लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४९४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४९३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४९४
[[लेखकः :|]]
अध्यायः ४९५ →

श्रीनारायण उवाच-
अथाऽन्यां च कथां दिव्यां हाटकेश्वरभूमिजाम् ।
चमत्कारमयीं लक्ष्मि! शृणु ब्रह्मव्रतान्विताम् ।। १ ।।
चमत्काराभिधश्चासीन्नृपो यन्नामशोभितम् ।
चमत्कारपुरं नागवतीनद्यास्तटेऽकरोत् ।। २ ।।
तस्य पुरस्य रक्षार्थं देवतास्तेन निर्मिताः ।
स्थापिता विधिना ताश्च शुभा रक्षन्ति तत्प्रजाः ।। ३ ।।
अथ तस्य महीपस्य अम्बानाम्न्यभवत् सुता ।
अन्या वृद्धाऽभिधा पुत्री ह्युभे ते गुणमण्डिते ।। ४ ।।
काशीराजश्चोपयेमे ह्युभे विप्राग्निसन्निधौ ।
कस्यचित्त्वथ कालस्य यवनैस्तूत्तरस्थितैः ।। ५ ।।
संगरोऽभून्महान् काशीराजश्च निधनं गतः ।
अथाऽम्बा चापि च वृद्धा वैधव्यं प्राप्य दुःखदम् ।। ६ ।।
पितृगृहं ययतुस्ते हाटकेश्वरभूमिगम् ।
यावद्वर्षशतं चोग्रं कृतवत्यौ तपः परम् ।। ७ ।।
दुर्गायाः पूजनं नित्यं चक्रतुर्होमपूर्वकम् ।
नाशार्थं पतिशत्रूणां किन्तु दुर्गा तुतोष न ।। ८ ।।
ततो वैराग्यमासाद्य वाञ्च्छन्त्यौ स्वतनुक्षयम् ।
मन्त्रैराथर्वणैर्विप्रैः क्षुरिकासूक्तसंभवैः ।। ९ ।।
छित्वा छित्वा स्वमांसानि मन्त्रपूतानि भक्तितः ।
कारितवत्यौ होमं तु सुसमिद्धे हुताशने ।। 1.494.१ ०।।
अग्निकुण्डात्ततस्तस्माच्चतुर्हस्ता शुभानना ।
श्वेतवस्त्रा विनिष्क्रान्ता धाम्ना बालार्कसदृशी ।। ११ ।।
तथाऽन्या चाऽष्टनेत्रास्या तप्तहाटकसन्निभा ।
तस्मात् कुण्डाद् विनिष्क्रान्ता धृतखड्गा भयावहा ।। १२।।
अपराऽपि तथारूपा शक्तिः परमदारुणा ।
तास्तु प्रोचुर्वरार्थं च काशीराजप्रिये ततः ।। १३ ।।
ऊचतुश्च पतिर्नौ हि काशीराजो हतो रणे ।
यवनैर्हि ततस्तेषां क्षयं वृणीमहे यतः ।। १४।।
तथाऽस्त्विति वरं प्राहुस्तदा कुण्डात् सहस्रशः ।
निष्क्रान्ताः संख्ययाऽपारा मातरो नैकरूपिकाः ।। १५।।
एका गजमुखा तत्र तथाऽन्या तुरगानना ।
सारमेयमुखा चान्या पक्षिराजमुखा परा ।। १६।।
तिर्यग्वपुःस्वरूपाऽन्या वक्त्रैर्मानुषसंभवैः ।
त्रिशीर्षाः पञ्चशीर्षाश्च सप्तशीर्षास्तथाऽपराः ।। १७।।
जंघामुखा जघनास्या हृदानना निराननाः ।
पार्श्वाननाः पश्चिमास्याः पृष्ठास्याः काश्चनापि च ।। १८।।
एकहस्ता द्विहस्ताश्च दशहस्ता विहस्तकाः ।
अन्या विंशतिहस्ताश्च बहुपादा विपादिकाः ।। १ ९।।
एकपादा ऊर्ध्वपादा एकनेत्रा द्विनेत्रकाः ।
बहुनेत्रा गजारूढा हयारूढा वृषस्थिताः ।।1.494.२०।।
नरवानरसिंहाजगर्दभव्याघ्रसंस्थिताः ।
सर्पगोधाऽऽखुमकरकूर्मकुक्कुटसंस्थिताः ।।२१ ।।
विहगादिसमारूढा नृत्यन्त्यो हास्यशोभिताः ।
ऊर्ध्वकेशा विकेशाश्च गात्रकेशाश्च भूरिशः ।।२२।।
लम्बकेशा वाजिकेशा ह्रस्वदन्त्यस्तथाऽपराः ।
विदन्त्यो दीर्घदन्त्यश्च गजदन्त्यो विभीषणाः ।।२३।।
लोहदन्त्यो लम्बकर्णो विकर्ण्यः शूर्पकर्णिकाः ।
शंकुकर्ण्यः कुकर्ण्यश्च बहुकर्ण्यः सुकर्णिकाः ।।२४।।
चर्मवस्त्रा विवस्त्राश्च रोमवस्त्रास्तथाऽपराः ।
खड्गहस्ताः कुन्तहस्ता बाणपाशधनुर्धराः ।।२५।।
शूलमुद्गरभूशुण्डिप्राशतोमरभूषिताः ।
प्रययुस्ता विनाशार्थं यवनानां कुलानि वै ।।२६।।
बालवृद्धसमोपेतं तेषां राष्ट्रं दुरात्मनाम् ।
स्त्रीभिश्च सहितं ताभिर्देवताभिः प्रभक्षितम् ।।२७।.।
एवं निर्वास्य तद्राष्टं त्वागताः पुनरेव ताः ।
चमत्कारपुरं प्राहुर्यवनानां विनाशनम् ।।२८।।
ताभ्यां ता विधवाभ्यां च पूजिताः स्थापिताश्च ताः ।
अथोचुस्ता दीयतां नश्चाहारो वास इत्यपि ।।२९।।
महादेवी तदा ताभ्यो ददौ वासं च भोजनम् ।
मर्त्यलोकेऽत्र या नार्यो गर्भवत्यः स्वपन्ति च ।।1.494.३ ०।।
सन्ध्याकाले प्रभाते च कामासक्ता भवन्ति च ।
स्नानं नैव प्रकुर्वन्ति तद्गर्भो वोऽस्तु भोजनम् ।।३ १ ।।
रुदन्त्यो या विनिर्यान्ति चत्वरेषु वनेषु च ।
तासां गर्भस्तु युष्माकं सम्पदत्तः प्रभुज्यताम् ।।३२।।
उच्छिष्टा याः प्रसर्पन्ति रमन्ते च स्वपन्ति च ।
तासां गर्भः समस्तानां युष्माकं भोजनाय वै ।।३३।।
न षष्ठीजागरो यस्य बालकस्य भविष्यति ।
स भविष्यति भोज्याय युष्माकं नात्र संशयः ।।३४।।
न संयास्यति वा यत्र पावकं सूतिकागृहे ।
स भविष्यति भोज्याय युष्माकं बालरूपधृक् ।।३५।।।
माङ्गल्यैः सम्परित्यक्तं यद्भवेत् सूतिकागृहम् ।
तस्मिन्यस्तिष्ठते बालः स युष्माकं प्रकल्पितः ।।३६।।
सन्ध्यायां बालका ये वा स्वपन्त्याकाशदेशगाः ।
ते सर्वे भोजनार्थाय युष्माकं सन्निवेदिताः ।।३७।।
यस्य जन्मदिने प्राप्ते वर्षान्ते क्रियते न च ।
मांगल्यं तस्य तद्गात्रं युष्माकं परिकल्पितम् ।।३८।।
तैलाभ्यंगं नरः कृत्वा यश्च स्नानं करोति न ।
स दत्तो भोजनार्थाय युष्माकं नात्र संशयः ।।३९।।
उच्छिष्टो यः पुमाँस्तिष्ठेद् यो वा चत्वरमध्यगः ।
भक्षणीयः स सर्वाभिर्निर्विकल्पेन चेतसा ।।1.494.४० ।।
रजस्वलां व्रजन् यो वा पुरुषः काममोहितः ।
नग्नः शेते तथा स्नाति भक्षणीयः स वो मतः ।।४१ ।।
दक्षिणाऽभिमुखः शेते निशिथे दधिभक्षकः ।
युष्मदमन्ता पुरुषो भक्षणीयो विशेषतः ।।४२।।
इत्येवं क्रूरदेवीनां स्थानानि भक्षणानि च ।
तेषां गृहे प्रदत्तानि ततस्तास्तोषमागताः ।।४३ ।।
ताश्च रक्षन्ति नगरं क्षेत्रं श्रीहाटकेश्वरम् ।
अथ पित्रा प्रजानां च चमत्कारेण भूभुजा ।।४४।।
मन्दिरं कारितं रम्यं विशालं सरितस्तटे ।
अम्बा पादप्रहारेण भूमिं चक्रे गुहात्मिकाम् ।।४५।।
तस्यां स्वपादुके न्यस्ते त्वम्बया राजकन्यया ।
वृद्धया स्थापिते तत्र गुहायां स्वकरेण वै ।।४६ ।।
अम्बा प्राह ततः सर्वा देवीर्विनयसंयुताः ।
इमे मत्पादुके दिव्ये गुहामध्ये गते सदा ।।४७।।
सर्वाभिः सेवनीये च न नेतव्ये बहिः क्वचित् ।
या काचित् पादुके धृत्वा निष्क्रमिष्यति मोहतः ।।४८।।
सा दिव्यभावनिर्मुक्ता शृगाली संभविष्यति ।
अत्राऽऽगत्य पादुकयोरर्चनं योगिनो जनाः ।।४९।।
करिष्यन्ति तथा बलिं भवतीभ्यो मुदान्विताः ।
दास्यन्ति ये च ते सिद्धिमवाप्स्यन्ति सुदुर्लभाम् ।।1.494.५०।।
ततः सर्वाश्च ता देव्यो गुहामध्ये व्यवस्थिताः ।
परिवार्य मन्दिरे ते पादुके मोक्षदायिके ।।५१।।
ते प्रपूज्य च नार्यो वा नरा वा दूरतः शुभे ।
ताश्च देवीर्नमस्कृत्य प्राप्स्यन्तीष्टमनोरथान् ।।५२।।
प्रयास्यन्ति परां सिद्धिं जन्ममृत्युविवर्जिताम् ।
शंभुना ध्यायमानेन तृतीयनेत्रतः पुरा ।।५३।।
श्वेताम्बरधरा शुभ्रा कन्या प्रकाशिता खलु ।
सा चाम्बास्थापितपादुकार्चने नियता कृता ।।५४।।
अम्बा प्राह तु तां कन्यां तव शिष्यापरम्परा ।
कन्यका दीक्षिता देवीस्वरूपैव न मानवी ।।५५।।
कौमारब्रह्मचर्येण युक्ता स्यात् पूजिकाऽनयोः ।
ततो ददौ रत्नदण्डचामरौ छत्रमुज्ज्वलम् ।।५६।।
मन्त्रं पूजाविधिं शाटीं कण्ठसूत्रं ददौ सती ।
मन्त्रग्रहणकर्त्री या कन्यका सा परम्परा ।।५७।।
कन्यावंशोद्भवः सर्वा भविष्यन्ति हि मन्त्रतः ।
'ओं श्रीं ह्रीं क्लीं अम्बायै नारायण्यै स्वाहा नमः ओम् ।।५८।।
इतिमन्त्रेण शिष्या वै कन्यकावंश उच्यते ।
तदन्वयसमुत्थायाः कन्यकायाः करेण तु ।।५९।।
पादुकयोर्नरो नारी पूजायाः कारकः खलु ।
कन्यापूजाकारकश्च भवेदतिसुखान्वितः ।।1.494.६०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चमत्कारनृपतेः अम्बावृद्धाकन्ययोस्तपोभिरम्बावृद्धापादुकापूजनं कुमारिकावंशकृतमेवेत्यादिनिरूपणनामा चतुर्नवत्यधिकचतुश्शततमोऽध्यायः ।। ४९४ ।।