लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २६१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २६० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २६१
[[लेखकः :|]]
अध्यायः २६२ →

श्रीलक्ष्मीरुवाच-
कार्तिकश्चतुरो मासान् वर्षाढ्यान् पुण्यकार्यतः ।
अन्तर्भूयाऽतिमाहात्म्यशालिनः संकरोति हि ।। १ ।।
चातुर्मास्ये न वै जातं व्रतं पुण्यं समर्पणम् ।
कार्तिके तस्य करणाच्चातुर्मास्यफलं भवेत् ।। २ ।।
पापानां नाशकः स्वर्गसत्यवैराजलोकदः ।
गोलोकवैकुण्ठदश्चाक्षरलोकप्रदो हि सः ।। ३ ।।
कार्तिके यत् कृतं पुण्यं सहस्रगुणितं भवेत् ।
तस्मादात्मकृते सर्वं कर्तव्यं कार्तिके व्रतम् ।। ४ । ।
कार्तिकशुक्लपक्षे तु किंनाम्न्येकादशी मता ।
को देवः को विधिस्तत्र किं दानं च व्रतं फलम् । । ५ ।।
चातुर्मास्यान्तिममासे वैशिष्ट्यं किं हि गण्यते ।
येन वै व्रतिनो मुक्तिं प्रयान्त्यपि च मे वद ।। ६ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि कार्तिकस्य सिते दिले ।
नाम्ना प्रबोधिनी प्रोक्तैकादशी तूत्तमोत्तमा ।। ७ ।।
यस्यां जागर्तिं लक्ष्मीशः शेषशायी तु धार्मिकः ।
यस्या व्रतप्रभावेण लीयतेऽज्ञानजं तमः ।। ८ ।।
प्रकर्षेणाऽऽत्मबोधश्च जायतेऽतः प्रबोधिनी ।
मुक्तिदात्री सुखदात्री स्वर्गदात्री च बोधदा ।। ९ ।।
उपोष्या विधिवत्तत्र पूज्यो दामोदरः प्रभुः ।
राधया च प्रबोधिन्या सहार्च्यो बहुवस्तुभिः ।। 1.261.१० ।।
कमलैः श्रेष्ठपुष्पैश्च पूजनीयो जनार्दनः ।
नैवेद्ये मुद्गलडडुका अर्घ्ये पद्मफलानि च ।। ११ ।।
दाने सोपस्करो मञ्चो देयान्यन्यान्यपि प्रिये ।
प्रबोधिनीव्रतं लक्ष्मि! पापघ्नं पुण्यवर्धकम् ।। १२।।
तावत्तीर्थान्यरण्यानि गर्जन्त्यायतनानि च ।
यावत्कार्तिकमासस्य नायाति बोधिनीव्रतम् ।। १ ३।।
अश्वमेधसहस्राणि राजसूयशतानि च ।
वाजपेयसहस्राणि प्रबोधिनीसमानि न ।। १४।।
अलभ्यं चाप्यगम्यं चाऽसाध्यं चाऽशक्यमेव वा ।
ददात्युपोषिता व्रत्यर्थितं वै हरिबोधिनी ।। १५।।
विद्यां धनं राजसत्तां प्रजासत्तां यशोऽमलम् ।
सिद्धिं च सम्पदं ददात्युपोषिताऽत्र बोधिनी ।। १६।।
महापापाऽतिपापानि संकरीकरणानि च ।
शुष्कार्द्राणि च सर्वाण्युपोषिता दहति न्वियम् ।। १७।।
अनेकजन्मसम्प्राप्तपापदुरितपर्वतान ।
कृतं जागरणं रात्रौ दहति बोधिनीव्रते ।। १८।।
ज्ञात्वाऽज्ञात्वाऽथवा रोगादिभिश्चेयमुपोषिता ।
पारवश्योपोषिता वा स्वर्गं मोक्षं ददाति सा ।। १९।।
श्रद्धया भावतश्चात्र विधिवत् कृतमेव यत् ।
अपि स्वल्पं कृतं तस्य फलं लक्षगुणं भवेत् ।।1.261.२० ।।
अज्ञातेनाऽप्यविधिना चाऽमनस्केन वाऽपि यत् ।
निन्दाद्रोहान्वितं मेरुप्रमं कृतं तु निष्फलम् ।।२ १ ।।
कर्तव्यं खलु स्वल्पं वा निन्दाद्रोहौ न वै चरेत् ।
निन्दाद्रोहाऽपेक्षया नु न कर्तव्यं वरं मतम् ।।२२।।
पितॄन्संस्मृत्य ये त्वत्र पुण्यं कुर्वन्ति मानवाः ।
गच्छन्ति पितरस्तेषां तृप्ता विष्णोः परं पदम् ।।२३।।
ब्रह्महत्यादिपापानि व्रते नश्यन्ति जागरात् ।
अश्वमेधादिकैर्यज्ञैरपि दुष्प्राप्यमेव यत् ।। २४।।
अन्यैश्च साधनैः श्रेष्ठैरलभ्यं चापि यद्भवेत् ।
प्राप्यते तत्सुखेनैव प्रबोधिन्यास्तु जागरात् ।। २५।।
यावत्तीर्थाऽभिषेकस्य महीस्वर्णार्पणस्य च ।
फलात्फलं त्वधिकं वै प्राप्यते व्रतजागरात् ।। २६ ।।
स एव सुकृती जातः कुलानां पावितं शतम् ।
तेन येन कृता भावात् कार्तिके तु प्रबोधिनी ।। २७।।
व्रतपुण्यं ध्रुवं प्रोक्तं तदन्यत् सर्वमध्रुवम् ।
विचार्येति प्रकर्तव्यं व्रतं सम्यग्घरेर्दिने ।। २८ ।।
प्रबोधिनीव्रतकर्तुर्गृहे तीर्थानि सर्वशः ।
पावनानि प्रवसन्ति तद्गृहं तीर्थराजकम् ।। २९ ।।
पुत्रपौत्रधनसम्पत्प्रदा वै हरिबोधिनी ।
पुत्राद्यर्थं व्रतं त्वन्यत् कर्तव्यं नाऽवशिष्यते ।। 1.261.३० ।।
प्रबोधिन्या व्रतकर्तुर्भोगो मोक्षः करे स्थितः ।
ज्ञानं योगस्तपो होमः संयमोऽपि व्रते स्थितः ।। ३१ ।।
धर्मपुष्टिकरी विष्णोः प्रिया मुक्तिप्रदा नृणाम् ।
गर्भवासादिदुःखानां नाशयित्री ह्युपोषिता ।। ३२ ।।
कर्मणा मनसा वाचा शुष्कं चार्द्रं च पातकम् ।
कृष्णः क्षालयति प्रबोधिन्या व्रते सजागरे ।। २३ ।।
कृष्णमुद्दिश्य बोधिन्यां स्नानं होमो जपोऽर्पणम् ।
पितॄणां तर्पणं चैतत्कृतं भवति चाक्षयम् ।। ३४।।
महाव्रतमिदं प्रोक्तं नेदृशं तु व्रतान्तरम् ।
शतजन्मार्जिताऽसंख्यमहापापौघनाशनम् ।। ३५। ।
प्रबोधिन्या व्रतेनाऽत्र तोषयित्वा जनार्दनम् ।
सत्कृतः स्वर्गसंस्थैः सः प्रयाति हरिमन्दिरम् ।। ३ ६।।
रूपसौन्दर्यपुष्टत्वसौघट्यार्थिभिरादरात् ।
दारापुत्रगृहक्षेत्रपतिजैरोग्यमिच्छुभिः ।। ३७।।
धनवाहनयानादिस्मृद्धिधेनुधनेच्छुभिः ।
कर्तव्यैषा प्रयत्नेन बोधिनी प्रमदानरैः ।। ३८ ।।
बाल्ययौवनवार्धक्यावस्थायोगेन वै कृतम् ।
शतजन्मकृतं पापं व्रतादस्या विनश्यति ।। ३९ ।।
सूर्यचन्द्रोपरागस्य यत्फलं कौरवे स्थले ।
ततः सहस्रगुणितं प्रबोधिन्यां तु जागरे ।।1.261.४० ।।
यस्य प्रयाति मासस्तु कार्तिको वन्ध्य एव ह ।
तस्य बोध्यं नृजन्मापि वन्ध्यं त्वत्र परत्र च ।।४ १ ।।
जन्मार्जितस्य पुण्यादिकर्मणश्चापि वै फलम् ।
बन्ध्यकार्तिकमासस्य व्यर्थं याति सुखाय न ।।४२ ।।
परान्नं वर्जयेत्तस्य चान्द्रायणफलं भवेत् ।
कार्तिके तु कथाकर्तुर्यज्ञायुतफलं भवेत् ।।४३ ।।
तुष्यति न तथा यज्ञैर्न दानैर्वा जपादिभिः ।
यथा शास्त्रकथाभिस्तुष्यति कृष्णस्तु कार्तिके ।।४४।।
श्रोतारश्चापि वक्तारः कथायाः कार्तिके तु मे ।
प्रतिश्लोकं लभन्ते ते गोसहस्रार्पणं फलम् ।।४५।।
कार्तिके श्रेयसो बुद्ध्या केशवाऽग्रेऽतिभावतः ।
कथावाचयिता लक्ष्मि! कुलानां तारयेच्छतम् ।।४६।।
प्रत्यहं नियमेनाऽत्र कार्तिके शृणुयात्कथाम् ।
हरेर्योगात्फलं तस्या गोसहस्रप्रदानजम् ।।४७।।
प्रबोधिनीव्रते विष्णोश्चरित्रं शृणुयाच्च यः ।
सप्तद्वीपवतीदानफलं स लभते व्रती ।।४८ ।।
विष्णुबुद्ध्या कथां श्रुत्वा येऽर्चयन्ति कथाविदम् ।
धनधान्याम्बरैः शक्त्या तेषां लोकोऽक्षयो मतः ।।४९।।
नामकीर्तनभजनैश्चरित्रश्रवणादिभिः ।
कार्तिकं क्षपयेत्तस्य पुनरावर्त्तनं न वै ।।1.261.५ ० ।।
हर्यग्रे तु कथां गीतं वाद्यं नृत्यं समुत्सवम् ।
यः करौति व्रते प्राप्ते नित्यं वा मुक्तिभाक् स वै ।।।५ १ ।।
लक्ष्मीनारायणसंहितां पठेच्छृणुयात्तु यः ।
प्रत्यक्षरं भवेदस्य कपिलादानजं फलम् ।।५२।।
वित्तशाठ्यं न कर्तव्यं सम्प्राप्ते हरिवासरे ।
यतः पुण्यमसंख्यातं धनदाने भवत्यपि ।।५३ ।।
दशम्यामेकभुक्तः सन् व्रती भूशयनो निशि ।
संयमी ब्रह्मचारी च श्रीकृष्णं हृदि संस्मरेत् ।।५४।।
एकादश्यां प्रगे देवो जागर्तीति विभाव्य वै ।
ध्यात्वा स्नात्वा हरिं घण्टानादं कृत्वा प्रबोधयेत् ।।५५।।
आवाहनं समारभ्य व्रती विसर्जनान्तिमाम् ।
पूजां तु नैत्यिकीं कृत्वा हरेर्मण्डपमुत्तमम् ।।५६।।
शोभितं कदलीस्तम्भपत्रतोरणकेतुभिः ।
कारयेच्च वितानं सच्चित्रं वै बन्धयेच्छुभम् । ।५७।।
चतुष्कोणेषु कलशानुपर्युपरि सप्तकान् ।
क्लृप्तयेत्परितस्तत्र रंगावलीश्च कारयेत् ।।५८ ।।
मध्ये तु सर्वतोभद्रमण्डलं सप्तधान्यकम् ।
कारयेच्च घटं ताम्रकृतं वाऽथ सुवर्णजम् ।।५९ ।।
मण्डले स्थापयेन्मध्ये महत्तमशुभं नवम् ।
परितो मण्डले तत्र चतुर्विंशतिसद्घटान् ।। 1.261.६० ।।
स्थापयेत्स्वर्णजान् यद्वा ताम्रजान् सजलान्नवान् ।
पंचरत्नपंचपत्रपूगीफलाऽञ्चितण्डुलान् ।।६ १ ।।
वस्त्रसूत्रनारिकेलफलमोदकशोभितान् ।
पुष्पचन्दनकुंकुमाक्षतवार्यभिपूजितान् ।।६२।।
तन्मुखेषु स्थापनीयास्तिलस्थाल्यस्तु नूतनाः ।
शर्करैलालवंगाढ्याः फलनैवेद्यसंयुताः ।। ६३ ।।
मध्यस्थाल्यां स्थापनीयो राधादामोदरः स्वयम् ।
प्रबोधिन्या सहितः श्रीमूर्तिरूपो हरिः प्रभुः ।।६४।।
पार्श्वे पर्यंक आस्थेयः शय्यासाधनशोभितः ।
गेन्दुकं कशिपुर्गुप्तदोरकं प्रावरं तथा ।।६५।।
व्यजनं चामरं छत्रं पादुके दर्पणस्तथा
दन्तकः कलशः स्थाली वाटिकाः फुलवाटिकाः ।।६६ ।।
अन्यान्यपि त्वपेक्ष्याणि फलमिष्टान्नकानि च ।
स्थापनीयानि तत्रैव पर्यंके कृष्णतुष्टये ।।६७।।
श्रीगणेशं सकुटुम्बं पूजयेच्च निवेदयेत्। ।
घण्टां च कलशं शंखं पूजयेदुपचारकैः ।।६८ ।।
तीर्थान्यावाहयेत्पश्चाद्धरिं त्वावाहयेद् व्रती ।
आसनं च ददेत् पाद्यमर्घ्यमाचमनं ततः ।।६९।।
अर्पयेद् दन्तकाष्ठं च शौचशुद्धिं प्रकल्पयेत् ।
गण्डूषान्कारयेत्पश्चात्तीर्थवार्यभिषेचनम् ।।1.261.७०।।
कारयेच्च ततः पंचामृतस्नानं समर्पयेत् ।
पुनः शुद्धोदकस्नानं तथा वस्त्रेण मार्जनम् ।।७१ ।।
दुकूलार्पणमंगेषु सुगन्ध्यत्तरकाऽर्चनम् ।
कौस्तुभं ब्रह्मसूत्रं च कंचुकं शाटिकादिकम् ।।७२।।
धौत्रं च कंचुकीं दिव्यां घर्घरीं प्रसमर्पयेत् ।
मुकुटं चोत्तरावस्त्रं कुण्डलैरनकादिकम् ।।७३।।
कटके शृंखले व्यङ्गिडीश्च रत्नोर्मिकास्तथा ।
रशनां झन्झिराँश्चापि तन्तीं नत्थीं च मालिकाः ।।७४।।
हारान्स्वर्णमयाँश्चान्यान्भूषणानि समर्पयेत् ।
चन्दनं कज्जलं चूर्णं कौंकुमं कैसरं जलम् ।।७५।।
कस्तूरिकां श्वेतचूर्णं सिन्दूरकमलक्तकम् ।
अन्यत्सौभाग्यसद्द्रव्यं चार्पयेत् राधिकेश्वरे ।।७६।।
अबीरं च गुलालं चाऽक्षतान्पुष्पाणि चार्पयेत् ।
बहुपुष्पैर्बहुफलैः कर्पूराऽगुरुकुंकुमैः ।।७७।।
हरेः पूजां प्रकुर्याच्च कार्तिके बोधिनीप्रगे ।
फलैर्नानाविधैर्द्रव्यैर्धूपदीपनिवेदनैः ।।७८।।
मिष्टान्नैर्विविधैः शाकपत्रैस्तथाऽऽरनालकैः ।
भक्ष्यैर्भोज्यैर्लेह्यचोष्यै रसैर्मिष्टैश्च पानकैः ।।७९।।
फलैश्च विविधैर्देवं तोषयेद् भावतो व्रती ।
शंखतोयेन विधिवत्तोषयेत्तु जनार्दनम् ।।1.261.८०।।
केतक्या एकपत्रेण पूजितो गरुडध्वजः ।
समासहस्रं सुप्रीतो जायते कमलापतिः ।।८ १।।
अगस्तिकुसुमैः कृष्णं पूजयेत्तु विधानतः ।
पूजयितुर्दर्शनाच्च निरयाग्निः प्रशाम्यति ।।८२।।
मुनिपुष्पार्चितो विष्णुः कार्तिके पुरुषोत्तमः ।
ददात्यभिमतान्कामान् दिव्याऽदिव्याँस्तथा परान् ।।८३।।
विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम् ।
कार्तिके योऽर्चयेद् भक्त्या वाजिमेधफलं लभेत् ।।८४।।
तुलसीदलपुष्पाणि शमीपत्राणि ला तथा ।
विष्णावर्पयिता जन्मशतजं कार्तिके दहेत् ।।८५।।
दृष्टा स्पृष्टाऽथवा ध्याता कीर्तिता नामतः स्तुता ।
रोपिता सेचिता नित्यं पूजिता तुलसी नता ।।८६।।
नवधा तुलसीभक्तिं यं कुर्वन्ति दिने दिने ।
युगकोटिसहस्राणि तन्वन्ति सुकृतं प्रिये ।।८७।।
यावच्छाखाप्रशाखाभिर्बीजपुष्पदलैर्नवैः ।
रोपिता तुलसी पुंभिर्वर्धते पृथिवीतले ।।८८।।
तेषां वंशे तु ये जाता ये भविष्यन्ति ये गताः ।
तेषामाकल्पसाहस्रं वासो हरेर्गृहे भवेत् ।।८९।।
यत्फलं सर्वपुष्पेषु सर्वपत्रेषु यत्फलम् ।
तुलस्येकदलेनैव प्राप्तं वै कार्तिके भवेत् ।।1.261.९ ०।।
नित्यं तु कार्तिके विष्णुस्तुलसीदलकैस्तथा ।
पद्मैर्धात्रीदलैश्चैव पूजनीयः शमीदलैः । ।९ १ ।।
इष्ट्वा क्रतुशतैर्देवान्दत्त्वा दानान्यनेकशः ।
तत्पुण्यं तुलसीपत्रैः कार्तिके केशवार्चने ।।९२।।
आरार्त्रिकं नमस्कारं स्तोत्रं प्रदक्षिणास्तथा ।
दक्षिणा दण्डवत् पुष्पांजलिं च क्षमणार्थनम् ।।९३।।
व्रतपूर्तिप्रार्थनां च व्रती कृत्वा ततः परम् ।
गुरोः पूजां प्रकुर्वीत भोजनाच्छादनादिभिः ।।९४।।
सुवर्णदक्षिणाभिश्च तुष्ट्यर्थं चक्रपाणिनः ।
गोप्रभतीनि दानानि दातव्यानि बहून्यपि ।।९ ५ ।।
मध्याह्ने पूजयेद्देवं भोजयेद्वै विधानतः ।
सायं चापि महापूजां कारयेद्भोजयेद्धरिम् ।।९६ ।।
जलपानाद्यर्पयेच्च प्रेंखायां स्थापयेत्ततः ।
आन्दोलयेत्तोषयेच्च पादसंवाहनं चरेत् ।।९७।।
व्रती जागरणं कुर्याद्गीतवादित्रनर्तनैः ।
कथाभी रासरमणैर्लीलानुकरणादिभिः ।।९८।।
प्रातर्द्वादशिकायां तु स्नात्वा सम्पूज्य माधवम् ।
भोजयेत्तर्पयेदारार्त्रिकेण वर्धयेद्धरिम् ।।९९।।
स्तुत्वा विसर्जयेत्सर्वान् भोजयेद्बहुभावतः ।
साधून्साध्वीः सात्वताँश्च विप्रान् बालान् सुभोजयेत् । । 1.261.१०० ।।
दद्याद् दानान्यनेकानि पारणां च ततश्चरेत् ।
एवमुद्यापनं कृत्वा घटादि गुरवेऽर्पयेत् । । १०१ ।।
एवं व्रतं प्रपूर्णं च कृत्वाऽक्षरमवाप्नुयात् ।
भुक्तिं भुक्तिं समाप्नोति शाश्वतं च सुखं ध्रुवम् । । १०२ । ।
शृणु व्रते प्रबोधिन्याः कुर्वन्तं हरिमन्दिरे।
कीर्तनं त्वेकचाण्डालं राक्षसाद्रक्षितं प्रिये ।। १०३ ।।
अरण्ये रैवते क्षेत्रे ह्यश्वपट्टसरस्तटे ।
ब्रह्मणा निर्मितं त्वासीद् विष्णुस्थानमनावृतम् । । १० ४।।
आरण्यका जना यस्य दर्शनाद् यान्ति सद्गतिम् ।
भद्रावती तटावासी कश्चिद्दीनजनः खलु । । १०५ ।।
द्विजस्तु कर्मचण्डालः काष्ठहारोऽभवन्ननु ।
नदीपूरेण सन्नष्ट गृहदारादिकः स हि ।। १०६ ।।
अरण्येऽरोचताऽऽवासं काष्ठहारित्वकर्मतः ।
शुभसंस्कारयुक्तोऽसौ नित्यं सायं तु भावतः । । १०७ ।।
विष्णुस्थानं प्रयाति स्म कीर्तनं प्रकरोत्यपि ।
दर्शनं नयनं चापि पुनर्याति निजालयम् ।। १०८ ।।
कार्तिके तु प्रबोधिन्यां जागरं कर्तुमुत्सुकः ।
निशि गच्छन्तमेनं वै जग्राह पथि राक्षसः ।। १०९ ।।
जहास कर्मचाण्डालो राक्षसो विस्मयं गतः ।
पप्रच्छ मरणे काले निर्भयं हास्यकारणम् । । 1.261.११० ।।
कर्मचण्डाल आहैनं धन्योऽहं मृतिरागता ।
एकादशीतिथिस्त्वद्य व्रतं मेऽस्ति प्रबोधिनी ।। १११ ।।
देवालयं तु गच्छामि कीर्तनायाऽर्चनाय च ।
जागराय प्रयाम्येवं मृत्युर्यदि समागतः ।। ११२ ।।
तदा मे सद्गतिस्त्वस्ति न ह्यधो याति भक्तिकृत् ।
यदि तेऽस्ति क्षुधा तर्हि शीघ्रं भक्षय मामिह ।। ११३ ।।
व्रते यद्वा जागरादि कृत्वा भक्षय मां प्रगे ।
राक्षसः प्राह मृत्योर्वै मुखाद् यो मुच्यते जनः ।। ११ ४।।
न चायाति पुनर्मृत्युस्थले त्वास्था नमे त्वयि ।
चाण्डालः प्राह यद्येवं समागच्छ मया सह । । ११५ । ।
करिष्ये कीर्तनं पश्चाद् यथेष्टं मां प्रभक्षय ।
कीर्तनेन भवेन्मुक्तिः श्रवणेनापि मोक्षणम् । । ११६ ।।
राक्षसः प्राह यद्येवं त्वया गच्छाम्यहं सह ।
पूर्वं देवस्वकोशस्याधिकारे ह्यासमेव यत् ।। ११७ ।।
यशोदात्रीपुरीमध्ये देवस्वं चोरितं बहु ।
तेन पापेन जातोऽहं ब्राह्मणो ब्रह्मराक्षसः ।। ११८ ।।
यदि वै कीर्तनादत्र श्रवणाद्वा प्रमोक्षणम् ।
भवतीति ममापि स्यान्मोक्षणं नाग्रहो भुजेः । । ११९ ।।
विचार्येति ययतुस्तौ व्रते विष्णुस्थले निशि ।
चण्डालेन प्रगीतं वै कीर्तनं नृत्यतालितम् ।। 1.261.१२० ।।
रात्रौ जागरणं चापि कृतं द्वाभ्यां सुभावतः ।
प्रातः शुद्धावभूतां तौ देवयानं समागतम् ।। १२१ ।।
देहौ विहाय तत्रैव ययतुः स्वर्गमेव तौ ।
भोगान् भुक्त्वाऽसंख्यसमा अप्सरोगणसेवितौ ।। १२२।।
पश्चान्मुक्तिं प्रयातौ तौ वैकुण्ठं विष्ण्वनुग्रहात् ।
एवं त्वसद्गतिकानां पतितानां च मोक्षकृत् । । १२३ । ।
व्रतं प्रबोधिनी श्रेष्ठं कर्तव्यं सर्वथा जनैः ।
अन्यान्यपि व्रतान्यत्र कर्तव्यान्यपि मे शृणु । । १ २४। ।
एतेष्वेकतमे जाते कार्तिकः पापकर्तनः ।
स्नातव्यं ब्राह्मकाले च कर्तव्यं कृच्छ्रमादरात् । । १ २५। ।
आश्वयुज्याः समारभ्य कार्तिक्यवधिं भक्तितः ।
व्रतं मासोपवासाख्यं कार्यं चान्द्रायणं शुभम् ।। १ २६।।
तिथिह्रासे कृष्णपक्षे ग्रासानामलकोपमान् ।
त्यक्त्वैकैकं प्रभुञ्जीत वर्धयेच्च सिते दले ।। १ २७।।
तिथिवृद्ध्या शुक्लपक्षे ग्रासानामलकोपमान् ।
एकैकवृद्ध्या भुञ्जीत ह्रासयेच्च सितेतरे ।। १ २८।।
पूर्वं पिपीलिकानाम द्वितीयं यवनामकम् ।
मध्ये क्षीणं च पुष्टं च प्रोक्तं चान्द्रायणं शुभम् ।। १ २९।।
चरुर्भैक्षं सक्तुकणा यावकः शाकमित्यपि ।
पयो दधि घृतं मूलं फलं पानीयमेव वा ।। 1.261.१३० ।।
उत्तरोत्तरशस्तानि हवीष्येतानि वै व्रते ।
अमायां नैव भुञ्जीत तिथिवृद्धौ तु षोडश ।। १३१ ।।
तिथिक्षये तु तद्ग्रासा ग्राह्याश्चतुर्दशैव हि ।
यथाकथञ्चित् पिण्डानां चत्वारिंशच्छतद्वयम् ।। १३ २।।
मासेनैवोपभुञ्जीत तदपीन्दुव्रतं भवेत् ।
अष्टावष्टौ समश्नीयाद् यति चान्द्रायणं हि तत् ।। १३३ ।।
प्रातश्चतुरः सायं च शिशुचान्द्रायणं हि तत् ।
अथान्यानि प्रवक्ष्यामि शृणु लक्ष्मि! समाहिता ।। १३४ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कार्तिकशुक्लप्रबोधिनीव्रतमाहात्म्यं विप्रनिमित्तककीर्तन-व्रतयोगेन कर्मचण्डालविप्रस्य राक्षसस्य च मुक्तिश्चान्द्रायणस्वरूपं चेत्यादिनिरूपणनामैकषष्ट्यधिकद्विशततमोऽध्यायः ।। २६१ ।।