लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३२२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३२१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३२२
[[लेखकः :|]]
अध्यायः ३२३ →

श्रीनारायण उवाच-
शृणु लक्ष्म्यधिमासान्ते दिने त्वक्षरधामनि ।
कृतमुद्यापनं सर्वैः पुरुषोत्तममन्दिरे ॥ १ ॥
राधाकृष्णादयः सर्वे गोलोकस्थाः समाययुः ।
वासुदेवादयो व्यूहाः स्वप्रजाभिः समाययुः ॥ २ ॥
महावैकुण्ठलोकस्था वयं नारायणादयः ।
त्वया सह प्रजाभिश्च गता अभूम चाक्षरम् ॥ ३ ॥
अव्याकृताऽमृतधामभूमश्रीपुरतत्स्त्रियः ।
न्यायेश्वरादयः सर्वे मुदा तत्र ययुस्तदा ॥ ४ ॥
महाविष्णुप्रभृतयो हिरण्यगर्भसृष्टयः ।
प्रवैराजाश्चावरणा ईश्वरा जग्मुरक्षरम् ॥ ५ ॥
विष्णोर्जलावरणोर्ध्ववैकुण्ठस्था ययुस्तथा ।
सदाशिवस्य धामस्था महामायाप्रजा ययुः ॥ ६ ॥
एवं त ईश्वराश्चावतारा गत्वाऽक्षरं परम् ।
चक्रुरुद्यापनं तत्र पुरुषोत्तममासिकम् ॥ ७ ॥
ब्रह्मणः सत्यलोके चर्षयो मुनिजनास्तथा ।
मातृगणाः पितरश्च देवा जग्मुश्च वैष्णवः ॥ ८ ॥
उद्यापनप्रकर्तारो दिव्या ययुर्नरादयः ।
तीर्थानि देवताः सर्वा देव्यो जग्मुर्दिशस्तथा ॥ ९ ॥
तत्त्वान्यपि ययुस्तत्र सरितः सिन्धवस्तथा ।
पर्वताश्च तथाऽखाता द्वीपाः खण्डा ययुस्तथा ॥ १ ०॥
ग्रहास्ताराश्च नक्षत्रमण्डल वृक्षवल्लयः ।
दिव्या वै भक्तवर्यास्तु दैत्या दानवराक्षसाः ॥ ११ ॥
ओषधयस्तथा सर्पा नागाः पतत्त्रयोऽमलाः ।
जलवासाः स्थलवासा वायुवासा ययुस्तदा ॥ १ २॥
पातालस्था विवरस्था दिव्यादिव्या ययुस्तदा ।
व्रतिनः सहवासाश्च भक्ता उद्यापनंकृते ॥ १३ ॥
सत्ये पैतामहे लोके सन्निधौ ययुरादरात् ।
पुरुषोत्तममासस्योद्यापनार्थं ययुश्च ते ॥ १४॥
गन्धर्वाः किन्नराः सूतादयश्च सुरमानवाः ।
भट्टचारणभृत्याश्च रौद्रा अपि च शांकराः ॥ १५॥
एते चान्ये व्रतपूर्तिफलार्थं चोत्सवे गताः ।
शृणु लक्ष्मि! तत्र तत्र यथाशक्ति यथाधनम् ॥ १६ ॥
कृतमुद्यापनं सर्वैः सर्वेष्टसिद्धिदायकम् ।
भुक्तिमुक्तिप्रदं द्रव्यदानपूर्वं कृतं तु तैः ॥ १७॥
शृणु तैस्तु कृतमुद्यापनं संश्रावयामि ते ।
पुरुषोत्तममासस्य यदुक्तं हरिणा स्वयम् ॥ १८ ॥
पक्षद्वये चतुर्दश्याममायां पूर्णिमातिथौ ।
एकादश्यां नवम्यां वा व्रताहेऽष्टमिकातिथौ ॥ १ ९॥
यत्र तिथौ भवेदानुकूल्यं तत्रापि वा तिथौ ।
उद्यापनं प्रकुर्याद्वै व्रतसम्पूर्तिहेतवे ॥ २ ० ॥
पुरुषोत्तममासस्य दुन्दुभिश्च स्थले स्थले ।
उद्धोषयति गत्वैव कुर्वन्तूद्यापनं शुभम् ॥ २ १॥
पुरुषोत्तममासस्य फलं पूर्णं भविष्यति ।
श्रुत्वाऽपि डिण्डमं चान्ये चक्रुरुद्यापनं गृहे ॥ २२॥
रात्रौ भूशायिनो भूत्वा ब्रह्मचर्यं प्ररक्ष्य च ।
प्रातरुत्थाय ते सर्वे चक्रुर्ध्यानं हरेस्ततः ॥ २३ ॥
कृत्वा शौचादिकाः सर्वा दैहिकीर्बाह्यतः क्रियाः ।
दिव्यादिव्यं यथावर्ष्म कृत्वा स्नानादिकं ततः ॥२४॥
जपं होमं तथा सन्ध्यां स्वाध्यायं तर्पणादिकम् ।
यथालोकं यथावर्ष्म यथायोग्यं विधाय ते ॥ २५ ॥
नित्यां पूजां वृद्धपूजां कृत्वा पूज्यार्हणादिकम् ।
आचम्य च भुवं कृत्वा संस्कृतां बहुविस्तराम् ॥ २६॥।
चक्रुश्च मण्डपं तत्र बहुस्तंभसमन्वितम् ।
रत्नहीरकहाराद्यैराम्राऽशोकादितोरणैः ॥ २७॥
कदलीस्तम्भपत्राद्यैः कल्पवल्ल्यास्तरोः फलैः ।
कलशैः रंगवल्लीभिश्चाम्बरैः कानकान्वितैः ॥ २८ ॥
बन्धयित्वा प्रदीपैश्च शोभयित्वा सुगन्धिभिः ।
वासयित्वा च तन्मध्ये पञ्चधान्यैश्च सप्तभिः ॥ २ ९॥
धान्यैर्वा कारयित्वैव सर्वतोभद्रमण्डलम् ।
सपत्नीकान् विष्णुभक्तान् निमन्त्र्य च यथाबलम् ॥ ३० ॥
न्यसुश्चतुरः कलशाँश्चतुर्दिक्षु च मण्डले ।
सुवस्त्रश्रीफलपूगीनागवल्लीदलान्वितान् ॥३ १ ॥
तत्राऽक्षतान् पूरयित्वा शर्कराद्रव्यमिश्रितान् ।
वासुदेवं संकर्षणं प्रद्युम्नं चानिरुद्धकम् ॥३ २॥
ईशानतः क्रमान्न्यस्य मध्ये च कलशे शुभे ।
सफले साम्बरे पूगीस्वर्णमुद्राऽक्षतान्विते ॥ ३ ३॥
पञ्चरत्नयुते स्वर्णे न्यधुः श्रीपुरुषोत्तमम् ।
राधालक्ष्म्यादिसहितं सौवर्णे दिव्यरूपिणम् ॥ ३४॥
एवं तैर्व्रतिभिः सर्वैः स्थापनं श्रीहरेः कृतम् ।
आचार्यश्च गुरुस्तत्र पूजनार्थं प्रवेशितः ॥ ३५॥
देहशुद्धिः कारिता च यजमानस्य तेन वै ।
तत आवाहितो देवश्चासनं च प्रदापितः ॥ ३६॥
पादप्रक्षालनार्थ वै दत्तं जलं सुतीर्थजम् ।
चतुर्दिक्षु कृता दीपाः सुगन्धस्तत्र कारितः ॥३७॥
अर्घ्यं फलादिभिर्युक्तं दम्पत्या च समर्पितम् ।
आचमनीयसलिलं दत्तं देवाय तीर्थजम् ॥ ३८ ॥
दधि दुग्धं घृतं क्षौद्रं शर्करा चामृतं तथा ।
अभिषेक जलस्नानं दत्तानि केशवाय वै ॥ ३ ९॥
वस्त्रेण मार्जितो देवौ वस्त्राभूषणभूषितः ।
गन्धसारोत्तरतैलसुगन्धाद्यैः सुवासितः ॥४० ॥
कुंकुमकज्जलचूर्णचन्दनाद्यैः सुशोभितः ।
मणिहीरकमौत्तिकहारोपवीतभूषितः ॥४ १ ॥
किरीटकुण्डलकटकोर्मिकाशृंखलान्वितः ।
छत्रयष्टिनक्तकचामरपत्त्राणरक्षितः ॥४२॥
पर्यंक गेन्दुक कशिप्वा दर्शादि प्रदापितः ।
पुष्पतुलसीपद्माद्यैः पुण्ड्रैश्चन्द्रैः सुशोभितः ॥४३ ॥
अथ तन्मण्डपे ताम्रपात्रे होमश्च कारितः ।
चतुर्थ्यन्तैर्नाममन्त्रैस्तिलैर्घृतेन सत्फलैः ॥४४॥
अष्टोत्तरशतवारं ततश्च तर्पणं कृतम् ।
देवाश्च पितरश्चेति तृप्यन्तां पुरुषोत्तमः ॥४५॥
अथ नीराजितो देवो बहुवर्त्यनलैस्तथा ।
नमस्कृतः स्तुतः प्रदक्षिणीकृतश्च वैष्णवैः ॥४६॥
दण्डवत्सत्कृतश्चापि ध्यातः श्रीपुरुषोत्तमः ।
क्षमापितो हरिः पुष्पांजलिर्दत्तश्च शार्ङ्गिणे ॥४७॥
अथ संभोजितो देवो मिष्टान्नैस्तर्पितोऽमृतैः ।
अर्पितश्च जलैर्मिष्टफलैस्ताम्बूलचर्वितः ॥४८ ॥
सुगन्धैरुद्वर्तितश्च करयोः पुरुषोत्तमः ।
स्वास्थ्यैर्विश्रमितो देवः पादयोरभिवाहितः ॥४९॥
एवं सर्वैः पूजितश्च भगवान् पुरुषोत्तमः ।
आविर्भूतोऽदृश्यताग्रे फलन्त्वनन्तकं ददौ ॥५ ० ॥
अथाऽऽचार्याय संदत्ता दक्षिणा हेमरूप्यका ।
धेनुदानं कृतं चापि स्वर्णशृंगारभूषितम् ॥५ १ ॥
घृतवस्त्रतिलपात्रं दत्तं विप्राय तत्र च ।
प्रतिमा च प्रदत्ता संहिताशास्त्रं समर्पितम् ॥५२ ॥
कांस्यानि संपुटात्मानि त्रिंशद्दत्तानि वै तदा ।
तदा त्रिंशत्त्रिंशदपूपैश्च मध्ये सम्पूरितानि वै ॥५३ ॥
एतद्ब्रह्माण्डदानं वै कल्पितं पुरुषोत्तमे ।
प्रत्यङ्गं तु यावन्ति छिद्राणि सन्ति पद्मजे ॥५४॥
तावद्वर्षसहस्राणि वैकुण्ठे वसतिर्भवेत् ।
ततो वसतिर्गोलोके ततो धाम्न्यक्षरे परे ॥५५ ॥
अथवाऽपूपसामग्र्यपक्वा देया द्विजन्मने ।
अथ संभोजिता विप्राः सन्तः साध्यश्च बालकाः ॥५६॥
पायसान्नैश्च मिष्टान्नैर्व्यञ्जनैश्चामृतादिभिः ।
चतुर्धा भोजनैर्भक्ष्यभोज्यलेह्यसुचोष्यकैः ॥५७॥
रसैर्दुग्धादिभिर्वार्भिः शर्करैलादिमिश्रितैः ।
ततो जलं मुखशुद्धिस्ताम्बूलकं च दक्षिणा ॥५८॥
वस्त्राण्याभरणान्युत्तमोत्तमान्यर्पितानि वै ।
देवीभ्यो देवताभ्यश्च गुरुभ्योऽप्यर्पितानि च ॥५९ ॥
तत्तल्लोकज तत्त्वानि दानयोग्यानि यानि वै ।
भूतेभ्य आश्रितेभ्यश्चातिथिभ्योऽन्नं समर्पितम् ॥ ६० ॥
ततो भुक्तं स्वजनैश्च सह व्रतिभिरादरात् ।
फलाहारादिकं योग्यं व्रतभंगाऽकरं हि यत् ॥६ १ ॥
मध्याह्नेऽपि कृतं तद्वन्निशि रात्रौ च वै तथा ।
पूजितो भोजितो देवो जागरेण युतैर्जनैः ॥६२ ॥
गीतं च नर्तनं पुण्यं भजनं च कृतं जनैः ।
प्रातः स्नात्वा पूजितश्च क्षमाप्याऽथ विसर्जितः ॥६ ३ ॥
आचार्याय प्रदत्तः स मूर्तिरूपः परेश्वरः ।
एवमुद्यापनं कृत्वा ययुः सर्वे निजालयम् ॥६४॥
फलं चानन्तकं प्राप्तं पुरुषोत्तमसेवनात् ।
ततो लक्ष्मि! यथाशक्ति व्रतमेतत्समाचरेत् ॥ ६५॥
दुःखदारिद्र्यदौर्भाग्यनाशः स्यादिष्टमाप्नुयात् ।
नियमानां परित्यागस्ततः कुर्याद् व्रती जनः ॥६६॥
मध्यभोजी नक्तभोजी ब्राह्मणान् भोजयेद् व्रती ।
अयाचिते व्रते लब्धे स्वर्णदानं समाचरेत् ॥६७॥
मासोपवासिना देया दोग्ध्री गौर्दक्षिणायुता ।
धात्रीव्रती प्रदद्याच्च दधिं क्षीरं च शर्कराम् ॥६८ ॥
फलानां नियमे लक्ष्मि! फलदानं समाचरेत् ।
तैलरोधे घृतं देयं घृतरोधे पयोऽर्पणम् ॥६९॥
धान्यानां नियमे दद्याद् धान्यानि तानि तानि च ।
भूशायित्वे तु पर्यंकगेन्दुककशिपुच्छदान् ॥७०॥
फलपत्रादिनियमे तानि दद्याद् द्विजन्मने ।
मौने घण्टाशंखवाद्यान् दद्याद् देवाय पद्मजे ॥७ १॥
नखकेशधरो दद्यादादर्शं केशकर्चिकाम् ।
उपानहौ प्रदद्याच्च ह्युपानदादिवर्जने ॥७२॥
क्षारत्यागे रसान् दद्याद् दीपदाने तु दीपकान् ।
एकान्तरोपवासी च कुंभानष्टौ प्रदापयेत् ॥७३ ॥
राज्ञां यावत्य इष्टाश्च स्मृद्धयोऽत्र भवन्ति वै ।
देया दाने च ताः सर्वा यथाशक्ति यथाधनम् ॥ ७४॥
एकान्नेन व्रती यायाच्चतुर्बाहुः परां गतिम् ।
एकभोज्युपवास्येव सर्वान्कामानवाप्नुयात् ॥७५॥
पूर्वाह्णे भुंजते देवा मध्याह्ने मुनयस्तथा ।
अपराह्णे पितृगणा नक्तभोजी नरो भवेत् ॥७६॥
दिने दिनेऽश्वमेधस्य फलं नक्तादनो लभेत् ।
द्वादशीव्रतकृद् याति गरुडेन हरेः पदम् ॥७७॥
यस्य यस्य नियमः स्यात्तत्तद्दाने नियोजयेत् ।
तेन पूर्णं व्रतं स्याच्च ब्रह्मलोकप्रदं भवेत् ॥७८॥
अनित्येन शरीरेण साध्यं मोक्षपदं सदा ।
पुरुषोत्तमतुल्यं तु नास्ति लक्ष्मि! त्रिलोकके ॥७९॥
सहस्रजन्मतप्तेन तपसाऽपि न गम्यते ।
यत्फलं गम्यते लोके पुरुषोत्तमसेवया ॥८ ०॥
त्रिरात्रस्नानतश्चात्र शाखामृगोऽक्षरं ययौ ।
आसीद्वै केरले देशे द्विजो धनातिलोलुपः ॥८ १ ॥
तेन कदर्यनाम्ना सः ख्यातिं जगाम देहिषु ।
सदन्नवस्त्रं भुक्तं न स्वाहा स्वधा कृता न वा ॥८२॥
धनं पृथ्व्यां रक्षितं च धर्मकार्यं कृत न च ।
न व्रतं नोत्सवश्चापि न ग्रहणं न कुंभनम् ॥८३॥
कृतं कृतं भिक्षणं तु धनस्याऽटन् विदीनवत् ।
सोऽगान्मालाकारवाटिकायां दुःखं रुदन्मुहुः ॥८४॥
मालाकारो दयां कृत्वा ररक्ष स्वान्तिके हि तम् ।
वाटिकारक्षकं कृत्वा माली ग्रामे गतो भवेत् ॥८५॥
पश्चाज्जघास पक्वानि चाक्रीणत फलानि सः ।
एवं स्तेनक्रियाकर्तुर्जग्मुरयुतवत्सराः ॥८६॥
ममार च वने तत्र नाऽवाप वह्निदारुणी ।
यमदूतैर्नीयमानस्ताड्यमानो यमालयम् ॥८७॥
गच्छन्नुवाच दुष्कर्मफलं प्राप्तं मयाऽद्य वै ।
मानुषं जन्म संप्राप्य न किञ्चित् सुकृतं कृतम् ॥८८ ॥
चौर्यादिसञ्चितं द्रव्यं स्थितं भूमौ निरर्थकम् ।
न धृतं नाऽत्तमेवेति पुण्यं चापि कृतं नहि ॥८ ९ ॥
न कुटुम्बं पोषितं च भार्या कष्टेन योजिता ।
कदर्यो विलपन्नेवं गतो यमपुरं ततः ॥ ९० ॥
चित्रगुप्तोऽवदद्धर्मं पापद्वयं बहूग्रकम् ।
फलचौर्यं तथा विश्वासघातित्वं परं बहु ॥९ १ ॥
श्रुत्वा प्राह यमो दूतान् प्रेतमेनं विधत्थ वै ।
ततोऽस्तु वानरोऽयं तु मुहुर्नरकयातनः ॥ ९२॥
इति दूतैः प्रापितः सः प्रेततां निर्जले वने ।
ततः कपिरभूत् कालंजरे शैले भयंकरे ॥ ९३ ॥
तत्रेन्द्रेण कृतः पूर्वं कुण्डो मृगसुतीर्थकः ।
तत्रैव वानरो जातः पूर्वपुण्यात् तदल्पकात् ॥९४॥
शृणु पूर्वकृतं पुण्यं पुरुषोत्तमशंसनम् ।
चित्रकुण्डलवैश्योऽभूत् पुरुषोत्तमसद्व्रती ॥ ९५॥
दानकृत् तं च भिक्षार्थं कदर्यो गतवान् पुरा ।
प्रशशंस च तं वैश्यं धनलोभेन भिक्षुकः ॥ ९६ ॥
पुरुषोत्तममासस्य व्रतं यद् विधिना त्वया ।
कृतं तादृक् कृतं नैव केनापि त्वत्र भूतले ॥ ९७॥
कृतार्थोऽसि त्वया यत्सेवितः श्रीपुरुषोत्तमः ।
धन्यदो मोक्षदश्चायं मासः श्रीपुरुषोत्तमः ॥९८ ॥
देहि मह्यं धनं किञ्चिदिति मासं शशंस सः ।
तेन पुण्येन तीर्थेऽत्र वानरत्वमुपागमत् ॥ ९९॥
जन्मतस्तस्य वक्त्रेऽभूत्पीडाऽसृगव्रणसंभवा ।
दन्ताः पेतुः क्षुधा व्याप्तो ज्वरातिपीडितोऽभवत् ॥ १०० ॥
पतितः कुण्डनिकटे आयान्माः पुरुषोत्तमः ।
दशमीदिनतः पञ्चाहानि कुण्डजले ययुः ॥ १०१ ॥
व्यसुस्तीर्थजले जातस्तेन दिव्यवपुर्धरः ।
चतुर्भुजोऽभवद् दिव्यदेवीपार्षसेवितः ॥ १० २॥
तीर्थमृतेस्तथा जातः स्नानात् पञ्चाहसत्कृतान् ।
अज्ञानाच्च तथा जातं किं पुनर्विधिना कृतात् ॥ १०३ ॥
ते सदा सुभगाः पुण्यास्तेषां च सफलो भवः ।
येषां पुमुत्तमो मासः स्नानदानजपैर्गतः ॥ १०४ ॥
तानि कोटिगुणान्येव कृतानि पुरुषोत्तमे ।
कपिर्जगाम गोलोकं विमानवरमास्थितः ॥ १०५ ॥
एवं कदर्यश्चौरोऽपि वानरत्वं गतोऽपि च ।
पुरुषोत्तमयोगेन प्राप्तो गौलोकमेव सः ॥ १०६ ॥
पुरुषोत्तममासस्य कथायाः श्रवणादपि ।
मासोपोषणपूजादिफलं पूर्णमवाप्यते ॥ १ ०७॥
श्रुत्वा धर्मं विजानाति श्रुत्वा पापं च नश्यति ।
श्रुत्वा निवर्तते मोहः श्रुत्वा ज्ञानामृतं मिलेत् ॥ १०८ ॥
लक्ष्मीनारायणसंहिताख्यं वेदं पठेद् व्रती ।
शृणुयाच्छ्रीपुरुषोत्तममासे मोक्षदा हि सा ॥ १०९ ॥
यया नार्या कृतो नैव मासः श्रीपुरुषोत्तमः ।
तत्पतिनाऽऽदृतश्चेत् सा लभेत् तत्फलं वरम् ॥ ११० ॥
सती नारी सदा पातिव्रत्यधर्मपरा यदि ।
पतिरूपो भवत्यस्या मासः श्रीपुरुषोत्तमः ॥ १११ ॥
कुरूपो वा कुवृत्तो वा दुःस्वभावोऽपि मद्यपः ।
रोगी क्रोधी स्थवीरो वा मूकोऽन्धो बधिरोऽपि वा ॥ ११ २ ॥
रौद्रो दीनः कदर्यो वा दरिद्रः कुत्सितोऽपि वा ।
कातरः कितवो वापि विषयी लम्पटोऽपि वा ॥ ११३ ॥
सततं देववत्पूज्यः सत्या साध्व्या पतिर्हरिः ।
विधवया कन्यया च पतिरेव हरिः सदा ॥ १ १४॥
सेवनीयः पूजनीयो ध्यातव्योऽध्यासितव्य उत् ।
वाचा च कर्मणा देहेनापि भावनया तथा ॥ ११ ५॥
न पत्युर्विषमं कार्यं नोद्वेजनीय ईश्वरः ।
बाला युवती जरठा पत्यधीना प्रिया भवेत् ॥ ११६ ॥
कामेन लोभेन बलेन वापि दैन्येन भावेन समाश्रयेण ।
रूपेण वासेन धनादिना वा सतृष्णया वेन्द्रियधातुपुष्ट्या ॥ १ १७॥
सदम्बरैर्यानवरैश्च वाहनैराभूषणैर्हीरकरत्नकोटिभिः ।
सुनृत्यगीतैर्बहुलासनैरपि नान्यं भजेत् सा खलु साधुलक्षणा ॥ ११८ ॥
अन्यस्मै दर्शनार्थं शृंगारं कुरुते न वै ।
स्वानुरूपं नरं या न चिन्तयति प्रिया सती ॥ ११९ ॥
सुरूपं तरुणं रम्यं कामिनीनां च वल्लभम् ।
दृष्ट्वा न विकृतिं याति सा वै बोध्या महासती ॥ १२० ॥
भुंक्ते भुक्ते यथा पत्यौ दुःखिते दुःखिना च या ।
मुदिते मुदिता सुप्ते सुप्ता जागर्ति जाग्रति ॥ १२१ ॥
वृद्धभक्ता पतिकार्येऽनुकूला नाऽधिकव्यया ।
गृहाऽऽगतं पतिं प्रत्युत्तिष्ठत्यासनवारिभिः ॥ १२२ ॥
प्रसन्नवदना काले भोजनादिप्रदायिनी ।
भुक्तवन्तं श्रावयेन्नाऽप्रियं शान्तिं ददेत्तथा ॥ १२३ ॥
सेवार्थं सर्वदा भाव्यं प्रीत्यर्थं प्रियया सदा ।
वस्तुव्ययं न चात्यर्थं कुर्वीत गृहरक्षिका ॥ १२४॥
शृंगारश्चातिभूषादि धारयेत् पतितुष्टये ।
त्रेतादौ प्रमदानां स्यादार्तवाऽशोचमेव ह ॥ १ २५॥
तत्र चतुरहान्येव गृहकार्यं न संस्पृशेत् ।
स्नात्वा सूर्यं पतिं कृष्णं दृष्ट्वा पश्चात् क्रियापरा ॥ १ २६॥
भवेत्, भवेत्पुत्रकामा युग्मरात्रिरतिप्रिया ।
पुत्रीकामा त्वयुग्मासु रात्रिषु स्वामिसेविका ॥ १ २७॥
आषोडशरात्रिकं वै गर्भाधानबलं भवेत् ।
तदुत्तरं कमलस्य द्वारं बद्धं प्रजायते ॥ १२८ ॥
न बिभत्सा भवेत् क्वापि रूक्षवाणी भवेन्न च ।
शूर्पवातं नाऽऽददीत नोपाविशेत्तथांऽगने ॥ १ २९॥।
द्वारदारौ चुल्लिकायां पेषण्यां निषदीत न ।
गुरुं वाऽत्युष्णमाहारमजीर्णं न समाचरेत् ॥ १३० ॥
तेनाऽपत्यवती स्यादन्यथा गर्भक्षरो भवेत्।
सपत्नी स्थानमिर्ष्यायाः साध्वीर्ष्या परिवर्जयेत् ॥ १३१ ॥
गृहक्लेशं न जनयेद् रक्षयेत् सर्वथा गृहम् ।
नाऽऽक्रोशेत् पतिमालक्ष्य भर्त्सयेन्न विमानयेत् ॥ १३ २॥
रत्या दद्यात्सुखं तस्मै स्वामिने रक्षिणे सदा ।
पत्याज्ञया बहिर्गच्छेद् देवदर्शनहेतवे ॥ १३ ३॥
पत्यौ देशान्तरं प्राप्ते साध्वी वर्तेत सर्वथा ।
रंगरागविहीना वै श्वश्र्वाद्याज्ञाकरी सदा ॥ १ ३४॥
वस्त्रैरंगैश्च मलिना न भवेच्छुद्धिमाचरेत् ।
स्वामिशिष्टं प्रसादान्नजलं भुञ्जीत भावतः ॥ १ ३५॥
स्नायान्न वस्त्रशून्या वै न नग्ना स्यात् कदाचन ।
नोलूखले न मुसले न घटादौ न चाश्मनि ॥ १ ३६॥
न यन्त्रे न च रथ्यायां सती तूपाविशेत् क्वचित् ।
पतिपादोदकं तीर्थं पिबेत् तीर्थफलप्रदम् ॥ १ ३७॥
व्रतोपवासनियमान् पतिमुल्लंघ्य नाऽऽचरेत् ।
भर्तुश्चरणावभ्यर्च्य भोक्तव्यं प्रियया सदा ॥ १३८ ॥
पत्याक्षेप्त्री सरमा स्यादुलूकी स्वोदरंभरा ।
सूकरी चान्यपार्श्वस्था वागुरी गुप्तभक्षिका ॥ १३ ९॥
अवमानकरी मूका सापत्नेर्ष्या तु दुर्भगा ।
पत्युः कष्टप्रदा नारी कुरूपा रोगिणी भवेत् ॥ १४ ०॥
भर्ता ब्रह्मा हरो विष्णुर्गुरुस्तीर्थं व्रतं जपः ।
शुद्धिः स्वर्गं शुभं दानं तस्मात्पतिं सुसेवयेत् ॥ १४१ ॥
जीवहीनोऽशुचिर्देहा भर्तृहीनाऽशुचिः सती ।
पतिव्रता प्रिया स्वस्याः पतिं स्वर्गं नयेत् सती ॥ १४२॥।
यमदूताः पलायन्ते सतीं दृष्ट्वा तु दूरतः ।
यावत्स्वलोमसंख्यास्ति तावत्कोट्ययुतानि वै ॥ १४३ ॥
भर्त्रा स्वर्गसुखं भुंक्ते रममाणा पतिव्रता ।
विधवया पतिं स्मृत्वा तर्पणं कार्यमन्वहम् ॥ १४४॥
दर्भतिलोदकैः पिष्टफलैर्गोग्रासकैस्तथा ।
अन्यैश्च दानकार्यैश्च पुण्यं समर्जयेत्तु सा ॥ १४५ ।
ब्रह्माण्डं संपुटाकारं कांस्यपात्रकृतं ददेत् ।
मध्यत्रिंशदपूपपूरितं तन्तुसुवेष्टितम् ॥ १४६ ॥
पूजितं चाक्षतपुष्पकुंकुमैरर्पयेत् सती ।
पत्नीव्रतो भवेत् तद्वन्पुमान् पत्नीपरायणः ॥ १४७॥
स्वस्य प्राणं तथा देहं क्षेत्रं शान्तिस्थलीं शुभाम् ।
पत्नीं सम्मानयेन्नित्यं माधुर्येण विलोकयेत् ॥ १४८ ॥
मिष्टं दद्याच्च भाषेताऽऽकारयेत्प्रेमभावतः ।
तिरस्कुर्वीत नो पत्नीं ताडयेन्नाऽऽक्षिपेन्न च ॥ १४९ ॥
वस्त्रभूषाद्यलंकारैर्द्रवचन्दनपुष्पकैः ।
तैलतन्तुकज्जलाद्यैस्तोषयेत् स्वप्रियां सदा ॥ १५० ॥
नोद्वेजयेन्न प्रसह्य भुञ्जीत न च रोधयेत् ।
क्षुधया तृषया पत्नीं कर्मणा दुःखयेन्न च ॥ १५१ ॥
न चाऽविगणयेन्मानहीनां दासीं प्रियां पतिः ।
वंशदां रतिदां वल्लीवदाश्रितां प्रपोषयेत् ॥ १५२ ॥
अथेच्छुकीं न प्रवदेन्नेत्यपि नोच्चरेत्पतिः ।
ओमित्युच्चार्य संदद्यादपेक्षितधनादिकम् ॥ १५३ ॥
भोज्यकार्यं गृहकार्यं रतिकार्यं तनुक्रियाम् ।
पतिकार्यं तथाऽन्यच्च कुर्वाणां सुप्रमोदयेत् ॥ १ ५४॥
नान्यां नारीं समीक्षेत नान्यां व्यवायकृतद्भवेत् ।
नान्यां प्रियो भवेत् क्वापि पत्नीं लक्ष्मीं विहाय वै ॥ १५५ ॥
नान्यां पुष्टिप्रदः स्याच्च नान्यया च रमेत वै ।
यानवाहनदेशाद्युत्सवसामाजकेषु च ॥ १५६॥
नान्यापरो भवेत् क्वापि यदि स्वर्गं हि वाञ्छति ।
एवं धर्मपरौ त्वत्र दम्पती मोक्षभागिनौ ॥ १५७॥
इन्द्रद्युम्नः शतद्युम्नो यौवनाश्वो भगीरथः ।
कल्पकल्पान्तरे चान्ये वैष्णवा राजभूसुराः ॥ १५८ ॥
पुरुषोत्तममाराध्य ययुर्भगवदन्तिकम् ।
पुरुषोत्तममासस्य दुन्दुभिर्येन संश्रुतः ॥ १५९॥
तेन तेन च सर्वत्रोत्सवोऽनुष्ठित एव ह ।
दुन्दुभेस्तु प्रपूजा च कृता नारायणेन च ॥ १६० ॥
यदा यदाऽधिमासोऽपि समागच्छेत् तदा तदा ।
दुन्दुभिना पटहेन कर्तव्याऽऽज्ञाप्रघोषणा ॥ १६१ ॥
धाम्न्यक्षरे रक्षितः श्रीपुमुत्तमेन सर्वदा ।
कृष्णनारायणेन श्रीपुरुषोत्तमशार्ङ्गिणा ॥ १६२ ॥
राधया च श्रिया लक्ष्म्या पार्वत्या प्रभया तथा ।
माणिक्यया जयया च रमया सहितः प्रभुः ॥ १६३
प्रत्यहं त्वधिमासेऽयं पूजनीयः परेश्वरः ।
भोजनाय सेवनीयो ध्यातव्यः पुरुषोत्तमः ॥ १६४॥
श्रोतव्यं मासमाहात्म्यं श्लोकोऽध्यायः प्रपूर्णकः।
गंगादिसर्वतीर्थानां फलं स्यान्नात्र संशयः ॥ १६५
पृथ्वीप्रदक्षिणापुण्यं ब्रह्माण्डोद्धारपुण्यकम् ।
श्रवणेन भवेदस्य मासा मुक्तिस्तथा भवेत् ॥ १६६॥
वर्णास्तथाऽऽश्रमवन्तः श्रेष्ठतां सर्वथा गताः ।
श्रुत्वा मुक्तिं समायान्ति पशुचर्या जना अपि ॥ १६७ ॥
पुरुषोत्तममाहात्म्यं लेखयित्वा सबन्धनम् ।
दद्यादस्य फलं वंशत्रयं गोलोकगो भवेत् ॥ १६८ ॥
माहात्म्यपुस्तकाधारे गृहे तीर्थानि सर्वशः ।
वसन्ति देवताश्चापि वर्तते पुरुषोत्तमः ॥ १६९॥
श्रोता वक्ता श्रावयिता वर्णयिता प्रशंसकः ।
रक्षको व्रतकृद् दाता सर्वे ते पुरुषोत्तमाः ॥ १७० ॥
कृष्णनारायणोऽनादिश्रीहरिः पुरुषोत्तमः ।
संहितोपसमादेष्टा पूजनीयो विशेषतः ॥ १७१ ॥
लक्ष्मीः श्रुत्वा चातितृप्ता पुपूज पुरुषोत्तमम् ।
कृष्णनारायणं देवं पुपूज स्वपतिं हरिम् ॥ १७२ ॥
त्वन्मुखामृतपानेन कृतार्थाऽस्मीत्युवाच सा ।
व्यासं पतिस्वरूपं संपुपूज च ननाम च ॥ १७३ ॥
अहं नारायणो वक्ता लक्ष्मीस्त्वं च नरायणी ।
गृह्णामि त्वत्कृतां पूजां किमन्यच्छ्रोतुमिच्छसि ॥ १७४॥

 इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्येऽक्षरधाम्नि सर्वसृष्टीश्वरैः कृतः पुरुषोत्तममासव्रतोद्यापनाविधिः, नियमपूर्त्यर्थं दानानि, दीपदानफलं, कदर्यमुक्तिः, वानरमोक्षणम्, पतिव्रता- धर्माः, पत्नीव्रतधर्माः, कांस्यसंपुटात्मक ब्रह्माण्डदानं, दुन्दुभिपूजनं, श्रवणादिफलं, चेत्यादिनिरूपणनामा द्वाविंशत्यधिकत्रिशततमोऽध्यायः ।। १.३२२ ।।