लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १८१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १८१
[[लेखकः :|]]
अध्यायः १८२ →

श्रीनारायण उवाच-
एकदा नारदो देवो यायाद्धिमगिरेर्गृहम् ।
चकार शैलो देवर्षेः सपर्यां बहुभावतः ।। १ ।।
नारदांऽघ्र्योः स्वतनयां पावित्र्यार्थमपातयत् ।
प्राह च मत्सुताभाग्यं ब्रूहि देवर्षिसत्तम ।। २ ।।
नारदस्तत्सुताहस्तं सर्वांगानि विशेषतः ।
दृष्ट्वाऽवोचद्गिरे कन्या पित्रोः प्रीतिविवर्धिनी ।। ३ ।।
स्वपतेः सुखदाऽत्यन्तं महासाध्वी पतिव्रता ।
भविष्यति महादिव्य महाराज्ञीव पूजिता ।। ४ ।।
अंगुष्ठमध्यसन्धौ च रेखया हीश्वरी भवेत् ।
हस्ते हस्तिध्वजपद्मशूलरेखाभिरीश्वरी ।। ५ ।।
करे चिह्नं महच्चिह्नं राज्ञी सैषा भविष्यति ।
ललाटे चन्द्रचिह्ने यमीशपत्नी भविष्यति ।। ६ ।।
करेऽस्याः स्वस्तिकं चिह्नं कार्ये विजयिनी भवेत् ।
नेत्रे कर्णान्तलग्नेऽस्या ब्राह्मी काचित्परेश्वरी ।। ७ ।।
हृदये चास्य शंभुर्वै धवलांकमयोऽस्ति वै ।
यतः शक्तिर्महादेवी भविष्यत्येव भूधर ।। ८ ।।
उदरेऽधोबाणरेखा पूज्या देवी भविष्यति ।
चरणेऽस्या नागवल्ली देवपत्नी भवेद्ध्रुवम् ।। ९ ।।
एका विलक्षणा रेखा ह्यंगुष्ठोपरि वर्तते ।
ललाटे च तथा रेखा वर्तते तत्सहार्थिका ।। 1.181.१ ०।।
तयोः फलं शृणु शैल! भवेद्वा न भवेत्तथा ।
त्यागी नग्नो गुणहीनो मातृतातविवर्जितः ।। ११ ।।
अकामोऽशिववेषश्च पतिरस्या भवेदिति ।
मेनाहिमालयौ श्रुत्वा क्षणं दुःखमवापतुः ।। १२।।
पूर्वां शिवस्मृतिं लब्ध्वा सुखमत्यन्तमापतुः ।
पार्वती तु वचः श्रुत्वा जहर्षाऽति मुहुर्हृदि ।। १३ ।।
दैवरेखा ब्रह्मलिपिर्न मृषा जायते क्वचित् ।
तादृशोऽस्ति वरः शंभुर्नान्योऽस्ति तादृशः पतिः ।। १४।।
इति मत्वा शैलपुत्री स्मरत्यहर्निशं हरम् ।
नारदः सत्कृतिं लब्ध्वा गच्छन्वै शिवमन्दिरम् ।। १५।।
स्मारयामास शैलेन्द्रं सतीं प्रति हरोदितम् ।
न त्वामृतेऽन्यां वरये दाक्षायणि सति प्रिये ।। १६।।
भार्यार्थं न ग्रहीष्यामि सत्यमेतद्ब्रवीमि ते ।
इति शर्ववचः शैलं स्मारयित्वाऽऽह नारदः ।। १७।।
सिंहासनं तव पुत्र्याः शंभोरूरौ भविष्यति ।
शंभोरूर्वासनं प्राप्य महाराज्ञी भविष्यति ।। १८।।
इत्युक्त्वा स गतो ब्रह्मलोकं देवर्षिनारदः ।
पुत्रीं बालां च पितरौ रमयामासतुः सदा ।। १९।।
विवर्धमाना गिरिजा विवाहार्हसुयौवना ।
समभवत् तदा चेन्द्रः सस्मार नारदं पुनः ।।1.181.२० ।।
स तु द्रागेव समगात् महेन्द्रभवनं मुनिः ।
इन्द्र उत्थाय पाद्याद्यैः पूजयामास नारदम् ।।२१ ।।
प्राह वै कुशलं स्वस्य ज्ञातवान्नारदस्य च ।
कथं स्मृतोऽहमित्युक्तो महेन्द्रः प्राह नारदम् ।।२२।।
युवती शैलजा जाता योगं यायाच्च शंभुना ।
शीघ्रं तथोद्यमः कार्यः सर्वं तादृग्विधीयताम् ।।२३।।
श्रुत्वा तु नारदः शीघ्रं जगाम शैलकेतनम् ।
वृद्धविप्रस्वरूपेण ज्योतिःपत्रं करे दधन् ।।२४।।
शैलार्पितासने रम्ये निषसादाथ भूसुरः ।
शैलार्पिताऽर्हणां संगृह्याऽवदच्छूलक्ष्णया गिरा ।।२५।।
कुशलं शैलराजाऽत्र तपसः सर्वदा किमु ।
शैलः प्राह सुवृद्धानां कृपया कुशलं मम ।।२६।।
किन्तु पुत्री वरयोग्या जाताऽस्ति वद तत्फलम् ।
तावन्मेना दुहित्राऽनुयाताऽऽजगाम भूसुरम् ।।२७।।
ववन्दे विप्रचरणौ मेना च शैलपुत्रिका ।
पुत्रीं विलोक्य विप्रर्षिराशीर्भिस्तां व्यवर्धयत् ।।२८। ।
प्रोवाच विस्मिताऽऽस्यः स वाक्यं भाग्यं विलोक्य च ।
न जातोऽस्याः पतिर्भद्रे लक्षणैश्च विवर्जिता ।।२९।।
उत्तानहस्ता नितरां चरणौ व्यभिचारिणौ ।
स्वच्छायां चेति बोध्यं वै किमन्यद्वाच्यमत्र वै ।।1.181.३ ० ।।
श्रुत्वैतत्भ्रममापन्नः शोकमग्नो हिमालयः ।
पूर्वं नारदकथितं विस्मृत्योवाच भूसुरम् ।।३ १ ।।
कर्मरेखाऽतिदुर्गम्याऽवश्यंभावि फलप्रदा ।
जन्मान्तरमनुयाति विचित्रभूतजातिषु ।।३२ ।।
स्त्रिया विरहिता सृष्टिः प्राणिनां नैव जायते ।
स्त्रीजातिस्तु प्रकृत्यैव कृपणा दैन्यभागिनी ।।३ ३।।
तासामवज्ञा च मा भूदिति विचार्य वेधसा ।
दशपुत्रसमा कन्या वंशक्षेत्रमुदीरिता ।। ३४।।
दुर्भगा कृपणा कन्या पितुर्दुःखकरी सदा ।
तत्रापि पतिपुत्रार्थसौभाग्यविधुराऽधिका ।।२५।।
त्वं चोक्तवान्मम पुत्र्या दुर्गुणानेव सर्वथा ।
अहो दुःखं महज्जातं श्रुत्वा त्वन्मुखतोऽद्य मे ।।३६।।
अथापि किंचित्सौभाग्यं वार्धक्येऽस्या भवेदिति ।
तर्ह्यपि विप्र वक्तव्यं दुःखं मार्जय मेऽघजम् ।।।३७।।
स्त्रियस्तु ब्रह्मणा सृष्टाः पुरुषाणां सुखाय वै ।
तासां जन्म पतिलाभे सार्थकौ विफलोऽन्यथा ।।३८।।
पतिपितृकुलानां चेहाऽमुत्रोद्धारिकाः स्त्रियः ।
सत्पतिप्राप्तिमत्योऽत्रोद्धारिकाः कीर्तिता हि ताः ।।।३९।।
दुर्लभः सत्पतिः स्त्रीणां विगुणोऽपि पतिः किल ।
न प्राप्यते विना पुण्यैः सुजडोऽपि पतिः स्त्रिया ।।1.181.४० ।।
असाधनोऽपि सद्धर्मः पुत्रप्राप्त्यात्मिका रतिः ।
धनमाजीवनं भाग्यं नार्याः कान्ते प्रतिष्ठितम् ।।४१ ।।
निर्धनो दुर्मुखो मूर्खः सर्वलक्षणवर्जितः ।
भाग्यं तु परमं नार्याः पतिरेव सदा मतः ।।।४२ ।।
या नारी मत्सराद् द्वेषादीर्ष्यया वा स्वभावतः ।
अन्यरतिसुखं हन्ति तत्फलं पतिहीनता ।।४३ ।।
याऽन्यकामसुखं द्वेष्टि कामे विघ्नं करोति च ।
कामेन सुखिनोर्निन्दां करोति नाऽप्नुयात्पतिम् ।।४४।।
विवाहिताऽपि पतये कामभिक्षां ददाति न ।
रत्यदात्र्याः कामुकस्य पतिप्राप्तिर्हि दुर्लभा ।।४५।।
बहुसंचितपुण्यानां फलं कामसुखादिकम् ।
मनुष्येभ्यः सदा दत्तं पापिनां तद्भवेन्नहि ।।४६।।
पशवः पक्षिणश्चापि कामाऽऽसक्ता वियोजिताः ।
यया तस्याः कामसुखं पतिसुखं न जायते ।।४७।।
धर्मकामा नरा याभिस्तिरस्कृत्य तृणीकृताः ।
तासां सत्कुलजन्मापि पत्यलाभात् तृणीकृतम् ।।४८।।
यासां कामसुखं नास्ति तासां कामाग्निदग्धता ।
दुखं सततसंलग्नं तप्तसूर्मी हि साऽत्र वै ।।४९।।
कामाऽविघ्नात्मकं दानं नान्यद्दानं हि विद्यते ।
त्रस्य पुण्यं सदा प्राप्तिः सत्पतेर्भवतीति वै ।।1.181.५०।।
कामदानमहत्पुण्यं यस्या भवति संचितम् ।
तस्या मानुषजन्माऽत्र भवति नित्यकामदम् ।।५१ ।।
पारावतचटकाद्याः पक्षिषु नित्यकामिनः ।
प्राक्प्रदत्तकामदानफलं बोध्यं न चान्यथा ।।५२।।
पशूनां गोमहिषीणां कामना विरला तु सा ।
प्रागप्रदत्तकामस्य फलं स्वल्पं कृतं तथा ।।५ ३।।
वृक्षेष्वपि नरयोगाज्जायन्ते तु फलानि हि ।
वल्लीष्वपि पुष्पयोगो फलं नैव च दृश्यते ।।।५४।।
तत्सर्वं तु प्रदत्तस्य कामाऽकामस्य वै फलम् ।
मम पुत्र्या कीदृशं वै कृतं कर्म पुरा भवेत्। ।।५५।।
येन नाऽस्याः पतिर्जात उच्यते भूसुर त्वया ।
एतद् दौर्भाग्यमतुलमसंख्यदुःखभाजनम् ।।५६।।
किं चोत्तानितहस्तेयं त्वयोक्ता नित्यदां ह्यतः।
उत्तानहस्तता भिक्षां याचतामेव संभवेत् ।।५७।।
शुभोदयानां भाग्यानामदातारौ दरिद्रकौ ।
सुच्छाययाऽस्याश्चरणौ त्वयोक्तौ व्यभिचारिणौ ।।५८।।
तत्रापि श्रेयसी ह्याशा न मेऽस्या वै सुदृश्यते ।
पूर्वं तु नारदेनोक्तं भूसुर श्रावयामि तत् ।।५९।।
त्यागी नग्नो गुणहीनो मातृतातविवर्जितः ।
अकामोऽशिववेषश्च पतिरस्या भवेदिति ।।1.181.६०।।
तदत्र भ्रामणे सत्यं कियद्ग्राह्यं मयाऽनघ ।
ब्रूहि जानासि चेद् देव दुःखं मे लीनतां व्रजेत् ।।६ १ ।।
नारदो वृद्धविप्रात्मा प्राह शैलं सुदुःखितम् ।
हर्षस्थाने तु महति दुःखं ते भ्रान्तिजं यतः ।।६२।।
शृणु शैल न जातोऽस्याः स्वामी त्वजः सदाशिवः ।
नित्यः स शाश्वतः स्थाणुरचलोऽस्ति सनातनः ।।६३।।
अन्येषां कर्मजन्मानो देहा नास्य तथा ह्यजः ।
शृणु वै लक्षणैरेषा वर्जितेति विविच्यते ।।६४।।
लक्षणं कर्मजन्यांऽकं चिह्नं शारीरमुच्यते ।
तच्चाऽऽयुर्धनसौभाग्यसम्पन्मृतिप्रदर्शकम् ।।६५।।
इयं तु ब्रह्मरूपाऽस्ति कर्मशून्या महेश्वरी ।
नास्याः कर्मकृतं देहं लक्षणं विद्यते इति ।।६६।।
स्वाभाविकानि दैवानि चिह्नान्यस्या भवन्ति हि ।
शृणु चोत्तानकरतां ह्युत्तानो वरदः सदा ।।६७।।
हस्तोऽस्याश्च महादेव्या भविष्यत्येव सर्वथा ।
सुराऽसुरमुनिप्राणिवरदात्री भविष्यति ।।६८।।
शृणु चास्यास्तु चरणौ स्वच्छायौ व्यभिचारिणौ ।
चरणौ पद्मसंकाशौ स्वच्छावस्या नखोज्ज्वलौ ।।६९।।
सुरासुराणां नमतां किरीटमणिकान्तयः ।
विशिष्टा अभितश्चारिण्यः प्रविष्टा ययोर्हि तौ ।।1.181.७० ।।
तादृशौ भवतश्चास्याश्चरणौ भाग्यसेवितौ ।
शिवपत्न्यास्तु किं वस्तु न्यूनं शैल भवेद् वद ।।७१।।
पूर्वं यदुक्तं त्यागी च पतिरस्या भविष्यति ।
शिवस्तु सर्वदा रागशून्यस्त्यागी मतो ध्रुवम् ।।७२।।
नग्नोऽपिमायया हीनो मायावस्त्रविहीनकः ।
गुणहीनश्च मायाया गुणत्रयविहीनकः ।।।७३ ।।
परब्रह्मस्वरूपस्य न माता जनकस्तथा ।
मातृतातविहीनत्वं शिवस्य घटते सदा ।।७४।।
अकामः कामना ग्रध्ना तृष्णा तया विहीनकः ।
अशिवस्तामसो भावः सृष्टिसंहारकारकः ।।७५।।
स चात्र वेशरूपेण कार्यार्थं सन्धृतः खलु ।
रौद्रः संहारको वेषो ह्यशिववेष उच्यते ।।७६।।
चिताभस्मजटाजूटव्याघ्रचर्माऽस्थिधारणम् ।
अशिववेष इत्येवं लोकेऽपि शंकरेऽस्ति हि ।।७७।।
स शंभुः स्वः परंब्रह्मावतारो भगवान् हरः ।
पतिरस्यास्तव पुत्र्या भाग्योदयाद् भविष्यति ।।७८।।
तत्रोपायं शृणु प्रीत्या कृत्वा यं लप्स्यसे सुखम् ।
तत्र शंभौ लक्षणानि शुभान्यशुभवन्ति वा ।।७९।।
सुखदान्येव बोध्यानि सुखमूर्तिर्यतो हरः ।
रविपावकगंगानां तत्र ग्राह्यं निदर्शनम् ।।1.181.८०।।
तस्मात्त्वमपि शैलेन्द्र देहि शिवाय कन्यकाम् ।
शीघ्रप्रसादः स हरो ग्रहीष्यति सुतां तव ।।८ १।।
शिवस्य तपसा प्राप्तिः कुर्यात्तपः सुता तव ।
समर्थोऽपि तव पुत्र्या वशं यास्यति सर्वथा ।।८२।।
कुलिपिरपि सुलिपिर्भविष्यति तपोबलात् ।
अवश्यं भाविनी पत्नी तव पुत्री शिवप्रिया ।।।८२।।
शंभोश्चित्तं वशे चैषा करिष्यति सुसेवया ।
सोऽप्येनां ते सुतां त्यक्त्वा नान्यामुद्वाहयिष्यति ।।८४।।
नाऽनयोः सदृशी प्रीतिरन्ययोर्भूतभाविनी ।
अनयोर्मेलने देवकार्याणि सुबहूनि वै ।।८५।।
कर्तव्यानि सुविद्यन्ते तस्माद् देहि हराय ताम् ।
अनया कन्यया शंभुरर्धनारीश्वरोऽस्ति वै ।।।८६।।
विवाहविधिना ख्यातिं तादृशीं तु गमिष्यति ।
तपसा च हरं सम्यगाराध्य तव पुत्रिका ।।८७।।
कृष्णरूपं विधूयैव गौररूपा भविष्यति ।
गौरीति वै तथा नाम्ना विद्युद्गौरी भविष्यति ।।८८।।
नामान्यस्यास्तथाऽन्यानि बहूनि सन्ति तानि च ।
शृणु तुभ्यं कथयामि भविष्यन्ति यथातथा ।।८९।।
काली तारा महाविद्या षोडशी भुवनेश्वरी ।
भैरवी छिन्नमस्ता च विद्या धूमावती तथा ।।1.181.९०।।
बगलामुखी सिद्धविद्या मातंगी कमला तथा ।
चण्डी च भैरवी सैंहीत्येवं नामानि सन्ति वै ।।९ १ ।।
नान्यस्मै त्वमिमां दातुं क्वचित्संकल्पमाचरेः ।
इदं चोपांशु देवानां न प्रकाश्यं च कुत्रचित् ।।९२।।
शैलः प्राह तदा वृद्धब्राह्मणं शृणु मद्वचः ।
शिवस्तु सर्वदा ध्यानी देवानामप्यगोचरः ।।९३।।।
त्यक्तसंगो विरागश्च ध्यानयोगपरः सदा ।
ब्रह्मार्पिताऽन्तरात्मा सः कथं साध्यो भविष्यति ।।९४।।
निर्गुणो निर्विकारश्च निरामयो निरीहकः ।
अक्षरो ब्रह्म परमः कथं साध्यो भविष्यति ।।९५६।।
यस्यान्तर्वर्तते विश्वं बाह्यं नैव निरीक्षते ।
सः कथं तपसा पुत्र्याऽनया साध्यो भविष्यति ।।९६।।
ब्राह्मणः प्राह तच्छ्रुत्वा चिन्ता कार्या न वै त्वया ।
देवदेवो निरीहोऽपि त्वत्पुत्र्यामीहया युतः ।।९७।।
तपसाऽवश्यमेव स्यादतोऽसाध्यं न विद्यते ।
काली स्वयं महाकालं हरं तु प्राप्स्यति ध्रुवम् ।।९८।।
गच्छाम्यहं तु शैलेन्द्र विवाहकरणं कुरु ।
इतिकृत्वोत्थितो विप्रो गमनाय मनो दधे ।।९९।।
शैलस्तावत्सुसत्काराऽर्हणां तस्याऽकरोन्मुदा ।
वृद्धविप्रस्वरूपं च तिरोधायाऽपि भूसुरः ।। 1.181.१०० ।।
देवर्षिर्नारदं रूपमास्थाय व्योममार्गगः ।
नारायणं रटन्प्रेम्णा पश्यतोश्च तयोर्द्वयोः ।। १०१ ।।
मेनकाशैलयोः शीघ्रं जगामेन्द्रपुरीं प्रति ।
मेनाशैलौ महाश्चर्यं गतौ दृष्ट्वा तु नारदम् ।। १ ०२।।
निश्चिता शंभुपत्नीयं सुता भाग्यवती सदा ।
आनन्दिता च सा कन्या प्रसन्नौ पितरौ तथा ।। १०३ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वृद्धविप्ररूपेण नारदस्य हिमगिरिगृहागमनं, पार्वत्या रेखाभिः अगुणस्य पत्नीत्वमुक्तम्, हिमालयचिन्ता, अगुणादिशब्दार्थस्फुटता, शिवपत्नी भाविनीति निर्णयः, वृद्धब्राह्मणत्वं विहाय नारदरूपेणाकाशपथा महेन्द्रपुरीं प्रति गमनमित्यादि-
निरूपणनामैकाशीत्यधिकशततमोऽध्यायः ।। १८१ ।।