लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २००

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १९९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २००
[[लेखकः :|]]
अध्यायः २०१ →

श्रीलक्ष्मीरुवाच-
नारदस्य पुनर्जन्म दासीपुत्रत्वमित्यपि ।
कदा जातमिति ब्रूहि श्रोतुमिच्छामि माधव ।। १ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां दिव्यां सर्वथा पापनाशिनीम् ।
ब्रह्मा विश्वं विनिर्माय सावित्र्यां गृहधर्मतः ।। २ ।।
चकार वीर्याधानं च शतवर्षोत्तरं तु सा ।
सुषुवे चतुरो वेदान् तदंगानि च सर्वथा ।। ३ ।।
षट्त्रिंशद्रागिणीश्चैव षड्रागान् तालसंयुतान् ।
चतुर्युगाँश्च कालश्च योगाँश्च षट्सुकृत्तिकाः ।। ४ ।।
देवसेनां महाषष्ठीं कार्तिकेयप्रियां सतीम् ।
मातृकासु प्रधानां तां बालानामिष्टदेवताम् ।। ५ । ।
चतुर्विधं लयं मृत्युकन्यां व्याधिगणाँस्तथा ।
पृष्ठादधर्मं चालक्ष्मीं वामपार्श्वत एव च ।। ६ ।।
नाभेस्तु विश्वकर्माणं वसूनष्टौ महाबलान् ।
मानसात् चतुरः पुत्रान् कुमारान् सनकादिकान् ।। ७ ।।
मुखात् स्वायंभुवं पुत्रं शतरूपासमन्वितम् ।
तान्सर्वान् सृष्टिकृद्ब्रह्मा सृष्टिं कर्तुमुवाच ह ।। ८ ।।
जग्मुस्ते च नहीत्युक्त्वा तप्तुं कृष्णपरायणाः ।
चुकोप हेतुना तेन ब्रह्मा तस्य ललाटतः ।। ९ ।।
रुद्रा एकादशोत्पन्नास्तेषामेको विनाशकृत् ।
पुलस्त्यो दक्षकर्णाच्च पुलहो वामकर्णतः ।। 1.200.१० ।।
दक्षनेत्रात्तथाऽत्रिश्च वामनेत्रात् क्रतुः स्वयम् ।
अरणिर्नासिकारन्ध्रादङ्गिराश्च मुखाद्रुचिः ।। ११ ।।
भृगुस्तु वामपार्श्वाच्च दक्षो दक्षिणपार्श्वतः ।
छायायाः कर्दमो जातो नाभेः पंचशिखस्तथा ।। १२।।
वक्षसश्चैव वोडुश्च कण्ठदेशाच्च नारदः ।
मरीचिः स्कन्धदेशाच्चैवाऽपान्तरतमा गलात् ।। १ ३।।
वसिष्ठो रसनादेशात्प्रचेता अधरौष्ठतः ।
हंसश्च वामकुक्षेश्च दक्षकुक्षेर्यतिस्तथा ।। १ ४।।
सृष्टिं कर्तुं सुतान्सर्वानाज्ञां चकार विश्वसुट् ।
नारदस्तु तदा प्राह युक्तियुक्तं शुभं वचः ।। १५।।
पूर्वमानय मज्ज्येष्ठान्सनकादीन् पितामह ।
कारयित्वा दारयुक्तानस्मान्वद जगत्पते ।। १६।।
ते तपःसु योजिताश्चेत् संसाराय वयं कथम् ।
एकस्मायमृतं दत्तमन्यस्मै तु विषं कथम् ।। १७।।
घोरे संसारवार्धौ संपतितस्य न निस्तरिः ।
कोटिकल्पेऽपि भवति तस्मात्संसारसागरे ।। १८।।
माऽस्मान्पातय हितकृत्पिता भूत्वाऽज्ञवत् पितः ।
नारायणः स्वयं बीजं निस्तारस्येह कथ्यते ।। १ ९।।
सर्वदो भक्तिदो मोक्षप्रदश्चापि स एव हि ।
भक्तेकशरणो भक्तवत्सलः करुणानिधिः ।।1.200.२० ।।
भक्तप्रियो भक्तनाथो भक्तानुग्रहकारकः ।
भक्ताराध्यो भक्तसाध्यः स एव तारकः स्वयम् ।। २१।।
विहाय तं परंब्रह्म को मूढो विषये भ्रमेत् ।
कृष्णसेवामृतं त्यक्त्वा विषमश्नाति कोऽबुधः ।।२५।।
विषया नश्वराः सर्वे तुच्छाश्च मृत्युहेतवः ।
स्वप्नवन्न स्थिराः सन्ति दीपज्वालाग्रवर्तनाः ।।२३ ।।
बडिशपिष्टवत् मत्स्यापाताऽभिकारका इव ।
दुःखदा मृत्युदास्तापाः कस्तान्सेवेत सन्मतिः ।।२४।।
तस्मादयं ब्रह्मभाजो ब्रह्मान्वयप्रकाशकाः ।
विचिन्तयामो ब्रह्मैव न कुर्मः सर्जनं पितः ।।२५।।
इत्युक्त्वा नारदो मौनोऽभवत् प्रत्युत्तरेच्छुकः ।
तावद्ब्रह्माऽभवत् क्रुद्धः प्रोवाच स्फुरिताऽधरः ।। १६।।
नारद्! त्वं पितुर्वाक्यमनादृत्याऽभिमानवान् ।
ज्ञानीवोपदिशन्मां च निषेधसि तु सर्जनम् ।।२७।।
तस्माज्ज्ञानविहीनस्त्वं भव योषित्सु लम्पटः ।
स्थिरयौवनयुक्तानां सुरूपाणां विलासकृत् ।।२८।।।
पञ्चाशत्कामिनीनां त्वं भर्ता शृंगारविद्भव ।
'शृंगारशास्त्रवेत्ता च महाशृंगारकारकः ।।।२९।।
नानाशृंगारविज्ञानां गुरूणां च गुरुर्भव ।
गन्धर्वाणामग्रगण्यो गायकः सुस्वरो भव ।।1.200.३०।।
वीणावादननिष्णातः सर्वदा स्थिरयौवनः ।
भविष्यसि न सन्देहो द्विलक्षाब्दसुजीवनः ।।।३ १।।
पुनर्मदीयशापेन दासीपुत्रो भविष्यसि ।
तदा वैष्णवसंसर्गाद् वैष्णवोच्छिष्टभोजनात् ।।।३२।।
श्रीकृष्णस्य प्रसादेन भविष्यसि ममात्मजः ।
ज्ञानं दास्यामि ते दिव्यं पुनरेव पुरातनम् ।।।३३।।
अधुना भव नष्टस्त्वं मत्सुतो निपत ध्रुवम् ।
नारदः प्राह पितरं क्रोधं संहर विश्वसृट् ।। ३४।।
शपेत्परित्यजेद्विद्वान् पुत्रमुत्पथगामिनम् ।
तपस्विनं सुतं शप्तुं कथमर्हसि मे पितः ।। ३५।।
यत्र जनिश्च मे तत्र वैष्णवत्वं सदा भवेत् ।
न जहातु हरेर्भक्तिर्मां वेदो देहि मे वरम् ।। २६।।
जन्म यदि महल्लक्ष्मीसम्पद्वत्सु भवेदपि ।
भक्तिहीनं तु तत्सर्वमधमं चाऽगतिप्रदम् ।। ३७।।
सूकरेऽपि यदि जन्म जातिस्मरं भवेद्यदि ।
भक्तियुक्तं तु तच्छ्रेष्ठं गोलोकधामदं हि तत् ।।३८।।
श्रीहरेश्चरणे भक्तिर्मधु दिव्यं प्रकीर्तितम् ।
तदश्नतां वैष्णवानां पादपूता धरा भवेत् ।।३९।।
तीर्थानि वैष्णवानां तु स्पर्शमिच्छन्ति सर्वदा ।
पापिनां स्नानसंसृष्टपापानां क्षालनाय वै ।।1.200.४० ।।
श्रीकृष्णमन्त्रग्रहणान्नरा मुक्ता भवन्ति वै ।
कोटिमुक्ता नामग्रहाज्जाता जायन्त एव च ।।४१ ।।
भविष्यन्ति तथा मुक्ता नामभक्त्या तु कोटिशः ।
कोटिजन्मार्जित पापपुञ्जा नश्यन्ति मन्त्रतः ।। ४२।।
शुद्ध्यन्ति च भवन्त्येव मुक्ता नैष्कर्म्यमात्रतः ।
पूर्वं चापि कृतं कर्म नाम्ना निर्मूलयन्ति ते ।।४३।।
गृहं दासाँस्तथा दासीरपत्यानि च बान्धवान् ।
सुतान्दाराँस्तथा शिष्यान्सेवकाँश्च कुटुम्बिनः ।।४४।।
यो दर्शयति सन्मार्गं सोपि सद्गतिमृच्छति ।
स किंगुरुः स किंतातः स किंस्वामी स किंसुतः ।।४५।।
यो दर्शयत्यसन्मार्गं तैस्तैर्विश्वसितो जनः ।
यश्च कृष्णपदाम्भोजे भक्तिं दातुमनीश्वरः ।।४६।।
त्वं न ददासि मे भक्तिं निरोधयसि मामुत ।
ततस्त्वमपि वेदाऽऽस्याऽपूज्यो भव जगत्त्रये ।।४७।।
इत्युक्त्वा नारदस्तत्र विरराम क्षणं यतः ।
विश्वसृजश्च शापेन गन्धर्वश्च बभूव ह ।।४८।।
गन्धर्वराजस्य पत्न्यामुपबर्हणनामधृक् ।
कथयामि सुविस्तीर्णं तद्वृत्तान्तं निशामय ।।४९।।
गन्धर्वराजः सर्वेषां गन्धर्वाणामधिप्रभुः ।
परमैश्वर्यसंयुक्तः पुत्रहीनोऽभवद्धि सः ।।1.200.५०।।
गुर्वाज्ञया पुष्करे सः तपश्चचार दारुणम् ।
ददौ तस्मै वशिष्ठश्च स्तोत्रं तु द्वादशाक्षरम् ।।५१ ।।
शिवस्य कवचं मन्त्रं वर्षशतं जजाप सः ।
निराहारस्तपः कुर्वन् ददर्श पुरतः शिवम् ।।५२।।
महत्तेजःस्वरूपं च भक्तानुग्रहकारकम् ।
ईषद्धासं प्रसन्नास्यं तपस्याफलदायकम् ।।५३।।।
शरणागतभक्ताय दातारं सर्वसम्पदाम् ।
त्रिशूलपट्टिशधरं वृषस्थं चन्द्रशेखरम् ।।५४।।
तप्तस्वर्णजटाजूटं नीलकण्ठं त्रिनेत्रकम् ।
नागयज्ञोपवीतं च चर्मवस्त्रं सुभक्तिदम् ।।५५।।
दृष्ट्वा ननाम गन्धर्वराजः स दण्डवत् भुवि ।
तुष्टाव परमन्त्रेण प्रसन्नं धवलं हरम् ।।५६।।
वरं वृणुष्वेति हरस्तं प्रोवाच तपस्विनम् ।
स ययाचे हरेर्भक्तिं भक्तं पुत्रं च वैष्णवम् ।।।५७।।
शंभुः प्राह कृतार्थस्त्वं सर्वं भक्तौ प्रतिष्ठितम् ।
वरादेकाद् वृतं सर्वमन्यच्चर्वितचर्वणम् ।।५८।।
यस्य भक्तिर्हरौ तस्य सर्वं चैश्वर्यमस्ति हि ।
सर्वाश्च सिद्धयस्तस्य न न्यूनं विद्यतेऽप्यणु ।।५ ९।।
सः समर्थः सर्वविश्वान् पातुं कर्तुं भवेदिह ।
आत्मनः कुलकोटिं च शतं मातामहस्य च ।।1.200.६ ० ।।
पुरुषाणां समुद्धृत्य गोलोकं धाम याति सः ।
कोटिजन्मप्रपापानि हत्वा दास्यं हरेर्लभेत् ।।६ १।।
तावत्पतिश्च पत्नी च सुताः पुत्रा धनादयः ।
सुखं दुःखं नृणां तावद् यावद्भक्तिर्हरौ नहि ।।६२।।
हरौ भक्तिः कल्पवृक्षः सर्वेप्सितं ददाति वै ।
भक्तिर्महाँस्तीक्ष्णखड्गः कर्मद्रुमूलकृन्तनः ।।६ ३ ।।
हरौ तु मानसे लग्ने सर्वं सिद्धं भवत्यपि ।
येषां तु सुकृतं श्रेष्ठं तेषां पुत्रास्तु वैष्णवाः ।।६४।।
भवन्त्युद्धारयन्त्येव कुलकोटिं तु सेवया ।
सुखे वैषयिके यद्वा साम्राज्ये पारमेष्ठ्यके ।।६५।।
प्राप्ते सर्वविधे चापि मंगले नैव तुष्यति ।
भक्तिर्भक्तश्च पुत्रः स्यादित्येकात्सर्वमर्थितम् ।।६६।।
चरितार्थः पुमानेकादीदृशात्तु वरोत्तमात् ।
किं वरेण द्वितीयेन यस्मात् तृप्तिर्न शाश्वती ।।६७।।
वैष्णवानां धनं श्रेष्ठं कृष्णे भक्तिर्हि शाश्वती ।
सञ्चितं भक्तिदास्यं यत् सर्वं तेन हि सञ्चितम् ।।६८।।
यद्यपि त्वर्थितं श्रेष्ठं सर्वस्माछ्रेष्ठमेव च ।
तथापि न वयं दातुं समर्थास्तादृशं वरम् ।।६९।।
वरयाऽन्यं वरं राजन् यत्ते मनसि वर्तते ।
महेन्द्रत्वममरत्वं ब्रह्मत्वमीशतां लभ ।।1.200.७०।।
सिद्धीर्योगं च विज्ञानं मृत्युञ्जयबलं तथा ।
सर्वं दास्यामि लभ तत् कृष्णदास्यं त्यज ध्रुवम् ।।७१ ।।
श्रुत्वा गन्धर्वराजश्चोवाच श्रीशंकरं तदा ।
यत्पक्ष्मचालनेनैव ब्रह्मादेः पतनं भवेत् ।।७२।।
तद्ब्रह्मत्वं महेन्द्रत्वममरत्वं न मे प्रियम् ।
सिद्धयश्च महैश्वर्यं योगो मृत्युञ्जयस्तथा ।।७३।।
न मेऽस्त्यतिप्रियं देव! ज्ञानं च भक्तिमन्तरा ।
सालोक्यसार्ष्टिसामीप्यसायुज्यैकत्वमित्यपि ।।७४।।
वैष्णवा नहि वाञ्च्छन्ति विना तत्सेवनं क्वचित् ।
वाञ्च्छन्ति दास्यभक्तिं च शाश्वतीं स्वापजाग्रतोः ।।७५।।
तस्मात् तद्दास्यभक्तिं च भक्तपुत्रं वृणोम्यहम् ।
अन्यत्सर्वं परित्यज्य तुष्टात् त्वत्तो वरप्रदात् ।।७६।।
न वा दास्यसि चेच्छंभो दुष्कृतं मेऽस्ति निश्चितम् ।
शिरश्छित्वा सन्निधौ ते प्रदास्यामि हुताशने ।।७७।।
श्रुत्वा कृपानिधिर्भक्तदयालुः प्राह शंकरः ।
लभस्व श्रीहरेर्दास्यभक्तिं पुत्रं सुवैष्णवम् ।।७८।।
गान्धर्वविद्याकुशलं चिरायुषं जितेन्द्रियम् ।
ज्ञानिनं गुरुभक्तं च शश्वत्सुस्थिरयौवनम् ।।७९।।
वरं दत्वा ययौ शंभुर्गन्धर्वः स्वालयं ययौ ।
कालेन तस्य भार्यायां लेभे जन्म च नारदः ।।1.200.८० ।।
वशिष्ठस्तन्नाम चक्रे गन्धमादनपर्वते ।
उपबर्हणनामाऽसौ गन्धर्वः ख्यातिमाप्तवान् ।।८ १ ।।
उपार्थश्चाधिको बोध्यः पूज्यश्च बर्हणार्थकः ।
अधिकपूज्य इत्यर्थे उपबर्हण नाम तत् ।।८२।।
चकार सः सुतजन्ममहोत्सवं मुदान्वितः ।
ददौ रत्नानि धान्यानि द्रव्याणि हीरकाणि च ।।८ ३ ।।
धनानि क्षेत्रवस्त्राणि पशून् दानानि भूरिशः ।
उपबर्हणगन्धर्वो वशिष्ठान्मन्त्रमुत्तमम् ।।८४।।
प्राप्य कृष्णाऽऽराधनायाश्चकार दुष्करं तपः ।
गण्डक्याः सरितस्तीरे वृक्षजालसमावृते ।।८५।।
तपन्तं प्रोज्ज्वलं प्राप्तयौवनं सुमनोहरम् ।
दृष्ट्वा कामात् तदा मूर्छामवापुः प्रमदा मुहुः ।।८६।।
स्नानार्थं च जलाप्त्यर्थं या यास्तत्र समागताः ।
गन्धर्वपत्न्यस्ताः सर्वा मुमुहुः कामभावतः ।।८७।।
ताश्च तीव्रं तपः कृत्वा प्राणान् सन्त्यज्य योगतः ।
पञ्चाशत् ता बभूवुश्च कन्याश्चित्ररथस्य वै ।।८८ ।।
उपबर्हणगन्धर्वं ताश्च तं वव्रिरे पतिम् ।
कामुक्यः कन्यका माला ददुस्तस्मै तपस्विने ।।८ ९ ।।
पत्न्यस्तस्य बभूवुश्च ताभिः सह ययौ गृहम् ।
दिव्यं द्विलक्षवर्षं च ताभिः रेमे स कामुकः ।। 1.200.९० ।।
अथ कालान्तरे सत्यलोके देवसमाजके ।
सभायां ब्रह्मणस्तत्र जगाम गायनं जगौ ।। ९१ ।।
तत्र रम्भाऽप्सरोनृत्यक्रमे तु समुपस्थिते ।
तस्या ऊरू स्तने रूपं दृष्ट्वा मूर्छामवाप सः ।। ९ २।।
कामवेगेन सत्त्वप्रस्खलनं संबभूव ह ।
त्यक्त्वा संगीतमेवाऽयं निषसाद सभातले ।। ९३ ।।
उच्चैः प्रजहसुर्देवा ब्रह्म क्रोधाच्छशाप तम् ।
उपबर्हण! जानासि पञ्चाशत्प्रमदापतिः ।। ९४।।
भूत्वापि मोहमापन्नो रंभां दृष्ट्वा ह्यधीरवत् ।
तस्माद्विहाय गान्धर्वी तनुं शूद्रो भव द्रुतम् ।। ९५ ।।
तत्र प्राप्य हरेर्भक्तिं सात्त्वतानां समागमम् ।
पुनः काले समापन्ने मत्पुत्रस्त्वं भविष्यसि ।। ९६ ।।
विना विपत्तिमहिमा सुखशान्त्योर्भवेन्नहि ।
अतः क्रमात्सुखं दुःखं सर्वेषां भाव्यमेव यत् ।। ९७।।
इत्युक्त्वा विररामाऽसौ ब्रह्मा लोकपितामहः ।
उपबर्हणगन्धर्वो जगाम स्वगृहं प्रति ।। ९८ ।।
सर्वाः पत्नीः समाहूय वृत्तान्तमभिधाय च ।
आसने योगमास्थाय जहौ तां तनुमादरात् ।। ९९।।
मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम् ।
विशुद्धमाज्ञाचक्रं च भित्त्वा षट्चक्रमेव सः ।। 1.200.१०० ।।
इडां सुषुम्णां मेधां च पिंगलां प्राणहारिणीम् ।
सर्वज्ञानप्रदां चापि मनःसंयमिनीं तथा ।। १०१ ।।
विशुद्धां च निरुद्धां च वायुसंचारिणीं तथा ।
तेजःशुष्करीं चैव बलपुष्टिकरीं तथा ।। १० २ ।।
बुद्धिसंचारिणीं चैव ज्ञानजृम्भणकारिणीम् ।
एताः षोडशधा नाडीर्भित्वा हंसं मनोयुतम् ।। १०३ ।।
ब्रह्मरन्ध्रं समानीयाऽऽत्मानं युयोज केशवे ।
देहं तत्याज योगीन्द्रः सम्प्राप ब्रह्म शाश्वतम् ।। १ ०४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्मणा सावित्र्यां मानसपुत्रा उत्पादिताः, नारदोत्पत्तिः, सृष्ट्यर्थं नियोगे नारदस्य तन्निषेधः, ब्रह्मणः शापादुपबर्हणाख्यगन्धर्वभवनम्, पुनः ब्रह्मसभायां गायनकाले शापात् तनुत्यागश्चेत्यादिनिरूपणनामा द्विशततमोऽध्यायः ।। २०० ।।