लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३२१

विकिस्रोतः तः
← अध्यायः ३२० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३२१
[[लेखकः :|]]
अध्यायः ३२२ →


श्रीनारायण उवाच-
 शृणु लक्ष्मि! चतुर्दश्या व्रतेन नृपसत्तमः ।
चित्रधर्मस्य सत्पुत्रो दृढधन्वेति विश्रुतः ॥ १ ॥
 प्रापद् राज्यं पुत्रपौत्रान् ललनां च पतिव्रताम् ।
अन्ते च भगवल्लोकमवाप योगिदुर्लभम् ॥ २ ॥
 सर्वसद्गुणसम्पन्नो दृष्टवान् वेदपारगः ।
प्रजारक्षाकरः पुत्रो बभूवेति च तत्पिता ॥ ३ ॥
 विचार्य चित्रधर्मा तं स्वराज्ये त्वभ्यषेचयत् ।
अथ चाराधयामीशं कृष्णनारायणं प्रभुम् ॥ ४ ॥
 तदर्थं वनभूमिर्वै योग्या भवति सर्वथा ।
ध्रुवाम्बरीषशर्यातिययातिशशबिन्दवः ॥ ५ ॥
 भगीरथ शिबि रन्तिदेव रुक्मांगदादयः ।
दिवोदासाऽभयखट्वांगदराजर्षिसत्तमाः ॥ ६ ॥
 एते चान्ये च कल्पेषु कल्पान्तरेषु भूभृतः ।
वनं ययुर्महासत्त्वास्त्यक्त्वा भोगाननेकशः ॥ ७ ॥
 अध्रुवेण ध्रुवं प्राप्ता आराध्य पुरुषोत्तमम् ।
अतो मयाऽपि कर्तव्यमरण्ये हरिसेवनम् ॥ ८ ॥
 छित्वा पाशं वासनाख्यं दारापुत्रगृहादिषु ।
इति निश्चित्य मनसा चित्रधर्मा ययौ वनम् ॥ ९ ॥
 पुलहाश्रममासाद्य तपस्तेपे हरिं स्मरन् ।
शुद्धो भूत्वा दिव्यतनुर्हरेर्धाम जगाम सः ॥ १० ॥
 दृढधन्वा पितुश्चौर्ध्वदैहिकं चाकरोत्ततः ।
पुष्करावर्तनगरे राजधानीं विधाय सः ॥ ११ ॥
 भार्यया गुणसुन्दर्या वैदर्भ्या सह भूपतिः ।
शशास सकलां पृथ्वीं चतुर्भिस्तनयैः सह ॥ १ २॥
 चित्रवाक्चित्रवाट्चित्रकुण्डलमणिकुण्डलैः ।
एकदा निशि सुप्तस्य चिन्ताऽऽसीद् दृढधन्वनः ॥ १३ ॥
 दानं तपो जपं होमं नाऽहं वै कृतवान् क्वचित् ।
तथापि वैभवा राज्यं केन भाग्येन मे ननु ॥ १४॥
 ब्राह्मे मुहूर्ते उत्थाय स राजा मृगयामनाः ।
जगामाऽश्वं समारुह्याऽरण्ये वै सरसस्तटम् ॥ १५॥
 समागमद्वटे तत्र कश्चिन्मानुषवाक् शुकः ।
स तु पपाठ सुश्लोकमेकमेव पुनः पुनः ॥ १६ ॥
 ‘सत्यपि वैभवे राज्ये देहादौ सुखदे तथा ।
न चिन्तयसि लक्ष्मीशं कथं पारं समेष्यसि' ॥ १७॥
 श्रुत्वा राजा कीरवाक्यं मुमुदे भवतारकम् ।
कृत्वा तु मृगयां राजा कीरवाक्यं विचारयन् ॥ १८ ॥
 आजगाम गृहं तावत् तत्र वाल्मीकिराययौ ।
राजा प्रपूज्य वाल्मीकिं पप्रच्छ कीरभाषितम् ॥ १९ ॥
 किमुवाच कथं प्राह कोऽसावासीच्छुको मुने! ।
श्रुत्वा क्षणं च तद्ध्यात्वा वाल्मीकिराह भूपतिम् ॥ २० ॥
 शृणु राजँस्तव पूर्वजन्मनश्चरितं यथा ।
ताम्रपर्णीतटे देशे द्रविडे त्वं द्विजोऽभवः ॥ २१ ॥
 सुदेवाख्यश्च ते पत्नीं गौतमी गौतमोद्भवा ।
अप्रजा सा पतिं प्राहाऽपत्यं विना सुदुःखिता ॥ २२ ॥
 सन्ततिः शुद्धवंश्या स्यादत्र परत्र शर्मणे ।
तमप्राप्य वरं पुत्रं जीवितं त्वत्र निष्फलम् ॥ २३ ॥
 तस्मात्सत्पुत्रलाभार्थमावाभ्यां परमेश्वरः ।
आराधनीयः सततं तपसा पुरुषोत्तमः ॥ २४॥
 धर्मपत्न्या वचो मत्वा ताम्रपर्णीतटे शुभे ।
शुष्कपर्णजलाहारौ पंचमे पंचमे दिने ॥ २५ ॥
 चत्वार्यब्दसहस्राणि चेरतुः परमं तपः ।
लोकाश्चकम्पिरे तेन प्रादुर्बभूव माधवः ॥२६ ॥
 गरुडस्थो हरिः प्राह सुदेव! भद्रमस्तु ते ।
गौतमि! श्रीरस्तु तेऽपि कुरुतं मा तपो बहु ॥२७॥
 श्रुत्वा तौ नेमतुः कृष्णमूचतुर्जय माधव! ।
सुदेवः प्राह भगवन्! पुत्रं देहि हरे प्रभो! ॥२८॥
 हरिः प्राह ललाटे ते वर्णाः सर्वे मयेक्षिताः ।
तत्र नैवाऽस्ति ते पुत्रसुखं सप्तसु जन्मसु ॥२९॥
 गौतम्युवाच भाग्याग्रे रमानाथो निरर्थकः ।
दैवमालंबनीयं चेत्! हरिणा किं प्रयोजनम् ॥३ ०॥
 श्रुत्वा हरिं गरुडस्तु प्राह कृष्णं जनार्दनम् ।
भक्तदुःखाऽसहिष्णो! त्वं हर्यर्थं सार्थकं कुरु ॥३ १ ॥
 त्वदाराधनमाहात्म्यं निष्फलं नैव नैव हि ।
कर्तुमकर्तुं सामर्थ्यं मा कुरु त्वं निरर्थकम् ॥३ २॥
 गरुडस्याऽऽग्रहं दृष्ट्वा तथास्त्वित्यवदद्धरिः ।
परं तज्जनितं दुःखं दम्पत्योर्भविता ध्रुवम् ॥३ ३ ॥
 इत्युक्त्वा गरुडे स्थित्वा गोलोकं हरिराययौ ।
गते काले सुदेवस्य पत्न्यां पुत्रोऽभवच्छुभः ॥३४॥
 व्यवर्धत गते काले चोपनीतोऽथ पाठितः ।
देवलर्षिः क्वचित्तत्र समायात् पापनाशनः ॥३५॥
 करं दृष्ट्वा छत्रपद्मयवचामरचिह्नितम् ।
स्फुटदायुष्यरेखं च प्राहाऽऽधुन्वन् शिरस्तदा ॥३६॥
 सुदेव! तनयोऽयं ते द्वादशे हायने जले ।
मृत्युमेष्यति तस्मात्ते माऽस्तु शोकोऽनुभाविनि ॥ ३७॥
 श्रुत्वा शुशूचतुस्तौ च देवलो निर्ययौ ततः ।
अथ प्राप्तेऽनिष्टकालेऽगच्छद्वापीं हि तत्सुतः ॥ ३८॥
 पतितोऽगाधतोयेऽसौ ममज्ज च ममार च ।
ज्ञात्वा पुत्रस्य निधनं वयस्येभ्यः पिता प्रसूः ॥३९॥
 ययतुस्तत्र संगृह्य शवं रुरुदतुर्बहु ।
विलापं चक्रतुश्चाति तत्यजतुर्जलान्नकम् ॥४०॥
 श्रीकृष्णवल्लभो मासः सोऽभवत्पुरुषोत्तमः ।
अजानतोस्तयोरासीत्पुरुषोत्तमसेवनम् ॥४१॥
 तेनाऽत्यन्तप्रसन्नः सन्प्रादुरासीद्धरिः स्वयम् ।
सपत्नीको नमश्चक्रे दण्डवच्छ्रीहरिं द्विजः ॥४२॥
 हरिः प्राह सुदेव! त्वं भाग्यवानसि साम्प्रतम् ।
द्वादशाब्दसहस्रायुः पुत्रस्तेऽयं कृतो मया ॥४३॥
 पुरुषोत्तममाहात्म्यात् प्रसन्नेन मया द्विज! ।
सुचिरं जीवितोऽयं हि तनयः सुखदोऽस्तु ते ॥४४॥
 गार्हस्थ्यमतुलं भुक्त्वा सह पुत्रेण सर्वदा ।
ततस्त्वं ब्रह्मणो लोकं गत्वा तत्र महत् सुखम् ॥४५ ॥
 दिव्याब्दवर्षसाहस्रं भुक्त्वा गन्तासि भूतले ।
ततो राजा चक्रवर्ती दृढधन्वा भविष्यसि ॥४६ ॥
 सम्वत्सराणामयुतं राज्यं भोक्ष्यसि पार्थिवम् ।
गौतमीयं तव पत्नी नाम्ना तु गुणसुन्दरी ।। ४७ ।
 पुत्राश्चत्वार एका च कन्या ते तत्र भाविनः ।
यदा विरमसे मां त्वं कृष्णनारायणं प्रभुम् ॥४८ ॥
 अयं ते तनयो विप्र! शुको भूत्वा तदा वने ।
बोधयिष्यति भक्तेस्तु वाक्यं कृष्णविचिन्तकम् ॥ ४९ ॥
 वाल्मीकिस्त्वां कथां सर्वां यथार्थां कथयिष्यति ।
ततो वैराग्यमापन्नः कृत्वा भक्तिं परां हरेः ॥५ ० ॥
 गमिष्यसि सपत्नीको मोक्षं परं हरेः पदम् ।
वदत्येवं महाविष्णौ समुत्तस्थौ द्विजात्मजः ॥ ५१ ॥
 दम्पती तं सुतं दृष्ट्वा महानन्दौ बभूवतुः ।
ननाम शुकदेवोऽपि श्रीहरिं पितरौ तु तौ ॥ ५२ ॥
 गरुडो ब्राह्मणश्चापि नेमुर्हरिं सभार्यकः ।
कृष्णः प्राहाऽधिमासस्याऽनायासेनापि पालनात् ।५ ३ ॥
 सुतदारापतिपत्नीक्षेत्रराज्यसुखानि वै ।
भवन्त्येव न सन्देहः किमु पुत्रसजीवनम् ॥५४॥
 एकमप्युपवासं यः करोति पुरुषोत्तमे ।
दग्ध्वाऽनन्तान्यनिष्टानि लब्ध्वा पुण्यनिधीन् स तु ।५५ ॥
 सुरयानं समारुह्य वैकुण्ठं याति देहवान् ।
एकतः सर्वपुण्यानि त्वेकतः पुरुषोत्तमम् ॥५६॥
 तोलयामास वेधोऽभूद् गुरुर्वै पुरुषोत्तमः ।
ईशसृष्टौ जीवसृष्टौ ब्रह्मसृष्टावपि स्वयम् ॥ ५७ ।
 पुरुषोत्तममासस्तु सर्वत्र वर्तते महान् ।
तस्य वै पालनेनाऽत्र विजयस्ते भविष्यति ।५८ ।
 इत्युक्त्वा श्रीहरिर्धाम ययौ गरुडवाहनः ।
सुदेवः सः सपत्नीकस्तं मासं समपूजयत् ॥५९ ।
 भुक्त्वाऽथ विषयान् सर्वान् सहस्राब्दान्यहर्निशम् ।
जगाम ब्रह्मणो लोकं सपत्नीको द्विजोत्तमः ।६० ।
 तत्रत्यं सुखमासाद्य सपत्नीको भुवं गतः ।
स एव दृढधन्वा त्वं प्रथितः पृथिवीपतिः ॥ ६१ ॥
 महिषीयं तव पत्नी गौतमी गुणसुन्दरी ।
शुकदेवश्च ते पुत्रो हरिणा योऽनुजीवितः । ६२ ॥
 द्वादशाब्दसहस्रायुर्भुक्त्वा वैकुण्ठमेयिवान् ।
स एव वै शुको भूत्वाऽबोधयत् त्वां स्मृतिं हरेः ॥६ ३ ॥
 पुन्नामनरकात् त्राता पुत्रस्ते सार्थकोऽभवत् ।
इत्येतत् कथितं राजन् प्राग्वृत्तं ते यथा ह्यभूत् ॥६४॥
 शतधन्वा तदाऽपृच्छत् पूजाविधिं मुनिं तदा ।
वाल्मीकिस्त्वाह तं सर्वं विधिं विस्तरतो नृपम् ॥६५ ॥
 ब्राह्मे मुहूर्ते चोत्थाय परंब्रह्म विचिन्तयेत् ।
ततो व्रजेन्नैर्ऋताशां शौचार्थं जलभाजनः ॥६६ ॥
 कर्णे कृत्वा ब्रह्मसूत्रं शौचं मूत्रं विसर्जयेत् ।
जलेनेन्द्रिययुगलं प्रक्षाल्य मृज्जलादिभिः ॥६७॥
 गन्धलेपक्षयशुद्धिं कृत्वा गण्डूषकान् बहून् ।
दन्तशुद्धिं तथा कृत्वा स्नायात्तीर्थादिवारिषु ॥६८ ॥
 आयुर्बलं यशो वर्चः प्रजा पशुवसूनि च ।
ब्रह्म प्रज्ञा च मेधा च वर्धन्ते स्नायिनोऽन्वहम् ॥६९॥
 शुद्धे वस्त्रे परिधाय प्राङ्मुखो बद्धसंशिखः ।
सपवित्रेण हस्तेन कुर्यादाचमन ततः ॥७० ॥
 ऊर्ध्वपुण्ड्रं सबिन्दुं च कुर्याच्चन्दनमृत्स्नया ।
शंखचक्रादि कुर्याच्च धारयेत् तुलसीस्रजम् ॥७ १ ॥
 प्राणायामं तथा सन्ध्यां गायत्रीजपनं चरेत् ।
शुचौ देशे गोमयेन मण्डलं तण्डुलादिभिः ॥७२ ॥
 कारयित्वा च तन्मध्ये कलशं सजले न्यसेत् ।
कलशस्य मुखे विष्णुः कण्ठे रुद्रः सदा स्थितः ॥७३ ॥
 तस्य मूले स्थितो ब्रह्मा मध्ये तिष्ठन्ति मातरः ।
कुक्षौ तिष्ठन्ति भूद्वीपसहिताः सप्त सागराः ॥७४॥
 तिष्ठन्ति ऋग्यजुःसामाऽथर्वाणोऽङ्गयुतास्तथा ।
गंगा गोदावरी सौर्या कावेरी च सरस्वती ॥७५॥
 तिष्ठन्त्वत्र जले नद्यः पापनाशविधायिकाः ।
चन्दनाऽक्षतपुष्पाणि समर्पयामि ओं नमः ॥७६ ॥
 नैवेद्यं फलताम्बूले समर्पयामि ओं नमः ।
इत्यभ्यर्च्य ततः शंखं पूजयेदक्षतादिभिः ॥७७॥
 घण्टां च पूजयेद् रम्यामक्षतैः कुंकुमादिभिः ।
पात्रं घटोपरि न्यस्येत् तिलयुक्शर्करान्वितम् ॥७८॥
 पीताम्बरं शुभं चापि हैमं राधायुतं हरिम् ।
पुरुषोत्तममासस्य दैवतं तं प्रपूजयेत् ॥७९॥
 अनलोत्तारणं कृत्वा कुर्वीत प्राणधारणाम् ।
स्पृष्ट्वा द्वौ तत्कपालौ तु दक्षिणेन करेण वै ॥८ ० ॥
 दत्वा च हृदयेऽङ्गुष्ठं प्राणाँस्तत्र सुधारयेत् ।
अस्यै प्राणाः प्रतिष्ठन्तु चास्यै प्राणाः क्षरन्तु च ॥८ १ ॥
 अस्यै देवत्वयुक्तायै स्वाहा नारायणाय वै ।
ध्यायेद् देवं तत आवाहयेन्नाथं हृदि स्थितम् ॥८ २॥
 आवाहयामि राधाश्रीसहितं पुरुषोत्तमम् ।
आसनं चार्पयाम्यस्मै श्रीकृष्णाय तु शार्ङ्गिणे ॥८ ३ ॥
 समर्पयामि सलिलं पादप्रक्षालनाय ते ।
अर्घ्यं फलान्वितं चैवाऽर्पयामि परमात्मने ॥८४॥
 तीर्थजलान्याचमनं तेऽर्पयामि राधिकापते ।
पयो दधि घृतं क्षौद्रं शर्करा चार्पयामि ते ॥८५॥
 पञ्चस्नानं जलस्नानं तथा ते कारयाम्यहम् ।
पीतधौत्रं चोत्तरीयं समर्पयामि केशव! ॥८६॥
 कौस्तुभं ब्रह्मसूत्रं च भूषां ददामि ते प्रभो ।
सुगन्धतैलसारादि चन्दनं चार्पयामि ते ॥८७॥
 कुंकुमाक्षतपुष्पाणि चार्पयानि गृहाण वै ।
धूपं दिव्यरसोपेतं त्वर्पयामि च ते प्रभो ॥८८ ॥
 दीपं घृतोज्ज्वलं तुभ्यं चार्पयामि हरे प्रभो ।
पायसाद्यं च नैवेद्यं समर्पयामि केशव ॥८९॥
 आचमनं जलपानं फलं ताम्बूलकं तथा ।
करोद्वर्तनकं चैव समर्पयामि माधव ॥९० ॥
 सुवर्णदक्षिणां हाराऽक्षतान् ददामि केशव! ।
नीराजयामि देवेशं प्रदक्षिणं करोमि च ॥ ९१ ॥
 पुष्पांजलिं चार्पयामि नमस्कारं करोमि च ।
न्यूनं ते पूजने किंचित् क्षमस्व पुरुषोत्तम ॥९२॥
 होमं कुर्यादखण्डं च घृतदीपं समाचरेत् ।
पुरुषोत्तमतुष्ट्यर्थे सर्वार्थफलसिद्धये ॥ ९३ ॥
 इति नित्यं पूजयेत्तं दद्याद्दानानि शक्तितः ।
भोजयेद् भोज्यपात्राणि वृद्धाँश्च पादयोर्नमेत् ॥९४॥
 हविष्यभोजनं कुर्याद् व्रती देवप्रसादकम् ।
गोधूमाः शालयो मुद्गा यवास्तिलाश्च शर्कराः ॥९५॥
 कङ्गूखर्जूरनीवारा द्राक्षाः कन्दाश्च कर्कटी ।
मूलं शाकानि पत्राणि खाद्यपुष्पाणि मूलकम् ॥९६॥
 कान्दकानि कदलानि दधिं दुग्धं तथाऽऽर्द्रकम् ।
शुण्ठी चाम्रफलं तक्रं पनसं च हरीतकीं ॥९७॥
 पिप्पलीजीरकं चामलकं तिन्तिडिका तथा ।
क्रमुकं चैक्षवं सर्वं सात्त्विकं व्रतिभोजनम् ॥ ९८ ॥
 राजसं राजिकाराद्धं तामसं चामिषादिकम् ।
वातुलं द्विदलाद्यं च परान्नादि विवर्जयेत् ॥९९ ॥
 ब्रह्मचर्यमधःशय्यां पत्रावल्यां च भोजनम् ।
एकभुक्तं च कुर्वीत निन्दामात्रं विवर्जयेत् ॥ १०० ॥
 उपोषणेन दुग्धेन दध्ना जलेन सर्पिषा ।
पत्रेणापि फलेनापि कर्तव्यः पुरुषोत्तमः ॥ १०१ ॥
 व्रतभंगो यथा न स्यात्तथा कार्यं प्रभोजनम् ।
तुलसीदललक्षेणाऽऽर्चने पुण्यमनन्तकम् ॥ १० २।
 पुरुषोत्तममासस्य व्रत्यपि पुरुषोत्तमः ।
चतुर्भुजो भवेदेव वैकुण्ठे वसति ध्रुवम् ॥ १०३ ॥
 अखण्डदीपो दातव्यो मासे श्रीपुरुषोत्तमे ।
सौभाग्यनगरे राजा चित्रबाहुरभूत्पुरा ॥ १ ०४॥
 तस्य चन्द्रकला भार्या ह्युभावास्तां सुधार्मिकौ ।
अगस्त्यश्च मुनिस्तस्य भवनं त्वाजगाम ह ॥ १० ५॥
 पूजयित्वा विनयेन चित्रबाहुरुवाच ह ।
अद्य मे गृहसाम्राज्यजन्मादि सफलं खलु ॥ १०६ ॥
 यस्त्वं समागतो मेऽद्य गृहे श्रीकृष्णवल्लभः ।
तुभ्यं सर्वं ददाम्यद्य वैष्णवाय महात्मने ॥ १ ०७॥
 मेरुतुल्यफलं स्याच्च मनागप्यर्पितं तु ते ।
विष्णवे विष्णुभक्तायाऽनर्पितो दिवसोऽफलः ॥ १०८ ॥
 वैष्णवा वाङ्मनःकायकर्मभिः सेवनार्हणाः ।
तस्य धन्याः प्रजाः सर्वा यद्गृहे वैष्णवो जनः ॥ १०९ ॥
 वस्तव्यं वैष्णवे देशे राज्ये वैष्णवभूभृति ।
अमंगलं तथा काणं बोध्यं राष्ट्रमवैष्णवम् ॥ ११० ॥
 श्रीकृष्णाश्रितभक्तस्य राज्ञो राज्यं विवर्धते ।
मुने! लक्ष्मीर्विपुलं मे तथा राज्यमकंटकम् ॥ १११ ॥
 पतिव्रता च मे पत्नी केन पुण्येन मे वद ।
श्रुत्वाऽगस्त्यश्च तं प्राह चमत्कारपुरे पुरा ॥ ११ २॥
 त्वमभूः शूद्रजातीयो मणिग्रीवोऽतिनास्तिकः ।
सुरा मांस व्यवायाति चौर्य दुर्गुणवारिधिः ॥ ११ ३॥
 पतिभक्ता त्वियं भार्या सदा सद्भावनावती ।
राज्ञा विवासितस्त्वं तु गतोऽरण्यं प्रियायुतः ॥ ११ ४॥
 मृगयाजीवनस्त्वं तु वने संदृष्टवान् मुनिम् ।
तृषितं च मुमूर्षुँ च ह्युग्रदेवं द्विजं तदा ॥ १ १५॥
 उत्थायोत्तोल्य सलिलं फलं दत्वाऽप्रमोदयत् ।
मुनिः प्राह सुसन्तुष्टो मणिग्रीव! सुखी भव ।११६ ॥
 जीवितं दत्तवाँस्त्वं मे ब्रूहि किं ते ददाम्यहम् ।
मणिग्रीवस्तदा प्राह दारिद्र्यं नश्यतान्मम ॥ १ १७॥
 अतुला वैभवाः सन्तु पूर्णा मे स्युर्मनोरथाः ।
इतीच्छामि तदा प्राह मुनिस्तथा भवन्तु ते ॥ ११८ ॥
 आगामिन्यधिमासे वै पावने पुरुषोत्तमे ।
दीपो देयो मन्दिरे श्रीपुरुषोत्तमतुष्टये ॥ ११ ९॥
 न ते तीव्रदारिद्र्यं समूलं नाशमेष्यति ।
तिलतैलेन वाऽऽज्येनेङ्गुदीतैलेन वापि च ॥ १२० ॥
 मासमेकं सदा स्नात्वा देवं नत्वा प्रदीपकम् ।
देहि तेन महाराज्यं पृथ्व्यां ते वै भविष्यति ॥ १२१ ॥
 यज्ञादीनि तु कर्माणि कृच्छ्रचान्द्रायणानि च ।
वेदपाठो गयाश्राद्धं कुरुक्षेत्रग्रहास्तथा ॥ १ २२॥
 तीर्थानि सर्वदानानि धर्मकार्याणि यानि च ।
पुरुषोत्तमदीपस्य कलां नार्हन्ति षोडशीम् ॥ १२३ ॥
 अधिमासव्रतं श्रेष्ठं दीपश्चान्तःप्रकाशकः ।
धनधान्यपशुपुत्रपौत्रदारायशस्करम् ॥ १ २४॥
 वन्ध्यात्वनाशकं नार्या अवैधव्यकरं व्रतम् ।
राज्यदं चेष्टदं भर्तृप्रदं पत्नीप्रदं व्रतम् ॥ १२५ ॥
 विद्यासिद्धिकोशमोक्षप्रदं दीपार्पणव्रतम् ।
इति पूर्वं त्वया दत्तो दीपं श्रीहरये वने ॥ १२६ ॥
 तेन पुण्येन सद्राज्यं लक्ष्मीं पत्नीं पतिव्रताम् ।
प्राप्तवानसि राजेन्द्र! पुनः कुर्या लभिष्यसि ॥ १ २७॥
 इत्युक्त्वाऽगस्त्यऋषिराट् प्रयागं संजगाम ह ।
राज्ञा तेनापि विधिना प्राप्ते श्रीपुरुषोत्तमे ॥ १२८ ॥
 कृतं दीपप्रदानं च ततो मोक्षमवाप सः ।
इत्युक्त्वाऽर्हणमादाय वाल्मीको निर्जगाम ह ॥ १ २९॥
 ततो मासे समायाते श्रेष्ठे श्रीपुरुषोत्तमे ।
चतुर्दश्यां प्रगे कृष्णदुन्दुभिर्दृढधन्वना ॥ १३० ॥
 श्रुतः कुर्वन्तु चाऽद्यैव व्रतं दीपं सजागरम् ।
स्वर्गं मोक्षं प्राप्नुवन्तु तेन पुण्येन मद्वरात् ॥ १३१ ॥
 इति श्रुत्वा दृढधन्वा स्मृत्वा सर्वं व्रतं तदा ।
सकुटुम्बो निराहारश्चक्रे सदीपजागरम् ॥ १३२ ॥
 महान्तमुत्सवं चक्रे ददौ दानानि गोभुवाम् ।
रात्रौ समाजगामाऽयं श्रीकृष्णः पुरुषोत्तमः ॥ १३३ ॥
 सकुटुम्बं गरुडेन ब्रह्मलोकं निनाय तम् ।
किमु कथ्यं महालक्ष्मि! माहात्म्यमाधिमासिकम् ॥ १ ३४॥
 कर्ता धर्ता समुद्धर्ता यत्र श्रीपुरुषोत्तमः ।
पोष्टा तुष्टः प्रदाता च भोक्ता श्रीपुरुषोत्तमः ॥ १ ३५॥
 य इदं शृणुयाल्लक्ष्मि! पठेद्वा पाठयेदपि ।
सोऽधिमासफलं लब्ध्वा ब्रह्मलोकं प्रयाति हि ॥ १ ३६॥
 सकामः स्वर्गमासाद्य पारमेष्ठ्यपदं तथा ।
महेशादिपदं प्राप्य ब्रह्मलोके महीयते ॥ १३७ ॥
 यैस्तु संपूजितो मासः सर्वं तैरभिपूजितम् ।
सर्वं प्राप्तं भवेत् तेन प्राप्तः श्रीपुरुषोत्तमः ॥ १३८ ॥
 येन नीतोऽधिमासोऽयं वन्ध्यस्तस्य तु सम्पदः ।
वन्ध्याः पुण्यं कृतं सर्वे वन्ध्यं स्यान्नात्र संशयः ॥ १३९ ॥
 ये केचित् सुखिनः सन्ति सुरमानवदानवाः ।
पुरुषोत्तममासस्य फलं लक्ष्मि! न चेतरत् ॥ १४०॥
 इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये दृढधन्वाऽरण्ये शुकोक्तश्लोकं श्रुत्वा तदर्थं वाल्मीकं पृष्ट्वा, स्वीयं प्राग्भवीयं सुदेवद्विजत्वं पुत्रवत्त्वं च पुत्रनिधने च पुरुषोत्तममासकरणेन पुत्रजीवितत्वं स त्वयं पुत्रः शुकः श्लोकवक्ता त्वं त्विदानीं दृढधन्वा जात इति वृत्तान्तं ज्ञातवान्; पुरुषोत्तममासपूजाविधिं च ज्ञातवान्, अधिकमासे दीपदानेन मणिग्रीवशूद्रस्य जन्मान्तरे चित्रबाहुनृपतित्वं राज्यप्राप्तिश्चागस्त्येन कथिता, तदपि ज्ञातवान् , ततश्च चतुर्दशीव्रतं कृत्वा दृढधन्वा सकुटुम्बो मोक्षमवापेत्यादिनिरूपणनामा एक-विंशत्यधिकत्रिशततमोऽध्यायः ॥ १.३२१ ॥