लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २३७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २३६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २३७
[[लेखकः :|]]
अध्यायः २३८ →

श्रीनारायण उवाच-
श्रुणु लक्ष्मि महानिद्रा पुण्यक्षयविधायिनी ।
सर्वथा परिहर्तव्या व्रतरात्रौ दिवाऽपि च ।। १ ।।
निद्रावृत्तिर्महाघोरा तामसी चित्तधूम्रिणी ।
अभावप्रत्ययालम्बनात्मिकाऽऽलस्यकारिणी ।। २ ।।
स्वाप्नदोषादिकर्त्री च भक्तिसेवाविघातिनी ।
कदाचिद्दोषबाहुल्ये राजसे पुष्टतां गते ।। ३ ।।
ब्रह्मचर्यव्रतभंगप्रदस्रावादिकारिणी ।
व्रतनाशकरी स्यात् सा वायुवीर्यजवादिना ।। ४ ।।
तस्माज्जागरणं कार्यं व्रतस्य निशि सर्वथा ।
बह्वाहारेऽन्नसंभारे प्रायः शारीरधातवः ।। ५ ।।
पुष्टा भवन्ति तद्योगात् क्वचिद्धातुक्षयेऽवशात् ।
ब्रह्मचर्यव्रतभंगे तूपवासो निरर्थकः ।। ६ ।।
तस्मात् तदा फलाहारादिकं संक्षेपतो मतम् ।
अन्नाहारः सदावर्ज्यो व्रतस्य दिवसे जनैः ।। ७ ।।
निद्रा तु सर्वथा वर्ज्या सत्त्ववृत्तिविनाशिनी ।
पुण्यक्षयप्रदा सर्वदोषाधाराऽतितामसी ।। ८ ।।
विजेतव्या प्रयत्नेन भक्तेन व्रतिना खलु ।
व्रतपुष्टिकरं जागरणं कार्यं प्रयत्नतः ।। ९ ।।
एकादश्यां जनः कृष्णं संपूज्य प्रेमतो निशि ।
वैष्णवैः सह सम्मील्य कुर्याज्जागरणं व्रते ।। 1.237.१०।।
गीतवाद्याभिनृत्यादि संहिताकथनादिना ।
वार्तया भगवप्कीर्त्यात्मिकया सेवया च वा ।। ११ ।।
कुर्याज्जागरणं भक्तो व्रतसाफल्यहेतवे ।
धूपं दीपं च नैवेद्यं पुष्पं गन्धानुलेपनम् ।। १ २।।
फलमर्घ्यं तथा श्रद्धां भूषणं प्रेमभावनम् ।
विनिद्रं च व्रतं सर्वं दद्यात्कुर्याच्च भक्तितः ।। १३।।
स सर्वपापाऽतिसंशुद्धो जायते पार्षदो हरेः ।
व्रते जागरणे प्राप्ते सोत्साहा वैष्णवास्तदा ।। १४।।
सोपवासं व्रतं जागरणं कुर्युः सताण्डवम् ।
तद्व्रतं विष्णुसंज्ञं वै कुर्युर्नाम्नां च कीर्तनम् ।। १५।।
मनसा श्रीहरिं ध्यात्वा मुहुर्नाम वदन्ति वै ।
ते तु धन्यतमा लोके तारका मम पार्षदाः ।। १६।।
प्रश्वासे च तथा श्वासे हरेर्नाम चतुर्गुणम् ।
प्रहरे नामरटणं फलदं कोटिसद्गुणम् ।। १७।।
चतुर्यामे नामभक्तिस्त्वसंख्यफलदा मता ।
जागरं निमिषार्धं च कृतं मूर्तेश्च सन्निधौ ।। १८।।
तत्फलं कोटिकोट्यब्जगुणितं स्यादनुत्तमम् ।
कृष्णाग्रे नर्तनं कुर्यात् साश्चर्यं प्रेमसंभृतम् ।। १९।।
सोत्साहं च प्रमादालस्यादिवर्जितमेव च ।
प्रदक्षिणं तथा कुर्यात् नमस्कारं मुहुर्मुहुः ।।1.237.२०।।
आरार्त्रिकं तथा कुर्याद् यामे यामे पुनः पुनः ।
चेतसा चार्द्रभावेन पश्यन्मूर्तिं क्षणे क्षणे ।। ११ ।।
तालिकावादनं कुर्यादित्येवं जागरं भवेत् ।
एवं बहुगुणैर्युक्तं कुर्याद् यो जागरं व्रते ।।२२।।
वित्तशाठ्यं न च कुर्यान्न लोभं पूजने तथा ।
एवं यः कुरुते भक्त्या न पुनर्जायते भुवि ।।।२३।।
जागरणं प्रकुर्वन् वै व्रती विष्णौ हि लीयते ।
नास्तिकत्वेन चात्मानं व्रते नैव प्रतारयेत् ।।२४।।
नारायणव्रते जागरणे तु ह्युपहासकृत् ।
षष्टिवर्षसहस्राणि विष्ठायां जायते ( कृमिः) ।।२५।।
वेदवेत्ता च यो विप्रो नर्तने चोपहास्यकृत् ।
दोषलिप्तो भवेदत्र चाण्डालादधमो हि सः ।।२६।।
क्षणं वा प्रहरं वापि जागरं नर्तनान्वितम् ।
करोति यो भावयुक्तश्चतुर्वर्गफलं व्रजेत् ।।२७।।
याजको वैदिकश्चापि जागरे प्रविनिन्दकः ।
एकविंशतिकुलयुक् नरकं प्रतिपद्यते ।।२८।।।
नास्तिकभावसर्पेण दंष्टाः स्वपन्ति वै व्रते ।
मायया मोहिता नैव कुर्वन्ति जागरं हि ते ।।२९।।।
विनष्टास्ते न सन्देहो मोक्षात्प्रच्यविता हि ते ।
नेत्रहीना ज्ञानहीनाः पुमर्थविगता हि ते ।।1.237.३० ।।
जागरे वाचके प्राप्ते हरेः कथां प्रकारयेत् ।
श्रावयेद् विविधान् दिव्याँश्चमत्कारान् हरेर्मुहुः ।।३ १।।
वाचकस्याऽप्रलाभे तद्कीर्तनं कारयेन्मिथः ।
गायनं नर्तनं कुर्यात् हास्यादि हरियोगजम् ।।३२।।
उत्सवो रासरमणं कृष्णलीलां प्रगापयेत् ।
अश्वमेधसहस्रस्य वाजपेयाऽयुतस्य च ।।३३।।।
पुण्यं भवेत् कोटिगुणं व्रते जागरणे कृते ।
विना जागरणं व्रते व्रतपुण्यक्षयो भवेत् ।।३४।।
पितृपक्षा मातृपक्षा भार्यापक्षास्तथा युजः ।
शतशश्चोद्धरन्त्येव व्रते जागरणे कृते ।।३५।।
उपोषणस्य रात्रिर्वा दिनं वा निद्रया यदि ।
विध्यते तद्व्रतं विद्धं चासुरं व्रतमेव तत् ।।३६।।।
फलं त्वासुरभावात्म शापात्मकं च तद्भवेत् ।
विष्णुस्तत्र न चायाति त्वागत्यापि विगच्छति ।।३७।।
हरिर्निद्राकृते स्थाने शापं दत्त्वा विगच्छति ।
कृते तु जागरे स्थाने लक्ष्मीरुद्धोपि वै हरिः । ।३८।।
समागच्छति दृष्टः सन् भक्तेषु नृत्यति स्वयम् ।
प्रेमपूर्णप्रभक्तेषु प्रविष्टोऽतीव हृष्यति ।।३९।।
यावद् व्रतानि कुरुते जागरं हरिसन्निधौ ।
तावद् युगानि व्रतकृद् विष्णुलोके महीयते ।।1.237.४०।।
एकादश्यादिव्रताहे शश्वन्निद्रालुसद्गृहे ।
असुरा राक्षसा याम्या नृत्यन्त्यनिष्टकारकाः ।।४१।।
हरेर्व्रतदिने गानं पाठं जपं समाचरेत् ।
मूकवन्निर्गमे सप्तजन्मसु मूकता भवेत् ।।४२।।।
हरेरग्रे नर्तनं यो नाचरत्यतिलज्जया ।
पंगुत्वं तस्य विज्ञेयं चात्र परत्र जन्मनि ।।४३ ।।
गीतनृत्यजपजागरणकर्तुस्तु मत्पदम् ।
वासाय वैष्णवं सर्वश्रेष्ठं मया विनिर्मितम् ।।४४।।
कारयेच्चान्यभक्तान् यो जागरं वै हरेर्दिने ।
अनिमेषो मम पार्षदाग्र्यो वसेत् स धामनि ।।४५।।
निद्रालुं जाग्रति भावे योजयेद्यो हरेर्दिने ।
वसेच्चिरं तु वैकुण्ठे पितृकोटिभिरन्वितः ।।४६।।
मतिं ददाति यः कृष्णव्रते जागरणं प्रति ।
षष्टिवर्षसहस्राणि श्वेतद्वीपे वसेद्धि सः ।।४७।।
कामदोषकृतं पापं जन्मन्यन्यत्र वां कृतम् ।
श्रीहरेर्जागरे सर्वं निशि नाशं प्रगच्छति ।।४८।।
हरेश्चाग्रे तथा शालग्रामस्याग्रे प्रजागरम् ।
कुर्वन्ति तु फलं तेषां कोटितीर्थकृतं भवेत् ।।४९।।
अन्यथा सुकृतं सर्वं नश्यत्येव हि निद्रया ।
निन्दयापि व्रतं नश्यत्येव फलं कृतो भवेत् ।।1.237.५०।।
पूरुषार्थाः सम्पदश्च पुत्रा कीर्तिर्धनादिकम् ।
शाश्वताः स्वर्गलोकाय लभ्यन्ते जागरे व्रते ।।५१।।
विना जागरणं नैव विष्णोः प्रसन्नता भवेत् ।
यज्ञायुतैः शाश्वतो वै लोको नैवाप्यते क्वचित् ।।।५२।।
व्रते च जागरे लब्धे लभ्यते धाम शाश्वतम् ।
जागरार्थं गच्छतः स्यात्पदेऽश्वमेधजं फलम् ।।५३।।
पादयोः पांसवः सक्तास्तावद्वर्षसहस्रकम् ।
जागरी तिष्ठते दिव्ये वैकुण्ठे च परे दिवि ।।५४।।
व्रतरात्रौ जागरार्थं गन्तव्यं हरिमन्दिरम् ।
पादलग्नरजःसंख्ययुगवासो हरेर्गृहे ।।५५ ।।
एकादश्यास्तथा द्वादश्याश्च रात्रौ प्रजागरम् ।
प्रकर्तव्यं प्रयत्नेन जीवाऽज्ञानविधूतये ।।५६।।
उत्तमं च मध्यमं च कनिष्ठं चेति वै मतम् ।
त्रिधा जागरणं तत्र चोत्तमं कार्यमेव तत् ।।५७।।
कथायुक्तं गानयुक्तं नृत्ययुक्तं विशेषतः ।
सात्त्विकीभावनायुक्तं जागरं तूत्तमं मतम् ।।।५८।।
गान्धर्वहरिकीर्त्यादियुतं तालादिसंयुतम् ।
दीपधूपादिशोभाढ्यं जागरं चोत्तमं मतम् ।।५९।।
भक्तिभावसमायुक्तं नामोच्चारसमन्वितम् ।
नैर्मल्यतुष्टिजनकं जागरं चोत्तमं मतम् ।।1.237.६ ०।।
लोकरंजनकोत्साहप्रोत्सवादिसमन्वितम् ।
नैवेद्यफलपानादियुतं जागरमुत्तमम् ।।६ १ ।।
हरेरारार्त्रिक यत्र हरेर्यत्र प्रदक्षिणम् ।
हरेरग्रे राशयोगस्तद्वै जागरमुत्तमम् ।।६२।।
शास्त्रज्ञानं गुरोः सेवा देवसेवा च यत्र वै ।
स्मरणं पादसेवा च जागरं चोत्तमं हि तत् ।।६३ ।।
सर्वभावा हरौ यत्र वैष्णवाग्र्याश्च यत्र वै ।
तज्जागरं हि कर्तव्यं पक्षयोः शुक्लकृष्णयोः ।।६४।।
व्रतदानतपोहोमस्वाध्यायादिभिरित्यपि ।
किं चान्यैः पुण्यकार्यैर्वा न व्रते जागरं यदि ।।६५।।
प्रवासे च वने क्षेत्रेऽरण्ये ग्रामान्तरेऽपि च ।
वाटिकायां समाजे वा नद्यां शैलेऽतिगे रणे ।।६६ ।।
खिन्नाऽवस्थाऽतिकाले वा पराधीने महापथे ।
जागरणप्रकर्ता मे व्रते सोऽतीव मे प्रियः ।।६७।।
यस्य कस्यापि भक्तो वा मम भक्तोऽपि सर्वथा ।
व्रतेऽह्नि सर्वथा निद्रात्यागं कुर्याद् व्रजेत् फलम् ।।६८।।
शैवः सौरश्च शाक्तश्च गणेशभक्त इत्यपि ।
मम विभूतिभक्तोऽपि व्रते जागरणं चरेत् ।।६ ९ ।।
निद्रालुस्तु पशुर्ज्ञेयः इन्द्रियाराम एव सः ।
विप्रियं मे कृतं तेन व्रते नो जागरं कृतम् ।।1.237.७०।।
निद्रा च भोजनं चैवेन्द्रियाहारान् करोति यः ।
व्रते मे स भवेत् तिर्यग्योनौ प्रतिकणं मुहुः ।।७ १ ।।
निहताः पितरस्तेन देवानां च वधः कृतः ।
पुण्यरेखा हता तेन सौभाग्यं नाशितं तया ।।७२।।
सम्पदो विपदां पात्रं कृतं तेनातिमानिना ।
जागरं च व्रतं येन कृतं नैव हरेर्दिने । ।७३। ।
सतालीवादनं कुर्वन् गालवाद्यं च वादयन् ।
नृत्यन् गायन् कौतुकं दर्शयन् वै जागरं चरेत् । ।७४। ।
चरित्राणि स्मारयैश्च रंजयन् वैष्णवान् जनान् ।
रोमाणि प्रेमपूर्णानि संप्रहृष्टानि दर्शयन् । ।७५। ।
आलापान् जनयन् रम्यान् मिष्टान् भावान् प्रकाशयन् ।
हावान् व्यंग्यान् शक्तलक्ष्यान् कीर्तनार्थान् विवेचयन् ।।७६। ।
एवं व्रते प्रकुर्वन् जागरं प्रेम प्रदर्शयन् ।
निमिषे निमिषे तस्य पुण्यं स्यान्नैमिषं तथा । ।७७।।
तीर्थकोटिफलं तस्य यज्ञकोटिफलं महत् ।
स्वर्गकोटिफलं चैव दानकोटिफलं महत् । ।७८। ।
शान्तेन मनसा धूपं दीपं नीराजनं तथा ।
कुर्याच्च जागरं रात्रौ सप्तद्वीपाधिपो भवेत् ।।७९।।
महापापातिपापानि कोटिहत्यासमानि वै ।
सजागरे व्रते सम्यग् विलयं यान्ति खण्डशः ।।1.237.८०।।
एकतः सर्वपुण्यानि चैकतो व्रतजागरम् ।
जागरस्य महत्पुण्यं विशिष्यतेऽन्यपुण्यतः ।।८ १।।
काशी द्वारावती रैवताचलः सोमपाट्टणम् ।
अर्बुदश्चारुणश्चैव मन्दरो हिमपर्वतः ।।८२।।
सह्याद्रिर्नवलक्षश्च विन्ध्यो द्रोणाचलस्तथा ।
महाकालवनं वृन्दावनं चावन्तिका तथा ।।८३।।
पुष्करं च प्रयागं च रेवा स्वर्णा यमस्वसा ।
गया च गोकुलं गोदावरी गंगा च भद्रिका ।।८४।।
गण्डकी ताम्रपर्णी च ब्रह्मपुत्रादयो नदाः ।
कुकुमवापिका माया कांची श्रीपुरुषोत्तमा ।।८५।।
सर्वे ते तीर्थविधिना कृता अपि न ते तथा ।
फलं यच्छन्ति वै यादृक् फलं हरिदिनव्रतात् ।।८६ ।।
सजागरात् कृतात् पुण्यं सर्वपुण्यातिगं यतः ।
तीर्थानि पर्वता नद्यः सागराश्च वनानि च ।। ८७।।
अरण्यानि च चैत्यानि द्वीपाश्च पृथिवी तथा ।
तत्त्वानि देवाः ऋषयो मुनयः पितरोऽग्नयः ।।८८।।
गन्धर्वाः किन्नराः नागाश्चारणा ब्राह्मसृष्टयः ।
वैमानिकाश्च वैराजाः - कालाभिमानिकेश्वराः ।।८९।।
ये केचित्तारकाः प्रोक्तास्ते सर्वे लोकधारकाः ।
एकादश्या जागरे वै समागच्छन्ति सर्वतः ।। 1.237.९० ।।
ततो जागरकर्तारो देवा एव न संशयः ।
तत्र समागतान् देवान् प्रसादैश्च सुतर्पयेत् ।। ९१ ।।
प्रासादिकं सुनैवेद्यं रक्षणीयं प्रयत्नतः ।
द्वादश्यां पारणायां तद् भक्षणीयं व्रतार्थिना ।। ९२।।।
प्रातःकाले ब्राह्मभागे स्नात्वा हरिं प्रपूज्य च ।
समर्पयेदुपवासं जागरं व्रतमित्यपि ।।९३ ।।
हरये चार्पयेत् सर्वं व्रतं च फलमित्यपि ।
प्रसीद श्रीहरे मे त्वं व्रतेनाऽनेन सर्वथा ।। ९४।।
इत्युच्चार्य जलं दद्यात् पृथिव्यां हरिसन्निधौ ।
ज्ञानदो मुक्तिदो भक्तसुखदो भव सर्वथा ।। ९५।।
इत्युक्त्वा च ततो नत्वा भोजयेद्वैष्णवान् व्रती ।
पारणां च ततः कुर्याद् यथासंभवमग्रतः ।। ९६ ।।
दानं दद्यात्सर्वतोभद्राख्यमण्डलमित्यपि ।
सधान्यं गुरवे दद्याद् घटादिकं समूर्तिकम् ।। ९७।।
प्रातर्यदा द्वादशी तु स्वल्पापि न भवेत्तदा ।
रात्रौ तु पारणां कुर्याद् द्वादश्यामेव सर्वथा ।। ९८ ।।
न तत्र रात्रिदोषोऽस्ति निषेधो नास्ति पारणे ।
निशि स्नानं पारणं च तत्र दोषप्रदं नहि ।। ९९ ।।
तत्पूर्वापरयामाभ्यां दिनवत् कर्म कारयेत् ।
यर्हि भवति स्वल्पापि द्वादशी पारणादिने ।। 1.237.१०० ।।
उषःकाले द्वयं कुर्यात् प्रातर्मध्याह्निकं तदा ।
साधिता द्वादशी येन फलं तस्य ह्यनन्तकम् ।। १०१ ।।
एवं व्रतं कृतं येन साधितं सकलं भवेत् ।
द्वादशीं च व्रतं कृत्वा साधयित्वा हरेर्दिनम् ।। १०२ ।।
बहवो वैष्णवा दिव्या गता वैष्णवधाम यत् ।
नास्ति हरेः समो देवो न तिथिर्द्वादशीसमा ।। १०३ ।।
व्रतं नैकादशीतुल्यं त्रयं मोक्षप्रदं यतः ।
हरेर्योगाच्च तत्सर्वं भवेत् पूर्णं च शाश्वतम् ।। १० ४।।
भक्तानां वल्लभं कुर्याद् भक्तानां वल्लभो हरिः ।
व्रतजागरणपूजाप्रकर्ता वल्लभो हरेः ।। 1.237.१ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने एकादशीव्रतजागरणादिमहिमनिरूपणनामा सप्तत्रिंशदधिकद्विशततमोऽध्यायः ।। २३७ ।।