लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २०१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २०० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २०१
[[लेखकः :|]]
अध्यायः २०२ →

श्रीनारायण उवाच-
उपबर्हणगन्धर्वो योगमास्थाय मृत्यवे ।
यदाऽऽसनं प्रसंकल्प्य संस्थितोऽभूत्तदा हि सः ।। १ ।।
वीणां त्रितन्त्रीं दुष्प्राप्यां वामस्कन्धे निधाय च ।
शुद्धस्फटिकमालां च सन्धृत्वा दक्षिणे करे ।। २ ।।
संजल्पन्नक्षरं ब्रह्म कृष्ण इत्यक्षरद्वयम् ।
प्राच्यां कृत्वा शिरःस्थानं पश्चिमे चरणद्वयम् ।। ३ ।।
शयित्वा दर्भशयने श्रीकृष्णं मनसा स्मरन् ।
योगेन ब्रह्म सम्प्राप पत्न्याद्या रुरुदुर्भृशम् ।। ४ ।।
पञ्चाशद्योषितां मुख्या राज्ञी मालावती तदा ।
उच्चैः रुरोद सा तीव्रं कान्तं कृत्वा स्ववक्षसि ।। ५ ।।
उवाच भगवन्मूर्तेः संसर्गोऽपि विमुक्तिकृत् ।
नारीणां देवसंसर्गो बहुभाग्याद्धि जायते ।। ६ ।।
साधुना सह संसर्गो वैकुण्ठादपि दुर्लभः ।
साधुना सह विच्छेदो मरणादपि दुःसहः ।। ७ ।।
ततोऽपि बन्धुविच्छेदो महाशोकप्रदो मतः ।
ततोऽपत्यवियोगोऽपि मरणादतिरिच्यते ।। ८ ।।
तस्मादपि च सर्वस्मात् पतिविच्छेदजं महत् ।
कष्टं तु संकटं घोरं नास्ति कष्टं ततः परम् ।। ९ ।।
शयने भोजने स्नाने याने स्वापे च जाग्रति ।
स्वामिविच्छेदजं दुःखं नूतनं वै दिने दिने ।। 1.201.१० ।।
स्वामिसंयोगमात्रेण सर्वदुःखानि विस्मरेत् ।
नान्यत् तादृक् प्रपश्यामि यच्च विस्मारयेत्पतिम् ।। ११ ।।
साध्वीनां कुलजातानां न बन्धुः स्वामिना विना ।
एतासां मत्स्वसॄणां च ममापि स्वामिना विना ।। १२।।
का गतिर्वै दुःखदात्री भविष्यति पतिं विना ।
हे दिगीशाश्च दिक्पाला हे धर्म हे प्रजापते ।। १३ ।।
हे शंभो हे रमाकान्त पतिदानं तु देहि मे ।
इत्युक्त्वा प्राप मूर्छां च कन्या चित्ररथस्य सा ।। १४।।
पुनश्च चेतनां प्राप्य विललाप भृशं मुहुः ।
अन्याश्चातिविलपन्त्यः सम्बोध्य रुरुदुर्हरिम् ।। १५।।
हे कृष्ण जगतां नाथ जगद्रक्षक ईश्वर ।
अबलां निर्बलां कृत्वा कथं मारयसि वृथा ।। १ ६।।
भर्ता भार्या वपुस्तेऽस्ति न कथं रक्ष्यते त्वया ।
कर्मणा च पतिर्लब्धः कर्मणा च वियोजितः ।। १७।।
संयोगे परमानन्दो वियोगे संकटं महत् ।
पतिः पुत्रस्तथा पत्न्यो बान्धवाः कर्मणा सदा ।। १८ ।।
स्वयं त्यक्ताः सुखायैव दुःखाय त्याजिताः परैः ।
अतः सन्तः स्वयं त्यक्त्वा भवन्ति सुखिनः सदा । । १ ९।।
वयं नार्यो न वै सत्यो ज्ञानवत्योऽपि नैव च ।
तस्मात् कृष्ण वरं कान्तं पुनर्देहि प्रजीवय ।। 1.201.२० ।।
नेदृशः सुन्दरः कान्तः काभिश्चिल्लब्ध आत्मवित् ।
रूपेण च गुणेनैव तेजसा विक्रमेण च ।। २१ ।।
ज्ञानेन शान्त्या सन्तुष्ट्या हरितुल्यः प्रभुर्हि नः ।
हरिभक्तो हरिसमो गांभीर्ये सागरोपमः ।। २२ ।।
दीप्तौ सूर्यसमः शुद्धौ वह्नितुल्यश्च पावनः ।
दर्शने चन्द्रतुल्यश्च कामे कन्दर्पसदृशः ।। २३ ।।
बुद्धौ बृहस्पतितुल्यः काव्ये कविसमस्तथा ।
वाण्यां सरस्वतीतुल्यः प्रतिभायां भृगुप्रथः ।। २४।।
धने कुबेरसदृशो दाने मनुरिवाऽपरः ।
धर्मे धर्मसमो धर्मी सत्ये सत्यव्रतोऽपरः ।। २५ ।।
तपसि स्कन्दतुल्यः सदाचारे ब्राह्मणोपमः ।
ऐश्वर्ये शक्रतुल्यश्च क्षमायां भूमिसदृशः ।। २६।।
एवंभूते मृते कान्ते प्राणा यान्ति न नः कथम् ।
अरे सुरा यज्ञभाजो घृतं भोक्तुं क्षमाः कथम् ।। २७ ।।
नारायण जगत्कान्त शीघ्रं जीवय नः पतिम् ।
प्रजापते महादेव धर्मदेव यमेश्वर ।। २८ ।।
जीवयत स्वामिनं नो निर्दयाः स्यात वै कथम् ।
जीवयताऽन्यथा युष्मान् प्रशप्स्यामश्च मा चिरम् ।।२९ ।।
तदा ब्रह्मादयः सर्वे ग्लानिं जग्मुर्भयात् खलु ।
इमा देवान्प्रशप्स्यन्ति नाशं यास्यन्ति देवताः ।। 1.201.३० ।।
अहो पतिव्रतातेजः सर्वेषां तेजसां परम् ।
किमत्र प्रतिकर्तव्यं विचारयन्ति देवताः । । ३१ ।।
एतस्मिन्नन्तरेऽकस्माद्वाग्बभूवाऽशरीरिणी ।
यूयं गच्छत शान्त्यर्थं यत्र मालावती सती ।। ३२ ।।
योगासनं कुर्वती च शवं कृत्वा स्ववक्षसि ।
देवा जग्मुश्च कौशिकीतीरं यत्र पतिव्रता ।। ३३ ।।
मालावती सुरान् दृष्ट्वा प्रणनाम मुहुर्मुहुः ।
रुरोद कान्तं संस्थाप्य देवानां शृण्वतां बहु । । ३४।।
एतस्मिन्नन्तरे तत्र विप्रबालकवेषधृक् ।
आजगाम स्वयं विष्णुर्बिभ्रत्तिलकमुज्ज्वलम् ।। ३५ । ।
प्राह मालावतीं देवाः कथमत्र समागताः ।
ब्रह्मा शंभुश्च धर्मश्च रविश्चन्द्रो हुताशनः । । ३६ । ।
कालो यमश्च देवेशाः केयं शववती सती ।
श्रुत्वा मालावती नत्वा तमुवाच विचक्षणम् । । ३७ । ।
उपबर्हणभार्याऽहं नाम्ना मालावती सती ।
इमाश्चान्याः स्वसारो मे शवोऽयं स्वामिनोऽस्ति नः ।। ३८ । ।
दिव्यं द्विलक्षं वर्षाणां क्रीडिताः स्वामिना वयम् ।
प्रिये स्नेहो हि साध्वीनां चाऽप्रमेयो हि योषिताम् ।। ३९ । ।
अकस्माद् ब्रह्मणः शापात् प्राणाँस्तत्याज नः पतिः ।
देवानुद्दिश्य विलपे यथा जीवेत्पतिर्हि नः । ।1.201.४ ० ।।
सुखं दुःखं भयं शोकः सन्तापो भद्रमुत्सवः ।
ऐश्वर्यं परमानन्दो जन्म मृत्युश्च मोक्षणम् । ।४ १ । ।
एतेषां जनका देवाः कर्मफलप्रदायकाः ।
मूलच्छेदकरास्ते च मूलांकुरप्रदाश्च ते । ।४२ ।।
नहि देवात् परो बन्धुर्न देवाद्रक्षकोऽपरः ।
दयावान्दुःखहर्ता च न देवाद्विद्यते परः ।। ४३ । ।
सर्वान्देवानहं याचे पतिदानं ममेप्सितम् ।
यदि दास्यन्ति कान्तं मे भद्रं सर्वविधं भवेत् । । ४४।।
अन्यथा ताँस्तु शप्स्यामि दारुणं दुर्निवारकम् ।
श्रुत्वैतद्विष्णुरव्यग्रः प्राह मालावतीं तदा । ।४५ ।।
कर्मणां फलदातारो देवाः सत्यं हि मालिके ।
न सद्यः सुचिरेणैव धान्यं कृषकवन्नृणाम् ।।४६ ।।
गृही च कृषकद्वारा क्षेत्रे धान्यं वपेत् सति ।
तदंकुरो भवेत्काले काले वृक्षः फलत्यपि ।। ४७ ।।
काले सुपक्वं भवति काले प्राप्नोति तद्गृही ।
एवं सर्वं समुन्नेयं चिरेण कर्मणः फलम् ।।४८ ।।
न बलं न च सौन्दर्यं नैश्वर्यं न धनं सुतः ।
नैव स्त्री न च सत्कान्तः किं भवेत् तपसा विना ।।४९ ।।
प्रकृतेः सेवनात् कान्तां सद्गुणां लभते जनः ।
श्रियं च निश्चलां पुत्रं पौत्रं भूमिधनं प्रभाम् । । 1.201.५० । ।
शिवस्य सेवनाद्विद्यां ज्ञानं पुत्रं परां श्रियम् ।
बलं धनं सतीं नारीं सन्तं च लभते पतिम् । । ५ १ । ।
ब्रह्मणः सेवानाद्विद्यैश्वर्यश्र्यानन्दसत्प्रजाः ।
सूर्यस्य सेवनाद् विद्याऽऽरोग्यधनसुतादिकान् । ।।५२ ।।
गणेशसेवनाद्विघ्ननाशं पुत्रधनादिकम् ।
लक्ष्मीकान्तस्य दास्यात्तु मुक्तिं भुक्तिं सदोन्नतिम् ।। ५३ । ।
तपो धर्मं यशः कीर्तिं सुखं च लभते जनः ।
इह लोके सुखं भुक्त्वा यात्यन्ते श्रीहरेः पदम् । ।५४।।
श्रीहरिं भजते यो वै चाऽक्षरात्परतः परम् ।
जीवन्मुक्तः स सत्यं हि न वरं स च वाञ्च्छति ।। ५५ ।।
स सर्वं मनुते तुच्छं सालोक्यादिचतुष्टयम् ।
ब्रह्मत्वममरत्व वा मोक्षं यत्तुच्छवत् सति ।। ५६ ।।
ऐश्वर्यं लोष्टतुल्यं च नश्वरं मनुतेऽपि च ।
इन्द्रत्वं च मनुत्वं च चिरंजीवित्वमित्यपि ।। ५७। ।
जलबुद्बुदवद् बुद्ध्या चाति तुच्छं विचिन्तति ।
स्वप्ने जागरणे वाऽपि शश्वत् सेवां हि वाञ्च्छति । । ५८ ।।
दास्यं विना न याचेत श्रीहरेश्च परं पदम् ।
तत्पादाब्जे दृढां भक्तिं लब्ध्वा जातोऽस्ति पूर्णकः ।। ५९ । ।
स स्वस्य कुलकोटिं च शतं मातामहस्य च ।
श्वशुरस्य शतं चाथ पुत्रादीनां परं शतम् । । 1.201.६० । ।
दासं दासीं प्रसूं भार्यां चोद्धरेद् याति धाम तत् ।
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे विशत्यपि । । ६१ ।।
यमस्तल्लिखन दूरं करोति तत्क्षणं भिया ।
मधुपर्कादिकं ब्रह्मा पुरैव तन्नियोजयेत् । । ६२ ।।
आब्रह्मलोकवासाश्च मार्गे तिष्ठन्ति पूजकाः ।
अहो विलंघ्य नो लोकं मार्गेणानेन यास्यति ।। ६३ ।।
पुरातनं कृतं कर्म यद्यत् तस्य शुभाशुभम् ।
कृष्णश्छिनत्ति चक्रेण तीक्ष्णधारेण सन्ततम् ।। ६४।।
निःशंको याति गोलोकं विहाय मानवीं तनुम् ।
गत्वा ब्राह्मीं तनुं धृत्वा श्रीहरिं सेवते सदा । । ६५ ।।
यावत् कृष्णो हि गोलोके तावद्भक्तो वसेत् सदा ।
निमेषं मनुते दासो नश्वरं ब्रह्मणो वयः । । ६६ ।।
केन रोगेण ते साध्वि! पतिर्मृत्युं गतो वद ।
मृत्युतुल्यं मृतं यद्वा सप्ताहाभ्यन्तरे सति । । ६७ । ।
महौषधैर्मृतं तं च जीवयाम्येव जीवतः ।
राजमृत्युं यमं कालं व्याधिमानीय चात्र ते ।। ६८ ।।
दर्शयामि निबध्यैव न यतः संचरेत् पुनः ।
व्याधिबीजं च जानामि बन्धमन्त्राँश्च तत्त्वतः ।। ६९ ।।
योगेन देहं त्यक्त्वा यो मृतस्ते जीवयाम्यहम् ।
यश्च विषेण खेदेन मृतस्तं जीवयाम्यहम् ।।1.201.७ ० ।।
श्रुत्वा मालावती हृष्टा स्निग्धचित्ता ह्युवाच तम् ।
यद्येवं श्रीहरे शीघ्रं जीवयाऽत्र पतिं मम ।। ७१ ।।
स्वामी कर्ता च हर्ता च शास्ता पोष्टा च रक्षिता ।
अभीष्टदेवः पूज्यश्च न गुरुः स्वामिनः परः ।। ७२।।
कन्या सत्कुलसंजाता कान्तरक्षणरक्षिता ।
उपबर्हणभार्याऽहं पुत्री चित्ररथस्य च ।। ७३ ।।
वधूर्गन्धर्वराजस्य कान्तभक्ता सदा हरे ।
त्वं तु सर्वं कालयितुं शक्तो भवसि माधव ।। ७४।
कालं यमं च मृत्युं च मदभ्याशं समानय ।
श्रुत्वा मालावतीवाक्यं भगवान् करुणाकरः ।।७५।।
समाजे तान्समाहूय प्रत्यक्षं समदर्शयत् ।
मालावत्या मृत्युकन्या दृष्टा तत्र समागता ।।७६ ।।
कृष्णवर्णा घोररूपा रक्ताम्बरातिभीतिदा ।
षड्भुजा कालनाम्नश्च पत्युर्वामे स्थिता तथा । ।७७।।
सस्मिता क्रूरभाला च चतुःषष्टिसुतान्विता ।
दृष्टश्च कालो मालत्या षड्वक्त्रो विकटः सरुट् ।।७८ ।।
चतुर्विंशतिनेत्रश्च षोडशभुज उग्रकः ।
षट्पादः कृष्णवर्णश्च रक्तवस्त्रो भयानकः ।।७९।।
मालावत्या तथा दृष्टा व्याधिसंघाश्च भीतिदाः ।
बाला वृद्धाश्चातिवृद्धा युवानश्चातिविकृताः ।।1.201.८ ० । ।
दृष्टस्तत्र यमः कृष्णवर्णः क्रूरस्वरूपकः। ।
दृष्ट्वा मालावती पूर्वं पप्रच्छ धर्मशासकम् ।।८ १ ।।
धर्मराज ह्यकाले त्वं कान्तं हरसि मे कथम् ।
यमः प्राहाऽप्राप्तकालो न कश्चिन् म्रियते भुवि ।।८२।।
ईश्वराज्ञां विना साध्वि नाऽनृतं चालयाम्यहम् ।
अहं कालो मृत्युकन्या व्याधयश्चेशकिंकराः ।।८ ३ ।।
निषेकेण यथाभाग्यं कालयामश्च देहिनम् ।
मृत्युकन्याऽपि संप्राह मालिके शृणु सादरम् ।।८४।।
पुरा विश्वसृजा सृष्टाऽप्यहमेवात्र कर्मणि ।
न च क्षमा परित्यक्तुं प्राप्तमृत्युं तु देहिनम् ।। ८५।।
सती च भस्मसात्कर्तुं क्षमा यदि भवेत् भवे ।
तदाऽहं भस्मिता नैव मारयिष्यामि देहिनः ।।८६ ।।
कालेन प्रेरिताऽहं च मत्पुत्रा व्याधयस्तथा ।
कुर्मो कार्यं यथाऽऽदिष्टं न दोषो नोऽत्र कश्चन ।।८७।।
मालावती तदा कालं प्राह नारायणांशजम् ।
कथं हरसि मत्कान्तं जीवितायां मयि प्रभो । । ८८ । ।
कालः प्राह शृणु मालावति सर्वं हरिकृतम् ।
को वाऽहं को यमः का च मृत्युकन्या तथाऽऽधयः ।।८ ९ ।।
वयं भ्रमामः सततं कृष्णाऽऽज्ञापरिपालकाः ।
यस्य सृज्या वयं सर्वे माया ब्रह्मादयस्तथा । । 1.201.९० । ।
वैराजा ऋषयो देवा मानवाः सर्वजन्तवः ।
यद्भयाद्वाति वातश्च सूर्यस्तपति यद्भयात् । । ९१ ।।
ब्रह्मविष्णुमहेशाश्च सृष्टृपालकहारकाः ।
यद्भयाच्च कर्मसाक्षी यमो धर्मश्च वर्तते । । ९२ ।।
राशयश्च ग्रहाश्चैव भ्रमन्ति यद्भयात् क्रमात् ।
दिगीशाश्च दिशांपाला यस्याज्ञां संवहन्त्यपि ।। ९३ ।।
ऋतवो यद्भयाद्वृक्षादिषु चरन्ति पुष्पदाः ।
जलदाश्च प्रवर्षन्ति पृथ्वी च वसुदा तथा । । ९४।।
सर्वाधारा क्षमायुक्ता सर्वान् रक्षति मातृवत् ।
माया सर्वप्रसूर्यस्य भयादापूरिका मता ।। ९५ । ।
यस्यान्तं न विदुः सर्वे यः सर्वज्ञोऽस्ति हृद्गतः ।
षोडशांऽशोऽस्मि तस्याऽहं कालः स कालकालकृत् । । ९६ । ।
ततस्तं मृत्युमृत्युं चाऽभीष्टदं चिन्तयाऽच्युतम् ।
सोऽयं कृपानिधिः कृष्णो भर्तारं ते प्रदास्यति । । ९७ । ।
वयं यत्प्रेरिताः सर्वे स दाता सर्वसम्पदाम् ।
इत्युक्त्वा विररामाऽसौ कालः प्राह हरिस्तु ताम् । । ९८ ।।
दृष्टः कालो यमो दृष्टो मृत्युकन्या तथाऽऽधयः ।
शीघ्रं सति त्वया दृष्टाः प्रच्छ किं ते मनोगतम् । । ९९ ।।
मालावत्याह दुर्वारो यथा व्याधिर्न संचरेत् ।
तदुपायं तु सकलं भवान् वक्तुमिहाऽर्हति ।। 1.201.१०० । ।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने उपबर्हणगन्धर्वात्मकनारदमृत्युः पत्नीनां विलापः, ब्रह्मादिभ्यः पतिजीवनाऽभ्यर्थनाचेति निरूणनामैकाऽधिकद्विशततमोऽध्यायः ।। २०१ । ।