लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १७७

विकिस्रोतः तः
← अध्यायः १७६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १७७
[[लेखकः :|]]
अध्यायः १७८ →

श्रीनारायण उवाच-
दक्षस्तदा भयोद्विग्नो विष्णुं सस्मार पद्मजे ।
देवदेव हरेकृष्ण नारायण जगद्गुरो ।। १ ।।
मम रक्षा विधातव्या मखस्य च जनस्य च ।
मखभंगो मा भवतु मखात्मकस्त्वमच्युत ।। २ ।।
ब्रह्मणा विष्णुना तस्य श्रुता वै प्रार्थना तदा ।
हंसं गरुडमारुह्य स्वस्थानात्पुनरागतौ ।। ३ ।।
पपात पादयोस्तयोर्भयव्याकुलमानसः ।
उत्थाप्य च ततो विष्णुर्दक्षं विक्लिन्नमानसम् ।। ४ ।।
प्राह दक्ष शृणु तत्त्वं सर्वथा हितकृद्वचः ।
अवज्ञा हि कृता दक्ष त्वया तत्त्वमजानता ।। ५ ।।
ईशस्याऽवज्ञया सर्वं कृतं भवति निष्फलम् ।
विफलं केवलं नैव विपत्तिश्च पदे पदे ।। ६ ।।
अपूज्या यत्र पूज्यन्ते पूजनीयो न पूज्यते ।
त्रीणि तत्र भवन्त्येव दारिद्र्यं मरणं भयम् ।। ७ ।।
असत्कृतान्महादेवात् महद्भयमुपस्थितम् ।
शंकरो वैष्णवो देवो नारायणपरायणः ।। ८ ।।
नारायणस्य भक्तस्य ह्यपराधः कृतस्त्वया ।
भक्तापराधिनो रक्षां कर्तुं स्वामी न वै क्षमः ।। ९ ।।
शिवस्य शरणं याहि स वै रक्षां करिष्यति ।
अहं भक्तपराधीनः सतीनाशेन दुःख्यहम् ।। 1.177.१० ।।
क्रूरस्य कृतकार्यस्य फलं प्राप्नुहि किं भवेत् ।
दक्षस्तद्वचनं श्रुत्वा विवर्णवदनोऽभवत् ।। ११ ।।
प्राह च श्रीहरिं कृष्ण यज्ञारंभो भवद्बलात् ।
कृतोऽयं कर्मणां साक्षिन् वेदधर्मस्य सिद्धये ।। १ २।।
तस्माद् रक्षा विधातव्या यज्ञस्याऽस्य मम प्रभो!
त्वां विना रक्षितुं यज्ञं चाऽस्मान् शक्तो न विद्यते ।। १३ ।।
विष्णुः प्राहाऽध्वररक्षा विधातव्या मया ध्रुवम् ।
ख्यातो मम पणः सर्वो धर्मस्य परिपालनम् ।। १४।।
मर्यादा वेदधर्मस्य रक्षणीया मया सदा ।
यज्ञे देवत्रयाणां च तथाऽन्येषां महात्मनाम् ।। १५।।
सुरादीनां च भागोऽस्ति वेदो वक्ति न चाऽन्यथा ।
त्वया व्यतिक्रमस्तस्य मानेनाचरितोऽध्वरे ।। १६।।
वद दक्ष धर्मपणः कथं त्याज्यो मया भवेत् ।
कथं सतीशिवौ यज्ञे त्वया नाऽकारितौ पुरा ।। १७।।
कथं यज्ञस्य मर्यादा ह्युल्लंघिता विजानता ।
किं कर्म किमकर्मेति न किं पश्यसि दुर्मते ।। १८।।
देवेनैकेन शून्योऽयं यज्ञो नैव फलप्रदः ।
केवलं ज्ञानमाश्रित्य मानमाश्रित्य याजकाः ।। १९।।
ईश्वरं च परित्यज्य केवले कर्मणि स्थिताः ।
ते नु कर्ममयैः पाशैर्बध्यन्ते बहुजन्मसु ।।1.177.२०।।।
निरयेषु प्रपच्यन्ते हीश्वरस्यऽवमानकाः ।
एकत्र तु शिवाख्यस्य भ्रातुः सैन्यमुपस्थितम् ।।२१।।।
अपरत्र च दक्षादेः पुत्रपौत्रादिवाहिनी ।
सर्वे सम्बन्धिनो देवाः कुटुम्बं त्वेकमेव ह ।।२२।।
कुत्र सुदर्शनं चक्रं मोक्तव्यं वद मेऽधुना ।
कुटुम्बिनां सेवकानां सर्वथा च महात्मनाम् ।।।२३।।
नाश उपस्थितस्तेऽत्र शिवाऽवमानदोषतः ।
नाश आमन्त्रितो बुद्ध्या गृहनाश उपस्थितः ।।२४।।
अयं रुद्रगणाधीशो वीरभद्रोऽरिमर्दनः ।
सर्वविनाशनार्थं वै चागतोऽस्ति न संशयः ।।।२५।।
एवं ब्रुवति गोविन्दे सैन्यमापतितं तदा ।
परितोऽध्वरभूमौ तद् व्यपश्यन् वै सुरादयः ।।२६।।
इन्द्रस्तदा हसन् रुद्रं वीरभद्रं तथा गणम् ।
वज्रं धृत्वा करे योद्धुं सज्जोऽभूत् सुरसैन्यकः ।।२७।।
इन्द्रः स्वगजमारूढो वस्तारूढोऽनलः स्वयम् ।
यमो महिषमारूढो निर्ऋतिः प्रेतवाहनः ।।२८।।
वरुणो मकरारूढो मृगारूढोऽनिलस्तथा ।
कुबेरः पुष्पकारूढो युयुधे शंकरैः सह ।।२९।।
तथाऽन्ये सुरयोद्धारो यक्षचारणगुह्यकाः ।
आरुह्य वाहनान्येव युयुधिरे प्रतापिनः ।।1.177.३ ०।।
देवानां च गणानां च तदासीत्समरो महान् ।
नेदुः शंखाश्च भेर्यश्च महादुन्दुभयस्तथा ।।३ १।।
डिण्डिमाः पटहा नेदुः रणशृंगाणि गोमुखाः ।
तीक्ष्णतोमरनाराचैः सुरा जघ्नुर्गणान् बहून् ।।३२।।
इन्द्राद्यैर्लोकपालाद्यैर्गणाः शंभोर्विनिर्जिताः ।
भृगोर्मन्त्रजसैन्यैश्च निर्जिताश्च पलायिताः ।।३३।।
उच्चाटनं कृतं तेषां भृगुणा यज्वना तदा ।
चण्डिकानां च सैन्यानि मखे तत्राऽऽपतन्ति च ।।३४।।
महालयानां सैन्यानि युद्ध्यन्ति ऋभुसंगरे ।
कालानां भैरवाणां च भूतप्रेतादिधन्विनाम् ।।३५।।
सैन्यानि देवसैन्येश्च शृंभुसैन्यैः रणं व्यधुः ।
निपातितानि सर्वाणि ऋभुशृंभुधरांभुभिः ।। ३६।।
अब्जार्बुदपरार्धानि गमितानि यमक्षयम् ।
अरण्यं च शरीराणां समभूत् रणपातिनाम् ।।।३७।।
पराजितान् स्वकान् दृष्ट्वा वीरभद्रोऽद्रिसन्निभः ।
भूतप्रेतपिशाचाँश्च कृत्वा तानेव पृष्ठतः ।।३८।।
महागणान्पुरस्कृत्य समापतद्रणांगणे ।
महात्रिशूलमादाय पातयामास निर्जरान् ।।।३९।।
देवान्साध्यगणान्यक्षाँश्चारणान्गुह्यकानपि ।
शूलैश्च तोमरैः शक्तिप्रवरैस्ते प्रजघ्निरे ।।1.177.४० ।।
केचिद्द्वेधा कृताः खड्गैर्मुद्गरैश्च विपोथिताः ।
अन्यैः शस्त्रैस्तथाऽस्त्रैश्च सुरा भिन्ना महागणैः ।।४१ ।।
कालकवलमन्त्रैश्च स्वभटा जीविताः कृताः ।
दक्षभटा विनश्यन्ति कोऽपि तज्जीवकोऽस्ति न ।।४२।।
सर्वे पराजिता देवाः पलायनपरायणाः ।
युद्धस्थानं परित्यज्य गताः सर्वे त्रिविष्टपम् ।।४३।।
केवलं लोकपालास्ते शक्राद्यास्तस्थुरुत्सुकाः ।
वीरभद्रोऽब्रवीत्सर्वान्दक्षपक्षप्रपातिनः ।।४४।।
सर्वे यूयं बालिशत्वादवदानार्थमागताः ।
अवदानं प्रयच्छामि समागच्छत मेऽन्तिकम् ।।४५।।
हे शक्र हे गुरो भानो शशिन् यम धनेश्वर ।
वायो वरुण निर्ऋते शेष सूर्यादयः सुराः ।।४६।।
समागच्छत सान्निध्ये प्रयच्छाम्यवदानकम् ।
एवमुक्त्वा तीक्ष्णबाणैः शस्त्रैरस्त्रैश्च पर्वतैः ।।४७।।
निर्जघान सुरान्सर्वान् दिक्पतीन्द्रसुरेश्वरान् ।
ते च पलायनपरा विदुद्रुवुर्दिशो दश ।।४८।।
अथ पलायितान्दृष्ट्वा यज्ञनारायणः स्वयम् ।
नारायणो नरो भूत्वा दध्मौ शंखं महास्वनम् ।।४९।।
श्रुत्वा तं शंखनिर्ह्रादं देवास्ते पुनराययुः ।
नन्दिना युयुधे शक्रो वह्निस्तत्राऽश्मना सह ।।1.177.५०।।।
कुष्माण्डाग्रेण धनराट् युयुधे प्राणदानतः ।
यमेन च महालोको मुण्डस्तु वरुणेन वै ।।५ १।।
नैर्ऋतेन तु चण्डश्च भृंगिणा वायुरित्यपि ।
योगिनीचक्रसंयुक्तो भैरवीनायको महान् ।।।५२।।
विदार्याऽपरदेवान्वै पपौ शोणितमुष्णकम् ।
क्षेत्रपाला जजक्षुस्तान्काली च रुधिरं पपौ ।।५३।।
अवशिष्टास्तदा देवाः प्रचक्रिरे पलायनम् ।
विष्णुर्ब्रह्मा स्वस्वलोकं जग्मतुः प्राक् ततोऽध्वरात् ।।५४।।
विनाशोऽर्बुदकोटीनां तदाऽभूदध्वरस्थले ।
प्रविष्टाश्च गणा यज्ञे मर्दनं वै प्रचक्रिरे ।।।५५।।
कैश्चिदुत्पाटिता यूपाः केचित्कुण्डान्यपूरयन् ।
कैश्चित्तु मण्डपा ध्वस्ता वेदाश्च खनिताः परैः ।।५६।।
कैश्चिद्धवींषि भुक्तानि पीतान्याज्यानि चाऽपरैः ।
कैश्चिद्ध्वस्तानि चान्नानि पीतानि पायसानि च ।।५७।।
पक्वान्नानि प्रभुक्तानि क्षीराण्यास्वादितानि च ।
चूर्णितानि च भग्नानि यज्ञपात्राणि सर्वथा ।।५८।।
भग्नाश्च शकटाः कैश्चित् स्रुचः स्रुवाश्च मोटिताः ।
पशवः खादिताः कैश्चित् कुण्डाग्नयो विनाशिताः ।।५९।।
दुकूलानि च रत्नानि कैश्चिद्धृतानि तत्स्थले ।
तमुपद्रवमालोक्य यज्ञो मृगरूपधृक् ।।1.177.६० ।।
भीतः पलायितो व्योम्ना वीरभद्रेण संधृतः ।
ततश्चालातचक्रेण विशिरस्कस्तदा कृतः ।।६ १ ।।
नन्दी भगस्य नेत्रे द्वे समुज्जहार यो भगः ।
शपन्तं दक्षं नेत्राभ्यामसूसुचत्पुनः पुनः ।।६२।।
चण्डश्चोत्पाटयामास पूष्णो दन्तान्प्रवेगतः ।
शपमाने हरे पूर्वं योऽहसद् दर्शयन्दतः ।।६३।।
सरस्वत्याश्च नासाग्रं चिच्छेद वीरभद्रकः ।
अदितेरोष्ठपुटकौ चिच्छेदश्चान्यभद्रकः ।।६४।।
व्यपोथयद् भृगुं पृथ्व्यां मणिभद्रो महाबलः ।
पदाऽऽक्रम्योरसि तस्याऽकार्षीद्वै श्मश्रुलुंचनम् ।।६५।।
अर्यम्णो बाहुयुगलं तदोत्पाटितवान्परः ।
अग्नेरुत्पाटयामास जिह्वामन्यो गणस्तदा ।।६६।।
चिच्छेद वायोर्वृषणौ गणोऽन्यो बलवर्धनः ।
गणो यमशिराः कश्चित् यमं बबन्ध रज्जुभिः ।।६७।।
शृंगी च नैर्ऋतं वृक्षे बबन्ध जटया तदा ।
अतोलयच्च शाखायां ताडयामास कट्यधः ।।६८।।
कुबेरं पदयोर्धृत्वा रज्ज्वा बध्वा ह्यधोमुखम् ।
तोलयामास यूपोर्ध्वं गणो धराभुनामकः ।।६९।।
रुद्रास्तु वामयामासुर्भक्षकानध्वराहुतीः ।
वरुणोदरमापीड्योद्गीरयामासुराज्यकम् ।।1.177.७०।।
इन्द्रो मयूररूपेणोड्डीय च्छन्नोऽभवद् गिरौ ।
प्रथमाः कालयामासुरन्यानपि च याजकान् ।।७१ ।।
प्रगृह्यारिष्टनेमिनमंगिरसं च कश्यपम् ।
दत्तं कृशाश्वं पादेन जघान मूर्घ्नि भद्रकः ।।७२।।
ततोऽन्यानपि देवादीन् विदार्य पृथिवीतले ।
मुनीनृषीन् वीरभद्रादयः शान्तिं न वै ययुः ।।७३ ।।
विडम्बिताः स्वधा स्वाहा दक्षिणाऽन्याश्च योषितः ।
मन्त्रास्तन्त्रास्तथा चान्ये वस्तुशेषा विनाशिताः ।।७४।।
ववृषुस्ते पुरीषाणि विनानाग्नौ रुषा गणाः ।
प्रमथैः सा कृता यज्ञभूमिः श्मशानसन्निभा ।।७५।।
अतिशोच्यदशापन्ना वीरभद्रो जगौ गणान् ।
क्व स दक्षो दुराचारः क्व च यज्ञ भुजः सुराः ।।।७६।।।
सर्वानानयत धृत्वा यात द्रुततरं गणाः ।
इत्याज्ञया धावतस्तान् दृष्ट्वा क्रुद्धो जनार्दनः ।।७७।।
कृतवान् शक्तिह्रासं यत् गणाः शुष्कतृणायिताः ।
तेन क्रुद्धो वीरभद्रो ददर्श शार्ङ्गिणं हरिम् ।।७८ ।।
प्राह दक्षं समानीय देहि युद्ध्यस्व वा मया ।
हरिः प्राहाऽहमप्यत्र दक्षरक्षणदक्षधीः ।।७९।।
पश्यामि तव सामर्थ्यं कथं दक्षं हरिष्यसि ।
इति कृत्वा धृतं चक्रं मुमोच वीरभद्रके ।।1.177.८०।।
हाहाकारो महानासीत् लग्नं भद्रगले तदा ।
यावत् कृन्तति कण्ठं च कण्ठे शंभुः समास्थितः ।।८ १ ।।
कण्ठं त्यक्त्वा समायातं विप्णुहस्तगतं ह्यभूत्। ।
गरुडश्च तदा क्रुद्धस्त्वेकैकं प्रमथं नखैः ।।८२।।
दारयामास लक्षाँस्ते प्रापुः शोभां तु कैंशुकीम् ।
सर्वान्गणाँस्ततो विष्णुः स्तंभयामास तत्स्थले ।।८३।।
वीरभद्रविनाशाय यावत्सुदर्शनं हरिः ।
प्रैरयच्च पुनस्तावद् व्योमवाणी जगाद् तम् ।।८४।।
हरे साहसं माऽकार्षार्वीरभद्रे हरः स्थितः ।
हरनाशाय ते यत्नो लज्जावहो निवर्तय ।।८५।।
दक्षः कर्मफलं यातु माऽन्यः कश्चित् तथाऽऽचरेत् ।
श्रुत्वैतां च हरिश्चक्रं न मुमोच पुनस्तदा ।।८६।।
अन्तर्वेद्यान्तरगतं निलीनं प्राप्य दक्षकम् ।
वीरभद्रो विनद्योच्चैः प्राह धिक्शंभुनिन्दकम् ।।८७।।
यस्येदृगस्ति सम्पतिर्यत्र देवाः सभासदः ।
सः कथं सेश्वरं यज्ञं न कुर्याद्दक्षतां दधन् ।।८८।।
येनाऽऽस्येनाऽपवित्रेण भवता निन्दितः शिवः ।
छेदयामि तदास्यं ते तीक्ष्णधाराऽसिना द्रुतम् ।।८९।।
एवमुक्त्वाऽस्य मूर्धाऽत्र खण्डितस्त्वसिनाऽपि सः ।
कबन्धाद् भिन्नतां नाप्तो यतोऽभेद्यो हि योगतः ।।1.177.९०।।
अभेद्यं तच्छिरो मत्वा शस्त्रास्त्रैरपि सर्वशः ।
चूर्णयामीत्यभिधाय चपेटाभिरचूर्णयत् ।।९ १।।
कराभ्यां त्रोटयामास पद्भ्यामाक्रम्य चोरसि ।
अग्निकुण्डे च तत्क्षिप्त्वा वीरभद्रो जुहाव ह ।।९२।।
अथाऽन्यानपि यज्ञस्यान्धृत्वा संमृद्य तत्र च ।
तरून्प्रज्वाल्य तत्रैव ज्वालयामास भूसुरान् ।।९३ ।।
अथाऽट्टहासमकरोत् पूरयँश्च जगत्त्रयम् ।
ततस्त्वदितिमुख्यानां मिलितानां महोत्सवे ।।९४।।
त्रोटयामास कर्णादीन्यंगप्रत्यंगकानि च ।
वेणीदण्डाँश्च कासाञ्चित् तेन छिन्ना तदा रुषा ।।९५।।
कासांचिच्च कराश्छिन्नाः कासांचित्कर्तिता भुजाः ।
नासिकाश्च तथांऽगुल्यः छिन्ना कासांचिदेव ह ।।९६।।
जिह्वाः कर्णास्तथा छिन्ना निन्दोक्ता वा श्रुता यया ।
चन्द्रो धर्मो भृगुश्चैव मारीचाद्याः सुताधवाः ।।९७।।
अत्यन्तमपमानस्य भाजनं तेन कारिताः ।
तानि कुण्डानि ते यूपास्ते स्तंभाः स च मण्डपः ।।९८।।
ता वेद्यस्तानि पात्राणि तानि हव्यान्यनेकधा ।
ते च वै यज्ञसंभारास्ते ते यज्ञप्रवर्तकाः ।।९९।।
ते रक्षपालास्ते मन्त्रा विनेशुः शिवहेलया ।
क्षणतुल्येन कालेन आसन् नाऽऽसन् बभूविरे ।। 1.177.१०० ।।
महतां हेलनाल्लक्ष्मि! क्षीयतेऽर्जितसुकृतम् ।
तन्नाशे सर्वनाशः स्याद् यथा दक्षस्य सम्पदाम् ।। १०१ ।।
तस्माद्द्रोहो न कर्तव्योऽल्पीयसामपि देहिनाम् ।
परदुःखफलं स्वस्याऽवश्यं भोक्तव्यमापतेत् ।। १०२ ।।
अथ विष्णुर्ययौ व्योम्नि विमानस्थं तु वेधसम् ।
प्राह ब्रह्मन् शंकरं वै नीत्वाऽऽयाह्यत्र सत्वरम् ।। १०३ ।।
विधिहीनं मखध्वस पश्येदागत्य शंकरः ।
अध्वरस्य च दक्षस्य निस्तारोऽपि भवेत्तदा ।। १० ४।।
श्रुत्वैवं सत्वरं ब्रह्मा कैलासं प्रजगाम ह ।
उवाचाऽध्वरवृत्तान्तं शंभुमादाय वै द्रुतम् ।। १ ०५।।
आजगामाऽध्वरस्थानं सर्वं ध्वस्तं विलोक्य च ।
त्रासदं दृश्यमालोक्य दयालेशान्वितो हरः ।। १०६ ।।
क्षणं शर्वस्तु संपश्यन् दूयमानमना ह्यभूत् ।
वीरभद्रोऽपि नत्वैव संस्थितो बहुलज्जितः ।। १ ०७।।
ब्रह्मा प्राह हरं तत्र प्रसाद्य च मुहुर्मुहुः ।
अपराध्यप्ययं दक्षः सम्प्रसाद्यः सुरोत्तम ।। १०८ ।।
यथापूर्वं पुनरमून् सर्वान्कारय शंकर ।
यथा विधिः प्रवर्तेत वैदिकः पुनरेव सः ।। १०९।।
तथाऽऽज्ञा दीयतां शंभो कर्म सिद्ध्यति सेश्वरम् ।
अनीश्वरासु सर्वासु क्रियासु वै महेश्वर ।। 1.177.११० ।।
एवमेव भवन्त्येव विघ्नजाताः सहस्रशः ।
देवभक्तोऽपि दक्षोऽयं देवं त्यक्त्वाऽकरोत् क्रतुम् ।। १११ ।।
लोके विगर्हणां प्राप्ता निदर्शनाय सोऽभवत् ।
ईशं त्यक्त्वा च कार्याणि करिष्यन्ति जना यदि ।। ११२।।
तदन्तं ते न पश्यन्ति लोका गास्यन्ति दक्षवत् ।
ततो मगलदं देवं विहायाऽन्यो जनः क्वचित्। ।। ११३ ।।
स्वार्थं चापि पदार्थं च दैवं वाऽदैवमित्यपि ।
कर्म नैव क्वचित्किंचित् श्रुत्वैतत्प्रविधास्यति ।। ११ ४।।
ब्रह्मणोक्तं विचार्यैव प्रहस्य शंकरः पुनः ।
वीरमाज्ञापयामास यथापूर्वं प्रकल्पय ।। ११५।।
तदा गणान् स्वसैन्यानि प्रैरयन्मार्जनाय तत् ।
स्थलं भूतैर्मार्जितं च भूमिर्विप्रैः सुसंस्कृता ।। ११६ ।।
उज्जीविता मृता मन्त्रैः संजीवन्याऽमृतादिभिः ।
ये सैन्यार्थं द्वयोः पक्षे नूत्नाश्चोत्पादिता भटाः ।। १ १७।।
शंभुना भृगुणा स्वस्वमन्त्रैर्लीनीकृताश्च ते ।
कोट्यर्बुदानि सैन्यानि परार्थलक्षकाणि च । । ११८ ।।
असंख्यदेवदेवीनां पशूनां पृतनास्तथा ।
सर्वं लीनीकृतं तत्र भृगुणा शंभुना तथा ।। ११९ ।।
अंगनाशाश्च नारीणां द्रव्यनाशाः क्रतोस्तथा ।
देहनाशा मखस्थानां पुनरुज्जीव्य सन्धिताः । । 1.177.१२० ।।
विष्णुना ब्रह्मणा चन्द्रमसा च शंभुना मखे ।
कुमारेणाऽश्विनीजेन धन्वन्तरियुतेन च । । १२१ ।।
सूर्येण गुरुणा योगिनीभिः श्रीभिस्तथा तदा ।
मुनिभिः ऋषिभिश्चैव स्वस्वसामर्थ्यसंयुतैः । । १२२ । ।
यथापूर्वं कृतं सर्वं चोत्पादितं तु मानसम् ।
सौवर्णं राजतं ताम्रं दारवं चौर्णमिक्षुजम् ।। १२३ ।।
पायसं वल्लिजं सस्यजन्यं कार्पासकं तथा ।
अन्नजं जलजं चोद्भिज्जातं ह्रस्व महच्च यत् ।। १२४ ।।
स्वल्पं प्रचूरकं चापि हव्यं चान्यच्च यद्ध्यभूत् ।
विना दक्षस्य वदनं यथापूर्वं समीकृतम् । । १२५ ।।
शंकराद्याऽऽज्ञयाऽऽगृह्य यज्ञीयमेषमस्तकम् ।
तेन मेषमुखं दक्षं वीरभद्रगणो व्यधात् ।। १२६ ।।
दक्षस्य यज्ञशीर्ष्णः स्यात् सदा ह्यजमुखः शिरः ।
मित्रनेत्रेण संपश्येत् यज्ञभागं भगः सुरः ।। १२७ ।।
भग्नदन्तः सुरः पूषा भवतु यज्ञपिष्टभुक् ।
बस्तश्मश्रुर्भवेदेव भृगुः शिवविरोधकृत् । । १२८ ।।
देवाः प्रकृतिसर्वांगा भवन्त्वेव सदा स्वयम् ।
बाहुभ्यामश्विनौ पूष्णो हस्ताभ्यां कृतवाहकः ।। १२९ ।।
भवन्त्वध्वर्यवश्चान्ये यथापूर्वं शिवाज्ञया ।
अभवँस्ते तथा सर्वे सर्वं स्वस्थमभूत्तदा ।। 1.177.१३० ।।
अथ यज्ञक्रियास्तत्र प्रावर्तन्त पुनः सुरैः ।
पूर्णाहुतिः प्रदत्ताऽवभृथस्नानं कृतं सुरान् ।। १३१ ।।
विप्रानभ्यागतान्पुत्रदुहितृस्वसृबान्धवान् ।
भागिनेयान्देयपात्रवरान्सत्कृत्य सर्वथा । । १३२ ।।
दानानि दत्तवाँस्तेभ्यो दक्षो बस्तमुखोऽर्थिनाम् ।
तृप्तिं चाकारयत् भक्ष्यभोज्यपानाऽम्बरादिभिः ।। १३३ ।।
सर्वे स्वान्स्वान्स्वत्वभागान्नीत्वा याता निजालयान् ।
विष्णुर्ययौ च वैकुण्ठं ब्रह्मा सत्यं जगाम ह ।। १ ३४।।
दिक्पाला लोकपालाश्च सुरा मुन्यादयश्च ये ।
गताः सर्वे तृप्तहृदो दानमानार्हणादिभिः ।। १ ३५।।
अथ शंभुर्विधुरो वै क्व यामीति विचारयन् ।
हिमालयस्य शिखरं तपसे संजगाम सः ।। १३६ ।।
वानप्रस्थक्रियाधर्मं जग्राह शंकरस्तदा ।
अनाश्रमवता पुंसा यतः कालो मनागपि ।। १३७।।
व्यर्थं कलयितव्यो न वने श्रेयस्तपःश्रमः ।
तपश्चचार शर्वः सगणः शृंगे शिवाभिधे ।। १ ३८।।
कैलासस्य च रक्षार्थं वीरभद्रमयोजयत् ।
दक्षोऽपि पापशान्त्यर्थं काशीं जगाम चैकलः ।। १ ३९।।
तपसाऽऽराधयच्छंभुं लिंगं संस्थाप्य सत्वरम् ।
प्राविर्भूत्वा स्वयं शंभुर्दक्षपापं ह्यमार्जयत् ।। 1.177.१४० ।।
प्राह ब्रूहि वरं दक्ष दास्यामि मनसेप्सितम् ।
प्राह दक्षो हरं देयो वरो मम यदि त्वया ।। १४१।।
तव भक्तिः सदा चास्तु क्षन्तव्यो मेऽपराधकः ।
दक्षेश्वरे त्वया स्थेयं लिंगे तु सर्वदा प्रभो ।। १४२।।
दत्तमिति तथा चाऽन्यद् गृहाण दक्ष मेऽग्रतः ।
परार्धद्वितीयप्रान्ते ततो मोक्षमवाप्स्यसि ।। १४३।।
इति हरो ददौ तस्मै वरदानं प्रमोक्षणम् ।
दक्षस्य यज्ञभंगः स न हरेण कृतः खलु ।। १४४।।
परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ।
परेषां कदनं कर्म न कार्यं तत् कदाचन ।। १४५।।
परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ।
इति सम्बोधितं तस्माद् द्रोहं परस्य नाचरेत् ।। १४६।।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी चैव चतुर्थकः ।
चतुर्विधा भजन्तेऽजं चतुर्थोऽत्र विशिष्यते ।। १४७।।
केवलं कर्मणा यो वै संसारं तर्तुमिच्छति ।
न च पारमवाप्नोति मध्ये विघ्नेन लुप्यते ।। १४८।।
हरेर्भक्तो हरं निन्देत् हरभक्तो हरिं तथा ।
तयोः शापा भवेयुस्ते तत्त्वप्राप्तिर्भवेन्नहि ।। १४९।।
हरिहरौ सदा चैकतत्त्वं ब्रह्मापि तन्मयः ।
हरो ब्रह्मा च विष्णुश्च जगतः कारणं परम् ।। 1.177.१५० ।।
हरन्सृजँस्तथा रक्षन्दधे संज्ञाः क्रियोचिताः ।
अद्वितीये परे तस्मिन् ब्रह्मण्यात्मनि केवले ।। १५१।।
अज्ञः पश्यति भेदेन भूतानि ब्रह्म चेश्वरम् ।
इत्येतद्ब्रह्मरूपस्य सत्याश्च शंकरस्य च ।। १५२।।
चरित्रं शृणुयाद् भक्त्या श्रावयेद्भक्तिमान् जनान् ।
सर्वसौख्यं लभेदत्र परत्र परमां गतिम् ।। १५३।।
यः पठेत्पाठयेद्वापि सत्याख्यानमिदं शुभम् ।
भुक्तिमुक्तिप्रदं दिव्यं सर्वार्थसम्प्रदायकम् ।। १५४।।
स्वर्ग्यं यशस्यमायुष्यपुत्रपौत्रफलप्रदम् ।
स च भुक्त्वाऽखिलान् भोगानन्ते मोक्षमवाप्नुयात् ।। १५५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने भीतदक्षप्रार्थना, विष्णुन्यायवाक्यं, सुरादीनां गणादीनां
च युद्धं, यज्ञादिध्वंसः, ऋत्विजामंगभंगानि, चक्रेण शिवाविष्टवीरभद्राऽनाशः, शंकरागमनं, सर्वेषां पुनः सजीवनं, यज्ञसमाप्तिरित्यादिनिरूपणनामा सप्तसप्तत्यधिकशततमोऽध्यायः ।। १७७।।