लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५२९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५२८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५२९
[[लेखकः :|]]
अध्यायः ५३० →

श्रीनारायण उवाच-.
शृणु लक्ष्मि! कथयामि पापं येषां तु दर्शने ।
दुःस्वप्नं पापबीजं च केवलं विघ्नकारणम् ।। १ ।।
गोघ्नं च ब्राह्मणघ्नं वा कृतघ्नं कुटिलं तथा ।
देवघ्नं पितृमातृघ्नं पापं विश्वासघातिनम् ।। २ ।।
मिथ्यासाक्षिप्रदातारं तथाऽऽतिथ्यविवञ्चकम् ।
देवविप्रद्रव्यहारिक्षेत्रहारिणमित्यपि ।। ३ ।।
अश्वत्थघातिनं वृन्दाघातिनं देवनिन्दकम् ।
साधुविद्वेषिणं सेर्ष्यमनाचारं च देवलम् ।। ४ ।।
छिन्ननासां पतिभक्तिहीनां च व्यभिचारिणीम् ।
विधवां क्रोधितं दुष्टमृणग्रस्तं च जारजम् ।। ५ ।।
चौरं मिथ्यावादिनं च राहुग्रस्तं विधुं रविम् ।
दृष्ट्वा स्नानं प्रकुर्याच्चाप्यष्टोत्तरशतं जपान् ।। ६ ।।
नष्टचन्द्रो न दृश्योऽस्ति भाद्रे मासिसिताऽसिते ।
चतुर्थ्यामुदितश्चन्द्रो न दृष्टव्यः कदाचन ।। ७ ।।
चन्द्रस्तारापहरणं कलंकमतिदुर्वहम् ।
तस्मै ददाति सन्द्रष्ट्रे कामतो यदि पश्यति ।। ८ ।।
अकामतो नरो दृष्ट्वा मन्त्रपूतं जलं पिबेत् ।
'ओं नमः श्रीकृष्णनारायणाय चाऽकलंकिने ।। ९ ।।
चन्द्रकलंकसंहर्त्रै ताराशुद्धिप्रवादिने' ।
इतिमन्त्रेण संपूतं जलं साधु पिबेत् तदा ।। 1.529.१ ०।।
श्रीलक्ष्मीरुवाच-
राहुग्रस्तः कथं सूर्यो न दृष्टव्यः शशी तथा ।
सन्देहं नाशय मेऽत्र करुणावरुणालय ।। ११ ।।
श्रीनारायण उवाच-
एकदा जमदग्निश्च महाकौतूहलान्वितः ।
रेणुकासहितस्तुष्टो जगाम नर्मदातटम् ।। १ २।।
निर्जने च दिवा पत्न्याः कामभोगं चकार सः ।
पत्नीच्छया न तु स्वयेच्छया तस्याः प्रतुष्टये ।। १ ३।।
अथ सूर्यो धर्मसाक्षी ऋषिं प्रोवाच धर्मवित् ।
स्वयं ज्ञाता धर्मकर्ता प्रपौत्रौ ब्रह्मणो भवान् ।। १४।।
महातपस्वी तेजस्वी ब्रह्मचारी च सुव्रती ।
दिवा संगं स्त्रियाः कुर्वन् धर्मं त्यजति वै कथम् ।।१५।।
अहं च धर्मिणां साक्षी तेन त्वां कथयामि ते ।
उवाच सूर्यं ताम्राक्षः क्रोधमात्रां समाश्रितः ।। १६।।
तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ।
त्वया संज्ञा वडवा सा दिवा चालिंगिता कथम् ।। १७।।
येन नासाविवराच्चाऽश्विनी पुत्रौ बभूवतुः ।
कामदग्धा भजमाना युवती यदि चेच्छति ।। १८।।
तस्याः कामानलः शाम्य इति पत्युर्वृषो महान् ।
कस्त्वं धर्मप्रवक्ता मे याहि स्वस्थानमेव च ।। १ ९।।
अद्य मे निर्जने स्थाने कामभंगस्त्वया कृतः ।
मम शापात् पापदृश्यो राहुग्रस्तो भविष्यसि ।।1.529.२०।।
स्वतेजसा कृतगर्वात् हततेजा भविष्यसि ।
मेघाच्छन्नः स्वल्पतेजाः पापदृश्यस्तथा भव ।।२१ ।।
इति शप्तो रविः प्राह ब्राह्मणम् ऋषिपुंगवम् ।
क्षमस्व वैष्णवः शुद्धः स्वधर्मं च समाचर ।।२२।।
अहं यथा त्वया शप्तो मया शप्तो भवाँस्तथा ।
पराभूतः क्षत्रियेण भविष्यसि द्विजेश्वर ।।२३।।
मरणं क्षत्रियास्त्रेण भवतश्च भविष्यति ।
जमदग्निः रविं प्राह शंभुना त्वं पतिष्यसि ।। २४।।
शापनिस्तारणं तत्र चकार विश्वसृट् स्वयम् ।।२५।।
जमदग्ने! ऋषिमध्ये स्थानं स्वर्गे वधेऽपि ते ।
भविष्यति मदायुस्त्वं शान्तो भव सुखी भव ।।२६।।
सूर्यं प्राह ततो ब्रह्मा कुत्रचिद् दिवसे प्रगे ।
घनाच्छन्नोऽपि सद्यस्त्वं दृश्यो मुक्तो भविष्यसि ।।२७।।
न्यूनातिरिक्तवर्षे च राहुग्रस्तो भविष्यसि ।
अस्तकाले घनाच्छन्ने मध्याह्नस्थे जलेऽपि च ।।२८।।
अर्धोदिते च समये पापदृश्यो भविष्यसि ।
अन्यथा सर्वकालेन पुण्यदृश्यो भविष्यसि ।।।२९।।
मालीसुमालीयुद्धेन शंभुना त्वं पराजितः ।
पुनः स्वर्गं गतः श्रेष्ठं जयमाप्स्यसि मा शुचः ।।1.529.३ ० ।।
जमदग्निं पुनः प्राह मरणेऽपि च ते सुत ।
नारायणो निजांशेन तव पुत्रो भविष्यति ।।३ १ ।।
तस्य पराक्रमेणापि यशस्ते शाश्वतं भवेत् ।
इत्युक्त्वा तौ विसृज्यैव ब्रह्मा सत्यं समाययौ ।।३२।।
इत्येवं कथितं लक्ष्मि सूर्यस्याऽदर्शनं तदा ।
चन्द्रो भाद्रे चतुर्थ्यां च तारां जहार कामतः ।।३ १ ।।
शशाप तारा कोपेन निष्कामा सा पतिव्रता ।
अद्य त्वया गुरुपत्नी स्पृष्टा तस्माच्च तद्दिने ।।३४।।
पापदृश्यो हि सर्वेषां कलंकदो भविष्यसि ।
राहुग्रस्तो घनग्रस्तः पापदृश्यो भविष्यसि ।।३५।।
कलंकी भव चेत्येवं प्रोक्त्वा कामं जगाद सा ।
तेजस्विना केनचित् त्वं भस्मीभूतो भविष्यसि ।।३६।।
अतश्चन्द्रस्तदारभ्य पापदृश्योऽस्ति तत्तिथौ ।
इत्येवं कथितं लक्ष्मि! पापदृश्यत्वकारणम् ।।३७।।
दुःस्वप्नं ते कथयामि यद्वै दुष्टफलप्रदम् ।
स्वप्ने हसति यो हर्षाद् विवाहं यदि पश्यति ।। ३८।।
नर्तनं गीतमिष्टं च विपत्तिस्तस्य निश्चिता ।
दन्ता यस्य विपीड्यन्ते विचरन्तं च पश्यति ।।३९।।
धनहानिर्भवेत्तस्य पीडा चापि शरीरजा ।
कन्या घटं समादाय यस्य गृहात् प्रगच्छति ।।1.529.४०।।
स्वस्त्री वा क्रोधसम्पन्ना स्वस्याऽऽलयात्प्रयात्यपि ।
स्वप्ने द्रष्टुर्भवेल्लक्ष्मीनाशो दारिद्र्यमित्यपि ।।४१ ।।
अभ्यंगितस्तु तैलेन यो गच्छेद् दक्षिणां दिशम् ।
खरोष्ट्रमहिषारूढो मृत्युस्तस्य न संशयः ।।४२।।
स्वप्ने कर्णे जपापुष्पमशोकं करवीरकम् ।
लवणं पश्यति तैलं विपत्तिस्तस्य वै भवेत् ।।४३।।
नग्नां कृष्णां छिन्ननासां भृत्यां वा विधवां च वा ।
कपर्दकं तालफलं दृष्ट्वा शोकमवाप्नुयात् ।।४४।।
स्वप्ने रुष्टं ब्राह्मणं च ब्राह्मणीं क्रोधितां तथा ।
दृष्ट्वा भवेद् विपत्तिश्च लक्ष्म्या निर्गमनं तथा ।।४५।।
वनपुष्पं रक्तपुष्पं पलाशं पुष्पितं तथा ।
कार्पासं शुक्लवस्त्रं च दृष्ट्वा दुःखमवाप्नुयात् ।।४६।।
गायन्तीं च हसन्तीं च कृष्णवस्त्रान्वितां स्त्रियम् ।
स्वप्ने कृष्णां विधवां च दृष्ट्वा मृत्युमवाप्नुयात् ।।४७।।
देवता यत्र नृत्यन्ति गायन्ति च हसन्ति च ।
आस्फोटयन्ति धावन्ति तस्य वै मरणं भवेत्। ।।४८।।
वान्तं मूत्रं पुरीषं च वैद्यं रौप्यं सुवर्णकम् ।
प्रत्यक्षमथवा स्वप्ने जीवेद् द्रष्टा दशाहकम् ।।४९।।
कृष्णवस्त्रा कृष्णमाला कृष्णलेपादिमण्डिता ।
उपगूहति यं नारी तस्य मृत्युर्ध्रुवो भवेत् ।।1.529.५०।।
मृतवत्सं च मुण्डं च मृगस्य च नरस्य च ।
अस्थिमालां विन्दते यस्तस्य विपत्तिरच्युता ।।५१ ।।
रथं खरोष्ट्रसंयुक्तमेकाकी योऽधिरोहति ।
तत्रस्थोऽपि च जागर्ति मृत्युस्तस्य दशाहके ।।५२।।
अभ्यंगितस्तु हविषा क्षीरेण मधुनाऽपि च ।
तक्रेणापि गुडेनापि तस्य पीडा भवेदति ।।५३।।
रक्तवस्त्रा रक्तमाला रक्तलेपादिमण्डिता ।
उपगूहति यं स्वप्ने व्याधिस्तस्य भवेद् ध्रुवः ।।५४।।
नखकेशांश्च पतितान् भस्मान्वितचितां तथा ।
दृष्ट्वा निर्वाणकाङ्गारान् मृत्युमाप्नोति निश्चितम् ।।५५।।
श्मशानं शुष्ककाष्ठं च लोष्ठं शुष्कतृणानि च ।
किंचित्कृष्णं वाजिनं च शमीं दृष्ट्वाऽतिदुःखभाग् ।।५६।।
पादुकां फलकं रक्तं पुष्पमाल्यं भयानकम् ।
माषं मसूर मुद्गं वा दृष्ट्वा सद्यो व्रणी भवेत् ।।५७।।
कटकं सरटं काकं भल्लूकं वानरं गवम् ।
पूयं गात्रमलं स्वप्ने पश्यति व्याधिमान् भवेत् ।।५८।।
भग्नभाण्डं क्षतं शूद्रं गलत्कुष्ठं च रोगिणम् ।
रक्ताम्बरं च जटिलं सूकरं महिषं खरम् ।।५९।।
महाघोरं चान्धकारं मृतं जीवं भयप्रदम् ।
योनिलिंगं तथा दृष्ट्वा स्वप्ने विपत्तिमाप्नुयात् ।।1.529.६०।।
कुवेषरूपं म्लेच्छं च यमदूतान् भयानकान् ।
पाशशस्त्रान्वितहस्तान् दृष्ट्वा मृत्युं लभेद् द्रुतम् ।।६१ ।।
विप्रो विप्रा सुतो बालः सुता बाला रुषा यदि ।
विलापं कुरुते स्वप्ने द्रष्टा दुःखमवाप्नुयात् ।।६२।।
कृष्णं कुसुमं तन्मालां सस्यं शस्त्रास्त्रधारिणम् ।
म्लेच्छां च विकृताकारां दृष्ट्वा मृत्युमवाप्नुयात् ।।६३।।
त्यक्तप्राणं मृतं दृष्ट्वा शवं मृत्युमवाप्नुयात् ।
मत्स्यादि धारयेद् यो हि तद्भ्रातुर्मरणं भवेत् ।।६४।।
वाद्यं च नर्तनं गीतं गायनं रक्तवाससम् ।
मृदंगं वाद्यमानं तं दृष्ट्वा दुःखमवाप्नुयात् ।।६५।।
छिन्नं वापि कबन्धं वा विकृतं मुक्तमूर्धजम् ।
क्षिप्रं नृत्यं प्रकुर्वन्तं दृष्ट्वा मृत्युमवाप्नुयात् ।।६६।।
मृतो वापि मृता वापि कृष्णम्लेच्छा भयानका ।
उपगूहति यं स्वप्ने स्वयं तां वोपगूहति ।।६७।।
स्वस्य शवं तथा वीक्ष्य क्षिप्रं मृत्युं प्रधारयेत्। ।
यस्य दन्ताः प्रभग्नाश्च केशा यस्य पतन्ति च ।।६८।।
धनहानिर्देहपीडा भवेत्तस्य पदे पदे ।
उपद्रवन्ति यं स्वप्ने शृंगिणो दंष्ट्रिणस्तथा ।।६९।।
बालका मानवाश्चापि गृहस्य च कुटुम्बिनः ।
अन्ये भृत्यास्तथा तस्य भवेद् राजकुलाद् भयम् ।।1.529.७०।।
वृक्षं छिन्नं पतन्तं च शिलावृष्टिं तुषं क्षुरम् ।
रक्तांगारं भस्मवृष्टिं दृष्ट्वा दुःखमवाप्नुयात् ।।७१ ।।
गृहं पतन्तं शैलं वा धूमकेतुं भयप्रदम् ।
भग्नस्कन्धं नरं वापि दृष्ट्वा दुःखी भवेज्जनः ।।७२।।
वृक्षाच्छैलाद्रथाद्गेहाद्गोर्गजात्तुरगाच्च खात् ।
भूमौ यः पतति स्वप्ने विपत्तिस्तस्य निश्चिता ।।७३।।
उच्चैः पतन्ति गर्तेषु भस्मांगारयुतेषु च ।
क्षारकुण्डेषु चूर्णेषु मृत्युस्तेषां भवेद् ध्रुवम् ।।७४।।
बलाद् गृह्णाति दुष्टश्च छत्रमुष्णीषमेव कात् ।
पितुर्नाशो भवेत्तस्य गुरोर्वापि नृपस्य वा ।।७५।।
सुरभिर्यस्य गेहात्तु याति त्रस्ता सवित्सका ।
प्रयाति गृहतस्तस्य लक्ष्मीः क्षितिश्च मानिनी ।।७६।।
यमपाशनिबद्धो यो यमदूतैश्च नीयते ।
म्लेच्छैश्चौरैस्तथाऽन्यैर्वा तस्य मृत्युः समीपगः ।।७७।।
गणको ब्राह्मणो वापि ब्राह्मणी वा गुरुः सती ।
साधुर्वा शपति रुष्टो विपत्तिस्तस्य भाविनी ।।७८।।
शत्रवः कुक्कुटाः काका भल्लुकाश्च विरोधिनः ।
पतन्त्यागत्य यद्गात्रे तस्य मृत्युर्हि निश्चितः ।।७९।।
महिषा भल्लुका उष्ट्राः सूकरा गर्दभास्तथा ।
रुष्टा धावन्ति यं स्वप्ने स रोगी निश्चितं भवेत् ।।1.529.८०।।
रक्तचन्दनकाष्ठानि घृताक्तानि जुहोति यः ।
गायत्र्याश्च सहस्रेण तेन शान्तिर्विधीयते ।।८१ ।।
यदनिष्टं भवेत् स्वस्य स्वप्ने दृश्येत चेद् यदि ।
अनिष्टकारकं तस्यादिष्टं स्यादिष्टकारकम् ।।८२।।
कृष्णनारायणनाम्नां जपान्निष्पापतां व्रजेत् ।
दुःस्वप्नस्तत्फलं दातुं समर्थो न भवेत्तदा ।।८३।।
विष्णुं नारायणं कृष्णं रामं च श्रीहरिं शिवम् ।
श्रियं लक्ष्मीं राधिकां जानकीं प्रभां च पार्वतीम् ।।८४।।
जपन् द्वादश दुःस्वप्नः सत्फलदः प्रजायते ।
'ओं ह्रीं श्रीं क्लीं दुःखहन्त्र्यै दुर्गायै ते नमः स्वाहा' ।।८५।।
मन्त्रं वै दशधा जप्त्वा दुःस्वप्नः शुभदो भवेत् ।
शतलक्षजपात्सिद्धः सिद्धिं ददाति वाञ्छिताम् ।।८६।।
ओं नमो मृत्युञ्जयाय स्वाहेति लक्षधा जपेत् ।
दृष्ट्वाऽपि मरणं स्वप्ने शतायुर्जापको भवेत् ।।८७।।
पूर्वोत्तरमुखो भूत्वा स्वप्नं प्राज्ञे शुचौ द्विजे ।
गुरौ देवे दिव्यजने फलदं स्यात् प्रकाशयेत् ।।८८।।
अश्वत्थे गणके विप्रे पितृदेवाऽऽसनेषु च ।
आर्ये च वैष्णवे मित्रे पत्यौ स्वप्नं प्रकाशयेत्। ।।८९।।
काश्यपे दुर्गते नीचे देवसद्विप्रनिन्दके ।
मूर्खे जडेऽनभिज्ञे च क्रूरे स्वप्नं न वर्णयेत् ।।1.529.९०।।
इत्येवं कथितं लक्ष्मि! लोकानामुपकारकम् ।
धन्यं यशस्यमायुष्यं पठनाछ्रवणादपि ।।९१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने क्वचित् सूर्यचन्द्रयोरदर्शने शापवर्णनं दुष्टस्वप्नतत्फलतन्निवारणादिवर्णनमितिनिरूपणनामैकोनत्रिंशदधिकपञ्चशततमोऽध्यायः ।। ५२९।।