लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २३६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २३५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २३६
[[लेखकः :|]]
अध्यायः २३७ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्ये त्वां पक्षवर्धिनिकाऽभिधाम् ।
एकादशी प्रियां मेऽति यया मोक्षमवाप्नुयात् ।। १ ।।
एकादशी प्रपूर्णा च दशमीवेधसंयुता ।
एकदशीवेधयुक्ता द्वादश्यर्कोदये च या ।। २ ।।
एवंक्रमादमावास्या पूर्णिमा वाऽर्कप्राक्क्षणे ।
सम्पूर्णा नाडिकाषष्टिः प्रतिपच्च तथाविधम् ।। २ ।।
एकादशी समारभ्य प्रतिपद्दिवसावधि ।
सम्पूर्णा नाडिकाषष्टिर्यदा त्वह्नः प्रमाणता ।। ४ ।।
सैकादशी तदा ज्ञेया पक्षवर्धिनिकाऽभिधा ।
द्वादशी सा समुपोष्या व्रतं कार्यं विधानतः ।। ५ ।।
अश्वमेधाऽयुतैस्तुल्या सा भवेत् पक्षवर्धिनी ।
यां कृत्वा तु महालक्ष्मि! फलाऽऽनन्त्यमवाप्नुयात् ।। ६ ।।
पूजिते चाऽर्चिते विष्णौ वैकुण्ठं फलमाप्यते ।
पूजां तत्र प्रवक्ष्यामि यया तुष्यति केशवः ।। ७ ।।
मण्डलं सर्वतोभद्रं सप्तधान्यैः प्रकारयेत् ।
मध्ये घटं च सौवर्ण सजलं स्थापयेन्नवम् ।। ८ ।।
ताम्रघटं च यद्वाऽत्र पञ्चपल्लवशोभितम् ।
पञ्चरत्नसमायुक्तं श्वेतवस्त्रप्रवेष्टितम् ।। ९ ।।
चन्दनार्चितमेवैनं पुष्पहाराभिवेष्टितम् ।
घटे तत्र महत्पात्रं सगोधूमं तु ताम्रजम् ।। 1.236.१० ।।
सफलं सनारिकेलं समिष्टान्नं सुयोजयेत् ।
सौवर्णं कारयेत् कृष्णं माससंज्ञाभिधानकम् ।। १ १।।
स्नापयेच्च तथा पंचामृतेन विधिना हरिम् ।
अभिषेकं तीर्थजलैः कारयेल्लेपयेत्ततः ।। १२।।
कुंकुमाऽक्षतकस्तूरीचन्दनात्तरकर्पुरैः ।
वस्त्रयुग्मं चोपवीतं कौस्तुभं भूषणानि च ।। १३ ।।
अलंकाराः प्रदातव्याः पुष्पहारादयस्तथा ।
कटकांगदमुकुटशृंखलारशनोर्मिकाः ।। १४।।
सिंहासनं प्रदातव्यं छत्रोपानहसंयुतम् ।
सुगन्धद्रव्यमत्युग्रं प्रदातव्यं च भावतः ।। १५।।
लक्ष्मीस्तत्र च संस्थाप्या सर्वाभरणभूषिता ।
सर्वालंकारसौभाग्यद्रव्यभूषणभूषिता ।।१६।।।
पूजनीया हरेः पार्श्वे त्वेकादशी स्वरूपिणी ।
पूजयेच्छ्रीहरिं तत्र कुंभपात्रोपरि स्थितम् ।। १७।।
ध्यायेच्च पद्मनाभं वै पादौ तत्र विचिन्तयेत् ।
विश्वमूर्तिं विचिन्त्यैव जानुनी संस्मरेत्ततः ।।१८।।
ज्ञानगम्यं च संस्मृत्य ह्यूरू तत्र विचिन्तयेत् ।
ज्ञानप्रदं हरिं स्मृत्वा कटिं चापि विचिन्तयेत् ।। १ ९।।
विश्वनाथं हरिं स्मृत्वा ह्युदरं संविचिन्तयेत् ।
श्रीधरं श्रीहरिं स्मृत्वा हृदयं चिन्तयेद्धरेः ।।1.236.२०।।
सकौस्तुभं हरिं स्मृत्वा कण्ठं सम्यग् विचिन्तयेत् ।
क्षत्रान्तकारिणं स्मृत्वा बाहू सम्यग् विचिन्तयेत् ।।२१।।
चिदाकाशं हरिं स्मृत्वा ललाटं चिन्तयेत्ततः ।
सर्वरूपं हरिं ध्यात्वा शिरः सम्यग् विचिन्तयेत् ।।२२।।
कृष्णनाम्ना च शस्त्राणि सर्वांगानि च चिन्तयेत् ।
एवं ध्यात्वा ततश्चार्घ्यं नालिकेरेण दापयेत् ।।।२३।।
संसारसागरात् कृष्ण मां समुद्धर केशव ।
पूजामर्घ्यं गृहाणेश हरिकृष्ण नमोऽस्तुते ।।२४।।
षोडशवस्तुवर्याणि देयानि परमात्मने ।
नैवेद्यं विविधं दद्याज्जलं दद्यात्तु शीतलम् ।।२५।।
ताम्बूलं सुसुगन्धं सुद्रव्यं दद्याच्च भक्तितः ।
घृतेनाऽप्यथ तैलेन दीप कुर्याच्च भक्तितः ।।२६।।
आरार्त्रिकं नमस्कारं प्रदक्षिणं च संस्तवम् ।
क्षमापनं च याचेत पुष्पाञ्जलिं प्रकल्पयेत् ।।२७।।
हरेः पूजां शुभां कृत्वा गुरोः पूजां प्रकारयेत् ।
चन्दनाद्यर्पणवस्त्रभूषादानादिना तथा ।।२८।।
कञ्चुकोष्णीषहारादिसुगन्धादि प्रदापयेत् ।
दक्षिणां चान्नधान्यादि तथा मुद्रादि चार्पयेत् ।।२९ ।।
भोजनं चैव ताम्बूलं दत्वाऽऽचार्यं प्रतोषयेत् ।
यथावित्तं यथाशक्ति कार्यं उत्सव उत्तमः ।। 1.236.३० ।।
सायं चापि तथा पूजा कर्तव्या भक्तिभावतः ।
ततो जागरणं कुर्याद्गीतनृत्यसमन्वितम् ।।।३१।।
प्राच्याख्यानकथायुक्तं हास्याह्लादसमायुतम् ।
श्रीं पक्षवर्धिनीनाम्नीं पूजयेत् कृष्णसन्निधौ ।। ३२।।
तन्माहात्म्यं संशृणुयाद्व्रतस्य फलमाप्नुयात् ।
पंचाग्निसाधने पुण्यं यत्तु स्यात्तीर्थकोटिषु ।। ३३।।
तत्फलं समवाप्नोति विष्णोर्जागरणाज्जनः ।
उपवासे कृते तत्र हत्याकोटिक्षयो भवेत् ।।३४।।
कर्तव्या तु विशेषेण वैष्णवैर्ज्ञानयोगिभिः ।
न तीर्थानि न चारण्यक्षेत्राणि कुलपर्वताः ।।३५।।।
तारयन्ति जनान् यद्वत्तारयेत्पक्षवर्धिनी ।
सिते चन्द्रे कलावृद्धिस्तथाऽस्यां पुण्यवर्धनम् ।।।३६।।
सूर्योदये तमोनाशस्तथाऽज्ञानविनाशिनी ।
पक्षविवर्धिनी सेयं मोक्षपक्षविवर्धिनी ।।३७।।
मुक्तिकलाप्रदा षोडशादिकलाप्रपोषिका ।
काशीसमा सदा मुक्तौ द्वारकासदृशी तथा ।। ३८।।
कुंकुमवापिकातुल्या वांछितं प्रददात्यसौ ।
भक्तानां तु सदा मुक्तिपक्षं वर्धयतीव सा ।।३९।।
ज्ञानं धर्मं तथा भक्तिं वर्धयत्येव सर्वथा ।
यथा शुक्ला तथा कृष्णा विभेदं नैव कारयेत् ।।1.236.४०।।
सन्तारयति कर्तारं दशपूर्वान्दशाऽपरान् ।
सन्तारयति व्रतिनं द्वादश्युभयतः कृता ।।४१ ।।
वाराणस्यां भवेद्वासः षष्टिवर्षसहस्रकम् ।
यज्ञदानं कुरुक्षेत्रे सोमपर्वसहस्रकम् ।।।४२।।
विधृत्यादिसुयोगेषु लक्षदानोत्तमोत्तमम् ।
सूर्यचन्द्रग्रहदानं कुरुक्षेत्रे कृतं शतम् ।।४३।।
प्रभासे वा कृतं दानं सोमयागसहस्रकम् ।
यतिलक्षं गृहे भुंक्ते तत्फलं नित्यमेव यत् ।।४४।।
केदारजलपानस्य जन्माऽदर्शनकं फलम् ।
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम् ।।४५।।
गोसहस्रप्रदानाद्वै सहस्रगुणितं फलम् ।
साधूनां पूजने प्रोक्तं तस्माद् दशगुणं फलम् ।।४६।।
ब्रह्मनिष्ठप्रपूजायां ततो दशगुणं पुनः ।
देवार्थं भूमिदातुश्च कन्यादातुस्ततस्तथा ।।४७।।
ततोऽपि दशगुणकं यज्ञावभृथपावने ।
ततोऽनन्तं भवेदेकादशीव्रतिनि वै फलम् ।।४८।।
उपवासे तु यत्पुण्यं ततोऽर्धं नक्तभोजने ।
नक्तस्याऽर्धं भवेदेकभुक्ते वा फलभोजने ।।४९।।
एकभुक्तेन नक्तेनोपवासेन फलेन च ।
यत्पुण्यं लभते तच्च रात्रौ जागरणे कृते ।।1.236.५०।।
एकादश्युपवासस्य पुण्यसंख्या न विद्यते ।
प्रत्येकायाश्च माहात्म्यं प्रवदामि निबोध मे ।।५१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पक्षवर्धिन्येकादशीव्रतपूजादिनिरूपणनामा षट्त्रिंशदधिकद्विशततमोऽध्यायः ।। २३६ ।।