्च हेतवो भिन्नरूपिणः ।
एवं वादः प्रवृत्तश्च नैकेनापि निरूपितम् ।।५२।।
मुख्यं तु कारणं तत्र पुण्यदं यद् हृदि स्थितम् ।
परब्रह्म स्वयं दातृ फलस्यैवेति विस्मृतम् ।।५३।।
तेन कैश्चिन्न विजिता धेनुः स्वर्णमयी तदा ।
विवादे विजयार्थं च प्रवृत्तेऽपि न निर्णयः ।।।५४।।।
ब्राह्मणानां विवादे च तत्राऽऽसीदेकभूसुरः ।
नाम्ना रौद्रायणोऽथर्वमन्त्रविद् वादकारकः ।।५५।।
विवादे जायमानेऽपि विजयं नैव लब्धवान् ।
रुष्टः स चाऽनले राज्ञा कारयामास तत्क्षणम् ।।५६।।
होमं रौद्रैर्महामन्त्रैः सुतेजसैरजानता ।
राज्ञा कृतेन होमेन युगान्ताग्निसमप्रभः ।।५७।।
तत्कुण्डादुत्थितो वह्निर्ज्वालामालाभयंकरः ।
दग्धो हि मण्डपस्तेन मण्डपस्थाश्च पूरुषाः ।।५८।।
भस्मीभूतं तथा चान्यत् सामग्र्युपसुवस्तुकम् ।
राजा प्राहाऽत्र हत्यानां दग्धानां निष्कृतिस्तु मे ।।५९।।
यथा भवेत्तथा विप्रा! दीयतां त्वाचरामि ताम् ।
ब्राह्मणाश्च तदा प्राहुः कल्पग्रामं प्रयाहि वै ।।1.557.६०।।
भृग्वाद्याः ऋषयस्तत्र प्रष्टव्या निष्कृतौ त्वया ।
एवमुक्तो ययौ राजा पादचारी सुकल्पकम् ।।६१ ।।
महर्षीन् स प्रणम्यैव सम्भाषां प्रचकार ह ।
ततो निवेदयामास क्रतौ हत्याघमुल्बणम् ।।६२।।
श्रुत्वा तम् ऋषयः प्राहुर्गायत्रीदशलक्षकम् ।
तीर्थे तीर्थे जप राजन् याह्यष्टषष्टितीर्थकम् ।।६३।।
गोहिरण्यप्रदानं च कुरु होमायुतं तथा ।
देहि सद्भ्यश्च विप्रेभ्यः सहस्रशतदक्षिणम् ।।६४।।
एवं पापस्य मुक्तिः स्यात् कुरु तीर्थानि भावतः ।
ये मृता वह्निदग्धाश्च तेषामस्थिप्रवाहणम् ।।६५।।
नर्मदायां कुरु राजँस्तेन मुक्तिर्भविष्यति ।
नर्मदोदकसम्पर्काद् दिवि देवत्वमाप्यते ।।६६।।
तिलोदकप्रदानेन तेषां मुक्तिर्भवेद् ध्रुवम् ।
नर्मदायास्तटे रम्ये शुभं यज्ञं च वैष्णवम् ।।६७।।
समाचर पुनर्यत्र मोक्षणं संभविष्यति ।
इत्युक्तः स तु राजर्षिः पुनः श्रीनर्मदां प्रति ।।६८।।
ययौ यज्ञं तर्पणं च चक्रे तत्र तटे शुभे ।
प्रवाहो निर्गतस्तत्र नर्मदायां समाविशत् ।।६९।।
स गाञ्जालेतिविख्यातो नर्मदासंगमोऽभवत् ।
हरिकेशेन पितरो मृता दग्धाश्च ये कृतौ ।।1.557.७०।।
सर्वे ते तारितास्तत्र तृप्ताः प्रोचुर्नृपं ततः ।
त्वत्प्रसादान्महाभाग! वयं देवत्वमागताः ।।७१।।
दिव्ययानसमारूढा यास्यामो वैष्णवं पदम् ।
हरिकेशो नृपः श्रुत्वा परया च मुदा युतः ।।७२।।
सप्तकल्पस्थिरां रेवां नत्वा चक्रे स्तुतिं ततः ।
नमस्तेस्तु सरिच्छ्रेष्ठे! सप्तकल्पनिवासिनि ।।७३।।
स्नात्वा त्वयि जनः क्वापि सर्वत्र मुक्तिमृच्छति ।
त्वत्प्रसादान्महादेवि! मुक्तिर्जाता भवार्णवात् ।।७४।।
पितॄणां वह्निदग्धानां जय देवि दयावति! ।
नर्मदा तद्वचः श्रुत्वा मूर्ता कन्या बभूव सा ।।७५।।
वरं वृणु नृपं प्राह राजा वव्रे वरं तदा ।
यदि मे वरदा साध्वि! पूतं मां कुरु पावनि! ।।७६।।
स्नानाऽवगाहनात्पानात्स्मरणात्कीर्तनादपि ।
सप्तजन्मकृतं पापं सद्य एव विनश्यतु ।।७७।।
रेवोवाच तथाऽस्त्वेव ततश्चान्तरधीयत ।
हरिकेशश्चक्रवर्ती नत्वा पुनश्च तां दिशम् ।।७८।।
कामिकं यानमारुह्य ययौ साकेतपत्तनम् ।
तत्तीर्थं नार्मदं हत्यानाशकृन्मोक्षदं शुभम् ।।७९।।
हरिकेशं च गाञ्जालं हत्यापापविनाशनम् ।
धन्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं शुभम् ।।1.557.८०।।
अथ याम्यां दिशि नाम्ना तीर्थं वालुकशांकरम् ।
यत्र कन्यानर्मदासंगमो जातो हि मोक्षदः ।।८१ ।।
ततश्चाऽग्रे समाख्यातं तीर्थं पूर्णमनोरथम् ।
हरिवर्मा पुरा चासीद् विराटनगराधिपः ।।८२।।
कृतस्तेन क्रतुस्तत्र गोलक्षं तत्र संददौ ।
देवाः सुतर्पितास्तत्र विप्राः सन्तश्च पूजिताः ।।८३।।
अथाऽन्यदपि सत्तीर्थं रेवामत्स्यासमागमः ।
यत्राऽऽपो निर्मलाः पानात् स्नानान्मुक्तिप्रदाः सदा ।।८४।।
रेवाया उत्तरे कूले कपिलासंगमात्परम् ।
नर्मदापुरमत्राऽऽस्ते यत्र विप्रास्तु तापसाः ।।८५।।
कोटिशो वै विराजन्ते जमदग्न्याश्रमान्तिके ।
जमदग्निर्महोग्रं च तपश्चचार शांकरम् ।।८६ ।।
साक्षादभूच्छिवस्तस्य वरं वृणु जगाद तम् ।
ऋषिर्वव्रे कामधेनुं गोलोकात् सा समाययौ ।।८७।।
धर्मकर्मशुभार्थे च शिवपूजासुतर्पणे ।
पितृकार्ये देवकार्ये गावः पुण्यतमाः सदा ।।८८।।
कामधेनोः सकाशाच्च जमदग्निरवाप ह ।
सर्वान् कामान् धर्मरूपान्सम्पत्प्रदान् दिवःप्रदान् ।।८९।।
ऋषीणां च सहस्राणि नित्यं भोजयते द्विजः ।
जमदग्नेर्महाकीर्तिः पृथ्व्यां व्याप्ता गवा तदा ।।1.557.९०।।
विप्रचित्त्याख्यदैत्यस्य कन्या माहिष्मती तु या ।
तस्या नाम्ना स नगरीं माहिष्मतीं विनिर्ममे ।।९१ ।।
यत्सन्निधौ महारण्ये जमदग्निर्न्युवास ह ।
ययौ सखीभिर्व्योम्ना सा वीक्षितुं मन्दराचलम् ।।९२।।
तपन्तं चाऽस्वरसंज्ञं तत्र ददर्श तापसम् ।
दृष्ट्वाऽऽश्रमपदं रम्यं चिन्तयामास भामिनी ।।९३।।
भीषयित्वाऽहमेनं तु तिष्ठाम्यत्राश्रमे स्वयम् ।
कामरूपधरा साऽपि भूत्वाऽरण्यनिवासिनाम् ।।९४।।
ऋषीणां सन्निधौ याता महिषीरूपधारिणी ।
ऋषिभिः खलु शप्ता सा महिष्यस्तु शतं समाः ।।९५।।
महिषं पुत्रमासाद्य ततः स्वस्था भविष्यसि ।
एवं शप्ता ययौ सा तु नर्मदातीर्थमुत्तमम् ।।९६।।
यत्र तेपे तपो घोरं सिन्धुद्वीपो महातपाः ।
सिन्धुद्वीपस्य वै वीर्यं प्रचस्कन्द शिलातले ।।९७।।
जलाऽन्वितं सुगन्धं तत् पपौ सा महिषी तदा ।
ततः सा सुषुवे विप्रवीर्यजन्यं सुतं दृढम् ।।९८।।
महिषाख्याऽसुरं क्रूरं यं जघान हि शांकरी ।
नारायणी महाशक्तिस्ततो माहिष्मती निजाम् ।।९९।।
माहिष्मतीं पुरीं गत्वा जमदग्न्याश्रमान्तिके ।
कालेन सा मृता प्राप्ता स्वर्गमृषेः प्रतापतः ।। 1.557.१०० ।।
तीर्थं तज्जामदग्न्यं वै माहिष्मतं सुशोभनम् ।
विशोकैरण्डिका चैव तृतीया पावनी मता ।। १०१ ।।
चतुर्थी नर्मदा तासां संगमे कपिला शिला ।
तीर्थं पुण्यतमं त्वास्ते यत्र पिण्डप्रदानतः ।। १०२ ।।
पितरो मोक्षणं यान्ति पर्शुरामेण तारिताः ।
एतत्ते कथितं लक्ष्मि! पुरा सत्यै शिवोदितम् ।। १०३ ।।
श्रवणात्कीर्तनाच्चाऽस्य दिवि देवत्वमाप्यते ।
भुक्तिर्मुक्तिर्लभ्यतेऽपि जामदग्न्याश्रमे शुभे ।। १ ०४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ऋक्षपर्वते मनुकृतयज्ञतीर्थं विष्णुब्रह्मकुण्डहंसतीर्थं त्रिसंगम योगतीर्थं आप्सरसतीर्थं दत्तात्रेयासंगमः गांजालभेदतीर्थं वालुकं पूर्णमनोरथतीर्थं कन्यानर्मदासंगमः मत्स्यासंगमोनर्मदापुरं जामदग्न्यतीर्थमित्यादीनि सबीजानि निरूपितानीतिनामा सप्तपञ्चाशदधिकपञ्चशततमोऽध्यायः ।। ५५७ ।।