लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५१९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५१८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५१९
[[लेखकः :|]]
अध्यायः ५२० →

श्रीनारायण उवाच-
शृणु लक्ष्मि च राजानो देवा दैत्यस्तथाऽपरे ।
मायामोहं समालभ्य रमन्ते प्राणदेवने ।। १ ।।
गन्तव्यं त्वस्ति सर्वेषां पञ्चत्वे पञ्चवर्जितः ।
स्वयं त्वन्यत्र पञ्चत्वे पञ्चैकत्वं प्रयाति च ।। २ ।।
नहि माया गता कैश्चिदात्मभिः सह नश्वरी ।
अर्बुदाऽर्बुदवर्षायुर्जीविभिरपि कर्हिचित् ।। ३ ।।
शृणु राजा पुरा त्वासीदिन्द्रद्युम्न इति श्रुतः ।
ब्रह्मण्यश्च शरण्यश्च साधुलोकप्रपालकः ।। ४ ।।
यज्वा दानपतिर्दक्षः सर्वभूतहिते रतः ।
न दुर्भिक्षं न च व्याधिर्न च चौरकृतं भयम् ।। ५ ।।
न न्यूनता प्रजायां वै भोग्यद्रव्यस्य कस्यचित् ।
असंख्याताः क्रतवश्च कृताः सम्पूर्णदक्षिणाः ।। ६ ।।
अग्निष्टोमोऽतिरात्रश्च उक्थः षोडशिकस्तथा ।
सौत्रामण्यथ पशुजश्चातुर्मास्यं व्रतक्रतुः ।। ७ ।।
वाजपेयोऽश्वमेधश्च राजसूयश्च सोमपः ।
पुण्डरीकश्च पुत्रेष्टिः सस्येष्टिः रुद्रवैष्णवौ ।। ८ ।।
कारीरिर्वैश्वदेवश्चेत्याद्यान् यज्ञांश्चकार सः ।
न तदस्ति धरापृष्ठे नगरं पत्तनं च वा ।। ९ ।।
तीर्थं शाला वनं वापी यत्र सत्रं न तस्य वै ।
सर्वत्रैवेन्द्रद्युम्नस्यान्नानि भुज्यन्त ईश्वरैः ।। 1.519.१० ।।
देवाः ऋषयो भृत्याश्च विद्यार्थिनश्च भूसुराः ।
यतयः साधवः साध्व्यः सांख्ययोगिन्य इत्यपि ।। १ १।।
ब्रह्मचारी वानप्रस्थः सन्न्यासी त्यागवानपि ।
अनाथो दीन इत्याद्या भुंजते तस्य सत्रके ।। १ २।।
तीर्थं न विद्यते तादृग् यत्र तस्य न देवलम् ।
तेन कन्याऽर्बुदाऽयुतानां दानमुत्तमम् ।। १३।।
कृतं प्रकारितं चापि सदा सन्तः सुपूजिताः ।
दशमीदिवसे तस्य राज्ये वै गजपृष्ठगः ।। १४।।
दुन्दुभिस्ताड्यमानस्तु बभ्राम सकलं पुरम् ।
उज्जयिन्यां च वै प्रातर्भावी श्रीहरिवासरः ।। १५।।
तेनैव स्वशरीरेण ब्रह्मलोकं स्वयं गतः ।
ततः कल्पसहस्रान्ते स प्रोक्तो ब्रह्मणा स्वयम् ।। १६।।
इन्द्रद्युम्न! धरां याहि न स्थातव्यं त्वयाऽत्र वै ।
तव कीर्तिसमुच्छेदः संजातोऽद्य धरातले ।। १७।।
यावत्कीर्तिर्धरापृष्ठे तावत्स्वर्गे वसेन्नरः ।
एतस्मात्कारणाल्लोकाः कुर्वन्ति नामलेखनम् ।। १८।।
वापीकूपतडागादौ देवतायतनादिषु ।
गच्छ शीघ्रं धरापृष्ठं स्वां कीर्तिं नूतनीकुरु ।। १ ९।।
कीर्तौ सत्यां मम सत्ये द्रष्टा त्वं भविताऽसि वै ।
ततः सः प्रययौ पृथ्वीं काम्पिल्यनगरं प्रति ।।1.519.२०।।
अथ पप्रच्छ देशः को नगरं किं जनान् तदा ।
ऊचुस्तेऽयं प्रदेशोऽस्ति त्वानर्तो नगरं तु वै ।।२१ ।।
काम्पिल्यं को भवानत्राऽपरिज्ञाता प्रवर्तते ।
राजा प्राह पुरा चाऽहमिन्द्रद्युम्नो महीपतिः ।।२२।।
देशे वेजहके रोचकाख्ये वै नगरेऽधिपः ।
स देशः क्व पुरं क्वाऽऽस्ते मया स्थेयं च तत्र वै ।।२३।।
जनाः प्राहुर्न विद्मस्तं नृपं देशं च पत्तनम् ।
राजा प्राह चिरायुष्कं प्रदर्शयत मां जनाः ।।२४।।
यदि कश्चिद्भवेदत्र यस्तं वेत्ति महीपतिम् ।
जनाः प्राहुर्दशकल्पजीवी संश्रयूते मुनिः ।।२५।।
नैमिषारण्यके पृच्छ मार्कंडेयो वदिष्यति ।
राजा गत्वा व्योमपथा पप्रच्छ तं मुनीश्वरम् ।।२६।।
इन्द्रद्युम्नेति भूपोऽत्र त्वया दृष्टः श्रुतोऽथवा ।
मुनिः प्राह मया नैव दृष्टो वापि श्रुतोऽपि वा ।।२७।।
तस्य तद्वचनं श्रुत्वा राजा नैराश्यमाप्तवान् ।
मुनिः प्राह मया साकं समागच्छ हिमाचलम् ।।२८।।
तत्रास्ते च बको नाम ऋषिर्मत्तः पुरातनः ।
इति तौ व्योममार्गेण गत्वा पप्रच्छतुर्नतौ ।।२९।।
इन्द्रद्युम्नमहीपालस्त्वया दृष्टः श्रुतोऽपि किम् ।
बकः प्राह मम कालो विंशतिकल्पको गतः ।।1.519.३०।।
समये तत्र तत्पूर्वं नैव वेद्मि हि तं नृपम् ।
इन्द्रद्युम्नो बकं प्राह चिरायुष्ट्वं कथं तव ।।३१।।
बकः प्राह पुरा विश्वरूपोऽहमभवं द्विजः ।
कस्यचित्त्वथ कालस्य संक्रान्तौ मकरस्य वै ।।३२।।
कृष्णनारायणः पञ्चामृतेन स्नापितो मया ।
शंकरः स्नापितस्तत्र हरेः प्रसादवारिणा ।।३३।।
ततोऽहं राजपुत्रत्वं प्राप्तः पश्चिमभूतले ।
जातिस्मरः सदा पञ्चामृतैः कृष्णनरायणम् ।।३४।।
शिवं च पूजयाम्येवं प्रातर्वर्षसहस्रकम् ।
तेन पुण्यप्रभावेण जातोऽहं वै चिरस्थिरः ।।३५।।
कैलासे शंभुदास्यं चाऽकरवं वै ततः परम् ।
गालवस्याऽऽश्रमे गत्वा विद्याध्ययनमाचरम् ।।३६।।
तस्य पत्नी ऋतुस्नाता मया स्पृष्टा विकारतः ।
सा तु शशाप मां धूर्त बकोऽरण्यगतो भव ।।३७।।
तेनाऽहं बकरूपोऽस्मि ऋषिः कामस्वरूपधृक् ।
वर्ताम्यत्र महारण्ये बकाकारः सदा शुचिः ।।३८।।
जातिस्मरः सदा त्वत्र भजामि श्रीहरिं बकः ।
मार्कंडेयस्तु तं प्राह वेत्सि त्वत्तोऽपि पूर्वजम् ।।३९।।
यदि कंचिद् दर्शयस्व येन पृच्छामि तं च तत् ।
बकः प्राह समायाहि मत्तश्चापि पुरातनः ।।1.519.४०।।
यत्रास्ति दयितो मेऽति ह्युलूकर्षिश्चिरस्थिरः ।
त्रयस्ते च गतास्तत्र कैलासे शिखरे हि मे ।।४१ ।।
सोपि दृष्ट्वा बकं मित्रं स्वागतेनाऽभ्यनन्दयत् ।
बकः पप्रच्छ चोलूकम् इन्द्रद्युम्ननृपं प्रति ।।४२।।
वद जानासि चेन्मित्र! कदा जातः स भूपतिः ।
उलूकः प्राह मे कल्पाश्चत्वारिंशत्प्रसंख्यकाः ।।४३।।
व्यतीता न श्रुतो दृष्टस्त्विन्द्रद्युम्नो महीपतिः ।
इन्द्रद्युम्नस्तु तं प्राहोलूकता वै कथं तव ।।४४।।
उलूकः स्वकथामाह पुराऽऽसं ब्राह्मणो भुवि ।
ब्रह्मचारी हरभक्तो बिल्वपत्रैः प्रपूजकः ।।४५।।
ततो वर्षसहस्रान्ते ददौ स्वदर्शनं हरः ।
ददौ मे वैष्णवं मन्त्रं कृष्णनारायणेति च ।।४६।।
शंभुरदृश्यतां प्राप्तश्चाऽहं भार्गवसन्निधौ ।
आश्रमं तस्य संप्राप्तो विरूपोऽपि शुभाश्रयम् ।।४७।।
भार्गवस्याऽभवत्पत्नी नाम्ना सुदर्शना सती ।
गालवकन्यका सा च पातिव्रत्यपरायणा ।।४८।।
तस्यां त्वासीद् भार्गवस्य कन्यैका युवती शुभा ।
सा मया याचिता चाथ विवाहितापि वै ततः ।।४९।।
विरूपं मां सदा मत्वा कन्यका प्राह मातरम् ।
विरूपाय प्रदत्ताऽस्मि नाऽहं जीवितुमुत्सहे ।।1.519.५०।।
विषं वा भक्षयिष्यामि प्रवेक्ष्यामि हुताशनम् ।
अथ तां भार्गवः प्राह यस्मै दत्ता स्थिरा भव ।।५१।।
वेदधर्मः स एवाऽस्ति पतिं नारायणं स्मरेत् ।
संसेव्य स्वपतिं त्वं वै भविष्यसि दिवंगता ।।५२।।
अतः सेवस्व तं नाथं कुरु जन्म फलान्वितम् ।
इत्येवं शिक्षिता साऽपि नैव मेने हितं ततः ।।५३।।
न मां वै सेवते रात्रौ ततो मया प्रसह्य सा ।
अर्धरात्रे हृता तस्याः पितुर्गृहान्ममाश्रमम् ।।५४।।
प्रातर्विप्रो जजागार पिता तस्यास्तथा प्रसूः ।
क्वाऽसौ सा दुहितेत्येवं बभ्रमतुर्ममाश्रमम् ।।५५।।
आगत्यैनां ददृशतुः सापि रुरोद वीक्ष्य तौ ।
ततः कोपपरीतात्मा मां प्रोवाच स भार्गवः ।।५६।।
निशायां तु त्वया पत्नी मम पुत्री हृता यतः ।
निशाचरो भवानस्तु उलूकश्चेति शापतः ।।५७।।
उलूकोऽस्मि हि सञ्जातो जातिस्मरश्च सर्वदा ।
कामरूपधरश्चास्मि वर्तामि चाऽत्र पर्वते ।।५८।।
पत्नी मे स्वपितुर्हर्म्ये स्थिता नारायणाश्रिता ।
ययौ श्रीमत्कृष्णनारायणदास्यप्रदं पदम् ।।५९।।
एवं मे कौशिकत्वं वै सञ्जातं चात्र पर्वते ।
अखण्डबिल्वपत्रैस्तु पूजनस्य फलं परम् ।।1.519.६०।।
चिरायुष्ट्वं तु मे दिव्यरूपधारित्वमित्यपि ।
बकः प्राहेतरं कंचिच् चेज्जानासि चिरायुषम् ।।६ १ ।।
वद तत्र प्रगच्छामः पृच्छामस्तं नृपं प्रति ।
उलूकः प्राह तु मया सार्धमागच्छताऽत्र वै ।।६२।।
गन्धमादनशिखरे गृध्रर्षिर्वर्तते महान् ।
चिरन्तनो यदि तं च नृपं ज्ञास्यति पूर्वजम् ।।६ ३ ।।
इत्युक्त्वा तान् समादायोलूको गृध्रं समाययौ ।
गृध्रर्षिस्ताँस्तथा दृष्ट्वा प्रहृष्टः सम्मुखं ययौ ।।६४।।
स्वागतं कृतवाँश्चापि पृष्ठवाँश्चाश्रमे ऋतम् ।
उलूकः प्राह मे मित्रं नाडीजंघो बको ह्ययम् ।।६५।।
यस्य मित्रं तु मार्कण्डस्तस्याऽयं नृपतिः सुहृत् ।
अयं चात्राऽऽगतः प्रष्टुं पुरेन्द्रद्युम्नभूपतिः ।।६६ ।।
आसीत्कश्चिन्नवेत्येवं वेत्तुं चास्ति समागतः ।
गृध्रः प्राह तु मे कल्पा अशीतिः प्रययुः खलु ।।६७।।
न दृष्टो न श्रुतः कोऽपि क्वाऽपीन्द्रद्युम्नभूपतिः ।
तस्य तद्वचनं श्रुत्वा सोऽपि राजा सुदुर्मनाः ।।६८।।
मनसा चिन्तयामास मरणे कृतनिश्चयः ।
पप्रच्छ गृध्रं जातोऽसि चिरायुस्त्वं कथं वद ।।६९।।
गृध्रः प्राह पुरा चैत्यवृक्षेऽहं न्यवसं सुखम् ।
वसन्ते च जनास्तं चाऽपूजयन् फलितं द्रुमम् ।।1.519.७०।।
कामिन्यस्तत्र वृक्षे च दोलां बबन्धुरुत्तमाम् ।
तत्र संस्थाप्य च कृष्णनारायणं मुहुर्मुहुः ।।७१ ।।
सर्वा आन्दोलयामासुः कुमार्यः सधवास्तथा ।
अहं तु कौतुकाविष्टो रात्रौ तत्र स्वयं स्थितः ।।७२।।
करोम्यान्दोलनं ताभिः रमामि विरमामि च ।
जनैर्दृष्टस्ताडितश्च पञ्चत्वं प्राप्तवाँस्ततः ।।७३ ।।
जातिस्मरोऽभवं राजा नाम्ना ख्यातः कुशध्वजः ।
कृष्णनारायणं नित्यं चान्दोलयामि पूर्ववत् ।।७४।।
शंभुं चान्दोलयाम्येव शिवरात्रौ पुनः पुनः ।
जन्माष्टम्यां तथानादिश्रीकृष्णं न्यस्य तत्र च ।।७५ ।।
आन्दोलयामि सततं नरनारायणं तथा ।
एवं प्रकुर्वतो मे श्रीशंभुः प्रत्यक्षतां गतः ।।७६ ।।
भवते वरदश्चास्मि वैष्णवाय वरं वृणु ।
इत्युवाच हरो मह्यं मयाऽपि च तदाऽर्थिनम् ।।७७।।
कैलासे मे देहि वासं वैष्णवानां समागमे ।
वैष्णवस्य च ते नित्यं करिष्यामि सुसेवनम् ।।७८।।
एवमुक्तो महादेवो मां कैलासं निनाय सः ।
कदाचित्त्वथ कालस्य विमानेन निजेच्छया ।।७९।।
मया च भ्रममाणेन दृष्टाऽग्निवेश्यपुत्रिका ।
जले प्रविष्टा स्नानार्थं त्वालिभिर्बह्वीभिर्युता ।।1.519.८० ।।
मयाऽवतीर्य सा बाला पत्न्यर्थं याचिता तदा ।
कामभावेन सा नैव व्यलोकयत्तु मां प्रति ।।८ १ ।।
मयोद्धृत्य जलात् सा च बलान्नीता विमानके ।
तदा तद्रोदनं श्रुत्वा तत्पिता मां शशाप ह ।।८२।।
गृध्रवद् बालिकां वं चाऽस्पृशः सद्व्रतशालिनीम् ।
तस्माद्गृध्रो भव चात्र विमानं ते प्रणश्यतु ।।८३ ।।
अहं गृध्रस्तदा जातो विमानं नष्टमेव मे ।
बाला चाऽकृतभोगा सा ययौ स्वं पितरं प्रति ।।८४।।
एतद्वै सर्वमाख्यातं सखे! गृध्रत्वकारणम् ।
कृष्णनारायणप्रीत्या चिरायुश्चास्मि भूतले ।।८५।।
इन्द्रद्युम्नं न जानामि वद किं करवाणि ते ।
इतिश्रुत्वा नृपतिः स निराशश्च हुताशने ।।८३।।
प्रवेशं चेच्छति तत्र मरणं कर्तुमिच्छति ।
तावद् गृध्रस्तु तं प्राह वह्निं मा विश भूपते ।।८७।।
अहं ते कीर्तयिष्यामि ममाऽप्यस्ति चिरन्तनः ।
स ज्ञास्यति मम मित्रं हीन्द्रद्युम्नं पुरातनम् ।।८८।।
यामस्तत्र तु कमठो मान्थरकोऽस्ति यत्र च ।
मानसे सरसि ख्यातस्तत्रैव कृतकेतनः ।।८९।।
सर्वे ययुस्तत्कमठं सेवमानं शुभातपम् ।
तीरस्थं सरसस्तत्र तेऽवतीर्णास्ततोऽम्बरात् ।।1.519.९०।।
तावत् स कच्छपः शीघ्रं सलिलेऽन्तर्जगाम ह ।
गृध्रस्तं निजमित्रं च प्राह कस्मात् प्रयासि भोः ।।९१ ।।
मित्रं दृष्ट्वा कथं यासि भीत इव विलोक्यसे ।
सुनीचोऽपि गृहं प्राप्तो भवेत्पूज्यतमः सताम् ।।९२।।
अथ कूर्मो जलमध्ये शिरोमात्रबहिर्मुखः ।
प्रत्युवाच परं मित्रं करोमि स्वागतं तव ।।९३।।
तव मित्रस्य च तथा मित्रमित्रादिमाननम् ।
परं त्वयं नृपः कश्चित् पञ्चमो यः प्रदृश्यते ।।९४।।
तस्येन्द्रद्युम्नसंज्ञस्य भयाद् यामि जलान्तरम् ।
अनेन तु पुरा दग्धा पृष्ठिर्मे तु मखाग्निभिः ।।९५।।
नाऽद्याऽपि सा क्षतिः संपूर्यते पृष्ठगता मम ।
एनं दृष्ट्वा यज्ञकीर्तिं स्मृत्वा पृष्ठक्षतिं तथा ।।९६।।
विद्रवामि जले मित्र! करोमि स्वागतं तु वः ।
इन्द्रद्युम्नस्य राजर्षेः कीर्तिसंश्रवणं महत् ।।९७।।
सहस्रसंख्यया राज्ञा सर्वे वै क्रतवः कृताः ।
नाऽद्यापि कीर्तिपुण्ये च नश्येतेऽस्य तु भूपतेः ।।।९८।।
पञ्चाशच्च शतं कल्पा मम त्वत्र जले गताः ।
तत्पूर्वं रोचके नाम्ना पत्तने चाऽभवं तदा ।।९९।।
अस्य भयेन तत् त्यक्त्वा वसाम्यत्र सरोवरे ।
इत्युक्त्वा स बहिर्गत्वाऽकरोत् सन्माननं बहु ।। 1.519.१०० ।।
संभाषां विविधां कल्पान्तरीयां चक्रिरे मिथः ।
कूर्मो जातिस्मरः कामरूपधृग् देवरूपवान् ।। १० १।।
सत्कारं भोजनाद्यं च कल्पयायास तत्क्षणम् ।
इन्द्रद्युम्नः प्रहृष्टोऽभूत् पप्रच्छत कच्छपं ततः ।। १ ०२।।
चिरायुष्ट्वं कथं तेऽस्ति रोचकात् पूर्वमेव किम् ।
कुत्र वासश्च ते त्वासीत् कुत्र जन्म व्रतं तव ।। १ ०३।।
वद मे जायते चात्यानन्दो मित्रस्य दर्शनात् ।
श्रुत्वैवं कच्छपः प्राह शृणु राजन् पुराभवम् ।। १ ०४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने इन्द्रद्युम्नराज्ञः पृथिव्यां मार्कण्डेयबकर्षिघूकर्षिगृध्रर्षिकमठर्षिकृतकीर्तिनवीनत्वं, प्रागपराद्धजन्यबकादिजन्मानि, पुण्यकृतचिरजीवित्वादि चेत्यादिनिरूपणनामा एकोनविंशदधिकपञ्चशततमोऽध्यायः ।।५१ ९।।