लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २८३

विकिस्रोतः तः
← अध्यायः २८२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २८३
[[लेखकः :|]]
अध्यायः २८४ →

श्रीनारायण उवाच -
शृणु लक्ष्मि! प्रवक्ष्यामि विख्यातं हरिपञ्चकम् ।
नारीनराणां सुखदं व्रतं सर्वव्रतोत्तमम् ।। १ ।।
मार्गशुक्लदशम्यां तु स्नात्वा देवार्चनं चरेत् ।
पञ्चयज्ञान् विधायापि त्वेकभुक्तं दिनं नयेत् ।। २ ।।
एकादश्यां प्रगे स्नात्वा हरिं पञ्चामृतैस्तथा ।
तीर्थजलैः स्नापयित्वाऽर्चयेद् गन्धद्रवादिभिः ।। ३ ।।
आवाहनात् समारभ्य विसर्जनावधिं क्रियाम् ।
धूपदीपसुनैवेद्यताम्बूलदक्षिणान्विताम् ।। ४ ।।
पूजात्मिकां व्रती कृत्वा श्रीहरिं प्रार्थयेत् पुरः ।
पञ्चरात्रं निराहारो ह्यद्यप्रभृति माधव ।। ५ ।।
करिष्ये हरिपंचाख्यं व्रतं पूर्णं च मे भवेत् ।
एकभुक्तो दशम्यां वै रात्रौ भूशयनो भवेत् ।। ६ ।।
एकादश्यां त्रिषवणं अर्चनं त्रिनिवेदनम् ।
रात्रौ जागरणं कुर्याद् गीतनृत्यकथानकैः ।। ७ ।।
द्वादश्यां च त्रयोदश्यां चतुर्दश्यां त्रिकं चरेत् ।
पौर्णमास्यामपि स्नानार्चननैवेद्यमाचरेत् ।। ८ ।।
पौर्णमास्यां तथा रात्रौ कुर्याज्जागरणं व्रती ।
पञ्चामृतादिपूजां तु प्रकुर्याद्दिनपञ्चसु ।। ९ ।।
दुग्धेन स्नापयेद् विष्णुं पौर्णायामथ षष्ठके ।
तिलहोमं तिलदानं पञ्चगव्याशनं तथा ।। 1.283.१० ।।
कृत्वा विप्रान् भोजयेच्च पूजयेद्विधिवद्धरिम् ।
साधुसाध्वीर्भोजयेच्च स्वयं भुञ्जीत बन्धुभिः ।। ११ ।।
एवं संवत्सरं कार्यं प्रतिमासं व्रतं शुभम् ।
उद्यापनं मार्गशीर्षे कार्यमौदार्यपूर्वकम् ।। १२।।
शुक्लपक्षव्रतस्यात्र शुक्लैकादशिकादिने ।
निराहारो द्वादश्यां तु पंचगव्यं ग्रसेद् व्रती ।। १३ ।
पुष्पादिभिर्हरिं चैवाभ्यर्च्य दद्याद् द्विजातये।
पायसं शर्करायुक्तं घृतयुक्तं फलान्वितम् ।। १४।।
मिष्टान्नशाकपत्राद्यैरन्वितं प्रसमर्पयेत् ।
सुगन्धजलसद्रत्नदक्षिणावस्त्रसंयुतम् ।। १५।।
पूर्णं च कलशं दद्यादात्मविदे तु साधवे ।
सर्वस्वं गुरवे दद्याद् भोजयेद् बालबालिकाः ।। १६।।
साधून् साध्वीर्भोजयेच्च स्वयं भुञ्जीत पारणाम् ।
एतद्व्रतं तु ते प्रोक्तं हरिपञ्चकसंज्ञितम् ।। १७।।
तत्कर्तुः पुनरावृत्तिर्ब्रह्मलोकान्न वै भवेत् ।
गवां कोटिसहस्राणां दानस्य फलमाप्नुयात् ।। १८।।
पठेदेतच्च शृणुयाद् वाचयेच्छ्रावयेच्च वा ।
तस्यापि व्रतपुण्यं स्याद् भुक्तिं मुक्तिं लभेत च ।। १९।।
अथान्यत्ते प्रवक्ष्यामि व्रतं मासोपवासकम् ।
पाराकाख्यं महालक्ष्मि! यत्तुल्यं नान्यदुच्यते ।।1.283.२०।।
आषाढे श्रावणे वापि भाद्रे चाश्विनकेऽपि वा ।
एतेष्वन्यतमे मासे शुक्लस्याऽऽद्यदिने प्रिये ।।२१।।
प्राशयेत् पंचगव्यं च तिष्ठेद्विष्णुसमीपतः ।
स्नात्वा ध्यात्वा प्रगे विष्णुं नित्यकर्म समाप्य च ।।२२।।
विष्णुं समर्च्य संकल्पं कुर्यान्मासोपवासकम् ।
स्वस्तिवाचनमन्त्राँश्च वाचयेद् ब्राह्मणस्तदा ।।२३ ।।
प्रार्थयेच्च व्रती देवं त्वद्यप्रभृति माधव! ।
मासमेकं निराहारो भविष्याभीष्टमावह ।।२४।।
ततः प्रभृति मासान्तं निवसेद्धरिमन्दिरे ।
नित्यं पंचामृतैर्देवं स्नापयेद् दीपमाददेत् ।। २५।।
अपामार्गशलाकां खादयेत् स्नायात् स चान्वहम् ।
देवं समर्चयेन्नित्यं बालान् विप्राँश्च भोजयेत् ।।२६।।
एवं मासोपवासाँश्च कुर्याद् द्वादशवत्सरान् ।
प्रतिवर्षं च गोदानं विप्रपितृप्रतर्पणम् ।।२७।।
दक्षिणाभरणान्नानि दद्याद् दानानि शक्तितः ।
एकमासोपवासेन राजसूयफलं भवेत् ।।२८।।
मासोपवासद्वितये फलं तद्द्विगुणं भवेत् ।
मासोपवासत्रितये चतुर्गुणफलं भवेत् ।। २९।।
चतुःकृत्वःकृते पुण्यमष्टाग्निष्टोमजं भवेत् ।
पञ्चकृत्वःकृते पुण्यमत्यग्निष्टोमजं भवेत् ।।1.283.३ ० ।।
षटकृत्वःसंकृतं ज्योतिष्टोमाऽष्टकफलं भवेत् ।
सप्तकृत्वःकृते वाजिमेधाष्टकफलं भवेत् ।।३ १।।
अष्टकृत्वःकृते नरमेधाष्टकफलं भवेत् ।
नवकृत्वःकृते पुण्य गोमेधाष्टकजं भवेत् ।।३२।।
दशकृत्वःकृते ब्रह्ममेधाष्टकफलं भवेत् ।
एकादशपराके तु हरेः सारूप्यमश्नुते ।।३३।।
सद्वादशपराके तु लभेन्मुक्तिचतुष्टयम् ।
पाराकव्रतकर्तारो मुक्ता एव न संशयः ।।३४।।
नारी वा पुरुषो वापि व्रतकृन्मोक्षमाप्नुयात् ।
व्रताख्यानं पठेद्वापि शृणुयान्मोक्षभाग् भवेत् ।।३५।।
नास्ति गंगासमं तीर्थं नास्ति मातृसमो गुरुः ।
नास्ति विष्णुसमो देवस्तपो नाऽनशनात्परम् ।।३६।।
नास्ति क्षमासमा माता नास्ति कीर्तिसमं धनम् ।
नास्ति ज्ञानसमो लाभो नास्ति धर्मसमः पिता ।।३७।।
न विवेकसमो भ्राता नैकादश्याः समं व्रतम् ।
नास्ति ब्रह्मसमं पात्रं नास्ति पत्नीसमं प्रियम् ।।३८।।
नास्ति साधुसमा नौका नास्ति पाराकवद् व्रतम् ।
दानं होमादिकं कार्यं प्राप्ते पुण्येऽहनि प्रिये ।।३९।।
तृतीया माधवे शुक्ला भाद्रे कृष्णा त्रयोदशी ।
कार्तिके नवमी शुद्धा माघे पञ्चदशी तिथिः ।।1.283.४०।।
एता युगाद्याः कथिता दत्तस्याऽक्षयकारिकाः ।
अक्षयुक्छुक्लनवमी कार्तिके द्वादशी सिता ।।४१ ।।
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ।
आषाढशुक्लदशमी सिता माघस्य सप्तमी ।।४२।।
श्रावणस्याऽष्टमी कृष्णा तथाऽषाढी च पूर्णिमा ।
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी सिता ।।४३।।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता ।
मन्वादयः समाख्याता दत्तस्याऽक्षयकारिकाः ।।४४।।
पुष्करादिषु तीर्थेषु गंगादिषु सरित्सु च ।
अयोध्यायां मथुरायां मायायां काशिकाभुवि ।।४५।।
काञ्च्यामवन्तिकायां द्वारकायां दत्तमक्षयम् ।
अतिथौ वेदविद्विप्रे साधुसाध्वीसतीषु च ।।४६।।
देवे देवसमे पुंसि दत्तमक्षयपुण्यकृत् ।
ब्रह्मचारिषु यद्दत्तं भबेदक्षयपुण्यकृत् ।।४७।।
व्रतिना सर्वथा कार्यं तपो दानं च पूजनम् ।
कारणीयं भोजनादि सर्वं चाऽक्षयपुण्यदम् ।।४८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने हरिपञ्चकव्रतमासोपवासव्रततदुद्यापनयुगमन्वादि-तिथिदानमाहात्म्यादिनिरूपणनामा त्र्यशीत्य-
धिकद्विशततमोऽध्यायः ।।२८३।।