लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २६९

विकिस्रोतः तः
← अध्यायः २६८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २६९
[[लेखकः :|]]
अध्यायः २७० →

श्रीनारायण उवाच-
लक्ष्मि! शृणु कथयामि चतुर्थीनां व्रतानि ते ।
यानि कृत्वा नरो नारी भुक्तिं मुक्तिं व्रजेत् पराम् ।। १ ।।
गोलोकाधिपतिः कृष्णः पार्वत्याः शंकरगृहे ।
शरीराक्तधातुयोगादुत्पन्नो यस्त्वभूत् प्रभुः ।। २ ।।
स वै कृष्णश्चतुर्धाऽस्ति वासुदेवस्वरूपकः ।
संकर्षणस्वरूपश्च प्रद्युम्नरूपकस्तथा ।। ३ ।।
अनिरुद्धस्वरूपश्च तस्मात् स गणनायकः ।
चतुर्मूर्तिस्वरूपोऽस्ति व्रतान्यपि तथा तथा ।। ४ ।।
चैत्रमासचतुर्थ्यां तु वासुदेवस्वरूपिणम् ।
गणेशं सम्यगभ्यर्च्य दत्वा सुवर्णदक्षिणाम् ।। ५ ।।
आवाहनादि चारभ्य विसर्जनान्तमेव यत् ।
कृत्वा विधानतः सर्वं विष्णुलोकमवाप्नुयात् ।। ६ ।।
एकभुक्तं व्रतं कार्यं भोज्ये देयास्तु लड्डुकाः ।
दूर्वासिन्दूरकौ देयौ पूजने व्रतिना तथा ।। ७ ।।
अन्यान्यपि च दानानि देयानि कृष्णतुष्टये ।
स्वयं तु पारणां लड्डुकानां कुर्याद् व्रती शुभाम् ।। ८ ।।
एवं कृत्वा व्रतं लोके भुक्तिं मुक्तिं समाप्नुयात् ।
प्रसाद्य विष्णुं वैकुण्ठं गच्छेद् देवाभिवन्दितः ।। ९ ।।
वैशाखस्य चतुर्थ्यां तु पूज्यः संकर्षणाभिधः ।
आवाहनाद्विसर्जनपर्यन्तं विविधं विधिम् ।। 1.269.१ ०।।
कृत्वा संपूजयेद् देवं गणेशं भोजयेद् बहु ।
शंखदानं तथा चान्यद्दानं कुर्याद् यथाबलम् ।। ११ ।।
तेन पुण्येन व्रतकृद् भूत्वा दिव्यवपुर्धरः ।
प्राप्य संकर्षणं लोकं मोदते बहुकल्पकम् ।। १ २।।
ज्येष्ठशुक्लचतुर्थ्यां तु पूज्यः प्रद्युम्न ईश्वरः ।
षोडशभिरुपचारैः पूजयित्वा गणाधिपम् ।। १ ३।।।
फलं मूलं जलं दूर्वां दत्वा वै भावतो व्रती ।
तेन पुण्येन संयाति प्राद्युम्नं स्वर्गमेव वै ।। १४।।
आषाढस्य चतुर्थ्यां तु पूजनीयोऽनिरुद्धकः ।
आवाहनात्समारभ्य विसर्जनान्तमर्चनम् ।। १५।।
कुर्याद् विविधपुष्पाद्यैः फलैर्भोज्यादिभिस्तथा ।
दद्याद् दानानि बहूनि कुर्यान्नीराजनादिकम् ।। १६।।
क्षमां च प्रार्थयेद् दानेऽलाबुपात्राणि तुम्बिका ।
काष्ठपात्राण्यपि दद्यात् साधवे न्यासिने व्रती ।। १७।।
एवं कृत्वा व्रती यायादनिरुद्धालयं परम् ।
चतुर्मूर्तिव्रतान्येवं कृत्वा द्वादश वत्सरान् ।। १८।।
महदुद्यापनं कुर्यान्मण्डपे मण्डले शुभे ।
सुवर्णस्य घटं न्यस्य पंचरत्नादिसंयुतम् ।। १९।।
पञ्चायतनं गाणेशं विन्यस्य विधिना ततः ।
पूजनं षोडशवस्तूत्तमैः कुर्याद् व्रती जनः ।।1.269.२० ।।
गीतवादित्रनिर्घोषैर्वेदमन्त्रैः स्तवैस्तथा ।
होमैर्जपैस्तथा भोज्यैर्वस्तुदानादिभिस्तथा ।।२१ ।।
महोत्सवं शुभं कुर्याद्गणेशकृष्णतुष्टये ।
एवं वोद्यापने जाते पूर्णं व्रतफलं भवेत् ।। २२।।
भुक्तिं मुक्तिं स्वयं कृष्णो ददात्यत्र परत्र च ।
यद्यदिच्छति व्रतकृत् स्वर्गं सर्वमवाप्नुयात् ।।२३।।
अन्यज्ज्येष्ठचतुर्थ्यां तु सतीव्रतमुदाहृतम् ।
ब्राह्मदक्षादसिक्न्यां वै सती जाता पुरा यतः ।।२४।।
सतीजन्मोत्सवं कुर्याद् व्रती त्वेकान्नमित्यपि ।
फलं वा चोपवासं वा महत् कुर्याच्च पूजनम् ।।२५।।
एवं सतीव्रतं कृत्वा दत्वा दानानि विष्णवे ।
व्रती गणपतेर्मातुर्लोके मोदेत तत्समम् ।।२६।।
तथाऽऽषाढचतुर्थ्यां तु व्रतं चान्यद् भवेच्छुभम् ।
रथन्तराऽऽह्वकल्पस्याऽऽद्यभूतं वै दिनं यतः ।।२७।।
श्रद्धापूतेन मनसा कल्पं रथन्तराह्वयम् ।
कालरूपं कृष्णरूपं गणेशं वा प्रपूजयेत् ।।२८।।
एकभुक्तं व्रतं कुर्यात् फलं स्वर्गं लभेद् व्रती ।
श्रावणस्य चतुर्थ्यां तु प्रगे मध्ये निशामुखे ।। २९।।
श्रीगणेशं पूजयेद्वै सर्वविधिप्रपूर्वकम् ।
चन्द्रोदये तथा जाते पुनस्तं पूजयेद् व्रती ।।1.269.३०।।
अर्घ्यं दद्याद् भोजनादि सिन्दूरादि समर्पयेत् ।
लम्बोदरं चतुर्बाहुं त्रिनेत्रं रक्तपाण्डुरम् ।।३ १ ।।
नैकरत्नविभूषाढ्यं प्रसन्नास्यं विचिन्तयेत् ।
आवाहनादिभिः सर्वैरुपचारैः समर्चयेत् । ।३२। ।
नैवेद्ये मोदकान् दद्याद् गणेशतुष्टिदान् व्रती ।
एवं व्रतं विधायैव भुक्त्वा प्रसादमोदकान् ।।३३।।
रात्रौ भूशयनं कुर्यात्प्रातः समर्चयेत्पुनः ।
दानानि दद्याद् बहूनि गणेशकृष्णतुष्टये । । ३४।।
व्रतस्याऽस्य प्रतापेन कामान् लब्ध्वा मनोगतान् ।
परे लोके परं स्थानं गणेशपदमाप्नुयात् ।।३५।।
तस्मात्कार्यं प्रयत्नेन कामान्सर्वानभीप्सता ।
नानेन सदृशं त्वन्यत् विद्यते व्रतमुत्तमम् ।। ३६।।
अस्मिन्नेव दिने लक्ष्मि! दूर्वागणेशपूजनम् ।
कर्तव्यं तद्विधानं ते वदामि पूर्णपुण्यकृत् ।। ३७।।
सुवर्णस्य गणाध्यक्षं विधाय ताम्रपात्रके ।
स्थापयित्वा च तत्पात्रं सर्वतोभद्रमण्डले ।। ३८ ।।
न्यस्येत् तद्वेष्टितं कुर्याद् रक्ताम्बरेण वै ततः ।
पूजयेद्रक्तकुसुमैः पत्रैः पञ्चभिरेव च ।। ३९ ।।
बिल्बपत्रमपामार्गः शमी दूर्वा हरिप्रिया ।
एतत्पत्रैश्च कुसुमैः पूजयेत् सत्फलादिभिः ।।1.269.४० ।।
भोजयेन्मोदकादीनि शुभां दद्यात्तु दक्षिणाम् ।
अर्घ्यं दद्यादुपहारं शय्यां सोपस्करां तथा ।।४ १ ।।
विघ्नेशात्मकगुरवे सत्कृत्य विनिवेदयेत् ।
कृत्वैवं पञ्चवर्षाणि व्रतं गणपतेः शुभम् ।।।४२ ।।
भुक्त्वेह भोगानखिलान् लोकं गणपतेर्व्रजेत् ।
इह लोके भवेत्स्मृद्धः परे लोके महासुखः ।। ४३ ।।
श्रावणे शुक्ल पक्षे तु चतुर्थ्यां भौमवासरे ।
मध्याह्ने ब्रह्मणो नस्तो वराहो जज्ञ ईश्वरः ।।४४।।
वराहरूपं सौवर्णं कृत्वा तं पूजयेद् व्रती ।
धारयेत् तत्र वासांसि कौसुंभानि रमापतिम् ।।४५ ।।
नैवेद्ये पायसं दद्याद्घटकाँश्च विशेषतः ।
वराहजन्मपद्यानि गापयेत्पूजयेत्तथा ।।४६।।
षोडशाऽभिसूपचारैस्ततः कुर्यात्तु भोजनम् ।
नरांगं सूकरास्यं च चतुर्बाहुं च सायुधम् ।।४७ ।।
धरां गृहीत्वा दन्ताग्रे शोभन्तं दानमाचरेत् ।
एवं कृत्वा व्रतं विष्णोर्वैकुण्ठं प्राप्नुयाद् व्रती ।।४८।।
अथभाद्रचतुर्थ्यां तु बहुलाधेनुसद्व्रतम् ।
गणेशोऽपि समुत्पन्नः पार्वतीशयने सुतः ।।४९। ।
गणेशस्य व्रतं चापि प्रकृष्टोत्सवपूर्वकम् ।
कर्तव्यं विधिना लक्ष्मि! दिनचतुष्टयात्मकम् ।।1.269.५ ० ।।
हरितवल्लिकावृक्षशाखाकदलीतोरणैः ।
मण्डपः शोभनः कार्यः सर्वतोभद्रमण्डलम् ।।।५ १ ।।
कर्तव्यं च गणेशोऽपि मृदा वा धातुनापि वा ।
सुवर्णेन च रौप्येण ताम्रेण मणिनाऽपि वा ।।।५२।।
कर्तव्यश्चापि सिन्दूरकुंकुमादिभिरित्यम् ।
शोभनीयस्तथा पूजनीयः षोडशवस्तुभिः ।।५३ ।।
नित्यं रात्रौ पूजनीयो व्रतिना लड्डुकादिभिः ।
तोषणीयश्च नित्यं सः प्रार्थनीयः सुखाप्तये ।।५४।।
दानं देयं च विविधं नक्तभोजी व्रती भवेत् ।
अन्ते विसर्जनं वार्षुं कार्यं गणपतेर्मुदा ।।५५।।
एवं कृत्वा व्रतं भुक्तिं मुक्तिं वै प्राप्नुयाद् व्रती ।
पूर्णे वर्षे गते मातुराज्ञया श्रद्धया तथा ।।५६ ।।
गणेशेन कृता प्रदक्षिणा गोरत्र वै दिने ।
तस्माद्व्रतमिदं प्रोक्तं बहुलाधेनुसंज्ञकम् ।।५७।।
पूजनीयाऽत्र यत्नेन स्रग्गन्धयवसादिभिः ।
ततः प्रदक्षिणां कुर्याच्छक्तश्चेद्दानमाचरेत् ।।५८।।
अशक्तः पुनरेतां तु नमस्कृत्य विसर्जयेत् ।
पंचाब्दं वा दशाब्दं वा षोडशाब्दमथापि वा ।।५९।।
व्रतं कृत्वोद्यापनं च धेनुं दत्वा पयस्विनीम् ।
व्रतं समापयेत्पत्नीं पद्मिनीमाप्नुयात्फलम् ।।1.269.६० ।।
अत्र भोगान्परान् भुक्त्वा सत्कृतो देवतागणैः ।
पत्न्या पुत्रादिना साकं गोलोकं समवाप्नुयात् ।।६१।।
अत्र शुक्लचतुर्थ्यां वै सिद्धिवैनायकव्रतम् ।
कर्तव्यं श्रीगणेशस्य पूजनं व्रतिनाऽऽदरात् ।।६२ ।।
आवाहनादिभिः सर्वैरुपचारैश्च मोदकैः ।
एकाग्रमनसा ध्यायेद् गणेशं सिद्धिनायकम् ।।६ ३ ।।
विश्वकर्मसुतायाश्च ऋद्धेः सिद्धेश्च नायकः ।
विवाहेनाऽद्य संजातो गणेशः सिद्धिनायकः ।।६४।।
तस्मात्तं पूजयेदेकदन्तं सुवर्णसन्निभम् ।
पाशांकुशधरं देवं गजवक्त्रं चतुर्भुजम् ।।६५ ।।
शूर्पकर्णं सिन्दूरादिचर्चितं तुन्दिलं शुभम् ।
ध्यात्वा चार्घ्यं समर्प्यैव पुनश्च पूजयेद् व्रती ।।६६ ।।
एकविंशतिपत्राणि त्वेकविंशतिनामभिः ।
समर्पयेत् व्रती तानि नामानि च यथा शृणु ।।६७।।
सुमुखाय शमीपत्रं गणाधीशाय भृंगजम् ।
उमापुत्राय बैल्वं तु दूर्वां गजमुखाय च ।।६८।।
लम्बोदराय बदरीं धत्तूरं हरसूनवे ।
शूर्पकर्णाय तुलसीं वक्रतुण्डाय शिंबिजम् ।।६ ९।।
अपामार्गं गुहभ्रात्रे बार्हतं त्वेकदन्तिने ।
हेरम्बाय तु सिन्दूरं चतुर्होत्रे तु पत्रजम् ।।1.269.७०।।
सर्वेश्वराय शान्तायाऽगस्त्यपत्रं प्रदापयेत् ।
गन्धपुष्पाक्षतदूर्वापत्रयुग्मं समर्पयेत् ।।७१ ।।
मोदकपञ्चकं दद्याज्जलं मिष्टं समर्पयेत् ।
दत्वा ताम्बूलकं नत्वा सम्प्रार्थ्य च विसर्जयेत् ।।७२।।
मूर्तिं सोपस्करां हैमीं गुरवे ब्राह्मणाय बा ।
अर्पयेद् दक्षिणां दद्यान्मोदकादीनि भोजयेत् ।।७३।।
एकं कृत्वा व्रतं पञ्चवर्षाणि मानवो भुवि ।
उपास्य लभते कामानेहिकान्पारलौकिकान् ।।७४।।
अस्यां चतुर्थ्यां चन्द्रं तु न पश्येद्वै कथंचन ।
पश्यन् मिथ्याभिशापं तु प्राप्नुयान्नात्र संशयः ।।७५ ।।
अतस्तद्दोषनाशाय मन्त्रं तु शाश्वतं पठेत् ।
'हतो हिरण्यकशिपुर्नृसिंहेन निशामुखे । ।७६ ।।
शरभेण हतः सिंहः शरभः शंकरोऽभवत् ।
शंकरेण धृतश्चन्द्रो मिथ्याशापं हरो हरेत्' ।।७७।।
इत्युच्चार्य न वै मिथ्याकलंको जायते जने ।
नमस्कुर्याच्छिवं चन्द्रशेखरं भावसंयुतः ।।७८ ।।
इषशुक्लचतुर्ष्यां तु कपर्दीशं विनायकम् ।
पौरुषेण तु सूक्तेन पूजयेदुपचारकैः । ।७९ ।।
ताण्डुलान् बटवे दद्याद् गन्धपुष्पार्चिताय च ।
कपर्दिगणनाथोऽसौ प्रीयतां तण्डुलार्पणैः । । 1.269.८० ।।
भुक्तिमुक्तिप्रदो मेऽस्तु गणेशः कृष्णरूपधृक् ।
एवं कृत्वा व्रतं देही ध्रुवं गोलोकमाप्नुयात् ।।८ १ ।।
चतुर्थ्यां कार्तिके शुक्ले नागव्रतमुदाहृतम् ।
सर्पदंशादिनाशार्थ कर्तव्यं सर्वथा जनैः ।।८२ ।।
प्रातर्व्रतं तु संकल्प्य धेनुशृङ्गजलं शुचि ।
पीत्वा स्नात्वाऽथ मध्याह्ने शंखपालादिपन्नगान् ।।८ ३ ।।
शेषं त्वाह्वानपूर्वैश्च पूजयेदुपचारकैः ।
दुग्धेनाऽऽप्यायनं कुर्याद् दुग्धं दद्याच्च भोगिने ।। ८४।।
कृते नागव्रते त्वेवं न वै दशन्ति पन्नगाः ।
नोपद्रवन्ति विषाणि ब्रह्मणो वरदानतः ।।८५।।
सर्पान्प्राह पुरा ब्रह्मा 'कार्तिके वः प्रपूजकान् ।
मा दशन्तु' इति तेऽपि नैव दशन्ति पूजकान् । ।८ ६ । ।
कार्तिककृष्णचतुर्थ्यां करकाख्यं व्रतं स्मृतम् ।
स्त्रीणामेवाऽधिकारोऽत्र कर्तव्यं ताभिरेव तत् ।।८७।।
स्नात्वा देहमलंकृत्य पूजयेद् गणनायकम् ।
आवाहनात्समारभ्य सर्वं वै विधिना चरेत् ।।८८ ।।
तदग्रे पूर्णपक्वान्नं विन्यस्येत् करकान् दश ।
कलशान् वा जलपूर्णान् न्यस्येद् दश तदग्रतः ।।८९ ।।
देवो मे प्रीयतामेवमुच्चार्यैव समर्पयेत् ।
सुवासिनीभ्यः कलशान् दद्याच्च दशशंख्यकान् ।। 1.269.९० ।।
मिष्टान्नानि प्रदद्याच्च ततश्चन्द्रोदये सति ।
दत्वाऽर्घ्यं विधिना नारी भुञ्जीत मिष्टमेव ह ।। ९१ ।।
दुग्धपूर्णं जलपूर्णं घटं दद्याद् द्विजातये ।
सपूगाऽक्षतरत्नाढ्यं व्रतस्य परिपूर्तये ।। ९२ ।।
एवं कृत्वा व्रतं नारी षोडशद्वादशाब्दकम् ।
उद्यापनं विधायाऽथ व्रतं समापयेत्ततः ।। ९३ ।।
यावज्जीवं तु वा नार्या कार्यं सौभाग्यवाञ्छया ।
व्रतेनाऽनेन सदृशं स्त्रीणां सौभाग्यदायकम् ।। ९४।।
नान्यद्वै विद्यते लोके कर्तव्यं तत्प्रयत्नतः ।
मंगलो ग्रहवर्यश्च पृथिव्याः सुत एव यः ।। ९५।।
अस्यां तिथौ शंकरस्य बिन्दोरुत्पन्न एव सः ।
अंगारकं व्रतं तस्मात्कर्तव्यं श्रेय इच्छता ।। ९६ ।।
मंगलः सर्वदा तस्य भद्रं भद्रं ददाति वै ।
एकभुक्तं च वा नक्तं व्रतं कर्तव्यमादरात् ।। ९७।।
मंगलस्य तथा पूजा जपः कर्तव्य इष्टदः ।
रक्तरत्नप्रदानं च रक्तवस्त्रादिदानकम् ।। ९८ ।।
रक्तगोधूमदानं च कर्तव्यं व्रतिना तदा ।
रक्ततिलप्रदानं च सर्वस्मृद्धिकरं भवेत् ।। ९९ ।।
मार्गशुक्लचतुर्थ्यास्तु वर्षं यावद् व्रती जनः ।
क्षपयेदेकभक्तेन नक्तेन वत्सरान्तरम् ।। 1.269.१०० ।।
अयाचितेन तृतीयमुपवासैश्चतुर्थकम् ।
एवं चत्वारि वर्षाणि व्रतं कुर्यादतन्द्रितः ।। १०१ ।।
विनायकव्रतं त्वेतत्काश्यां विनायकोद्भवान् ।
षोडशवस्तुसंपूज्यः सर्वासु च चतुर्थीषु ।। १०२।।
दद्याद् दानानि सर्वाणि यथाशक्ति यथाधनम् ।
वत्सरान्ते व्रतान्ते वा महदुद्यापनं चरेत् ।। १०३ ।।
कारयेच्छ्रीगणपतिं मूषकं कानकं रथम् ।
यद्वा तु ताम्रजं सर्वं काष्ठजं मृत्तिकाकृतम् ।। १ ०४।।
यथायोग्यं कारयित्वा यद्वा पद्म सुपत्रकम् ।
यद्वा तु सर्वतोभद्रमण्डलं धान्यनिर्मितम् ।। १०५। ।
मध्ये योग्यं घटं न्यस्य ताम्रस्थाल्यन्वितं शुभम् ।
पूरयेत्तण्डुलैस्तत्र स्थापयेच्च विनायकम् ।। १०६ ।।
आवाहनादिभिः स्नानैः सिन्दूरचन्दनादिभिः ।
दूर्वापुष्पाम्बरभूषाधूपदीपसुगन्धकैः ।। १ ०७।।
मोदकात्मकनैवेद्यैः फलैस्ताम्बूलचर्वणैः ।
दक्षिणास्तुतिकुसुमांजलिभिर्जागरैस्तथा ।। १०८ ।।
पूजयेत्तोषयेद् देवं गीतवाद्यकथानकैः ।
प्रभाते शर्कराव्रीहियवघृततिलादिभिः ।। १०९ ।।
श्रीफलैः सर्षपैः श्वेतैर्होमं कुर्याद् विधानतः ।
गणो गणाधिपश्चैव कूष्माण्डस्त्रिपुरान्तकः ।। 1.269.११० ।।
लम्बोदरैकदन्तौ च रुक्मदंष्ट्रश्च विघ्नपः ।
ब्रह्मा यमोऽथ वरुणः सोमः सूर्यो हुताशनः ।। १११ ।।
गन्धमादी परमेष्ठीत्येवं षोडशनामभिः ।
तथा वक्रसुतुण्डेऽति नामतोऽष्टोत्तरं शतम् ।। ११२ ।।
हूयाद्वै दहने भक्त्या हुत्वा पूर्णाहुतिं चरेत् ।
दिक्पालान् पूजयित्वाऽथ चतुर्विंशतिभूसुरान् ।। ११३ ।।
मोदकैः पायसैः शाकैः पूरिकाभिश्च तर्पयेत् ।
आचार्याय ततो दद्याद् दोग्ध्रीं गां वत्सिकायुताम् ।। १ १४।।
दक्षिणां च यथाशक्ति भूयसीं प्रार्पयेत्तथा ।
अन्येभ्यश्चापि दानानि दद्यात् प्रणम्य भूसुरान् ।। ११५ ।।
विसृज्य बन्धुभिः सार्धं भुञ्जीत प्रीतमानसः ।
एवं व्रतमिदं कृत्वा भुक्त्वा भोगानिहोत्तमान् ।। ११६ ।।
सायुज्यं प्राप्नुयाद् विष्णोर्विनायकप्रसादतः ।
एतद् वरवतं प्रोक्तं भुक्तिमुक्तिफलप्रदम् ।। १ १७।।
पौषमासचतुर्थ्यां तु प्रपूज्य तु विनायकम् ।
विप्रैकं भोजयेच्चैव मोदकैर्दक्षिणां दिशेत् ।। ११ ८।।
एवंकृते व्रती स्याद्वै सर्वसम्पत्तिभाजनम् ।
माघशुक्लचतुर्थ्यां तु गौरीव्रतमनुमत्तमम् ।। ११९ ।।
गौरीपूज्या योगिनीनां गणैः साकं तु भावतः ।
नरैः स्त्रीभिः कुन्दपुष्पैः रक्तपुष्पादिभिस्तथा ।। 1.269.१२० ।।
रक्तसूत्रैरलक्तकैर्धूपैर्दीपैः सुभोजनैः ।
सगूडलड्डुकैश्चापि क्षीरेण पायसेन च ।। १२१ ।।
पूज्याः सौभाग्यवत्यश्च नार्यो विप्राश्च साधवः ।
सौभाग्यवृद्धये तेभ्यो दातव्यानि विशेषतः ।। १ २२।।
दानानि भोजनान्येवाम्बराणिसत्फलानि च ।
इदं गौरीव्रतं लक्ष्मि! सौभाग्यारोग्यवर्धनम् ।। १२३ ।।
प्रतिवर्षं प्रकर्तव्यं गौर्याः कृतं पुनः पुनः ।
ढुण्ढिव्रतमिदं बोध्यं गणेशस्तत्र पूज्यते ।। १ २४।।
काश्यां सः शांभवानां ढुण्ढनार्थं त्वागतः स्थितः ।
तन्निमित्तं व्रतं त्वेतत् कर्तव्यं श्रेय इच्छता ।। १२५ ।।
कुण्डव्रतं शान्तिव्रतललिताव्रतमित्यपि ।
तिलव्रतं त्वेतदेव कुन्दव्रतं च कीर्तितम् । । १२६ ।।
स्नान दान जपा होमस्तर्पणं यत्कृतं भवेत् ।
सहस्रगुणितं तत्स्याद् गौरीगणेशतोषणात् ।। १ २७।।
माघकृष्णचतुर्थ्यां तु संकष्टहारकं व्रतम् ।
उपवासं प्रकुर्वीत वीक्ष्य चन्द्रोदयं ततः ।। १२८ ।।
मृदा कृत्वा गणेशं सायुधं सवाहनं शुभम् ।
पीठे न्यस्य च तं षोडशोपचारैः प्रपूजयेत् ।। १२९ ।।
मोदकाँस्तिलचूर्णं च सशर्करं निवेदयेत् ।
अर्घ्यं दद्यात्ताम्रपात्रे रक्तचन्दनमिश्रितम् ।। 1.269.१३० ।।
कुशान् दूर्वाः कुसुमान्यक्षतान् शमीदलान् दधि ।
दद्यादर्घ्यं ततो विसर्जनं कुर्यादथ व्रती ।। १३१ ।।
भोजयेद् भूसुरान् साधून् साध्वीश्च बालबालिकाः ।
व्रती च पारणां कुर्याद् दद्याद्दानानि भावतः ।। १३२ ।।
एवं कृत्वा व्रतं स्मृद्धः संकटं नैव चाप्नुयात् ।
धनधान्यसुतापुत्रप्रपौत्रादियुतो भवेत् ।। १३३ ।।
फाल्गुनशुक्लचतुर्थ्यां ढुण्ढिराज व्रतं पुनः ।।
प्रकर्तव्यं पूजनीयो गणशः सर्ववस्तुभिः ।। १३४ । ।
तिलपिष्टैस्तिलैश्चैव दानहोमप्रपूजनैः ।
तोषयित्वा ढुण्ढिराजं सर्वसम्पत्तिमाप्नुयात् ।। १ ३५।।
सौवर्णं गजवक्त्रं च दत्वा द्विजातये धनम् ।
बहुभोग्यानवाप्नोति व्रती नात्र विचारणा ।। १८५६ । ।
यस्मिन्कस्मिन् भवेन्मासि चतुर्थी रविवारयुक् ।
मंगलेन युता यद्वा सा विशेषफलप्रदा । । १३ ७ । ।
यावतीषु चतुर्थीषु विघ्नेशः कृष्ण एव ह ।
पूजनीयस्तथा पंचायतनं भक्तिभावतः ।। १३ ८ ।।
उद्यापनं व्रते कार्य नियमः संयमस्तथा ।
ब्रह्मचर्यं रक्षितव्यं फलं वै शाश्वतं भवेत्। ।। १३९ । ।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकचतुर्थीव्रतेषु गणेशात्मकवासुदेवसंकर्षणप्रद्युम्नानि-रुद्धव्रतसतीजन्मव्रतरथन्तरकल्पवाराहजयन्तीगणेश-जयन्तीगोप्रदक्षिणासिद्धिविनायकव्रतनागव्रतकरका-व्रतांगारकव्रतकाशीविनायकव्रतढुण्डिराजव्रता-
दीनां निरूपणनामैकोनसप्तत्यधिकद्विशततमोऽध्यायः । । २६९ । ।