लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २८२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २८१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २८२
[[लेखकः :|]]
अध्यायः २८३ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथयामि लक्ष्मीनारायणव्रतम् ।
सर्वपापहरं पुण्यं यावद्दुःखनिबर्हणम् ।। १ ।।
ब्राह्मणक्षत्रियविशां शूद्राणां योषितां तथा ।
समस्तकामफलदं सर्वव्रतफलप्रदम् ।। २ ।।
दुःस्वप्ननाशकं धर्म्यं दुष्टग्रहनिवारकम् ।
येन चीर्णेन पापानां कोटिराशिः प्रशाम्यति ।। ३ ।।
मार्गशीर्षपूर्णिमायां स्नात्वा ब्राह्मे मुहूर्तके ।
शुद्धवस्त्रधरः शुद्धासनस्त्वाचम्य वाग्यतः ।। ४ ।।
स्मरन्नारायणं नित्यं कृत्वा देवार्चनं ततः ।
देशकालादिसंकल्प्य लक्ष्मीनारायणं प्रभुम् ।। ५ ।।
आवाहयेत्पूजयेच्चाऽऽसनाद्यर्पणमाचरेत् ।
पञ्चामृतादिभिः स्नपयित्वा शृगारमर्पयेत् ।। ६ ।।
गन्धचन्दनपुष्पादिमालाधूपप्रदीपनैः ।
शृगारैर्भोजनैः पेयैः फलैस्ताम्बूलगायनैः ।। ७ ।।
नृत्यस्तवनभजनैः क्षमायाचनकैस्तथा ।
तोषयित्वा पुरस्तस्य स्थण्डिले चतुरस्रके ।। ८ ।।
अरत्निमात्रं त्वनलं स्थापयेत्तु विधानतः ।
आज्यभागान्तपर्यन्तं कृत्वा पुरुषसूक्ततः ।। ९ ।।
वरुणा च तिलैः पुष्पैर्वृतेन जुहुयात् फलैः ।
रसैश्चान्यहविष्यान्नैर्जुहुयाद्वै यथाबलम् ।। 1.282.१० ।।
पापनाशाय शुद्ध्यादिप्रायश्चित्तं समाचरेत् ।
होमं समाप्य च जपेच्छान्तिसूक्तं ततः पुनः ।। १ १।।
पूजयेच्छ्रीहरिं सम्प्रार्थयेद् व्रतप्रपूर्तये ।
निराहारश्च पूर्णायां पारणाकृत्परेऽहनि ।। १ २।।
वर्तिष्ये इति संकल्प्य दद्यादर्ध्यं तदेन्दवे ।
गृहाणाऽर्घ्यं शुक्लपुष्पाऽक्षताद्युक्त क्षपाकर ।। १३।।।
नमः शुक्लांशवे तुभ्यं लक्ष्मीभ्रात्रे नमो नमः ।
कुर्याज्जागरणं रात्रौ कथाकीर्तननर्तनैः ।। १४।।
प्रातः सम्पूजयेत् कृष्णं ब्राह्मणान् भोजयेत् सतः ।
दानादिदक्षिणा दद्याद् बालान् साध्वी प्रभोजयेत् ।। १५।।
स्वयं भृत्यादिभिः सार्ध कुर्याद्वै पारणां व्रती ।
एवं संवत्सरं कृत्वा कार्तिकीपूर्णिमादिने ।। १६।।
उद्यापनं महत् कुर्यान् मण्डपं कारयेच्छुभम् ।
मण्डले सर्वतोभद्रे घटे रत्नदलान्विते ।। १७।।
तिलस्थाल्यां पूजयेच्छ्रीलक्ष्मीनारायणं प्रभुम् ।
आवाहनादिकं कुर्यात् पञ्चामृतादिनाऽऽप्लवम् ।। १८।।
गन्धभूषाम्बरैर्मालाधूपदीपादिनाऽर्चनम् ।
भक्ष्यभोज्यादिनैवेद्यं मिष्टशीतलवारि च ।। १ ९।।
समर्पयेच्च ताम्बूलं फलाद्यर्पणमित्यपि ।
जागरं नृत्यगानादि तथा नीराजनादिकम् ।। 1.282.२० ।।
कृत्वा प्रस्वापयेत् कृष्णं पुनः प्रातः समर्चयेत् ।
आचार्याय ददेन्मूर्ति दक्षिणां भोजयेद् द्विजान् ।।।२ १।।
कुर्यात् तिलादिभिश्चाग्नौ होमं दानानि चार्पयेत् ।
भोजयेत् साधुसाध्व्यादीन् तिलाद्यर्पणमाचरेत् ।। २२।।
एवं कृत्वा व्रती सम्यक् लक्ष्मीनारायणव्रतम् ।
इह भुक्त्वा पुत्रपौत्रकुटुम्बसहितः सुखम् ।। २३।।
भोगांश्च विविधाँश्चान्ते याति विष्णोः परं पदम् ।
योगिनां दुर्लभं सर्वं प्राप्नोति श्रीहरीक्षणात् ।।२४।।
शृणु लक्ष्मि! ध्वजारोपव्रतं तेऽत्र वदामि यत् ।
राज्यदं जयदं विष्णुप्रीतिकारकमुत्तमम् ।।२४१ ।।
देवस्य श्रीहरेर्यद्वा तद्विभूतेश्च मन्दिरे ।
ध्वजदानं प्रकुर्याद्यः स स्यात्पूज्यो द्युवासिनाम् ।। २६।।
हेमभारसहस्रस्य दानजं फलमाप्नुयात् ।
गंगास्नानसमं पुण्यं शिवार्चनसमं फलम् ।।२७।।
तुलस्यर्चासमं पुण्यं ध्वजारोपणतो भवेत् ।
अहोऽपूर्वमहोऽपूर्वमहोऽपूर्वमिदं व्रतम् ।। २८।।
सर्वपापहरं सर्वपुण्यदं ध्वजरोपणम् ।
कार्तिके वाऽन्यमासे वा दशम्यां सितपक्षके ।।।२९।।
स्नात्वा स्वनैत्यिकी पूजां कृत्वैकाशी भवेद् व्रती ।
भुवि स्वपेन्निशि स्मरेन्नारायणं प्रगे पुनः ।।1.282.३ ०।।
एकादश्यां च विधिना स्नात्वा ध्यात्वा हरिं ततः ।
श्रीविष्णोः पूजनं कृत्वा भोजनादिसमन्वितम् ।।३ १ ।।
अथ विप्रैश्चतुर्भिश्च स्वस्तिवाचनमर्थयेत् ।
नान्दीश्राद्धं प्रकुर्वीत ध्वजस्तंभौ समानयेत् ।। ३२।।
वस्त्रयुतौ च तौ कृत्वा गायत्र्या प्रोक्षयेच्च तौ ।
सूर्यं चन्द्रं विधातारं धातारं गरुडं तथा ।।३ ३ ।।
ध्बजदण्डौ पूजयेच्च शुक्लपुष्पाक्षतादिभिः ।
कुंकुमचन्दनगन्धैर्हरिद्राशर्करादिभिः ।।३४।।
ततो गोचर्ममात्रं तु स्थण्डिलं चोपलिप्य च ।
आधायाऽग्निं वेदमन्त्रैराज्यभागादिकं तथा ।। ३५ ।।
जुहुयात्पायसं धान्यं साज्यमष्टोत्तरं शतम् ।
पौरुषेण तु सूक्तेन विष्णोर्नामभिरित्यपि ।। ३६ ।।
इरावतीमनुवाकमुच्चार्य जुहुयाद् व्रती ।
ततश्च वैनतेयाय स्वाहेत्यष्टाहुतीः पुनः ।।३७।।
सोमो धेनुमुदुत्यं च जुहुयाच्च ततः पुनः ।
सौरमन्त्राज्जपेच्छान्तिसूक्तानि च वदेत्तदा ।। ३८।।
निर्जलं तु व्रतं कृत्वा रात्रौ जागरणं चरेत् ।
द्वादश्यां प्रातरुत्थाय स्नात्वाऽभ्यर्च्य हरिं पुनः ।। ३९ ।।
मंगलवाद्यगीत्याद्यैः सूक्तपाठस्तवादिभिः ।
ध्वजं नयेद्धरेः स्थानं नमः कुर्याच्च वै पुनः ।।1.282.४० ।।
देवस्य द्वारदेशे वा शिखरे स्तंभसंयुतम् ।
संस्थापयेद् ध्वजं सम्यक् स्थिरं नीराजयेद्दृढम् ।। ४१ ।।
नारिकेलफलं तत्र क्षिपेत् सारं प्रसादकम् ।
दद्यात्सर्वेभ्य एवाथ विष्णुं शृंगारयेत्तदा ।।४२ ।।
गन्धपुष्पाक्षतैर्देवं धूपदीपसुगन्धिभिः ।
भक्ष्यभोज्यादिमिष्टैः सन्नैवेद्यैश्च हरिं यजेत् । ।४३ ।।
ततः प्रदक्षिणं कृत्वा व्रती क्षमापयेत्प्रभुम् ।
यत्र यत्र हरे कृष्णनारायण ध्वजस्य ते ।।४४।।
शिखरस्य च छायाया गतिस्तत्र च तत्र च ।
दुःखदारिद्र्यदोषाणां विनाशः सर्वदा भवेत् ।।४५।।
पुत्रपौत्रादिविस्तारो धनधान्यादिसम्पदः ।
आरोग्योत्साहभूत्यादि वृद्धिं यान्तूत्तरोत्तरम् ।। ४६।।
ध्वजः सर्वोपरि तेऽस्ति मामपि तत्तथा कुरु ।
ध्वजपुच्छं तु विज्ञानं ध्वजः सच्चित्सुखात्मकः ।! ४७।।
वंशाग्रं ब्रह्मसदनं वंशः पन्था समर्चिषः ।
स्तंभाग्रं सत्यसदनं पट्टिका सुरभूमिका ।।४८ ।।
घण्टिका ज्योतिषां चक्रं स्तंभो धर्मः स्वयं स्थितः ।
स्तंभमूलं पूरुषार्थास्त्वदात्मस्तंभिने नमः ।।४९ ।।
यमामनन्ति वै सन्त सच्चिदानन्दविग्रहम् ।
सलक्ष्मीकं प्रभुं कृष्णनारायणं भजेऽन्वहम् ।।।1.282.५ ० ।।
इतिस्तुत्वा नमेद् विष्णुमाचार्यं सद्गुरुं द्विजान् ।
पूजयेद्भोजयेद्दद्याद् दक्षिणां पारणां चरेत् ।।५ १ ।।
पटो ध्वजस्य कमले यावच्चलति वायुना ।
तावन्ति पापजालानि नश्यन्त्येव ध्वजार्पिणः ।।५२।।
यावद्दिनानि सन्तिष्ठेद् ध्वजौ वै देवताग्रहे ।
तावद्युगसहस्राणि हरेः सारूप्यमश्नुते ।।५३ ।।
आरोपितं ध्वजं दृष्ट्वा येऽभिनन्दन्ति हर्षिताः ।
तेषां पापानि नश्यन्ति वज्रलेपसमान्यपि ।।५४।।
ध्वजो धुन्वन्पटं धुनोत्यर्पिणस्त्वघसंचयान् ।
ध्वजारोपकरो याति विमानेन दिवं परम् ।।५५।।
पुरा कृतयुगे त्वासीत् सुमतिः सोमवंशजः ।
नृपो इरिकथारक्तो राज्ञी सत्यमतिस्तथा ।।।५६ ।।
तावुभौ दम्पती नित्यं हरेः पूजापरायणौ ।
जातिस्मरौ जलान्नदौ धर्मकार्याणि तेनतुः ।।५७।।
रोपयति ध्वजं राजा द्वादशीद्वादशीदिने ।
तस्य कीर्तिं जगुर्देवाः श्रुत्वा विभाण्डको ययौ ।।५८।।
कृतातिथ्यं मुनिं राजा प्राञ्जलिः समुवाच ह ।
भगवन् कृतकृत्योऽस्मि भवदभ्यागमेन वै ।।५९।।
सतामागमनं सर्वसौख्यार्थं गृहिणां भवेत् ।
यत्र सतां परं प्रेम तत्र स्युः सर्वसम्पदः ।।1.282.६० ।।
तेजः कीर्तिर्धनं धान्यं पुत्रा वृद्धिं प्रयान्ति च ।
श्रेयांस्यनुदिनं तत्र यत्र स्याद्वै सतां कृपा ।।६ १।।
यो मूर्ध्नि धारयेद् भावात् महत्पादजलं रजः ।
सः स्नातः सर्वतीर्थेषु यज्ञावभृथकेषु च ।।६२।।।
मम दाराश्च पुत्राश्च सम्पत् त्वयि समर्पिताः ।
मामाज्ञापय शीघ्रं किं सुप्रियं करवाणि ते ।।६३।।
श्रत्वा करेण राज्ञश्च स्पृष्ट्वा शिरो विभाण्डकः ।
प्रसन्नः संस्तदा प्राह राजन् यदुक्तवान् भवान् ।।६४।।
सर्वं कुलोचितं तेऽस्ति बहुश्रेयांस्यवाप्नुहि ।
धर्मश्चार्थश्च कामश्च मोक्षश्चेति चतुष्टयम् ।।६५।।
महतां सेवया प्राणी लभते शाश्वतं सुखम् ।
स्वस्ति ते सततं भूयाद् यत्पृच्छामि तदुच्यताम् ।।६६।।
पूजा बहुविधाः कृष्णतुष्टिदाः सन्ति तासु वै ।
ध्वजारोपं प्रधानं त्वं मत्वा करोषि तं कथम् ।।६७।।
भार्यापि ते सदा नृत्यपरा तत्र कथं वद ।
श्रुत्वा राजा तु तं प्राहाऽऽश्चर्यकारि पुराभवम् ।।६८।।
अहमासं पुरा शूद्रो मालिनीनामको ह्यघी ।
मद्यमांसव्यभिचारचौर्यादिकारकोऽघृणी ।।६९।।
हत्याकृत् मत्प्रजाबन्धुपरित्यक्तो वनं गतः ।
जीर्णं देवालयं विष्णोराश्रयं समुपेयिवान् ।।1.282.७०।।
फलमूलाशनो नित्यं वर्षाणां विंशतिः स्थितः ।
जीर्णस्फुटितसन्धानं तस्य सर्वमकारिषम् ।।७ १।।
स्वनिवासाय सा भूमिर्मया लिप्ता सुसंस्कृता ।
वृक्षाश्चारोपितास्तत्र चाभिसिक्ताः सरोजलैः ।।७२।।
सन्धाय जीर्णवस्त्राणि ध्वजश्चारोपितो मया ।
शलाकार्पणकाण्डैश्च विष्णुभित्तिः सुरक्षिता ।।७३।।
इयं निषादो नाम्ना तु कोकिला बन्धुतर्जिता ।
विन्ध्याद्रेर्दारुकसुता त्वायाता दैवयोगतः ।।७४।।
पुंश्चलीयं मया प्राप्ता पत्नीत्वेनाऽभिरक्षिता ।
देवसेवां प्रकुर्वन्तौ दम्पतीभावमाश्रितौ ।।७५।।
स्थितौ वर्षाणि दश चैकदा रात्रौ परस्परम् ।
मद्यपानेन मत्तौ च मुदितौ मांसभोजनात् ।।७६।।
तनुवस्त्राऽपरिज्ञानौ नृत्यं चकृव मोहितौ ।
प्रारब्धकर्मभोगान्तमावां युगपदास्थितौ ।।७७।।
नेतुमावां तदाऽऽयाता यमदूता भयंकराः ।
तदा स्वसेवकौ मत्वा विष्णुर्देवालयस्थितः ।।७८।।
स्वदूतान्प्रेषयामास शंखचक्रगदाधरान् ।
ते तूचुर्भो दुराचारा याम्या मुञ्चध्वमर्चिनौ ।।७९।।
पूजकौ मम भक्तौ वै मदाश्रितौ वनस्थितौ ।
श्रुत्वोचुस्ताँस्तदा याम्या इमौ वै पापिनौ परौ ।।1.282.८० ।।
यमेन पापिनो दण्ड्यास्तन्नेष्यामो वयं त्विमौ ।
श्रुत्वोचुर्वैष्णवास्ताँश्च पापाऽऽग्रहं प्रकुर्वतः ।।८ १ ।।
एतौ पापविनिर्मुक्तौ हरेः शुश्रूषणे रतौ ।
हरिणा त्रायमाणौ तु मुञ्चध्वमविलम्बितम् ।।८२।।
एषा तु नर्तनं चक्रे तथैषः ध्वजरोपणम् ।
हरेः सौधाऽवनपरौ स्वार्थे परार्थकारकौ ।।८३।।
अन्तकालेऽपि यन्नाम श्रुत्वोक्त्वापि च वै सकृत् ।
लभते मोक्षणं स्वर्गं किमु शुश्रूषणे रतः ।।८४।।
कृष्णसेवी यतिसेवी पापोऽपि याति वैष्णवम् ।
मुहूर्तं वा मुहूर्तार्धं यस्तिष्ठेद्धरिमन्दिरे ।।८५।।
सोऽपि याति ब्रह्मलोकं किमु द्वात्रिंशवत्सरान् ।
मार्जनलेपनजीर्णशीर्णसन्धानकारकौ ।।८६।।
मन्दिरे दीपसलिलवृक्षछायाविधायकौ ।
कथमेतौ महापुण्यौ यातनाभोगयोगिनौ ।।८७।।
इत्युक्त्वा संप्रसह्यैव याम्यपाशान् निरस्य च ।
गृहीत्वाऽऽवां विमानाग्र्ये ययुर्विष्णोः सुखं पदम् ।।८८।।
तत्र दिव्यान् महाभोगान् भुक्त्वा यातौ महीमिमाम् ।
अत्रापि सध्वजं राज्यं प्राप्तं सेवाप्रसादतः ।।८९।।
अनिच्छया कृतेनापि प्राप्तं राज्यं महत्फलम् ।
स्मृत्वा तच्च मया केतुरनया नृत्यमर्प्यते ।।1.282.९०।।
इच्छयाऽऽराध्य गोविन्दं प्राप्स्यावः परमां गतिम् ।
विवशेऽपि फलं श्रेष्ठं किं पुनः श्रद्धया कृते ।।९१।।
विभाण्डकस्तु तच्छ्रुत्वा तौ प्रशस्य ययौ वनम् ।
इति जानीहि कमले कृष्णनारायणस्य वै ।।९२।।
परिचर्या तु सर्वेषां चिन्तामणिसमा मता ।
हरिभक्तिपराणां हि सर्वकामप्रदो हरिः ।।९३।।
इद्ं पवित्रमाख्यानं यः शृणोति पठेत्तथा ।
हरिसेवापरो वक्ता तेऽपि यान्ति परां गतिम् ।। ९४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने श्रीलक्ष्मीनारायणव्रतं तदुद्यापनं देवालयध्वजारोपणलेपनरक्ष-
णादिपुण्यशालिनोरपि पापकर्मिणोर्मालिनाख्यशूद्रशूद्र्योर्मरणे यमदूतात् मोचितयोः प्राप्तराज्यकयोः सुमति-
नृपसत्यमतिरा्ज्ञ्योर्विभाण्डकं प्रति वृत्तान्तकथनमित्यादिनिरूपणनामा द्वाशीत्यधिकद्विशततमोऽध्यायः । । २८२ ।।