लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २६०

विकिस्रोतः तः
← अध्यायः २५९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २६०
[[लेखकः :|]]
अध्यायः २६१ →

श्रीलक्ष्मीरुवाच-
महाकालो महारुद्रो यमो यमस्य किंकराः ।
यदात्मानो जगत्सर्वं नियमयन्ति ते नमः ।। १ ।।
पाशो वज्रं गदा शक्तिर्दण्डश्चक्रं त्रिशूलकम् ।
यदात्मानः प्रवर्तन्ते तस्मै ते विभवे नमः ।। २ ।।
धृतिर्दया सहायत्वं नीतिक्षमोपकारिताः ।
यत्प्रयुक्ता प्रभवन्ति तस्मै गुणात्मने नमः ।। ३ ।।
ममता परता नैजं स्थितिः पुष्टिर्विमोक्षणम् ।
यदात्मक कृतं स्याद्वै निर्गुणं गुणिने नमः ।। ४ ।।
भगवँस्ते कृपा पारावारतुल्या सदा मयि ।
वद कार्तिककृष्णैकादशी किंनामिका भवेत् ।। ५ ।।
को देवः पूजनीयोऽत्र दानं पुण्यं विधिं वद ।
व्रतेऽपि कीदृशं कार्यं कर्तव्यमिति मे वद ।। ६ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! कार्तिकोऽयं मासो मोक्षप्रदोऽस्ति वै ।
चातुर्मास्यान्तमासोऽयं व्रतदानादिपूजने ।। ७ ।।
मासः श्रेष्ठतमश्चायं वर्तते व्रतिनां कृते ।
तत्र सर्वं शुभं पुण्यं कर्म कर्तव्यमेव यत् ।। ८ ।।
तत्राऽप्येकादशी श्रेष्ठा कृष्णपक्षे रमाभिधा ।
हिरण्यया सहाऽभ्यर्च्यो हरिस्तस्यामधीश्वरः ।। ९ ।।
पुष्पेषु बटुकुन्दानि तदर्घ्ये कदलं मतम् ।
नैवेद्ये शर्कराऽऽज्याक्तकदलानि च पोलिकाः ।। 1.260.१० ।।
दानं घृतघटादीनां यदिष्टं स्वस्य वै भवेत् ।
तत्सर्वं तु प्रदातव्यं स्वर्णं लक्ष्मीविवृद्धये ।। ११ ।।
दशम्यामेकभुक्तः स्याद् व्रती भूशयनो भवेत् ।
ब्रह्मचारी भवेत् क्रोधमोहदोषादिवर्जितः ।। १२।।
प्रातरुत्थाय गोविन्दं ध्यायेत्स्नात्वा प्रपूजयेत् ।
पूजां तु नैत्यिकीं कृत्वा कारयेत्सप्तधान्यकम् ।। १३ ।।
मण्डलं सर्वतोभद्रं रंगचित्रालिशोभितम् ।
तन्मध्ये तु घटं स्वर्णं ताम्रजं स्थापयेच्च वा ।। १४।।
पञ्चरत्नसुपत्राद्यक्षतवारिसुवस्त्रकैः ।
शर्कराश्रीफलपूगीफलचन्दनसंयुतम् ।। १५।।
तन्मुखाग्रे तिलस्थालीं राजतीं स्थापयेद् व्रती ।
न्यस्येन्मूर्ति तत्र हिरण्यारमाशालिनो हरेः ।। १६ ।।
आवाहनादिभिः पंचामृताऽद्भिस्तैलमर्दनैः ।
सेवेताऽथाऽम्बरभूषाशृंगारादि समर्पयेत् ।। १७।।
पुष्पमालां कटके च मुकुटादि समर्पयेत् ।
धूपदीपसुनैवेद्यजलताम्बूलकादिकम् ।। १८।।
आरार्त्रिकाद्यर्पयेच्च कुर्यात् स्तोत्रं क्षमार्थनाम् ।
दानानि विविधान्येव दद्याच्छ्रीगुरवे तदा ।। १ ९।।
मध्याह्नेऽपि पूजयेच्च भोजयेज्जलमर्पयेत् ।
सायं स्नात्वा पूजयित्वा नीराजनं विधापयेत् ।।1.260.२० ।।
स्तुत्यादिकं विनिर्वृत्य भोजयेत् सेवयेत्तथा ।
रात्रौ तु जागरं कुर्याद्भक्तमण्डलमण्डितः ।। २ १ । ।
गीतनृत्यकथावार्ताऽऽख्यानरंजनतां चरेत् ।
द्वादश्यां तु व्रती प्रातः स्नात्वा समर्च्य केशवम् । । २२ ।।
दद्याच्छ्रेष्ठानि दानानि राजा वापि प्रजा व्रती ।
त्यागी वापि गृही वापि नारी वापि नरोपि वा । । २३ ।।
यथाशक्ति सतः साध्वीर्विप्रान् बालान् प्रभोजयेत् ।
ततः कुर्यात्पारणां वै व्रतसिद्धिं समर्थयेत् । । २४।।
एवं कृत्वा व्रतं नारी रमातुल्या भवेद् ध्रुवम् ।
नरः कृत्वा व्रतं देवो जायते मुक्त एव सः । । २५ ।।
शृणु लक्ष्मि! चन्द्रभागाशशिसेनकथां शुभाम् ।
मुचुकुन्द इति ख्यातो बभूव नृपतिः पुरा । । २६ ।।
इन्द्रकुन्दनसंज्ञं तन्नगरं दक्षिणेऽभवत् ।
राजधान्यां वसन्पृथ्वीमेकराट् प्रशशास सः । । २७ । ।
देवेन्द्रेण समं तस्य मित्रत्वमभवद् बहु ।
यमेन वरुणेनैव कुबेरेण तथाग्निना । । २८ । ।
बिभीषणेन तस्यैवं मित्रत्वमभवत्तथा ।
यानविमानकैः सोऽयं त्रिलोक्यां याति सर्वतः । । २९ ।।
विष्णुभक्तः सत्यसन्धः शास्ति राज्यमकण्टकम् ।
सर्वे तु वैष्णवास्तस्य राज्ये भवन्ति मानवाः । । 1.260.३० । ।
विष्णुभक्ताः प्रजास्तस्य संप्राप्ते हरिवासरे ।
अन्नं न भुंजते सर्वाः कुर्वते समुपोषणम् । । ३१ ।।
पटहस्ताड्यते तस्य संप्राप्ते दशमीदिने ।
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते तु हरेर्दिने । । ३२ ।।
गजैरश्वैश्च कलभैरन्यैश्च पशुभिस्त्वपि ।
तृणमन्नं तथा वारि न भोक्तव्यं हरेर्दिने । । ३३ ।।
एवं कारयति सर्वान् राज्यस्थान् व्रतमुत्तमम् ।
चन्द्रभागा नदीश्रेष्ठा सुता तस्य बभूव ह ।। ३८ ।।
समकालेऽथ कावेर्यास्तटे बभूव भूपतिः ।
चन्द्रसेनाह्वयः पुण्यः कनकाख्यपुराधिपः ।। ३५ । ।
तत्पुत्राय शशिसेनाह्वयाय गुणशालिने ।
चन्द्रभागा प्रदत्ता वै मुचुकुन्देन भूभृता ।। ३ ६।।
महाभागवती सापि व्रतं करोति वैष्णवी ।
एकदा पतियुक्ता सा पितृगेहं जगाम वै । । ३७।।
भर्ता ज्वराभिभूतोऽस्या बभूव त्वतिदुर्बलः ।
एकादशीव्रतं चाहः समायातं सुपुण्यदम् । । ३८ । ।
समागते व्रते चन्द्रभागा मनस्यचिन्तयत् ।
किं भविष्यति भर्तुर्मे ह्यत्यशक्तस्य वै व्रते ।। ३९ ।।
क्षुधां न क्षमते सोढुं रुग्णः कृशोऽतिनिर्बलः ।
व्रतस्य दिवसे त्वत्र पिता मे तूग्रशासनः । ।1.260.४ ० । ।
सशक्तो वाऽप्यशक्तो वा व्रतं करोतु शासनम् ।
केनाप्युलंघ्यते चेत् स दण्डपात्रं न संशयः । । ४१ ।।
यद्भावि तद्भवत्वत्र किं कार्यं विवशेन वै ।
इति विचिन्त्य सा त्वास्ते व्रताहश्चापि संस्थितम् ।। ४२ ।।
पटहस्ताड्यते तस्य संप्राप्ते दशमीदिने ।
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते तु हरेर्दिने । ।४३ । ।
मच्छासनोल्लंघयिता दण्डार्हो वै भविष्यति ।
श्रुत्वा पटहनिर्घोषं शशिसेनोऽब्रवीत् प्रियाम् । ।४४ । ।
किं, कर्तव्यं मया कान्ते मरिष्यामि विनाऽदनम् ।
चन्द्रभागा तदा प्राह कान्तं चिन्तातुरं शनैः । । ४५ ।।
मत्पितुर्विषये क्वापि भोक्तव्यं नाऽद्य केनचित् ।
मानवैर्मानवाधीनपशुपक्षिसरीसृपैः । । ४६ ।।
तृणमन्नं जलं पिष्टं न भोक्तव्यं हरेर्दिने ।
यदि त्वं भोक्ष्यसे कान्त ततो दण्डं प्रयास्यसि । ।४७ ।।
प्रयास्यसि विगर्हां च तस्मात्कुरु मनो दृढम् ।
श्रुत्वाऽऽहशशिसेनस्तां करिष्येऽहमुपोषणम् ।। ८८ । ।
दैवेन विहितं यन्मे तत्तथैव भविष्यति ।
एवं दृढां मतिं कृत्वा चकार निर्जलं व्रतम् । ।४ ९ ।।
क्षुधातृषातिसंव्याप्तो बभूव बहुविहलः ।
रात्रौ मूर्छाभिभूतः स ब्रह्मरन्ध्रं समाश्रितः । । 1.260.५ ० । ।
रवेरुदयवेलायां शशिसेनो मृति गतः ।
दाहयामास राजा तं राजयोग्यैश्च दारुभिः ।। ५१ । ।
चन्द्रभागा हरेर्भक्तेर्माहात्म्यबोधवत्तया ।
पतिव्रताऽपि पतिना सहाऽऽत्मानं ददाह न । । ५२ ।।
कृत्वौर्ध्वदैहिकं भर्तुस्तस्थौ जनकवेश्मनि ।
शशिसेनो दिव्यदेहो रमाव्रतसुपुण्यतः । । ५३ । ।
प्राप्तः स्वर्गे तु साम्राज्यं स्वतन्त्रमैन्द्रसदृशम् ।
बहुस्मृद्धमनाधृष्यमसंख्येयगुणान्वितम् । । ५४। ।
हेमस्तम्भमयैः सौधैः रत्नवैदूर्यमण्डितैः ।
स्फाटिकैर्विविधाकारैर्विचित्रैर्दिव्यसूज्ज्वलैः । ।५५।।
भवनैरसंख्यभौमैः शोभितं स्वर्गमाप सः ।
विमानवरमारूढः सिंहासनसमाश्रितः ।। ।५६ । ।
किरीटकुण्डलयुतो हारकेयूरमण्डितः ।
स्तूयमानश्च गन्धर्वदेवाऽप्सरःपरीगणैः । । ५७। ।
करात्तव्यजनच्छत्रचामराभिजनैर्वृतः ।
शशिसेनः स्वके स्वर्गे राजते मोदते बहु ।।५८ ।।
अथैकदा महेन्द्रस्य दूतः पृथ्व्यां समागतः ।
मुचुकुन्दगृहे कार्यवशादिन्द्रेण मोदितः ।।५९।।
यदेन्द्रस्य महायुद्धं दैत्यैः सहोपतिष्ठति ।
मुचुकुन्दस्तदा दैत्यान् विजित्वेन्द्रसहायवान् ।।1.260.६ ० ।।
जयप्रदो भवत्येव ब्रह्मणो वरदानतः ।
इत्यर्थे त्वागतं दूतं भोजितं सत्कृतं तथा ।।६ १ ।।
नृपः पप्रच्छ वै स्वर्गिसुराणां तु निरामयम् ।
दूतो यदर्थमायातः सर्वं निवेद्य वै ततः ।। ६२।।
नृपं प्राह मया स्वर्गं शशिसेनोऽवलोकितः ।
इन्द्रादन्यूनसामर्थ्यस्मृद्धिवैभववारिधिः ।।६ ३ ।।
रूपलावण्यसम्पन्नो युवा देवो विराजते ।
जामाता तव राजेन्द्र दृष्ट्वाऽऽयान्तं भुवं तु माम् ।।६४ ।।
प्राह पृथ्व्यां श्वशुरस्य चन्द्रसेननृपस्य च ।
कान्तायाश्चन्द्रभागायास्तथैव नगरस्य च ।।६५।।।
मत्सकाशात्तु कुशलं प्रष्टव्यं च निरामयम् ।
मम स्वस्ति च वक्तव्यं स्वर्ग्यं सर्वं यथाऽस्ति मे ।। ६६ ।।
मम पत्नी च वक्तव्या पतिस्ते त्वां प्रतीक्षते ।
इति राजन् हि जामातुस्तेऽस्ति स्वर्गे सुखं बहु ।।६७।।
कुशलं वर्तते तस्याऽऽश्चर्यं च विद्यतेऽद्भुतम् ।
पुरं विचित्रं रुचिरं न दृष्टं केनचित्क्वचित् ।। ६८ ।।
दिव्यं व्योम्नि सुगतिमत्तेजोऽम्बरप्रकाशितम् ।
अमृतभोगभोगाढ्यं दासाऽप्सरोभिसेवितम् ।।६९ ।।
वर्णयितुं न शक्नोमि महाश्चर्यमयं पुरम् ।
तव लब्धं हि जामात्रा व्रतपुण्येन शाश्वतम् ।। 1.260.७०। ।
कार्तिकस्याऽसिते पक्षे या नामैकादशी रमा ।
तामुपोष्य मृतश्चात्र प्राप्तवान् स्वर्गमीदृशम् ।।७ १ ।।।
श्रद्धाहीनो व्रतकर्ता प्राप्तोऽपि स्वर्गमुत्तमम् ।
तदूर्ध्वं दिव्यलोकं स गन्तुमिच्छति नाकतः ।।७२ ।
स्वीयपत्न्याऽनुष्ठितस्य रमाव्रतस्य वै बलात् ।
श्रुत्वा तत्र स्थिता चन्द्रभागा हृष्टाऽऽह वै मुहुः ।।७३ ।
नाथदर्शनवेगाढ्या मुचुकुन्दस्य पुत्रिका ।
तत्र मां नय दूत त्वं यत्राऽऽस्ते मे प्रियः पतिः ।।७४।
नेष्ये तं ब्रह्मधामाऽपि रमाव्रतस्य पुण्यतः ।
आवयोर्दूत! संयोगो यथा भवति तत् कुरु ।।७५।
श्रुत्वा दूतो मुचुकुन्दस्याऽऽज्ञां प्राप्य तदाऽम्बरे ।
चन्द्रभागां दिव्यदेहां कृत्वा नीत्वा जगाम ह ।।७६।
सापि स्वर्गसहं दिव्यं रूपं यौवनमित्यपि ।
दिव्यं चोड्डयनं प्राप्य भर्तुः समीपमागता ।।७७
भर्तुः स्वर्गं महाराज्यं दृष्ट्वा दृष्ट्वा जहर्ष सा ।
इन्द्रसेनो जहर्षाऽति दृष्ट्वा कान्तां समागताम् । । ७८ ।।
समाहूय स्वके वामे पार्श्वे तां स न्यवेशयत् ।
दूतः प्राप्य सुसत्कारमिन्द्रं प्रति जगाम ह । ७९ । ।
अथोवाच प्रियं हर्षाच्चन्द्रभागा प्रियं वचः ।
शृणु कान्त! हितं वाक्यं यत्पुण्यं विद्यते मयि । ।1.260.८ ० ।।
अष्टवर्षाधिका जाता यदाऽहं पितृवेश्मनि ।
ततः प्रभृति यच्चीर्णं मया त्वेकादशीव्रतम् । ।८ १ ।।
तस्य पुण्यप्रभावेण यास्यावो धाम चाक्षरम् ।
सर्वकामसमृद्धं च शाश्वतं श्रीहरेः पदम् । । ८ २ । ।
बहुकालं तु तौ स्वर्गं भुक्त्वा पुण्यप्रभावतः ।
ययतुस्त्वक्षरं धाम दिव्यमुक्तौ बभूवतुः ।।८ ३ ।।
चिन्तामणिसमा त्वेषा कामधेनुसमाऽपि वा ।
कल्पद्रुसदृशी रमाभिधानैकादशी मम ।।८४।।
एकादशीव्रतानां च पक्षयोरुभयोरपि ।
यथा कृष्णा तथा शुक्ला विभेदं नैव कारयेत् ।।८९ ।।
धेनुः श्वेता यथा कृष्णा चोभयोः सदृशं पयः ।
तथैव तुल्यफलदं स्मृतमेकादशीद्वयम् ।।८ ६ । ।
सेवितैकादशी नॄणां भुक्तिमुक्तिप्रदायिनी ।
श्रवणात्पठनाच्चापि व्रततुल्यफलं भवेत् ।। ८७। ।
इति श्रीलक्ष्मीनारायणोयसंहितायां प्रथमे कृतयुगसन्ताने कार्तिककृष्णरमैकादशीव्रतमाहात्म्यं मुचुकुन्दपुत्र्याश्चन्द्रभागायाः पत्युरिन्द्रसेनस्य व्रतदिने मरणात् स्वर्गं ततः पत्न्याः स्वर्गगत्युत्तरं द्वयोर्मोक्षं इत्यादिनिरूपणनामा षष्ट्यधिकद्विशततमोऽध्यायः ।। २६० । ।