लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४९३

विकिस्रोतः तः
← अध्यायः ४९२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४९३
[[लेखकः :|]]
अध्यायः ४९४ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! पयोऽब्धौ तु शाण्डिली कमला ह्युभे ।
नारायणस्य मे सेवां चक्राते पादमर्दनम् ।। १ ।।
लक्ष्म्या दक्षश्चरणो मे शाण्डिल्या वामको धृतः ।
लक्ष्मीस्तु वामपादार्थं जगाद शाण्डिलीं तदा ।। २ ।।
देहि मे वामपादं वै सेविकायाः परं धनम् ।
वामा वामांगना वामप्रभागा प्रियभोगिनी ।। ३ ।।
गृहाण त्वं दक्षपाद्ं वामभागो हि मेऽस्ति यत् ।
नार्या वामस्वरूपत्वं नरस्यार्धांगरूपकम् ।। ४ ।।
तथैव वर्तमानायाः सौभाग्यं वर्धतेऽनिशम् ।
शाण्डिल्याह न दास्येऽहं दक्षः पूर्वं त्वया धृतः ।। ५ ।।
स्वधृतस्त्वं कथं त्यक्तुमर्हसि दक्षपत्तलम् ।
वामसेवा मया कार्या न दास्ये त्वां कथंचन ।। ६ ।।
लक्ष्मीः क्रुद्धाऽभवत् तां चाऽशपत्त्वाश्वमुखी भव ।
शाण्डिल्यप्यशपल्लक्ष्मीं त्वं वै गजमुखी भव ।। ७ ।।
तादृश्यौ ते ह्युभे जाते क्षीरोदे विष्णुसन्निधौ ।
शोकं जगाम भगवान् कथमेवं कृतं प्रिये ।। ८ ।।
अयोग्यशापौ संजातौ परस्परं सुदुस्तरौ ।
अथ ते दुःखिते विष्णुं शेषशायिनमाहतुः ।। ९ ।।
भगवन् शापमोक्षो नौ यथा स्याच्च तथा कुरु ।
नारायणस्तदा प्राह जातो मदिच्छयैव हि ।। 1.493.१ ०।।
शापस्तन्मोक्षणं चापि भविष्यति मदिच्छया ।
अहं पृथ्व्या भारनाशार्थं गमिष्ये भुवस्तलम् ।। ११ ।।
तत्रेयं शाण्डिली मे वै भगिनी संभविष्यति ।
अश्वमुखी त्वं च लक्ष्मीः हस्तिमुखी भविष्यसि ।। १२।।
तत्राऽहं देवकीपुत्रो भविष्यामि प्रभुर्हरिः ।
अथ या सुप्रभानाम्नी वसुदेवप्रियाऽपरा ।। १ ३।।
तस्यां माधवी जज्ञेऽश्ववक्त्ररूपा तु शाण्डिली ।
तां दृष्ट्वा विकृताकारां सुतां जातां ज सुप्रभा ।। १४।।
वसुदेवसमायुक्ता विषादं परमं गता ।
सा जाता यौवनोपेता सुता तादृङ्मुखान्विता ।। १५।।
न कश्चिद्वरयामास वाजिवक्त्रां विलोक्य ताम् ।
अथ तां भगवान् कृष्णश्चमत्कारपुरं प्रति ।। १६।।
प्रेषयामास तपसे तया तप्तं तपस्तदा ।
ततस्तुष्टिं गतो ब्रह्मा वरार्थं तामुवाच ह ।। १७।।
सा तु वव्रे मुखं नार्या भद्रं सौम्यं सुरूपकम् ।
ब्रह्मा तथास्त्विति प्राह साऽभवद्वै शुभानना ।। १८।।
सुभद्रा नाम विख्याता वीरसूः पतिवल्लभा ।
उपयेमे सुतः पाण्डोर्यां पार्थः कृष्णपार्श्वगः ।। १ ९।।
तस्यां जज्ञे सुतो वीरो योऽभिमन्युरिति स्मृतः ।
पुनर्याता हरेर्धाम कालान्ते वै पतिव्रता ।।1.493.२ ०।।
अथ लक्ष्मीर्गजवक्त्रा ययावानर्तदेशगम् ।
हाटकेश्वरसंज्ञं सत्क्षेत्रं तपश्चकार सा ।।२१ ।।
ब्रह्माणं तोषयामास तपसा दारुणेन वै ।
तामुवाच ततो ब्रह्मा वर्षान्ते तुष्टि मागतः ।।२२।।
वरं प्रार्थय देवेशि! यत्ते मनसि वर्तते ।
लक्ष्मीरुवाच वक्त्रं मे प्रभो! पूर्वाननं वृणे ।।२३ ।।
ब्रह्मा प्राह तथास्त्वेवं महालक्ष्मीर्भवेति च ।
एवं वरं समागृह्य ययौ सा च शुभानना ।।२४।।
महालक्ष्मीः सुरूपा च क्षीरोदशायिनं प्रति ।
एवं सा माधवी चापि महालक्ष्मीरपीश्वरी ।।२५।।।
स्थापिते नगरक्षेत्रे चन्द्रभार्याभिरादरात् ।
पूजयिष्यति सद्भक्त्या महालक्ष्मीं च माधवीम् ।।२६ ।।
सा भविष्यति सौभाग्ययुक्ता पुत्रवती सती ।
यावत्संवत्सरं तावत्त्वेकभक्ताशनाऽयना ।।२७।।
अक्षारलवणाशा या नारी मां पूजयिष्यति ।
न तस्याः पतिजं दुःखं दौर्भाग्यं वा भविष्यति ।।२८।।
किन्तु सौभाग्यमतुलं सर्वं सम्यग् भविष्यति ।
धनं धान्यं च सौवर्णं सौधं गोधनमाप्यते ।।२९।।
शुचिर्भूत्वा पठेद्भक्त्या वाचयेच्छ्रावयेच्च वा ।
शृणुयाद्वा नरो नारी सुसौभाग्यमवाप्नुयात् ।।1.493.३ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने अश्वमुख्या माधव्या गजमुख्या लक्ष्म्याश्च कालान्तरे सुभद्रात्वं महालक्ष्मीत्वं चेतिनिरूपणनामा त्रिनवत्यधिकचतुश्शततमोऽध्यायः ।।४९३।।