लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २६८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २६७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २६८
[[लेखकः :|]]
अध्यायः २६९ →

श्रीनारायण उवाच -
श्रूयतां च त्वया लक्ष्मि! तृतीयाया व्रतानि वै ।
यानि कृत्वा नरो नारी भुक्तिं मुक्तिं समाप्नुयात् ।। १ ।।
चैत्रशुक्लतृतीयातो गौर्या तपः सुदारुणम् ।
कृतं शंकरप्राप्त्यर्थं गौरीव्रतं हि तन्मतम् ।। २ ।।
चैत्रशुक्लतृतीयायां गौरीं कृत्वा सशंकराम् ।
सौवर्णां राजतीं वापि ताम्रीं वा मृण्मयीं च वा ।। ३ ।।
अभ्यर्च्य गन्धपुष्पाद्यैर्वस्त्रैराभरणैः शुभैः ।
दुर्वाकाण्डैश्च विधिवत्सोपवासा तु कन्यका ।। ४ ।।
वरार्थिनी सुतापुत्रार्थिनी भर्त्रर्थिनी तथा ।
नीराजयेन्महागौरीं शांकरीं शंकरान्विताम् ।। ५ ।।
पुनः पुनः प्रणम्यैव प्रार्थयेन्मनसि स्थितम् ।
सप्त नवैकादश चाधिका वा द्विजयोषितः ।। ६ ।।
भर्तृमतीश्च वा कन्या गौरीरूपा सुलक्षणाः ।
समाहूय बहुमानपूर्वकं तु च तास्ततः ।। ७ ।।
सिन्दूरांऽजनवस्त्राद्यैर्भूषाभिः प्रीतमानसा ।
व्रतकर्त्री पूकयेत्ता तथा दानैश्च तोषयेत् ।। ८ ।।
मिष्टान्नानि पिण्डकादीन् फलान्यपि समर्पयेत् ।
एवं सन्तोषयित्वा ताः व्रतिनी फलमाप्नुयात् ।। ९ ।।
रात्रौ जागरणं कुर्याद् व्रतसम्पूर्तिकाम्यया ।
प्रातस्तां च पुनः संपूज्याऽर्पयेद् गुरवे मुदा ।। 1.268.१० ।।
यद्वा विसर्जयेन्मूर्तिं तीर्थे वार्याशये क्षिपेत् ।
एवं द्वादशवर्षाणि कृत्वा गौरीव्रतं शुभम् ।। ११ ।।
कन्या तु लभते शंभुसदृशं गुणिनं पतिम् ।
धेनूर्द्वादश संकल्प्य दद्याद्व्रतस्य सिद्धये ।। १२ ।।
किमत्र बहुनोक्तेन गौरी सौभाग्यदायिनी ।
स्त्रीणां यथा तथा नान्या विद्यते भुवनत्रये ।। १३ ।।
धनं पुत्रान्पतिं पुत्रीं विद्यां सिद्धिं यशः सुखम् ।
ददाति सर्वमेवेष्टं गौरी व्रतेन तोषिता ।। १४।।
पार्वत्या प्रभया लक्ष्म्या माणिक्या रमया कृतम् ।
व्रतं लब्धः पतिरीशः कृष्णो ध्वजधनुःकरः ।। १५।।
मीनत्रिशूलचक्रस्वस्तिकचिह्नकरो हरिः ।
तस्मादिदं व्रतं रूपसौभाग्यभोगमुक्तिदम् ।। १६ ।।
वैशाखशुक्लतृतीया त्वक्षयतृतीयाव्रतम् ।
तिथिस्त्रेतायुगाद्या सा कृतस्याऽक्षयकारिणी ।। १७।।
अत्र त्रेतायुगं स्वर्णमूर्तिरूपं विधाय च ।
यद्वा लक्ष्मीयुतं कृष्णं नारायणं समर्चयेत् ।। १८।।
पुष्पधूपविलेपाद्यैर्गंगावार्भिस्तथाऽक्षतैः ।
विविधैर्भोजनैश्चैव तोषयेच्छ्रीजगद्गुरुम् ।। १९।।
सक्तून् संभोजयेद् विप्रान् व्रतीत्वेकादनो भवेत् ।
एवं कृतविधेस्तस्य व्रतितोऽनाशनं फलम् ।।1.268.२० ।।
कार्याऽऽरम्भोपि सफलो निर्विघ्नो याति पूर्णताम् ।
नरो नारी व्रतं चास्मिन् कृतकार्यत्वमाप्नुयात् ।।२१ ।।
वैशाखस्य सिते पक्षे तृतीयायां पुनर्वसौ ।
जमदग्निगृहे प्रादुरासीत्परशुधृक् हरिः ।।२२।।
अस्मिन् रामं सपरशु सौवर्णं कारयेद् व्रती ।
मध्याह्ने तु महापूजां कृत्वा कुर्वीत भोजनम् ।।२३।।
इत आरभ्य नित्यं च ज्येष्ठपूर्णाऽवधिं प्रभुम् ।
धारयेद् गन्धवासांसि वासांसि च सितान्यपि ।।२४।।
उशीरतालवृन्तैश्च वेजयेत्प्रत्यहं प्रभुम् ।
नैवेद्ये शर्करायुक्तं दद्यादाम्ररसादिकम् ।।२५।।
ज्येष्ठशुक्लतृतीयायां रंभा स्वर्गाद् भुवं गता ।
रभाफलं व्रते भक्ष्यं रंभा पृज्याऽक्षतैर्जलैः ।।२६।।
गन्धपुष्पांशुकाद्यैश्च सभार्यं पूजयेद् द्विजम् ।
रंभाव्रतं करोत्यत्र नारी सौभाग्यकाम्यया ।।२७।।
वित्तं लभते पुत्राँश्च मतिं लक्ष्मीं धनादिकम् ।
पतिं गां पृथिवीं सौधं तथोपकरणानि च ।।२८।।।
लभते कदलीसाम्यं सौकुमार्यं व्रतार्थिनी ।
दाने रंभाफलान्यत्र शर्कराघृतमित्यपि ।।।२९।।
अथाऽषाढतृतीयायां समारेभे तपो रमा ।
केशवार्थमतो लक्ष्मीव्रतं कार्यं तु योषिता ।।1.268.३ ०।।
केशवं तु सलक्ष्मीकं सुवर्णप्रतिमात्मकम् ।
षोडशोपसुवस्त्वाद्यैः पूजयेत्तु विधानतः ।।३ १।।
भोजनैः सुरभीदानैर्वस्त्रैश्चापि विभूषणैः ।
आरार्त्रिकनमस्कारैर्दक्षिणाभिश्च पूजयेत् ।।३ २।।
सस्त्रीकं च द्विजं तत्र पूजयेद् भोजयेत्तथा ।
विप्रवाक्यैर्मानयेच्च तोषयेद्धर्षयेत्तथा ।। ३३ ।।
एवं व्रते प्रसाद्यैनां लक्ष्मीरूपां तु भूसुरीम् ।
विप्रं विष्णुस्वरूपं च विसर्जयेच्च तौ गृहम् ।। ३४।।
व्रतकर्त्री गृहयुक्ता नारी सौभाग्यवाञ्च्छया ।
देवदेवप्रसादेन धनधान्यसमन्विता ।। ३५ ।।
पुत्रपौत्रयुता भूत्वा विष्णुलोकमवाप्नुयात् ।
कन्या विन्देत्सुरूपं सुपतिं स्वेष्टसुभोगदम् ।। ३६ ।।
श्रावणशुक्लतृतीया स्वर्णगौरीव्रतं मतम् ।
काली तपः परं कृत्वा स्वर्णगौर्यभवद् यतः ।। ३७।।
उपचारैः षोडशभिर्भवानी पूजयेत् व्रती ।
प्रार्थयेद्त्पूजनान्ते च रूपं गौरं प्रदेहि मे ।। ३८ ।।
पुत्रान्देहि धनं देहि सौभाग्यं देहि सुव्रते ।
अन्याँश्च विविधान्कामान्पूरयाऽत्र नमोऽस्तु ते ।। ३९ ।।
ततो भवयुतां देवीं वायनं तु ददेच्छुभम् ।
षोडषवर्षपर्यन्तं व्रतमेतत्प्रकीर्तितम् ।। 1.268.४० ।।
तदन्ते सुभगा नारी कुर्यादुद्यापनं महत् ।
कदलीमण्डपे सर्वभद्राख्यमण्डले सतीम् ।।४ १ ।।
मध्ये संस्थापयेत्स्वर्णघटे रत्नादिसंयुते ।
परितः श्रीगणेशादिपंचायतनमर्चयेत् ।।४२।।।
कलशोपरि ताम्रस्याऽक्षतयुक्ते सुपात्रके ।
सौवर्णी प्रतिमां शंभुभवान्याः प्रतिपूजयेत् ।।४३ ।।
षोडशभिर्वस्तुभिश्च ततो होमं समाचरेत् ।
वेणुपात्रैः षोडशभिः पक्वान्नपरिपूरितैः ।।४४।।
समर्प्य सत्यै नैवेद्यं साधुष्वेतन्निवेदयेत् ।
वायनं च ततो दद्यादुत्तमं बान्धवादिषु ।।४५।।
प्रतिमां गुरवे दद्याद् द्विजेभ्यो दक्षिणां तथा ।
बहुदानानि कुर्वीत व्रतसाफल्यहेतवे ।।४६ ।।
पूर्णं विन्देत् फलं नारी कन्या वा सधवाऽधवा ।
धनधान्यादिसुस्मृद्धा भूत्वा याति परं पदम् ।।४७।।
भाद्रशुक्लतृतीयायां व्रतं वै हरतालिकम् ।
हरहस्तेन पार्वत्या हस्तस्य मेलनं ह्यभूत् ।। ४८ ।।
तदिदं हरताल्याख्यं व्रतं सौभाग्यवर्धनम् ।
कुर्याद् भक्त्या विधानेन पाद्यार्घ्यार्चनपूर्वकम् ।।४९ ।।
अत्र वै कांचने पात्रे राजते वाऽथ ताम्रके ।
वैणवे मृन्मये वाऽथ विन्यस्याऽन्नं सदक्षिणम् ।।1.268.५ ० ।।
भर्जितं तिलतण्डुलचणकादिकमित्यपि ।
फलं वस्त्रादिकं भूषां विन्यस्यात्रैव पात्रके ।।५ १ ।।
दद्यात्तु गुरवे तद्वै कुर्यात्पश्चात्तु पारणाम् ।
भोजयेद् ब्राह्मणान्साधून्साध्वीः कन्याश्च बालकान् ।।५२ । ।
सौभाग्यद्रव्य पात्राणि वंशपात्राणि षोडश ।
प्रदद्याच्छ्रद्धया त्वेवं विप्रेभ्यो विधिना तथा ।।५ ३ । ।
अन्येभ्यो ब्राह्मणेभ्यश्च भूयसीं दक्षिणां शुभाम् ।
दद्याद् व्रतवती नारी तेन सौभाग्यमाप्नुयात् ।।५४।।
एवं कृतव्रता नारी भुक्त्वा भोगान्मनोरमान् ।
व्रतप्रभावतोऽमुत्र गौरोसहचरी भवेत् ।।।५५।।।
धनं धान्यं सुतां पुत्रान् लभतेऽत्र परत्र शम् ।
भुक्तिमुक्तिप्रदं देवीप्रसादाप्यं व्रतं मतम् । । ५६ ।।
यदा तृतीया भाद्रेऽत्र भवेद्धस्तर्क्षसंयुता ।
सामगैस्त्वत्र कर्तव्यं पितृदेवर्षितर्पणम् ।।५७।।
नवं यज्ञोपवीतं च धार्यं शाखोक्तकर्मणा ।
हस्तगौरीव्रतं नाम कर्तव्यं भूतिहेतवे ।।५८ ।।
विषप्राणिप्रदंशादिनिवारकमिदं भवेत् ।
महिषासुरनाशार्थं कोटिरूपधरा यदा ।।५९ ।।
बभूव सा तदा दुर्गा कोटीश्वरीति नामतः ।
पिनाकिना स्वयं प्रोक्ता कोटीश्वरीव्रतं तु तत् ।। 1.268.६० ।।
लक्षचण्डीस्वरूपाणि यदा धृतवती हि सा ।
लक्षेश्वरी तदा प्रोक्ता स्वयं पिनाकिना सती ।।६ १ ।।
लक्षेश्वरीव्रतं कार्यं यावद्वर्षचतुष्टयम् ।
सोपवासं प्रकर्तव्यं लक्षेश्वर्याः प्रपूजनम् ।।६२ । ।
अखण्डानां तण्डुलानां तिलानां वापि पद्मजे ।
लक्षमेकं विशोध्याऽत्र क्षिपेद् दुग्धेऽग्नसंश्रुते ।।६३ ।।
यावद्वै कठिनो द्रव्यसारो भवेत्सुपिण्डकः ।
तेन पिण्डेन निर्माय देव्या मूर्तिं सुरूपिणीम् ।।६४।।
गन्धपुष्पाक्षतरत्नरोमवस्त्रविभूषिताम् ।
पार्वतीं तत्र चाऽऽवाह्य पूजयेद् भक्तिभावतः ।। ६५ ।।
गन्धैः पुष्पैर्जलैर्धूपैर्दीपैर्नैवेद्यप्रार्थनैः ।
विविधैः सत्फलैः श्रेष्ठदक्षिणाभिश्च वन्दनैः ।। ६६।।
आरार्त्रिकैर्दण्डवद्भिर्वर्धयेच्च क्षमापयेत् ।
अर्थयेद्धनधान्यादिसुतापुत्रगृहादिकम् ।।६७ । ।
ततो विसर्जयेद् दुर्गां जलमध्येऽथ दक्षिणाम् ।
दत्वा श्रीगुरवे पश्चाद् रात्रौ जागरणं चरेत् ।। ६८ ।।
दत्वा दानानि विप्रेभ्यो भुञ्जीतायं परे दिने ।
इति ते कथितं लक्ष्मि! कोटिलक्षेश्वरीव्रतम् । ।६ ९।।
व्रतकर्त्र्या गृहे लक्ष्मीर्धनधान्यमयी सदा ।
राजते वर्धते नित्यं व्रतस्याऽस्य प्रभावतः ।।1.268.७ ० ।।
गौरीलोकं प्रयात्यन्ते भोगमोक्षौ हि विन्दति ।
इषशुक्लतृतीयायां बृहदगौरीव्रतं मतम् ।।७ १ ।।
पञ्चवर्षं प्रकर्तव्यं कोटिकुन्दनमाप्नुयात् ।
दुर्गां तु पूजयेत्प्रातः षोडशभिः सुवस्तुभिः ।।७२।।
सुवासिन्यः पंच पूज्या वस्त्रालंकारचन्दनैः ।
शाटीकंचुकताटंककण्ठसूत्रविभूषणैः ।।७ ३ ।।
धातुपात्राणि पंचैव वाटिकास्थालिकास्तथा ।
सिन्दूरं जीरकं मिष्टं सौभाग्यद्रव्यमंजनम् ।।७४।।
गोधूमपिष्टजातं च नवाऽपूपं फलादिकम् ।
वस्त्राणि विविधान्येव वायनानि च पञ्च वै ।।७५ ।।
ताभ्यो दद्याद् भोजयेच्च पश्चाद् भुञ्जीत वाग्यता ।
रात्रौ जागरणं कुर्यात् कृष्णकीर्तनमिश्रितम् ।।७६ ।।
फलं तु धारयेत्कण्ठे पूगीं वान्यद् यदर्पितम् ।
रात्रौ कण्ठगतं सर्वकामस्मृद्धिप्रदं फलम् ।।७७।।
तत प्रातः समुत्साहा सालंकारा सखीजनैः ।
गीतवाद्ययुता गच्छेत् सरितं स्नानमाचरेत् ।।७८ ।।
गौरीं सम्बोधयेत्तत्र प्रार्थनां संवदेदिमाम् ।
आहूताऽसि मया भद्रे पूजिता च यथाविधि ।।७९ ।।
मम सौभाग्यदे देवि सर्वं रक्षय नित्यदा ।
न्यूनं च क्षम्यतां देवि यथेष्टं गम्यतां त्वया ।।1.268.८ ० ।।
इत्यभ्यर्थ्य नमस्कृत्य जयशब्दैश्च वादनैः ।
सोत्साहपूर्वकं दृष्ट्वा जले गौरीं विसर्जयेत् ।।८ १ ।।
एवं कृत्वा व्रतं भक्त्या व्रती देवीप्रसादतः ।
भुक्त्वा भोगाँस्तु देहान्ते गौरीलोकमवाप्नुयात् ।।८२ ।।
ऊर्जशुक्लतृतीयायां विष्णुगौरीव्रतं मतम् ।
गौर्या प्रपूजितो विष्णुस्तपसः फलसिद्धये । ।८ ३ ।।
तस्माद् व्रतमिदं प्रोक्तं विष्णुगौर्यभिधं शुभम् ।
तत्र वै पूजनीयाऽसौ गौरी विष्णुयुता मुदा ।।८४।।
षोडशभिस्तूचारैर्भोजनैश्च पृथग्विधैः ।
सुवासिनीरूपां गौरीं लक्ष्मीनाम्ना प्रभोजयेत् ।।८५ ।।
पूजयेन्मंगलद्रव्यैविष्णुगौरीप्रतुष्टये ।
विसर्जयेत्प्रणम्यैनां दद्याद् दानानि भावतः ।।८६।।
पुत्रं वै लभते नारी व्रतकर्त्री न संशयः ।
मार्गशुक्लतृतीयायां हरगौरीव्रतं मतम् ।।८७।।
हरशय्यागता गौरी हरयोगमुपागता ।
हरयोगेन सा तृप्ताऽभवत् स्वामिसुखान्विता ।।८८ ।।
हरं गौरीं व्रते त्वत्र चैकशय्यां प्रकल्प्य च ।
स्वापयेत्पूजयेद् भक्त्या सेवयेद् दिव्यभावतः ।।८ ९।।
एतद्व्रतप्रभावेण भुक्त्वा भोगान्मनोरमान् ।
गौरीलोकं समासाद्य हरेण सह मोदते ।।1.268.९० ।।
पौषशुक्लतृतीयायां ब्रह्मगौरीव्रतं मतम् ।
ब्रह्मणा तु समागत्याऽऽशीर्वादाः शंकराप्तये ।।९१ ।।
प्रदत्ता तद् व्रतं प्रोक्तं कर्तव्यं सुविधानतः ।
गौरीं च वेधसं कृत्वा सुवर्णस्य प्रपूजयेत् ।।९२।।।
षोडशभिश्चोपचारैरेकभुक्तं समाचरेत् ।
दानं दद्याद् यथेष्टं तु गुरवे भोजयेद् द्विजान् ।।९३।।
ब्रह्मगौरीप्रसादेन मोदते तत्र संगता ।
माघशुक्लतृतीयायां लक्ष्मीः सौभाग्यसुन्दरी ।।९४।।
विष्णौ वरमालिकाया अर्पणात् समभूत् प्रिया ।
तस्मात् सौभाग्यसुन्दर्यात्मकं कार्यं व्रतं मुदा ।।९५।।
लक्ष्मीस्तत्र पूजनीया नालिकेरार्घ्यदानतः ।
उपचारैः षोडशभिर्मिष्टान्नैर्भूषणादिभिः ।।९६।।
सौभाग्यदा प्रसन्ना स्यात् स्वीयं धाम नयत्यपि ।
दानं श्रांगारिकं सर्वं देयं वस्तु तु योषिते ।।९७।।
एकभुक्तं व्रतं कार्यं हारश्चार्प्यस्तु विष्णवे ।
प्रसादमाला सा चाऽर्प्या पतिकण्ठे तु पुत्रदा ।।९८।।
फाल्गुनस्य सिते पक्षे तृतीयायां निशोत्तरे ।
हरयोगात्सती लब्धवती पुत्राँस्तु रुद्रकान् ।।९९।।
तस्मात्सोक्ता तृतीया तु कुलसौख्यव्रतात्मिका ।
पूजिता गन्धपुष्पाद्यैर्गौरी कुलकरी भवेत् ।। 1.268.१०० ।।
एवं सर्वव्रतेष्वत्र दानं होमो विसर्जनम् ।
देवदेवीप्रपूजा च विप्रगुरुप्रपूजनम् ।। १० १।।
एकभुक्तादिकं सर्वसामान्यं प्रसमाचरेत् ।
भक्त्या कृतानि सर्वान्वै कामान् दद्युर्मनोगतान् ।। १० २।।
सर्वदेवेषु तत्सर्वान्तरात्मा श्रीहरिः स्वयम् ।
वर्तते पूजनीयोऽसौ सर्वकर्मफलप्रदः ।। १०३ ।।
यद्यद् व्रत्यर्थयेद् वस्तु नरो नारी तथाऽन्यकः ।
समाप्नोति च तत्सर्वं श्रीहरेः समनुग्रहात् ।। १ .४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकतृतीयाव्रतेषु गौरीतपोव्रताऽक्षयतृतीयात्रेताद्य-तिथिपर्शुरामजयन्तीकदलीव्रतलक्ष्मीतपोव्रतकाली-गौरीव्रतहरगौरीलग्नव्रतसामगश्रावणीकोटीश्वरी-माहिषघ्नलक्षेश्वरीबृहद्गौरीविष्णुगौरीहर-
गौरीयोगब्रह्माशीर्गौरीविष्णुवरमाला-कुलवृद्धिव्रतादिनिरूपणनामाऽष्ट-षष्ट्यधिकद्विशततमोऽध्यायः ।।२६८।।