लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १८०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १८०
[[लेखकः :|]]
अध्यायः १८१ →

श्रीलक्ष्मी उवाच-
कालीजन्मकथां दिव्यां वद मे परमेश्वर ।
काली पुनः कथं गौरी जातेत्यपि कथां वद ।। १ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि सती देहं त्यक्त्वाऽव्यक्ताऽभवत्ततः ।
हिमालयप्रदेशेषु गुप्ताऽदृश्या व्यवर्तत ।। २ ।।
देवाः कैलासमासाद्य सुस्थाने प्रणिपद्य च ।
सस्मरुश्च प्रणेमुश्च तुष्टुवुश्च तदा सतीम् ।। ३ ।।
देव्युभे ओमिति त्वं वै गायत्री परमेश्वरी ।
पूजिता ब्रह्ममुनिभिरूर्जिता राजभिर्नृपैः ।। ४ ।।
त्वं भूरितिविड्भि पृथ्वी शूद्रैः शिवेति पूजिता ।
क्षान्तिर्मुनीनामक्षोभ्या दया नियमिनामपि ।। का ।।
त्वं महोपायसन्दोहा नीतिर्नयविसर्पिणाम् ।
परिचितिस्त्वमर्थानां त्वमीहा प्राणिहृच्छ्रया ।। ६ ।।
त्वं मुक्तिः सर्वभूतानां त्वं मतिः सर्वदेहिनाम् ।
इतिस्त्वं रक्तचित्तानां प्रीतिस्त्वं हृदि देहिनाम् ।। ७ ।।
त्वं कीर्तिः सत्यभूतानां त्वं शान्तिर्दुष्टकर्मणाम् ।
त्वं भ्रान्तिः सर्वभूतानां त्वं गतिः क्रतुयाजिनाम् ।। ८ ।।
त्वं समुद्रमहावेला त्वं च लीला विलासिनाम् ।
संभूतिस्त्वं पदार्थानां स्थितिस्त्वं लोकपालिनाम् ।। ९ ।।
त्वं कालरात्रिर्निःशेषभुवनावलिवासिनी ।
प्रियकण्ठग्रहानन्ददायिनी त्वं विभावरी ।। 1.180.१ ०।।
रक्षिका त्वमनाथानां दर्शनं देहि चाम्बिके ।
अनेकैर्विविधैर्लोके रूपैर्देवि त्वमर्चिता ।। ११ ।।
सदा शिवप्रिये दुर्गे त्वां नमामो महेश्वरि ।
श्रीशक्तिं पावनीं पुष्टिं महदव्यक्तरूपिणीम् ।। १२।।
वयं नमामहे भक्त्या शुद्धां ब्रह्मपरायणाम् ।
अन्तर्विद्यासुविद्याभ्यां सुप्रीतां त्वां नमामहे ।। १ ३।।
त्वं दीधितिः सूर्यगता कौमुदी चन्द्रसंगता ।
आप्याययसि ब्रह्मादितृणान्तं त्वां नमामहे ।। १४।।
गायत्री त्वं वेदमाता त्वं सावित्री सरस्वती ।
त्वं वार्ता सर्वजगतां त्वं त्रयी धर्मरूपिणी ।। १५ ।।
त्वं निद्रा सर्वभूतेषु क्षुधा तृप्तिस्त्वमेव ह ।
त्वं लक्ष्मीः पुण्यकर्तॄणामलक्ष्मीः पापिनां तथा ।। १६ ।।
त्वं शान्तिः सर्वजगतां त्वं धात्री प्राणपोषिणी ।
गीतिस्त्वं सामवेदस्य ग्रन्थिस्त्वं यजुषां हुतिः ।। १७।।
ऋग्वेदस्य तथा मात्राऽथर्वणस्य परा गतिः ।
समस्तगीर्वाणशक्तिर्दुःखनिस्तारकारिणी ।। १८।।
शिवे रुद्राणि सन्निद्रे चण्डे कात्यायनि सति ।
कौशिकि चण्डिके कालि नारायणि नमोऽस्तु ते ।। १९ ।।
तपःप्रिये सदादृश्ये पार्वति ते नमोनमः ।
प्रसन्ना भव देवेशि दर्शनं देहि सुव्रते ।।1.180.२ ०।।
मेनायां लभ पुत्रीत्वं महादेवि नमोऽस्तु ते ।
इत्थं देवैः स्तुता देवी दुर्गा दुर्गतिनाशिनी ।।२१।।
आविर्बभूव देवानां पुरतो जगदम्बिका ।
बभूवाऽऽनन्दसन्दोहः सर्वेषां त्रिदिवौकसाम् ।।२२।।
पुनर्देवाः प्रणेमुश्च तुष्टुवुश्च विशेषतः।
शिवे शर्वाणि कल्याणि विज्ञप्तिं शृणु चाम्बिके ।।२३।।
दक्षसुता सुरकार्यकृते जातापि शांकरी ।
नहि जातं प्रपूर्णं तत् देवकार्यं महेश्वरि ।।२४।।
पूर्णं कुरु महादेवि निर्जराणां मनोरथम् ।
सनत्कुमारवचनं सफलं स्यात्तथा कृते ।।२५।।
भूत्वा त्वं मेनकापुत्री रुद्रपत्नी पुनर्भव ।
सर्वे भवन्तु सुखिनो दुःखं नश्यतु कृत्स्नशः ।।२६।।
श्रुत्वैतत्प्राह शर्वाणी प्रसन्नाऽहं न संशयः ।
मेनापुत्री भविष्यामि स्वं सुखं लभतां हरः ।।२७।।
सर्वे गच्छत धाम स्वं सदा स्मरामि शंकरम् ।
मम हेतोर्महादुःखी वर्तते स कुवेषभृत् ।। २८।।
विधाय मालां सुप्रीत्या ममाऽस्थ्नां विरहाकुलः ।
देहे मम चिताभस्म धारयत्यनिशं प्रभुः ।।२९।।
अतश्चावतरिष्यामि रुद्रसन्तोषहेतवे ।
भक्ताः शंभुप्रिया भूत्वा तपः कृत्वा सुदुःसहम् ।।।1.180.३ ० ।।
सुरकार्यं करिष्यामि सत्यं स्वं गच्छत गृहम् ।
इत्युक्त्वाऽन्तर्दधे देवी जगाम हिमवद्गृहम् ।। ३१ ।।
सुरास्तद्दिशि नत्वैव स्वस्वधामनि संययुः ।
हिमाद्रिर्मेनका चोभौ तेपाते परमं तपः ।। ३ २।।
शिवामाराधयामासतुश्च भक्त्याढ्यचेतसा ।
दानं ददतुर्विप्रेभ्यः सदा तत्तोषहेतवे ।। ३३।।
चैत्रमासं समारभ्य सप्तविंशतिवासरान् ।
शिवां सम्पूजयामास पुत्र्यर्थिनी तु मेनका ।।३४।।
अष्टम्यामुपवासं च कृत्वाऽदान्नवमीतिथौ ।
मोदकैर्बलिपिष्टैश्च पायसैर्गन्धपुष्पकैः ।।३५ ।।
गंगायामौषधिप्रस्थे कृत्वा मूर्तिं महीमयीम् ।
उमां संपूजयामास नानावस्त्वर्पणादिभिः ।। ३६ ।।
निराहारा जलाहारा वाय्वाहारा क्वचित्क्वचित् ।
निनाय मेनका सप्तविंशतिवासरान् व्रते ।। ३७।।
व्रतपूर्णे सती चाऽऽविर्बभूव परमेश्वरी ।
मेनां ददर्श सन्तुष्टां तेजोमण्डलमध्यगाम् ।। ३८।।
उवाच सुप्रसन्ना सा मेनां प्रत्यक्षतां गता ।
वरं ब्रूहि महासाध्वि यत्ते मनसि वर्तते ।। ३९।।
दास्ये तेऽहं प्रसन्नाऽस्मि तपोव्रतसमाधिभिः ।
दृष्ट्वा च प्रणनामैतां प्रोवाच मेनका सतीम् ।।1.180.४० ।।
प्रणमामि महादेवीं सर्वकामार्थदायिनीम् ।
प्रणमामि सदा सिद्धां परमात्मस्वरूपिणीम् ।।४ १ ।।
प्रणमामि सदानन्दां वनिताबुद्धिरूपिणीम्।
प्रणमामि करुणाढ्यां विधेहि मम वाञ्छितम् ।।।४२।।
योषाणां सत्प्रियकर्त्री ब्रह्मसुखप्रदायिनी ।
भक्तेच्छापूरणी शक्तिर्नारायणि नमोऽस्तु ते ।।४३।।
इति स्तुता सती प्राह मेनां वरय वांछितम् ।
मेना प्राह तदा देवीं वरयोग्याऽस्म्यहं यदि ।।४४।।
प्रथमं शतपुत्रा मे भवन्तु जगदम्बिके ।
ततस्तिस्रः सुताश्चापि सद्गुणश्चैकपुत्रकः ।।४५।।
तत्र तिसृसुतामध्ये कनिष्ठा मम पुत्रिका ।
भव मम स्नेहपात्रं सुखस्थानं सदा मम ।।४६ ।।
रुद्रपत्नी भव तथा लीलां कुरु ममाऽन्तिके ।
देव्युवाच च तच्छ्रुत्वा तथास्त्विति तु मेनकाम् ।।४७।।
कथयित्वा तिरोधानं जगामाशु हरप्रिया ।
अथ मेना स्वपतये शशंस वरदानकम् ।।४८।।
श्रूुत्वा हिमगिरिर्हृष्टः प्रशशंस प्रियां प्रति ।
कालक्रमेण च तयोः प्रवृत्ते सुरते प्रिये ।।४९।।
गर्भो बभूव मेनाया ववृधे प्रत्यहं च सः ।
असूत मेना मैनाकं पुत्रं सर्वगुणं शुभम् ।।1.180.५ ०।।
ततः क्रमेण वै चान्यान्पुत्रान् सा सुषुवे समान् ।
कन्याद्वयं च सुषुवे ततः सतीप्रसादतः ।।५१ ।।
समधत्त तदा मेना गर्भं गिरेः सती तनुम् ।
गिरिप्रियां सर्वजगन्निवासासंश्रयाऽधिकम् ।।५२।।
विरेजे सुतरां मेना तेजोमण्डलशोभिता ।
प्रियाप्रीतेश्च मनसः स्वार्जितद्रविणस्य च ।।५३।।
समुन्नतेः श्रुतेः शैलः क्रियाश्चक्रे यथोचिताः ।
ददर्श काले मेनां स प्रतीतः प्रसवोन्मुखीम् ।।५४।।
व्यतीते नवमे मासे दशमे मासि पूर्णतः ।
अर्धरात्रे व्यतीतेऽथ मेना शूलायते तनौ ।।५ ५ ।।
वसन्तर्तौ मधौ मासे नवम्यां मृगधिष्ण्यके ।
ब्राह्मे मुहूर्ते शुभगे प्रासूयत सुपुत्रिकाम् ।।५६।।
दिव्या देवी समुत्पन्ना सा लक्ष्मीरिव सागरात् ।
तेजसा व्याप्तमभवन्मेनागृहं समन्ततः ।।५७।।
तदा सुसमयश्चासीच्छान्तभग्रहतारकः ।
नभः प्रसन्नतां यातं प्रकाशः सर्वदिक्षु च ।।५८।।
मही मंगलभूयिष्ठा सवनग्रामसागरा ।
सरस्स्रवन्तीवापीषु पुफुल्लुः पंकजानि वै ।।५९।।
ववुश्च सुखदा वाताः शीतलाश्च सुगन्धिनः ।
बभूव पुष्पवृष्टिश्च तोयवृष्टिपुरःसरा ।।1.180.६०।।
जज्वलुश्चाग्नयः शान्ता जगर्जुश्च तदा घनाः ।
मुमुदुः साधवः सर्वे जगुर्गन्धर्वसत्तमाः ।।६१ ।।
विद्याधरस्त्रियो व्योम्नि ननृतुश्चाप्सरोगणाः ।
तदोत्सवो महानासीत् देवादीनां नभस्तले ।।६२।।
तस्मिन्नवसरे देवी ब्रह्मशक्तिः सती शिवा ।
आविर्बभूव पुरतो मेनाया निजरूपतः ।।६ ३।।
आविर्बभूव तद्गर्भात् श्रीलक्ष्मीरिव सागरात् ।
शिवप्रिया समुत्पन्ना गंगेव शशिमण्डलात् ।।६४।।
हिमवन्नगरे तत्र सर्वं दुःखं क्षयंगतम् ।
अभवन्सुखिनः सर्वे सर्वलोकनिवासिनः ।।६५।।
नारकाणामपि तदा सुखं स्वर्गसमं ह्यभूत् ।
अभवत्क्रूरसत्त्वानां चेतांस्यपि मृदूनि वै ।।६६ ।।
ज्योतिषामपि तेजांसि प्रभावन्त्यभवन्बहु ।
वनाश्रिताश्चोषधयः सुस्वादफलसंभताः ।।६७।।
मेरुप्रभृतयश्चापि मूर्तिमन्तो महाचलाः ।
तस्मिन्महोत्सवे प्राप्ता दिव्यप्रसृतपाणयः ।।६८।।
सागराः सरितश्चैव समाजग्मुश्च सर्वशः ।
ऋषयो मुनयः शान्ता विष्ण्वाद्या सकलाः सुराः ।।६९।।
आजग्मुः सुखिनः प्रीत्या ददृशुर्जगदम्बिकाम् ।
तुष्टुवुस्तां शिवामम्बां शिवार्थधृतविग्रहाम् ।।1.180.७० ।।
जगदम्बे महादेवि सर्वदा त्वां नमामहे ।
देवानां मंगलं कार्यं कुरु त्वं भक्तवत्सले ।।७१ ।।
मेनामनोरथः पूर्णः कृतः कुरु शिवस्य च ।
पुष्पाञ्जलीन् प्रकीर्यैव देवाः स्वधाम संययुः ।।७२।।
हिमशैलोऽभवल्लोके तदा सर्वचराचरैः ।
संसेव्यश्चाधिगम्यश्च साश्रयश्चाचलोत्तमः ।।७३।।
तां तु दृष्ट्वा दिव्यरूपां जन्मबालां सुवर्णभाम् ।
अपि वर्ष्मणि श्यामां तां नीलोत्पलदलप्रभाम् ।।७४।।
मुद्रमायाति मेनातितुष्टा स्तुतिं चकार सा ।
जगदम्बे कृताऽम्बे मां कृतातिकरुणा त्वया ।।७५।।
आविर्भूता मम गेहे सदा पुत्रि स्थिरा भव ।
नमस्करोमि प्रणयपूर्णहृदयविह्वला ।।७६।।
इत्यानन्दप्रपूर्णाश्रुनेत्राभ्यां सा पपौ सुताम् ।
तावद्देवी समभवद्दिव्याष्टभुजधारिणी ।।७७।।
प्रोद्भिन्नावयवा रूपरूपानुभृतयौवना ।
द्वादशोत्तरवर्षाया ऊनषोडशहायना ।।७८।।
स्वर्णाभूषणशोभाढ्या दिव्यवस्त्रातिसूज्ज्वला ।
हास्यपूर्णानना सौम्यप्रेमपूरितलोचना ।।७९।।
राजाधिराजसम्पत्त्या शोभयाऽऽश्रितविग्रहा ।
शिवयोग्याऽभवद्द्विव्या कृपया दर्शनं ददौ ।।1.180.८० ।।
मात्रे चोक्तवती देवी मातस्तेऽस्तु मुहुर्नमः ।
त्वया चाराधिता भक्त्या पूर्वं दातुं वरं तदा ।।८ १ ।।
याचिताऽहं समायाता स्वपुत्र्यर्थं त्वया ततः ।
ओमित्युक्त्वा तिरोधानं गताऽहं परमेश्वरी ।।८२।।
साहं दिव्या सती चास्मि शिवपत्नी तव गृहे ।
पुत्री जाताऽस्मि मातस्त्वं मद्योगात्संमुखी भव ।।८३।।
दिव्यरूपं धृतं ह्येतत् यत्ते मत्स्मरणं भवेत् ।
अन्यथा मर्त्यभावेन तवाऽज्ञानं भवेन्मयि ।।८४।।
युवां मां पुत्रिकारूपदिव्यभावेन सर्वदा ।
चिन्तयन्तौ मे पितरौ यातौ स्थो मद्गतिं पराम् ।।८५।।
देवकार्यं करिष्यामि लीलां कृत्वाऽद्भुतां क्षितौ ।
शंभुपत्नी भविष्यामि तारयिष्यामि सज्जनान् ।।८६।।
इत्युक्त्वा सा महादेवी सुता भूत्वा महाद्युतिः ।
चकार रोदनं तत्र लौकिकीं रीतिमाश्रिता ।।८७।।
श्रुत्वा तद्रोदनं रम्यं गृहस्थाः सर्वयोषितः ।
जहृषुः संभ्रमात् मेनागृहं ययुर्मुदान्विताः ।।८८।।
गिरिर्हिमाचलश्चापि पुत्रीजन्मनिवेदिने ।
ददौ रत्नानि वस्त्राणि धनं च पारितोषिकम् ।।८९।।
दृष्ट्वा दिव्यतनुं कन्यां मुमुहुर्दर्शकास्तदा ।
तथोत्सवो महानासीन्नेदुर्वाद्यानि भूरिशः ।।1.180.९०।।
बभूव मंगलं गानं ननृतुर्वरयोषितः ।
हिमाचलो ददौ दानं विप्रेभ्यो जातकर्म च ।।९ १।।
विधाप्य बहिरागत्य भिक्षुभ्यो द्रविणं ददौ ।
नामाऽकरोत् सुतायाश्च कालीत्येकादशेऽहनि ।।९२।।
नित्यं सा वर्धते काली शुक्ले चन्द्रकला यथा ।
जनः कुलोचितनाम्ना पार्वतीत्याजुहाव ताम् ।।९३।।
कन्दुकैः कृत्रिमैः पुत्रैः सखीमध्यगता सती ।
गंगासैकतवेदीभिर्बाल्ये रेमे मुहुर्मुहुः ।। ९४।।
समये सद्गुरोर्विद्या यतचित्ता पपाठ च ।
नित्यं शंभोर्ध्यानपरा तपोरुचिमती ह्यभूत् ।।९५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने हिमगिरावदृश्यसत्याः देवकृतस्तुतिः, सतीजन्मवरदानम्, मेनाहिमाद्र्योस्तपः, मेनागर्भः, कालीजन्म, दिव्यदर्शनं, महोत्सवश्चेत्यादिनिरूपणनामाऽशीत्यधिकशततमोऽध्यायः ।। १८ ०।।