लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५३०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५२९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५३०
[[लेखकः :|]]
अध्यायः ५३१ →

श्रीलक्ष्मीरुवाच-
मानवानां विविधानामितिकर्तव्यताव्रतम् ।
उपकाराय मे ब्रूहि यथा मोक्षोदयो भवेत् ।। १ ।।
श्रीनारायण उवाच-
अहिंसा सर्वतो ज्येष्ठा सर्वेषां पुण्यदं व्रतम् ।
आत्मने तुष्टिदानं च परं पुण्यप्रदं मतम् ।। २ ।।
यथाकथञ्चिज्जीवानां देयं सुखं च तोषणम् ।
कायेन मनसा वाचा क्रियया वस्तुभिस्तथा ।। ३ ।।
आशीर्वादाश्च लभ्यन्ते श्रेयो मोक्षश्च सम्पदः ।
स्नानं ध्यानं मम पूजा नैवेद्यं सेवनं तथा ।। ४ ।।
परोपकारः सन्तोषः कर्तव्यानि सदा जनैः ।
विष्णुप्रसादभोजी च जीवन्मुक्तो भवेज्जनः ।। ।५ ।।
विष्णुमन्त्रं गृहीत्वा च कृत्वा वै गुरुसेवनम् ।
ध्यात्वा कृष्णपदाम्भोजं मोक्षस्थानमवाप्नुयात् ।। ६ ।।
गुरूणां पूजनं नित्यं कर्तव्यं पोषणं तथा ।
सर्वेषामपि वन्द्यानां पिता स्वस्य महान् गुरुः ।। ७ ।।
पितुः शतगुणा माता मातुः शतगुणः सुरः ।
सुरस्य मन्त्रदश्चतुर्गुणो गुरुर्हि मोक्षदः ।। ८ ।।
मोक्षदस्य शतगुणो ज्ञानमोक्षप्रदो गुरुः ।
गुरुः प्रत्यक्ष ईशेशो गुरुर्नारायणः प्रभुः ।। ९ ।।
उद्देशे दीयते तस्मै सुराय गुरवे श्रुतेः ।
प्रत्यक्षभोक्ता स्वगुरुः स्वयं देही जनार्दनः ।। 1.530.१ ०।।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुरेव स्वयं शिवः ।
श्रीगुरौ सर्वदेवा वै तिष्ठन्ति सततं मुदा ।। ११ ।।
गुरौ तुष्टे हरिस्तुष्टस्तेन तुष्यन्ति देवताः ।
वैष्णवः श्रीहरेप्राप्तिकरो गुरुर्नरायणः ।। १२।।
ब्राह्मणो वैष्णवो नित्यं गुरुर्मुक्तः सुरैः समः ।
तस्य पादोदकं पीत्वा शुद्ध्यन्ति प्राणिनो ह्यघात् ।। १ ३।।
विष्णुप्रसादभोजी तु पवित्रां कुरुते महीम् ।
वैकुण्ठे मोदते सोऽन्ते पार्षदो हरिणा सह ।। १४।।
तदाश्रयः प्रकर्तव्यो ग्राह्यो मन्त्रस्ततोऽपि च ।
मन्त्रग्रहणमात्रेण जीवन्मुक्तः प्रजायते ।। १५।।
पुरुषाणां सहस्रं स लीलया तूद्धरेत् शुचिः ।
क्रिया विष्णुपदे यस्य संकल्पाश्च तदर्पिताः ।। १६।।
स एव श्रीहरिर्बोध्यो न मे तस्मात्परः प्रियः ।
मन्त्रं क्वापि न गृह्णीयात् दरिद्राद् भक्तिवर्जितात् ।। १७।।
आमिषं सर्वथा बोध्यं मम नैवेद्यवर्जितम् ।
यद्यपि स्यात् सुधातुल्यं तदभक्ष्यं प्रकीर्तितम् ।। १८।।
धर्मव्याधेन वै पुत्रीं पुरा ज्ञात्वा शुचिं द्विजम् ।
मतंगपुत्रं मातंगं तस्मै दत्ता यतः खलु ।। १ ९।।
पवित्रस्य गृहे पुत्र्याः परं श्रेयो भविष्यति ।
इति विचार्य दत्ता सा किन्त्वेकस्मिन् दिने पुनः ।।1.530.२०।।
श्वश्रूरः स्नुषां जगादेदं व्याधजे! हिंसकात्मजे! ।
किं जानासि धर्मकृत्यमशुद्धे! कलहंकरि! ।।२१ ।।
इति श्रूत्वा तु सा कन्या ययौ स्वजनकं प्रति ।
प्राह मां व्याधजे! चेति श्वश्रूः प्राह पुनः पुनः ।।।२२।।।
व्याधो जगाम जामातुर्गृहं प्राह सुखोदयम् ।
भोजनं प्रददौ श्वश्रूर्विना देवनिवेदितम् ।।२३।।
न तत्र देवपूजापि नाऽन्नशुद्धिर्विलोकिता ।
वैश्वदेवः कृतो नैव नाऽतिथिः पूजितस्तथा ।।२४।।
जलं न गालितं चापि वह्नौ घृतं न चार्पितम् ।
व्याहृतिर्न कृता तत्र स्नानं दृष्टं न वै गृहे ।।२५।।
गोग्रासो भूतसंग्रासो न जामात्रा कृतोपि हि ।
न देवकीर्तनं चापि न सूर्यनमनं तथा ।।२६।।
श्वश्रृऽगृहे तदीयैस्तु दैवं पैत्र्यं न वै कृतम् ।
तत्सर्वं वीक्ष्य कन्यायाः पिता प्रभोजनाऽऽसने ।।रे७।।
स्थित्वा प्राह मया त्वेदद् ग्राह्यं नैव भवेद्यतः ।
तस्यान्नं त्वामिषं प्रोक्तं यद् देवाय न चार्प्यते ।।२८।।
जलं च वारुणीतुल्यं देवपादामृतं विना ।
तस्मान्मया न भोक्तव्यं भवदीयं प्रभोजनम् ।।२९।।
मया पुत्री यतो दत्ता ज्ञात्वा धर्मगृहं शुभम् ।
मोक्षार्थं सा प्रदत्ता वै न तु पापादनाय वै ।।1.530.३ ०।।
यत्र सन्ध्या जपो ध्यानं देवार्चनं समर्पणम् ।
किञ्चिन्नास्ति तदन्नं चामिषं वारि सुरासमम् ।।३ १ ।।
मया त्वजानता पुत्री साक्षान्नरके पातिता ।
त्वद्गृहान्मे शुद्धिरस्ति देवनैवेद्यजा सदा ।।३२।।
विना देवार्पणं नाहं भुनज्मि तु कदाचन ।
व्याधपुत्रीति वै प्रोक्ता न तत्तथ्यं वचस्तव ।।३३।।
हरेनैंवेद्यहीनो वै व्याधः सत्यतयोच्यते ।
तस्माद्व्याधो मतंगस्त्वं ब्रह्मकर्मविवर्जितः ।।३४।।
अहं जात्यापि चेद्व्याधः कर्मणा नैव नैव च ।
त्वं कर्मणा महाव्याधतुल्यो भवसि नित्यदा ।।३५।।
नाऽहं पुत्रीं प्रेषयिष्ये गृहं ते पुनरागमे ।
इत्युक्त्वा प्रययौ व्याधो वैष्णवो भक्तराड गृहम् ।।३६।।
कृत्वा कृष्णार्पणं सर्वं बुभुजेऽन्नजलादिकम् ।
तस्माल्लक्ष्मि! सर्ववर्णैरर्पितं मे शुभं भवेत् ।।३७।।
दिव्यं प्रमोक्षदं त्वन्नं जलं पत्रं दलादिकम् ।
ब्राह्मणानां सदा भक्ष्यं हविष्यं च निरामिषम् ।। ३८।।
आमिषस्य परित्यागात् सूर्यवत्तेजसा भवेत् ।
अनिवेद्य प्रभोक्ता तु सुरामिषाशनो भवेत् ।।३ ९।।
श्राद्धं दद्यात् सदा तोयं दद्याद्वै पितृदैवतः ।
माता पिता गुरुर्भार्या शिष्यः पुत्रः स्वसा सुता ।।1.530.४०।।
अनाथा पितृवंशीया नित्यं पोष्या गुरुप्रिया ।
तासां वै पोषणात् कृष्णश्चान्तरात्मा प्रसीदति ।। ४१ ।।
सर्वं कृष्णस्य यत्किञ्चिन्नाहं कर्ताऽस्मि कर्मणाम् ।
कर्मणा मनसा वाचा सततं चिन्तयेत्तथा ।।४२।।
सर्वार्पणं भवेत् कर्म पूर्वकर्मनिकृन्तनम् ।
भक्ष्याऽभक्ष्यं विचार्यैव कर्तव्यं कर्मकृन्तनम् ।।४३।।
अयस्पात्रे पयःपानं गव्यं सिद्धान्नमित्यपि ।
भ्राष्ट्रादिकं गुडं मधु नालिकेरोदकं तथा ।।४४।।
फलं मूलं च यत्किञ्चिदयःपात्रे न भक्षयेत् ।
दग्धान्नं चातितप्तं चोच्छिष्टं पर्युषितं तथा ।।४५।।
मादकं जीवहिंसोत्थमभक्ष्यं च परस्य यत् ।
नालिकेरोदकं कांस्ये ताम्रपात्रे स्थितं मधु ।।४६।।
गव्यं च ताम्रपात्रस्थं सर्वे मद्यं विना घृतम् ।
दुग्धं सलवणं मधुमिश्रं तैलं गुडं घृतम् ।।४७।।
पीतशेषजलं माघे मूलकं भाद्रके दधि ।
हस्ताद्धस्तगृहीतानि रसानि नैव भक्षयेत् ।।४८।।
कर्पूरं रौप्यपात्रस्थं भ्रष्टस्पृष्टं न भक्षयेत्। ।।
हिंस्रकीनां सूकरीणां चमरीणां वनौकसाम् ।। ४ ९।।
हरिणीनां वानरीणां भल्लुकीनां पयस्तथा ।
वाजिन्युष्ट्रीकरेणूनां खरीणां गवयीभवम् ।।1.530.५०।।
गेण्डीनां चित्रकीनां च दुग्धादि नैव भक्षयेत् ।
अगालितं पयो वारि तक्रं तैलं घृतादिकम् ।।५१ ।।
अनिवेद्यं हरेश्चापि सर्वमभक्ष्यमेव यत् ।
पिपीलिकामिश्रितं च मधु गव्यं गुडं रसम् ।।५२।।।
पक्षिभक्ष्यं कीटभक्ष्यं शुद्धं पक्वफलादिकम् ।
काकभक्ष्यमभक्ष्यं च सर्वेषां द्रव्यमित्यपि ।।५३।।
घृतपक्वं तैलपक्वं पक्वं केवलवह्निना ।
सूर्यपक्वं कालपक्वं भक्ष्यं शुद्धं भवेद् यदि ।।५४।।
सर्वेषामशुचीनां च जलमन्नं परित्यजेत् ।
अभक्ष्यभक्षणे शुद्धिं कुर्यात् कृष्णजपं व्रतम् ।।५५।।
शुभाऽशुभं तु यत्कर्म विना भोगं क्षयोऽस्य न ।
न नष्टं दुष्कृतं क्वापि जायते सुकृतेन वै ।।५६ ।।
न नश्यति सुकृतं च दुष्टकृतेनापि कर्मणा ।
किन्तु पुण्येन पापस्य बलं क्षीणं प्रजायते ।।५७।।
उत्पद्यते बलात् पुण्यं पापं क्वचित् परस्परम् ।
श्रीकृष्णार्पणभावे तु नवं भोग्यं न जायते ।।।५८।।।
स्वर्गं तु सुकृतेनैव निरयो दुष्टकृतेन च ।
कर्मणा नहि मोक्षश्च स तु स्यान्मम सेवया ।।५९।।
ज्ञानाग्नौ हवनं यस्य कर्मणस्तत्तु भस्मसात् ।
मयि वा हवनं यस्य तत्तु मोक्षफलं ददेत् ।।1.530.६०।।
शृणु पापेन लोकानां यथा जन्म प्रजायते ।
याम्यदण्डोत्तरं जन्म जायते कथयामि तत् ।।६ १ ।।
गोघ्नः स्याद् दन्दशूकश्च गौश्च चाण्डाल इत्यपि ।
ब्रह्मघ्नो विटकृमिर्भूत्वा म्लेच्छश्चान्धो भवेतत्तः ।।६२।।
स्त्रीघ्नः स्याद् यक्ष्मणा ग्रस्तः श्वा दरिद्रश्च सर्वथा ।
गर्भघ्नः श्वा भवेत्पश्चाद् घोटकश्च भवेत्तथा ।।६३।।
नरघ्नश्च गजेन्द्रः स्यात् ततो भवेत् किरातकः ।
कुक्कुटः कुक्कुरः स्यान्मार्जारघ्नो विडालकः ।।६४।।
सर्पहा च भवेत् सर्पो हस्ती च घोटकोऽपि च ।
क्षुद्रजन्तुवधकर्ता क्षुद्रजन्तुः प्रजायते ।।६५।।
अश्वत्थघ्नः शाल्मलिः स्यात् ततः शूद्रो भवेत् पुनः ।
मिथ्यासाक्ष्यप्रदाता च कृतघ्नोऽतिकृतघ्नकः ।।६६।।
विश्वासघाती मित्रघ्नो भवेद् गृध्रः पुनः पुनः ।
सूकरः श्वापदो भूत्वा ततः शूद्रः प्रजायते ।।६७।।
वस्त्रहारी गव्यहारी रौप्यमुक्तापहारकः ।
बको भूत्वा शूद्रजातिस्ततः कुष्ठी भवेदिति ।।६८।।
कोशहारी फलहारी द्रव्यहारी तु यक्षकः ।
भूत्वा तु चाषपक्षी स्यात्ततः शूद्रो भवेदिति ।।६९।।
पक्वद्रव्यापहारी च कस्तूरीमृगजन्मभाक् ।
धान्यहर्ता कृपणः स्यात् स्वर्णहर्ता तु कुष्ठवान् ।।1.530.७०।।
क्रोधी मृतः खरो मंकोडकः सर्पश्च वायसः ।
लौहचौरस्तु निर्वंशो मषीचौरस्तु कोकिलः ।।७१ ।।
शुकोऽप्यञ्जनचौरस्तु मिष्टचौरः कृमिर्भवेत् ।
विप्रद्वेषी गुरुद्वेषी शिरसां स कृमिर्भवेत् ।।७२।।
रक्तद्रव्यापहारी च रक्तदोषान्वितो भवेत् ।
आचारहीनो म्लेच्छः स्यात् खञ्जो भवति हिंसकः ।।७३ ।।
अहंकारी कर्णहीनो बधिरः शास्त्रनिन्दकः ।
वाक्यहर्ता तु मूकः स्यात् हिंसकः केशवर्जितः ।।७४।।
मिथ्यावादी श्मश्रुहीनो दुर्वाक्यो दन्तहीनकः ।
जिह्वाहीनः सत्यहारी ग्रन्थचौरो जडो भवेत् ।।७५।।
अश्वग्राही त्वश्वचौरः पुनश्चाश्वः प्रजायते ।
ततो वै घोटकः क्षुद्रो गजचौरो गजो भवेत् ।।७६।।
छागचौरो भवेच्छागो दानहा म्लेच्छ एव च ।
एकाकी मिष्टभोक्ता स्यान्मक्षिका च पिपीलिका ।।७७।।
तैलचौरस्तैलकारो रसचौरो हरिद्रकः ।
असदोषधदाता च व्यालग्राही भवेज्जनः ।।७८।।
पुंश्चली स्याद् गोधिका च शृगाली भल्लुकी तथा ।
तडागहा नक्रजातिः कच्छपो मत्स्यको भवेत् ।।७९।।
चित्रवस्त्रापहारस्तु मयूरः स्याद् वनादिषु ।
तेजःपात्रापहारी च भवेत् कारण्डवश्चिरम् ।।1.530.८०।।
सुराणां प्रतिमाचौरश्चान्धः स्याद्वै पुनः पुनः ।
पितृदेवार्चनहन्ता शृगालः शवभुग् भवेत् ।।८१ ।।
गुरुद्वेषी दरिद्रः स्याद् देवद्रोही च दांभिकः ।
दीपनिर्वाणकर्ता तु खद्योतः स्याद्वने वने ।।।८२।।
गोणीहर्ता कपोतः स्यान्मालाहर्ता विहंगमः ।
चरको धान्यचौरः स्यान्मांसचौरश्च कुंजरः ।।८३।।
विदुषां दुखदः स्यात्तु मण्डुको वै पुनः पुनः ।
काव्यद्वेषी नकुलः स्यात् कृकलासस्ततः परम् ।।८४।।
कन्याविक्रयकारी च व्याधः स्याद्वै पुनः पुनः ।
धर्महीनः पशुः स्याच्च तैलकारस्ततः परम् ।।८५।।
मिथ्याकलंकवक्ता च रजको मूक इत्यपि ।
अभिचारप्रकर्ता स्याद् हिंसकः प्रेत इत्यपि ।।८६।।
मिथ्यावक्ता च दैवज्ञो वानरो भाण्ड इत्यपि ।
इत्येवं कथितं लक्ष्मि! मुख्यं विपाकजं फलम् ।।८७।।
यस्य रागश्चेष्टभोगे द्वेषोऽस्ति विपरीतके ।
तस्य जन्म भवेत् कर्म पुनः पुनर्विपाकजम् ।।८८।।
रागद्वेषौ गतौ यस्य बुद्धिर्यस्य न लिप्यते ।
धर्माधर्मपरित्यागी कर्मणा नहि बध्यते ।।८९।।
नेन्द्रियाणि प्रवर्तन्ते मत्वा स्वविषयान् प्रति ।
आत्मन्येवाऽर्पणकर्ता बध्यते नहि कर्मभिः ।।1.530.९०।।
नार्यहं वा नरोऽहं वेत्येवं यो नाभिमन्यते ।
आत्मभावे सदा मग्नस्तस्य कर्म न लिप्यते ।।९१ ।।
दुःखं सुखं सुखं दुःखं द्वे यस्य समतां गते ।
परस्वभावनालोपस्तस्य कर्म न लिप्यते ।।९२।।
ब्रह्मरूपः स्वयं भूत्वा कुर्वन् ब्रह्मार्थमेव चेत् ।
प्रवृत्तो वर्तते मय्यच्युते मुक्तिं गतो भवेत् ।।९३।।
इत्येवं कथितं लक्ष्मि! कर्मनिर्बन्धनं मया ।
पठनाच्छ्रवणाच्चास्य कर्मनिकृन्तनं भवेत् ।।९४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मनुष्यस्य कर्तव्यं, व्याधकन्यामिषेण हरेरनैवेद्यभोजिनां व्याधत्वम्, अभक्ष्यनिर्देशः पापफलात्मककर्मविपाकजन्मादिदर्शनं चेत्यादिनिरूपणनामा त्रिंशदधिकपञ्चशततमोऽध्यायः ।।५३ ०।।