लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३६७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३६६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३६७
[[लेखकः :|]]
अध्यायः ३६८ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! यमप्रोक्तमनादृत्याऽतिभावतः ।
यत्पप्रच्छ तु सावित्री कथयामि निबोध मे ।। १ ।।
शुभं किं चाऽशुभं कर्म किं बीजं कः फलप्रदः? ।
केन कीदृग्भवेत्कर्म को हेतुस्तत्र सर्वथा? ।। २ ।।
को वा कर्मफलं भुंक्ते को वा निर्लिंप्त इत्यपि ।
कर्म निर्मूलयन्त्येव कथं वै साधवो जनाः? ।। ३ ।।
कर्मकारकः कः प्रोक्तः को देहो देहवाँश्च कः ।
किं विज्ञानं मनः किं च बुद्धिः का प्राण एव कः? ।। ४ ।।
किमिन्द्रियं देवताश्च भोक्ता भोजयिता च कः ।
को भोगो निष्कृतिः का च क आत्मा कः परः प्रभुः? ।। ५ ।।
एतत्सर्वं यमदेव! चेज्जानासि वदात्र मे ।
यमः श्रुत्वाऽतिसंहृष्टः सावित्रीं प्राह तत्त्वतः ।। ६ ।।
अभ्युदयप्रदं शान्तिप्रदं वेदादिदर्शितम् ।
कर्म शुभं मंगलकृद् विपरीतं न वै शुभम् ।। ७ ।।
वासना भावना वापि कर्मबीजमुदीर्यते ।
फलप्रदः कृष्णनारायणः सर्वान्तरस्थितः ।। ८ ।।
शुभेच्छया शुभं कर्माऽशुभयाऽशुभमेव तत् ।
कर्महेतुर्भवेद् यत्नस्तद्धेतुर्वाञ्च्छना मता ।। ९ ।।
वाञ्च्छाहेतुस्तु विज्ञानं जीवे वस्तुसमाश्रयम् ।
ज्ञानहेतुस्तु संकल्पः पारमेश्वर आस्थितः ।। 1.367.१ ०।।
विभ्वी शक्तिस्तत्र युक्ता क्रियां जनिं ददाति वै ।
हरेः संकल्पशक्तिभ्यां जीवे ज्ञानक्रिये मते ।। ११ ।।
ताभ्यां परम्पराजन्यं कर्म सर्वं प्रजायते ।
अन्ततः सर्वथा हेतुः कृष्णनारायणो मतः ।। १ २।।
जीवः कर्मफलं भुंक्ते तदात्मा नहि लिप्यते ।
अन्तर्यामी कृष्णनारायणो निर्लिप्त एव ह ।। १३ ।।
साधवः सर्वथा कर्मफलाभिसन्धिवर्जिताः ।
विष्णुसेवात्मकं कार्यं कुर्वन्त्यहर्निशं शुभम् ।। १४।।
अहैतुकं च संकल्पवर्जितं हरितुष्टये ।
तत्सर्वं भक्तिरूपं वै कर्मनिर्मूलनक्षमम् ।। १५।।
हरेर्भक्तः सदा मुक्तो मुक्तिस्तस्य द्विधा मता ।
जीवन्मुक्तिर्ब्रह्ममुक्तिर्निर्वाणपददायिनी ।। १६।।
जीवन्मुक्तिं भक्तिरूपां सदा वाञ्छन्ति वैष्णवाः ।
ब्राह्मीं मुक्तिं परां सेवां धाम्नि वाञ्च्छन्ति साधवः ।। १७।।
कर्मप्रयोजिका शक्तिः सा तु कृष्णे व्यवस्थिता ।
अन्तर्यामिस्वरूपस्था क्रियां जनयति ध्रुवा ।। १८।।
पञ्चभूतात्मको देहः स्थूल इत्यभिधीयते ।
तद्वान् जीवः सदा ज्ञाता चेतनो ज्ञानवान्मतः ।। १ ९।।
चतुर्विंशतितत्त्वानां जीवात्मपरमात्मनोः ।
स्वरूपैर्गुणकार्यैश्चाऽवगमो ज्ञानमुच्यते ।। 1.367.२०।।
सर्वव्यवहृतिबीजं विज्ञानं त्वात्मनि स्थितम् ।
मूलमाया सत्त्वरजस्तमोमयी जडा सदा ।। २१ ।।
बुद्धिरूपा मनोरूपा प्राणरूपा प्रजायते ।
मनः संकल्पकं प्रोक्तं बुद्धिरध्यवसायिनी ।।२२।।
श्वासः प्राणो जीवनं च वृत्तिस्तत्त्वैः सह स्थितिः ।
इन्द्रशक्तिसमापन्नमिन्द्रियं तत् प्रकीर्तितम् ।। २३।।
इन्द्र आत्मा सदा प्रोक्त इन्द्रियाणि बहूनि वै ।
श्रोत्रत्वच्चक्षूरसनाघ्राणानि ज्ञानदानि हि ।।२४।।
वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि हि ।
दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः ।।२५।।
देवताश्च प्रकाशार्थं निर्मिताः शक्तिदास्तु ताः ।
भोक्ता देही भोजयिता त्वन्तरात्मा हरिः स्वयम् ।।२६।।
भोगः सुखस्य दुःखस्य साक्षात्कारः समुच्यते ।
निष्कृतिः शान्तिरित्युक्ता निवृत्तिः कर्मणां तथा ।।२७।।
कर्मनाशाय कर्माणि निष्कृत्यात्मानि वै विदुः ।
प्रायश्चित्तानि कर्माणि पूर्वेषां शोधकानि वै ।।२८।।
सूक्ष्मदेहाद्विविक्तो यो वासनाबलकर्षितः ।
जीवतां संविदन् स्वस्य जीवात्मा सुखसच्चितः ।।२९।।
अन्तर्नियामकस्तस्याऽक्षरधाम्नि च यः स्थितः ।
कृष्णनारायणः सोऽयं परप्रभुः प्रकीर्तितः ।।1.367.३ ०।।
पृथिवी वायुराकाशो जलं तेजस्त्विमानि वै ।
पञ्चभूतानि चाश्रित्य जीवो भुंक्ते फलं बहु ।।३ १ ।।
यदा भजति कृष्णं स वासनावर्जितो भवेत् ।
जन्ममृत्युजराव्याधिशोकादिवर्जितो भवेत् ।।३२।।
भक्तिसमं न बलवत्साधनं त्वन्यदस्ति हि ।
सर्वदुःखप्रशमनं सर्वसम्पत्प्रदं परम् ।।।३३।।
स्वर्गमोक्षप्रदं श्रेष्ठं सर्वस्मृद्धिप्रपूर्णकम् ।
परमात्मा परंब्रह्म कृष्णनारायणो हरिः ।।३४।।
कारणं कारणानां स राधालक्ष्मीप्रभापतिः ।
पार्वतीमाणिकीनाथो रमावृन्दापतिः प्रभुः ।।३५।।
श्रीकृष्णः स परंब्रह्म स्वयं श्रीपुरुषोत्तमः ।
तस्य भक्तिः प्रकर्तव्या तेन मोक्षो भवेद् ध्रुवः ।।३६।।
श्रवणं कीर्तनं स्मृतिः कृष्णास्याऽङ्गप्रसेवनम् ।
पूजनं स्तवनं भृत्यं मैत्र्यं सर्वसमर्पणम् ।।३७।।
एवं तु नवधा योगो भक्तिरूपः सुमुक्तिदः ।
धर्मः काष्ठौषधिक्वाथो वैराग्यं तु विरेचनम् ।।३८।।
बोधो रम्योऽवलेहश्च भक्तिस्तत्र रसायनम् ।
सन्धानिन्यौषधिर्धर्मो विवेको वृणहारिणी ।।३९।।
विशल्यकरणी भक्तिर्जीवातुर्विरतिस्तथा ।
हरौ स्नेहानुबन्धो यो भूरिसत्कारपूर्वकः ।।1.367.४० ।।
भक्तिर्बोध्या मोक्षदा सा कर्तव्या सर्वदा जनैः ।
चिक्कणत्वयुतस्वान्तःसान्द्रानन्दपरिप्लुतः ।।४१ ।।
भावः स्नेहः स विज्ञेयो हरौ कार्यो हि सर्वदा ।
स्वान्तर्वृत्तिरविच्छिन्ना हरौ स्नेहानुबन्धिनी ।।।४२।।
भक्तिः प्रेम रतिः सेवा हरौ कार्या हि मुक्तिदा ।
वैधी विधिवचोजन्या श्रवणादिनवात्मिका ।।४३ ।।
माहात्म्यज्ञानसंयुक्तो दृढीयान् सर्वतोऽधिकः ।
रागः स्नेहो हरौ भक्तिर्मोक्षदा सर्वथा मता ।।४४।।
भक्तवात्सल्यमर्चाया दंभत्यागोऽनुमोदनम् ।
शुद्धचित्तेन तत्पूजा तत्कथाश्रवणादरः ।।४५।।
अंगक्रिया तदर्थं च स्मृतिस्तन्नामकीर्तनम् ।
एतेऽष्टावपि भक्तौ स्युरभिन्नाः फलदाः सदा ।।४६।।
गुरुपादाश्रयो दीक्षास्वीकारः सेवनं गुरोः ।
विश्वासात्सत्पथे वृत्तिः सद्धर्मपृच्छनं तथा ।।४७।।
भोगत्यागश्च हर्यर्थं वासस्तीर्थादिभूमिषु ।
यथापेक्षं व्यवहारो व्रतं हरिदिने तथा ।।४८।।
दैविवृक्षादिसत्कारो दशैते भक्तिवर्धनाः ।
पुत्रशिष्याद्यरागश्च कुसंगिसंगवर्जनम् ।।४९।।
महारंभाद्यनुद्योगो दुर्विवादादिवर्जनम् ।
हर्यर्थं द्रव्यदानं च शोकमोहादिवर्जनम् ।।1.367.५०।।
अन्याऽनुद्वेगकारित्वं देवगुर्वाद्यनिन्दनम् ।
सुराऽपराधाऽकर्तृत्वं सुरनिन्दाऽसहिष्णुता ।।।५१ ।।
दशैते साधनीयाः स्युर्भक्तैर्भक्तिविवृद्धये ।
अथ कृष्णचिह्नधृतिः कृष्णनामस्मृतिर्हृदि ।।५२।।
पुष्पमालादिसंधृतिर्नृत्यं च दण्डवन्नतिः ।
अभ्युत्थानं हरेरग्रे गमने चाऽप्यनुव्रजिः ।।५३।।
प्रदक्षिणं तथा स्तोत्रं सेवनं कीर्तनं जपः ।
विज्ञानं स्तोत्रपाठश्च स्वादो नैवेद्यपज्जले ।।५४।।
प्रसादसौरभग्राहः स्पर्शनं चेक्षणे हरेः ।
नीराजनं हरेरुत्सवावलोकनमित्यपि ।।।५५।।।
दयाप्रतीक्षणं ध्यानं स्मरणं दास्यमुत्तमम् ।
सखित्वं चात्मदानं च हर्यर्थं चेष्टितं तथा ।।५६ ।।
प्रेष्ठार्पणं भक्तसेवा शरणे पतनं सदा ।
तुलसीशास्त्रसत्तीर्थवैष्णवादिप्रपूजनम् ।।५७।।
यथाधनं तथासेवा वार्तादि साधुभिः सह ।
आर्तसेवा जन्ममहो हरेश्चरणसेवनम् ।।।५८।।
श्रद्धया भूयसीप्रीतिः शास्त्रार्थास्वादनं परम् ।
सत्सु संगः कीर्तनं मे सद्भिः सत्सु सदा स्थितिः ।।।५९।।
आत्मनिष्ठेति च चतुश्चत्वारिंशदिमे गुणाः ।
भक्त्यात्मका भक्तिपुष्टिकराः स्नेहविवर्धनाः ।।1.367.६ ०।।
सतां संसेवनं कार्यं कृपा प्राप्या सतां सदा ।
सद्धर्मेषु परा श्रद्धा हरेर्गुणश्रुतिस्तथा ।।६१ ।।
प्रेमांकुरोद्भवश्चापि श्रीहर्याश्रय उत्तमः ।
हरौ रागाभिवृद्धिश्च हर्यर्चास्फुरणं सदा ।।६२।।
भक्ते कृष्णगुणाऽऽवासः स्थितिर्धर्मे हरेः सदा ।
एते दशगुणाः सिद्धास्ततः प्रेमातिवर्धते ।।६३ ।।
सात्त्विकादिप्रभेदैश्च मृदुमध्याऽधिभेदतः ।
अनेके वै भक्तिभेदाः सूक्ष्मा भवन्ति मुक्तिदाः ।।६४।।
अथ प्रेमपराकाष्ठा विधिर्यत्र न विद्यते ।
सा तु सर्वप्रमूर्धन्या भक्तिर्भवति शाश्वती ।।६५।।
यावच्छाखं प्रेमतत्त्वं यादृक्स्वभावपोषितम् ।
देहिनां प्राकृतभावं तावच्छाखमनन्तकम् ।।६६।।
प्रेमतत्त्वं भिद्यते वै यत्संख्या नहि पार्यते ।
तस्माद्भक्तिरसंख्यातभेदा भवति पुष्पिता ।।६७।।
तस्या भक्तिमहादेव्या भुक्तिमुक्त्यादिसिद्धयः ।
राज्ञ्याः सदाऽनुवर्तन्ते चेटिका इव तत्पराः ।।६८।।
परार्धगुणितो ब्रह्मानन्दो भक्त्यणुसदृशः ।
भक्त्यानन्दामृताम्भोधौ ब्राह्माण्यपि सुखानि वै ।।६९।।
मग्नस्य गोष्पदायन्ते प्रेमाऽऽनन्दाऽऽप्लुतस्य हि ।
येषां दृढा भवेद् भक्तिः प्रेमरूपा सदा हरौ ।।1.367.७०।।
ते स्वप्नेऽपि न पश्यन्ति कीनाशं यमराद्गृहम् ।
कोटिजन्मकृतैः पुण्यैराप्यां भक्तिं समाचरन् ।।७१ ।।
महापापाऽतिपापाँश्च पुनात्येव यथा हरिः ।
शत्रवो नैव बाधन्ते ग्रहा याम्याश्च राक्षसाः ।।७२।।
भूतप्रेतपिशाचाद्या भक्तिमन्तं हरेर्जनम् ।
भज तं देवप्रवरं भगवन्तं सनातनम् ।। ७३ ।।
त्वत्पृष्टं कथितं सर्वं गच्छ वत्से! यथासुखम् ।
इत्युक्त्वा च यमो नत्वा विरराम हि पद्मजे! ।।७४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये सावित्रीकृतशुभाऽशुभकर्मादितत्सम्बन्धिप्रश्नानां यमराजकृतोत्तराणि भगवद्भक्तिप्रकारतन्माहात्म्यादि चेत्यादिनिरूपणनामा सप्तषष्ट्यधिकत्रिशततमोऽध्यायः ।। ३६७।।