लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५२०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५१९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५२०
[[लेखकः :|]]
अध्यायः ५२१ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कच्छपः सः प्रोवाच प्राग्भवं स्वकम् ।
इन्द्रद्युम्नमहाराज! शृणु दृष्टं मया तु यत् ।। १ ।।
अहं वैकुण्ठधामस्थो नारायणस्य पार्षदः ।
वसुहारीतनामाऽसं चतुर्बाहुर्मनोहरः ।। २ ।।
सुवर्णवाटिकायां तु नित्यायां वै सरोवरे ।
नित्यं कमलपुष्पाणि समाहर्तुं नियोजितः ।। ३ ।।
लक्ष्म्या माला कृता नित्यमर्प्यते श्रीहरेर्गले ।
मया त्वानीय पुष्पाणि दीयते नित्यदा श्रियै ।। ४ ।।
एकदा स्नानमग्नोऽहं विचिन्वन् कमलानि तु ।
सुचिरं कृतवाँस्तत्र सरस्येवाऽऽप्लवं रतः ।। ५ ।।
मालायाः समयस्तत्र व्यतीतश्च ततः परम् ।
लक्ष्मीः स्वयं समागत्य प्राह मां किं करोषि रे ।।६।।
चिरायते तु पूजायां जले मग्नोऽसि दुर्मते ।
जले एव सदा तिष्ठ न मे तेऽस्ति प्रयोजनम् ।। ७ ।।
करोषि तरणं कूर्मसमं कूर्मः सदा भव ।
इत्युक्तः कूर्मतां प्राप्तो वैकुण्ठस्य सरोवरे ।। ८ ।।
सृष्टौ तु जायमानायां गंगा सत्ये समागता ।
तस्माद्वै ब्रह्मसरसस्तेनाऽहं च समागतः ।। ९ ।।
ततोऽन्यपार्षदस्तत्र कमलार्थे च योजितः ।
नाम्ना त्वनन्तशीलः सः कदाचिद् जलमध्यगः ।। 1.520.१ ०।।
प्रसर्पन् सत्यलोकं वै जलेन सह चागतः ।
ब्रह्मणा स विष्णुरूपौ मत्वा संपूजितो मुदा ।।१ १ ।।
अनन्तशीलस्तत्राऽऽह प्रसन्नोऽस्मि वरं वृणु ।
ब्रह्मा प्राह मया यावद्ब्रह्माण्डानां तु कोटयः ।। १२।।
क्रियन्ते सर्षपतुल्यास्तान् सदा धारय प्रभो ।
तथास्त्विति तदा प्राह किन्तु मे देहि वेदिकाम् ।। १ ३।।
यत्र स्थित्वा धारयामि स्थिरो ब्रह्माण्डमण्डलम् ।
सत्यलोके च गंगायां तदा चाहं ह्युपस्थितः ।। १४।।
आसं तत्रैव गंगायां ब्रह्मा प्राह च मां तदा ।
कच्छप! त्वं वहाऽनन्तं ह्यभीष्टं करवाणि ते ।। १५।।
मयोक्तं च यथा लक्ष्मीनारायणस्य दासता ।
भवेन्मे तु तथा ब्रह्मन् कुरु तत्पार्षदोऽस्म्यहम् ।। १६।।
वेधास्तथाऽस्त्विति प्राह मया शेषश्च संधृतः ।
अनन्ताख्यो मम पृष्ठेऽनन्तेन च फणोपरि ।।१७।।
ब्रह्माण्डानि धृतान्येव जायन्ते विरमन्ति च ।
ब्रह्मणा तु तपस्तप्तं मम लाभस्य सिद्धये ।। १८।।
नारायणस्य दास्यस्य प्राप्त्यर्थं श्रीहरिस्तदा ।
ब्रह्माणं च समागत्य वर्षान्ते प्राह सन्मुखः ।। १ ९।।
वरं वरय भद्रं ते कथं स्मृतोऽस्मि मे वद ।
ब्रह्मा प्राह हरे कृष्णनारायण जगत्प्रभो ।।1.520.२०।।
पार्षदस्ते मया प्राप्तो वसुहारीतसंज्ञकः ।
लक्ष्मीशापेन कमठस्वरूपं लब्धवाँस्तु यः ।। २१ ।।
मया सम्प्रार्थितोऽनन्तस्तव श्रेष्ठः सुपार्षदः ।
ब्रह्माण्डानां धारणार्थं तेनाऽर्थितं शुभासनम् ।।२२।।
तदा स कमठः सम्यगाधारो वै मयाऽर्पितः ।
अनन्ताय च कमठो वव्रे नारायणाश्रयम् ।।२३।।
दास्यं यथा भवेत् तस्माद् देहि दास्यं च भक्तयोः ।
पार्षदयोरुभयोस्त्वं कृपां कुरु तथा प्रभो ।।२४।।
नारायणस्तदा प्राह तथाऽस्त्विति पुनः पुनः ।
अन्धकाद्यसुरव्रातान्नाशयित्वा क्षणान्तरे ।।२५।।
परिश्रमविनाशार्थॆ क्षीरोदे सागरे तदा ।
शेषस्य गेन्दुकं कृत्वा कच्छपस्य तु पृष्ठके ।।२६।।
शयिष्ये तत्र मे दास्यं कच्छपाऽनन्तयोः सदा ।
दास्ये चेति वरं दत्वा नारायणस्तिरोऽभवत् ।।२७।।
आगतः श्रीहरिस्तत्र लक्ष्मीं नीत्वा पयोदधौ ।
यत्राऽऽहं कच्छपो नित्यं प्रतिष्ठामि महाजले ।।२८।।
शेषोऽनन्तो मम पृष्ठे पर्यंकगेन्दुकोऽभवत् ।
तत्र शेते जगन्नाथः कृष्णनारायणो हरिः ।।२९।।
दास्यं द्वाभ्यां तत्र लब्धं नित्यं श्रीहरिपादयोः ।
ब्रह्मणां तु शते नष्टे त्वेकदा लोमशो मुनिः ।।1.520.३०।।
क्षीरोदे श्रीकृष्णनारायणस्य दर्शनाय वै ।
समागतो मया दृष्टः पृष्टश्च कुशलं प्रति ।।२ १ ।।
गृहादिकं सुखं चास्ते प्रत्युत्तरं जगाद सः ।
ब्रह्मणां दशकं नष्टं सन्निधौ मम कच्छप ।।३२।।
ब्रह्मणां तु शते नष्टे मरिष्यामि क्षणान्तरे ।
स्वल्पायुश्च कथं कुर्याद् गृहं यन्नश्वरं क्षणात् ।।३३।।
ततोऽहं मुनिना सार्धम् आज्ञया श्रीहरेस्तथा ।
रूपं द्वितीयं धृत्यैव स्वल्पं वै शतयोजनम् ।।३४।।
तीर्थयात्राकृतेऽगच्छं ब्रह्माण्डान्तःप्रवीक्षितुम् ।
सोऽहं लोमशमुनिना सार्धं पातालभूमितः ।।३५।।
उपर्युपरि चाऽगच्छं तथा तथैव वायुना ।
देह मे तु स्वभावेन परं संकोचतां गतम् ।।३६।।
पृथ्व्यां कृष्णमणिजन्ये सौराष्ट्रे त्वश्वपट्टके ।
व्याघ्रारण्यान्तरे श्रेष्ठे मिष्टोदे वै सरोवरे ।।३७।।
पञ्चयोजनकाऽऽयामे लोमशस्याऽऽश्रमे तटे ।
पूर्वस्मिन् रैवताद्भागे विश्रान्तिं चाऽलभं क्षणम् ।।३८।।
तत्र कुंकुमवाप्यां च कम्भराकृष्णमन्दिरे ।
पत्नीव्रतो ब्राह्मणश्च कृष्णांशो वर्तते सदा ।।३९।।
श्रीः स्वयं कम्भरालक्ष्मीः कृष्णो गोपालकृष्णकः ।
कृष्णनारायणो यत्र मन्दिरे वर्तते सदा ।।1.520.४०।।
एकादश तथा रुद्रा अष्टौ च वसवस्तथा ।
आदित्या द्वादश चापि देववैद्यौ च सर्वदा ।।४१ ।।
त्रयस्त्रिंशच्च ते देवाः कल्पे कल्पे नवा नवाः ।
नित्यं तिष्ठन्ति यद्द्वारे तत्र तीर्थोत्तमे शुभे ।।।४२।।।
पत्नीव्रतो महाविष्णुसमायुर्वीक्षितो मया ।
लोमशेनाऽर्चितो विप्रो मयापि त्वर्चितस्तदा ।।४३।।
ब्रह्मणां कोटयो यस्य सन्निधौ लीनतां गताः ।
यस्य वंशाश्चतुर्दशलोकेषु ब्राह्मणा मताः ।।४४।।
सृष्ट्यन्तरेऽपि तस्यैव वंशास्ते ब्राह्मणाः सदा ।
तस्याऽहं दर्शनं कृत्वा न्यवसं लोमशाश्रमम् ।।४५।।
तदासीन्नृपतिरिन्द्रद्युम्नोऽत्र भूतले महान् ।
सप्तद्वीपसमुद्राणां पृथ्वीनां सार्वभौमकः ।।४६।।
रोचकायां राजधान्यां रैवताचलसन्निधौ ।
पूर्वस्यां वै दिशि व्याघ्रारण्यभूमौ बभूव सः ।।४७।।
द्वितीया राजधान्यस्य महाकालवनेऽभवत् ।
तृतीयाऽऽसीत् तथा श्रीमत्पुरुषोत्तमपूर्गता ।।४८।।
वेधसो वर्तमानस्य चत्वारिंशत्समासु च ।
गतासु भूतले ह्यासीदिन्द्रद्युम्नो महीपतिः ।।४९।।
स च दृष्ट्वा स्वके तीर्थे त्वश्वपट्टसरोवरे ।
कच्छपं मां महाकायं योजनाऽर्धसुवर्तुलम् ।।1.520.५०।।
लोमशस्याऽधीनकं च मत्वा ज्ञात्वा ऋतुक्षमम् ।
वव्रे राजा लोमशान्मां यज्ञपीठार्थमुत्तमम् ।।५१ ।।
लोमशेन तथास्त्वेव कृत्वा दत्तोऽहमेव यत् ।
मम पृष्ठो भूभृता ३ बहुवर्षाणि सन्ततम् ।।।२।।
अनेन तु कृता यज्ञा लोमशेन प्रकारिताः ।
ततः पृष्ठं मम दग्धं मया संप्रार्थितो मुनिः ।।५३।।
लोमशः सुदयालुर्मा प्राह गच्छतु मानसम् ।
सरो हिमगिरेः प्रान्ते ततोऽहं त्वत्र चागतः ।।५४।।
अत्र वै ब्रह्मणो वर्षपञ्चकं मे गतं भवम् ।
कल्पास्तु ब्रह्मणो मेऽत्र गतानि तानि वै शृणु ।।५५।।
अष्टादशसहस्राणि तथा च पञ्चविंशतिः ।
मानसेऽत्र गताः कल्पास्तान् स्मरामि यथातथम् ।।५६।।
द्वितीयेन स्वरूपेण चात्र तिष्ठामि सर्वदा ।
पृष्ठं मे निरुजं सम्यग् जातं हिमाद्रिसंश्रयात् ।।५७।।
लोमशर्षिर्गुरुर्मेऽस्ति गच्छ तत्राश्रमं शुभम् ।
राजँस्त्वं प्रथमं याहि पुरुषोत्तमसत्पुरीम् ।।५८।।
यत्र त्वया जगन्नाथः स्वहस्तेन पुराऽऽहितः ।
ततो याहि महाकालवनं यत्र तव गृहम् ।।५९।।
ततो याहि सुराष्ट्रं यत्राऽश्वपट्टसरोवरम् ।
कुंकुमवापिका यत्र लोमशो वर्तते मुनिः ।।1.520.६ ०।।
यत्र वै श्रीकृष्णनारायणो लक्ष्मीपतिः स्वयम् ।
पार्वतीमाणिकीराधाप्रभास्वामी पुमुत्तमः ।।६१ ।।
साप्तभौमे महासौधे दिव्ये संराजते हरिः ।
गच्छ राजंस्तत्र सेवां कृत्वा याहि ततः परम् ।।६२।।
सत्यलोकं कल्पकालं पुनर्द्रक्ष्यसि मां ततः ।
एभिर्वै मुनिभिः सार्धं यशस्तेऽव्याहतं भुवि ।।६३।।
श्रुत्वा यास्यसि सत्यं तत्कल्पं प्रति ध्रुवम् ।
कच्छपस्य हितं मिष्टं वाक्यं संगृह्य ते ततः ।।६४।।
निवृत्ताश्च ततः स्थानात् स्वस्वस्थानि भेजिरे ।
इन्द्रद्युम्नः समायातो लोमशं प्रति तत्क्रमात् ।।६५।।
यस्य वै पार्श्वतो दिक्षु चतुर्योजनभूतले ।
माया नास्ति न वै रागद्वेषौ कुतस्तु वासना ।।६६।।
ब्रह्मरूपाश्रमं प्राप्य राजा तृप्तोऽभवत्तदा ।
लोमशस्य मुखात् सर्वं श्रुत्वा कृष्णनरायणम् ।।६७।।
सम्पूज्य कम्भरालक्ष्मीं श्रीमद्गोपालकृष्णकम् ।
त्रयस्त्रिंशत्सुराँश्चाप्याज्ञयोवास स वत्सरम् ।।६८।।
शुश्राव सत्कथास्तत्र लोमशस्य मुखाम्बुजात् ।
लक्ष्मीनारायणसंहिताया नित्यं नवा नवाः ।।६९।।
तत्र शुश्राव च यज्ञान् स्वकृतान् लोमशाननात् ।
तथा श्रीमज्जगन्नाथप्रतिष्ठां स्वकृतां शुभाम् ।।1.520.७०।।
तथा सर्वत्र सत्राणि त्वन्नानां भोजनानि च ।
दानानि गजगोवाजिहिरण्यरत्नयोषिताम् ।।७१ ।।
पृथिव्यां सन्ति यावन्ति वस्तूनि तावतामपि ।
दानानि जपपूजादि श्रुतवाँश्च गुरोर्मुखात् ।।७२।।
ज्ञानं चात्मप्रदं स्वर्गप्रदं मोक्षप्रदं तथा ।
लोमशस्य मुखात् सर्वं लब्धवाँश्चात्मदर्शनम् ।।७३।।
लोमशेन श्रुतं यच्छ्रीकृष्णनारायणाननात् ।
शृणु लक्ष्मि! प्रवक्ष्यामि तेऽहं भक्तौपयौगिकम् ।।७४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मानससरोवरस्थेन कच्छपेन स्वस्य शेषस्य च विष्णोः पार्षदत्वं कथितं, ततः कुंकुमवापीक्षेत्रे लोमशाश्रमेऽश्वपट्टसरोवरे वासः, आयुः, इन्द्रद्युम्नयज्ञाश्चेत्यादिवृत्तान्तकथननामा विंशत्यधिकपञ्चशततमोऽध्यायः ।। ५२० ।।