लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १७६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १७६
[[लेखकः :|]]
अध्यायः १७७ →

श्रीनारायण उवाच-
श्रूयतां च महालक्ष्मि! कीदृशं त्रासकृद्धि तत् ।
अनात्म्यं तु पितुस्तस्या नान्यस्तथा करिष्यति ।। १ ।।
भस्मीभूते सतीदेहे दृश्यं सकरुणं तदा ।
समभूच्च समाजेऽन्योन्यवाणी करुणावहा ।। २ ।।
हन्त प्रिया परा शंभोरहादसून्प्रकोपिता ।
दक्षेण पश्यतैतस्य दौरात्म्यं तु प्रजापतेः ।। ३ ।।
चराचरं प्रजा यस्य तस्यापि हृदयं सदा ।
क्षुब्धं रुष्टं खरं शुष्कमहो संसारकष्टता ।। ४ ।।
शंकरस्य प्रियाऽभीक्ष्णं मानयोग्या सतां सदा ।
दक्षेण विमना साऽभूत् तत्रापि सुमहोत्सवे ।। ५ ।।
तस्माद्दुर्मर्षहृदयो ब्रह्मधिक् च दुहितृधृक् ।
महतीमपकीर्तिं सः प्राप्स्यत्यखिलसृष्टिषु ।। ६ ।।
यः स्वांगजां सुतां शभुद्विट् न्यषेधत्समागताम् ।
महानरकभोगी स पुत्रीहा नोऽपराधतः ।। ७ ।।
वदत्येवं जने दृष्ट्वा सत्याश्चाऽसुवियोजनम् ।
द्रागेव पार्षदाः क्रूरा ह्युदतिष्ठन्नुदायुधाः ।। ८ ।।
षष्टिसहस्राणि ते सर्वे संवृत्य मखभूमिकाम् ।
मा कश्चिद् बहिर्निगच्छेद्घातयन्तु मखस्थले ।। ९ ।।
हाहाकारैर्विक्रोशन्तो धिग्धिक्दक्षेतिवादिनः ।
मारयन्तु नाशयन्तु मर्दयन्तु मखांऽगणे ।। 1.176.१० ।।
गगनं च तदा हाहाकारैर्व्याप्तमभूत् प्रिये ।
देवाः प्रापन् भयं सर्वे मुनयोऽन्येऽपि ये स्थिताः ।। ११ ।।
अकांडयुद्धं संप्राप्तं प्रलयो वै भविष्यति ।
दक्षयज्ञाऽऽगतानां ते ह्यकुर्वन् हननं बहु ।।१२।।
शस्त्रैरघ्नन्परांगानि सुतीक्ष्णैः प्राणनाशिभिः ।
दक्षपक्षैस्तथा तत्र घातिता द्वेऽयुते तदा ।।१ ३।।
अन्ये शस्त्रैर्दक्षनाशं कर्तुं याता उदायुधाः ।
तेषामापततां वेगं दृष्ट्वा तु भगवान् भृगुः ।। १४।।
यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ तदाऽऽजुहोत् ।
हूयमाने समुत्पेतुः ऋभवश्च सहस्रशः ।। १५।।
अलातशस्त्रास्ते सर्वे भृगुवह्निबलान्विताः ।
युयुधुः प्रमथैस्तत्र प्राणार्पणसमीहया ।। १६।।
ऋभुभिः प्रबलैस्तत्र हन्यमानाः सतीगणाः ।
द्वेऽयुते चाऽपरे तत्र मृताः शेषाः पलायिताः ।। १७।।
दक्षपक्षस्य सैन्यानां लक्षं यमगृहं गतम् ।
तत्काले ये गुरुजना विष्णुब्रह्मर्षयोऽमलाः ।। १८।।
न हन्तव्या इति कृत्वा न हता भूसुरास्तथा ।
तदा ते ऋषयो देवाः शक्राद्याः समरुद्गणाः ।। १९।।
विश्वेऽश्विनौ लोकपालास्तूष्णीमासन् ग्रहादयः ।
स्वस्वविमानयानेषु व्योममार्गे व्यवस्थिताः ।।1.176.२०।।
उद्विग्नाः प्रार्थयन्तश्च विघ्नाऽभावं मुहुर्मुहुः ।
दक्षजामातरो दक्षकन्या दक्षकुटुम्बिनः ।।२१ ।।
विष्णुब्रह्मर्षिसैन्यैस्तु रक्षिता बहुयत्नतः ।
यज्ञभूमिस्तदा शुद्धां कृता शवविवाहनैः ।।२२।।
यज्ञभूमौ पुनर्दक्षाऽग्रहात्सर्वे व्यवस्थिताः ।
यज्ञपूर्तीच्छया शीघ्रं होमकर्माऽभवत्ततः ।।२३।।।
एतस्मिन्नन्तरे तत्र व्योमवाणी जगाद ह ।
रे रे दक्ष दुराचार दंभाचार महाखल ।।२४।।
किमिदं कृतवान् मूढ भाव्यनर्थकरं तव ।
दधीचिस्ते मखाच्छापं दत्वा यातो न बुद्धवान् ।।२५।।
गृहाऽऽगतां ज्येष्ठपुत्रीं योग्यां मानितवान्नहि ।
ज्ञानहीन! शिवौ पूज्यौ गर्वात्पूजितवान्नहि ।।२६।।
पुत्रीं मत्वा सतीं फलदामाराधितवान्नहि ।
सर्वसौभाग्यदां साध्वीं सम्प्रसादितवान्नहि ।।२७।।
भक्तमंगलदां देवीं त्वं समर्चितवान्नहि ।
सर्वभीतिहरां शक्तिं नत्वा रंजितवान्नहि ।।२८।।
मनोऽभीष्टप्रदां प्रह्वां प्रेम्णा द्रावितवान्नहि ।
कीर्तिसम्पत्प्रदामीशां ध्यात्वा याजितवान्नहि ।।२९।।
भुक्तिमुक्तिप्रदां धात्रीं प्रसंभोजितवान्नहि ।
रक्षिकां पोषिकां हन्त्रीं हृदि धारितवान्नहि ।।1.176.३०।।
सर्वसृष्टिप्रजननीं शान्तिं नयितवान्नहि ।
शंभोर्भागं शंभुपत्न्यै यज्ञे चार्पितवान्नहि ।।३ १।।
तप्यते हि तपः सिद्धैः साध्वीभिर्दर्शनेच्छया ।
युज्यते योगिभिर्योगैरेतद्दर्शनकांक्षया ।।३२।।
तयोः सर्वजगत्पित्रोः सत्कारं कृतवान्नहि ।
अत एवाऽध्वरस्याऽस्य विनाशो भविता ध्रुवम् ।।३३।।
सत्कार्यौ सत्कृतौ नैव कथं श्रेयो भविष्यति ।
दौर्भाग्यं त्वयि संक्रान्तं संक्रान्तास्त्वयि चापदः ।।३४।।
अनभ्यर्च्य शिवां शंभुं कल्याणं प्राप्नुयामिति ।
किं ते गर्वः समायातो गर्वस्तेऽद्य विनंक्ष्यति ।।३५।।
शंकराद्विमुखो भूत्वा देवेष्वेतेषु कस्तव ।
साहाय्यदो भवेदत्र न तं पश्यामि कंचन ।।३६
देवा वा यदि वा चान्येऽधुना ये ते सहायिनः ।
ध्रुवं ते नाशमाप्स्यन्ति वह्निना शलभा इव ।।३७।
शिरस्ते ज्वलितं चास्तु यज्ञोपदा ज्वलन्त्वपि ।
त्वत्सहाया अमांगल्ये विशन्तु प्रज्वलन्तु च ।।३८।।
विनिर्यान्तु सुराः स्वोकश्चास्मादध्वरभूस्थलात् ।
अद्याऽत्रस्थायिनां ध्वंसो भविताऽत्र क्षणान्तरे ।।३९।।
बाला वृद्धाः स्त्रियश्चान्ये स्वका निर्यान्तु चाऽध्वरात् ।
विष्णो विधे पुष्पवन्तौ निर्यान्तु चाऽध्वरस्थलात् ।।1.176.४०।।
अन्यथा भवतां नाशो भविता वै क्षणान्तरे ।
सर्वान् संश्राव्य व्यरमत् नभोवाणी तथापि वै ।।४१।।
यज्ञभूमिगता भाविदैवनष्टा न निर्ययुः ।
यज्ञकालः सशोकोऽपि यज्ञपूर्त्यर्थमेव ते ।।४२।।
कुर्वन्ति हवनं शीघ्रं यज्ञकार्यं प्रवर्तते। ।
अथ श्रीनारदो देवः सतीदाहोत्तरं द्रुतम् ।।४३ ।।
सतीवृत्तान्तमखिलं हरायाऽऽशंसितुं ययौ ।
कैलासे शंभुनिकटे गत्वा नत्वा हरं श्वसन् ।।४४।।
दुःखं च दर्शयन् शोकं वैमनस्यं प्रदर्शयन् ।
कारुण्यं चातिजनयन् भयमावेदयँस्तथा ।।४९। ।
नेत्रादश्रु विमुञ्चश्च प्रकम्पन् प्राह शंकरम् ।
अमायिकस्य मायाया बाधो नैवेति दृश्यते ।।४६।।
सर्वस्वमपि नश्येत का चिन्ता योगिनोऽत्र वै ।
नापचीयेत ते किंचिन्नोपचीयेत् तेऽथवा ।।४७ ।।
अव्ययत्वाच्च पूर्णत्वात् हानिवृद्धी कुतस्त्वयि ।
दक्षेणाऽद्य तवैश्वर्यमास्कन्दितं पदेन वै ।।४८ ।।
यस्य मानाऽवमानेन निन्दास्तुती समे तथा ।
हान्यहानी न गणिते किं तदग्रे रवेण वै ।।४९ ।।
स्वस्य नाशेऽपि यत्केशः कम्पते नहि सर्वथा ।
किं वृथा संभृतस्तेन भारश्चैश्वर्यकोशजः ।1.176.५०
नाऽभिमानधनं यस्य नाऽवज्ञाजन्यशोचनम् ।
तस्याग्रे कथनं सर्वं महिष्यग्रे कथा यथा ।।५ १ ।।
अभिमानरहिताग्रे साभिमानांगना वरा ।
धन्या निरभिमानस्य साभिमाना तु सा सती ।। १२ ।।
श्रूयते स्वप्यते किंवा कर्णौ स्तो वा न वा मुने! ।
तव निन्दाश्रवात्साध्वी तृणीचक्रे स्वजीवितम् ।।१ ३ । ।
इत्याकर्ण्य तदा शंभुर्महाकाल इवाऽपरः ।
रुद्रश्चातीव रुद्रोऽभूत् बहुकोपाग्निदीपितः ।। ५ ४।।
विकरालाननस्तत्राऽवोचत्तु नारदं द्रुतम् ।
हुँ हुँ हुँ किमभूत् तत्र तृणीचक्रे स्वजीवितम् ।।५५ ।।
हो नारद! किं ब्रवीषि सती तत्याज जीवितम् ।
डूँह् डूँह् डूँह् डूँह् डूँह् डमाक् डं डूँह् डमरूं निनाद्य शंकरः । ५६ ।
जटां संभ्रम्य भूपृष्ठे बलात् ताडितवान् रुषा ।
प्रघट्टनान्महाधूम्रः समुत्पन्नः क्षितिं खनन् ।।५७।।
तन्मध्यात्तु समुत्पन्नो महाज्वालोदयो गिरिः ।
गिरिदेव ततो जातः कालमृत्युप्रकम्पनः ।।५८ ।।
प्रत्यक्षः प्रतिमाकारो रुद्र इव भयंकरः ।
वीरभद्रोऽपरो रुद्रः शतरुद्रपराक्रमः ।।५९ । ।
यस्य हस्ते मन्दराद्रिसमा चासीत् गदा तदा ।
भूशुण्डी विन्ध्यवद्दीर्घा परिघं रैवताद्रिवत् ।।1.176.६ ० ।।
नेत्रे प्रस्फारिते तस्य सूर्याचन्द्रमसाविव ।
ललज्जिहा ज्वलज्ज्वालामुखिपट्टाभिसदृशी ।।६ १ ।।
अर्बुदाचलवत्तस्य वक्षःस्थलमशोभत ।
पादांऽगुष्ठांऽगुलीभ्यां स मध्ये संगृह्य सत्वरम् ।। ६२ । ।
हिमाद्रेः शृंगमुत्पाट्य धृत्वा कुक्षौ कपर्दवत् ।
नत्वा शंभुं तदोवाच कि दास्यं करवै तव । । ६३ ।।
करवाण्येककवलं ब्रह्माण्डं सचराचरम् ।
पिबामि सकलानब्धीनेकेनांऽजलिनाऽऽज्ञया ।। ६४ । ।
पातालानि विनिमय्य नयाम्यधो उपर्यपि ।
इहाऽऽनये लोकपालान् केशैः प्रगृह्य सेन्द्रकान् । । ६१ । ।
कालं मृत्युं तथा वध्वा ह्यानये तु त्वदन्तिकम् ।
दैत्यदानवसंग्रामे प्रबलं प्रणिहन्म्यहम् ।। ६६ ।।
पश्य मत्पादपतनात् कम्पते क्षोणिमण्डलम् ।
दोर्भ्यां तु पर्वतान्सर्वान् चूर्णयामि च ते बलात् । । ६७ । ।
किं बहूक्तेन देह्याज्ञां ममाऽसाध्यं न किंचन ।
त्वत्पादबलमासाद्य कृतं विद्ध्यद्य चिन्तितम् । । ६८ ।।
इत्युक्त्वा वीरभद्रः सः प्रोन्नतो दोःसहस्रवान् ।
यावच्छंभोः पादधूलीं दधार मूर्ध्नि सन्निधौ । । ६९ ।।
तावत्तत्र रुदन्तश्च समायाता मखाद्गणाः ।
प्रोचुर्देव महादेव! पाहि नः शरणागतान् । । 1.176.७० ।।
संशृण्वादरतो नाथ सतीवार्तां प्रविस्तरात् ।
गर्वितेन तु दक्षेण सत्या अनादरः कृतः । ।७ १ ।।
तुभ्यं भागमदान्नो सः देवेभ्यश्च प्रदत्तवान् ।
दुर्वचांस्यवदत् प्रोच्चैः श्रुत्वाऽकुप्यत् सती मखे । । ७२ । ।
विनिन्द्य बहुशस्तातमधाक्षीत्स्वतनुं मखे ।
चतुरयुतसंख्याका गणा नष्टा तदाऽध्वरे । । ७३ ।।
लज्जया रणसंग्रामं कृत्वा चापि हता मखे ।
यज्ञनाशप्रकर्तारोऽस्मत्पक्षाश्च गणास्तदा । । ७४। ।
भृगुहोमोत्पादितैश्च ऋभुभिर्वै हता मखे ।
लक्षयोद्धार एवान्ये दक्षस्य तु हता गणैः । । ७५ । ।
तथापि मखभूमेस्ते शुद्धिं कृत्वा वितन्वते ।
यज्ञं दक्षस्तथा दक्षपक्षग्राहाः सुरर्षयः ।।७६ ।।
सतीशोकं न कुर्वन्ति शंभुं नैव स्मरन्ति च ।
विहसन्ति सतीनाशात् दन्तान् कुर्वन्ति वः प्रति । ।७७ ।।
अपमानं तव सत्यास्तस्मिन् यज्ञे विशेषतः ।
दक्षाद्यास्तेऽखिला दुष्टा अकुर्वन् गर्विता अति । । ७८ ।।
नष्टानां च गणानां तु संजीवनार्थमेव वै ।
मन्त्रं भस्मोभयं देहि देहि नोऽमृतबुट्टिकाम् । । ७९ । ।
तत्र भृग्वादयश्चान्यान नवानुत्पादयन्ति तान् ।
विनाशयितुं रोद्धुं च देहि शक्तिं महालयाम् ।।1.176.८ ० ।।
ब्रह्मणा शंभवे दत्तः कालकवलसंज्ञकः ।
स मन्त्रः शंभुना दत्तो वीरभद्राय धीमते ।।८ १ ।।
शस्त्रं फुत्कृत्य रोषेण शत्रून् दृष्ट्वा प्रयोजयेत् ।
कालकवलमन्त्रः स ह्यन्येभ्योऽपि प्रदीयताम् ।।८२।।
'ओं मृतेमृत्यो महामृत्यो मृत्या सह स्थिरो भव ।
ओं मृतिमृत्यो महामृत्यौ स्वमृत्या सँस्तिरो भव' ।।।८३।।
इति फुत्कारपूर्वं वै शस्त्रं शरादिकं च यत् ।
प्रक्षिपेच्छत्रुशरीरे मृत्वा पुनर्न जीवति ।।८४।।
वीरभद्रेण तत्काले शंकरादेव शिक्षितः ।
साधितश्चापि तत्रेव शंकरस्य निदेशतः ।।८५ ।।
शरीरे भस्म सम्मृद्य होमाऽयुतं तदाऽनले ।
लक्षजपान् स तत्रैव कृत्वाऽयुतसुवर्ष्मभिः ।।८६।।
साधयित्वा कालमन्त्रं शरीराणि विलीय च ।
एकाक्येव पुनर्भूत्वा वीरभद्रो महाक्षयः ।।८७।।
सज्जोऽभूद्गमनायैव निदेशमार्थयद्धरात् ।
हरोऽपि च सतीदेहं भस्मीभूतं तु नारदात् ।।८८।।
गणेभ्यश्च निजां निन्दां दक्षस्यातिप्रगर्विताम् ।
श्रुत्वा दक्षस्य सर्वस्य नाशार्थं स्वजटां क्षितौ ।।८९।।
प्रास्फालयामास रोषात् ताडयामास वेगतः ।
मार्जयामास संक्रोधाद्धूनयामास सर्वतः ।।1.176.९०।।
प्रास्फालने जटाभ्यश्च महालयाख्यशक्तितः ।
ताडने च ज्वरा जाता मार्जने कालिकाह्वयाः ।।९ १ ।।
धूनने च गणा जाता अर्बुदार्बुदकोटयः ।
हस्ततालिकया महाभयदा भूतकोटयः ।।९२।।
देव्यो महालयास्तत्र कोटिरर्बुदमित्यपि ।
सशस्त्रा अष्टसद्धस्ता नवयौवनगर्विताः ।।९३ ।।
अतिभयंकराकारा युद्धकर्मकृतश्रमाः ।
ज्वरा मूर्तिधराः क्रूरास्त्रयोदशाब्जकोटयः ।।९४।।
सशस्त्रा नाशकार्यान्ता रिप्वपुनरावर्तिकाः ।
कालिकादिमहाचण्ड्यो रणांगणप्रनर्तिकाः ।।९५।।
सशस्त्रमन्त्रबुट्ट्याढ्या महाकाल्यो भयंकरा ।
गणाः सर्वे परार्धाश्च परार्धस्य परार्धकाः ।।९६।।
सशस्त्रकवचाऽस्त्रादिज्ञातारो युद्धकोविदाः ।
प्रार्थयन्तो हरं शीघ्रं प्रज्वलन्तो दिशो दश ।।९७।।
सज्जा वै त्वरयांचक्रुः शंभ्वाज्ञावाटदर्शिनः ।
सैन्यं त्वसंख्यमेवात्र कैलासे समभून्नवम् ।।९८।।
वीरभद्रो हरं प्राह शीघ्रमाज्ञापय प्रभो ।
शोषणीया मया शंभो क्षणार्धेनैव सिन्धवः ।।९९।।
पेषणीया मया तत्र क्षणार्धेनैव पर्वताः ।
क्षणेन भस्मसात्कुर्यां ब्रह्माण्डमुत देवताः ।। 1.176.१०० ।।
सर्वे लोका व्यसवश्च किमु कार्याश्च मे वद् ।
प्रणतोऽस्मि महादेव भूयोऽपि प्रणतोऽस्म्यहम् ।। १०१ ।।
स्पन्दोऽपि जायतेऽसव्यांगानां ते विजयप्रदः ।
हर्षोत्साहविशेषोपि जायतेऽपूर्व एव मे ।। १ ०२।।
शीघ्रं प्रेषय मां शंभो किं कार्यं ब्रूहि सत्वरम् ।
शंभुः प्राह तदा वीरभद्रं ताम्रविलोचनः ।। १०३ ।।
दक्षो मखं करोत्याशु मद्विरोधेन गर्वतः ।
तन्मखं भस्मसात्कृत्वा सयागपरिवारकम् ।। १ ०४।।
पुनरायाहि कैलासं गच्छ शीघ्रं त्वरां कुरु ।
मद्विरुद्धाः सुरा यद्वा गन्धर्वा मुनयोऽपरे ।। १ ०५।।
ऋषयो भूसुरा यद्वा ये केचित्तत्र संगताः ।
तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम् ।। १ ०६।।
यदि विष्णुश्च ब्रह्मा च महेन्द्रो वा यमोऽपि वा ।
दक्षस्य पक्षपाती स्याद् भस्मसात् तान्विधेहि वै ।। १०७।।
दधीचिमतमुल्लंघ्य ये दक्षपक्षपातिनः ।
तिष्ठन्ति चाध्वरे ताँस्त्वं भस्मसात्कुरु भद्रक ।। १०८।।
आकाशवाण्या बोधितास्तथापि यान्ति नो बहिः ।
यज्ञस्थान् मे द्रोहिणस्तान् भस्मसात्कुरु भद्रक ।। १ ०९।।
दक्षमखाऽऽप्तद्रविणान् दक्षश्रैष्ठ्यप्रवादिनः ।
सतीशंभुर्घ्राणनस्तान् भस्मसात्कुरु भद्रक ।। 1.176.११० ।।
दक्षपक्षगताश्चापि मृत्युभयं विलोक्य ये ।
स्युस्तावकाः क्षणिका भस्मसात्कुरु तानपि ।। १११ ।।
देवा वा देवपुत्रा वा मनवो मनुपुत्रकाः ।
ब्राह्मा वा ब्रह्मपुत्रा वा तत्पौत्रा वापि ये खलाः ।। ११ २।।
सस्त्रीकाश्च सपुत्राश्च सतीशंभुविरोधिनः
भस्मसात्कुरु तान्सर्वान् पश्चाश्च सलिलं पिब ।। ११३ ।।
इत्युक्तो वीरभद्रस्तु रक्तावेशो भवन् मुहुः ।
रुद्रावेशस्तथा कालावेशोऽभवत् प्रचण्डकः ।। १ १४।।
अदृश्यश्चाऽप्रधृष्यश्च नारायणेन वेधसा ।
बभूव प्रलयावेशो भयावेशो भयंकरः ।। १ १५।।
मस्तकात्तस्य कालाग्निसमुद्राः प्राभवँस्तदा ।
ब्रह्माण्डं ज्वालयन्नत्वा शंकरं प्रचचाल सः ।। १ १६।।
नारदोऽपि कलिं सम्यगुद्भाव्याऽग्रे मखं गतः ।
प्राह विष्णुं च शक्रं च वेधसं च तथा सुरान् ।। १ १७।।
वीरभद्रः समायाति विनाशः स्याद्भयंकरः ।
तस्मादतोऽपसर्पन्तु मा पश्यन्तु यमगृहम् ।। १ १८।।
कालो नाऽयं कुटुम्बस्य सम्बन्धस्यापि लोचकः ।
तस्मात्प्रलयवेगेभ्योऽपसर्तव्यं सुबुद्धिभिः ।। १ १९।।
श्रुत्वा विष्णुयमवेधोमहेन्द्रभूसुरादयः ।
दक्षपक्षाऽवमन्तारो मखात्तस्माद्विनिर्ययुः ।। 1.176.१२० ।।
सस्त्रीका सपरीवाराः स्वस्वविमानसंस्थिताः ।
व्योममार्गेण यातास्ते दूरं दूरं प्रयान्ति वै ।। १२१।।
भृगुणा तु तदा ज्ञात्वा सैन्यानि होमकर्मभिः ।
ऋभुशृंभुधरांभ्वादिगणानामर्बुदानि च ।। १२२।।
परार्धानि नवान्येव कृतानि दक्षपाततः ।
सशस्त्राः साग्निका स्वेच्छारूपविरूपधारकाः ।। १२३।।
युद्धमात्रनिपूणास्ते मन्त्रेशून्या नजीवनाः ।
सज्जाः समभवन् भूमौ गगने यक्षरक्षकाः ।। १ २४।।
प्रवर्तते यज्ञकार्यं पूर्णत्वमवशिष्यते ।
पूर्णाहुतिस्तु मध्याह्ने भाविनीति च सत्वरम् ।। १२५।।
याजका यज्ञकार्याणि कुर्वन्ति त्वरितास्तदा ।
किन्तु सतीप्रशापेन दधीचिवचनेन च ।। १ २६।।
पूर्णो यज्ञो न वै भावी मध्याह्नपूर्वमेव यत् ।
वीरभद्रः समायातोऽर्बुदाऽर्बुदप्रसैन्यवान् ।। १२७।।
शतयोजनतः पूर्वं सैन्यशब्दं समागतः ।
दशयोजनतः पश्चाद्धूलीप्राद्रिर्व्यदृश्यत ।। १२८।।
क्षयान्तरेऽद्रिसदृशाः समदृश्यन्त शांकराः ।
गणा भयकरा रौद्रा योद्धारोऽमापविग्रहाः ।। १२९ ।।
अवतेरुर्निपेतुश्च ऋभुसैन्येषु चाम्बरे ।
शृंभुसैन्येषु पृथ्व्यां च धराम्भुपृतनास्वपि ।। 1.176.१३० ।।
अथ शंभुर्वीरभद्रानुगाँश्चान्यान् महागणान् ।
स्वनिश्वाससमुद्भूतान् शतकोटीनवासृजत् ।। १३१ ।।
अम्बरं तैः समाक्रान्तं चेलुः पार्श्वे च पृष्ठतः ।
शृंगाग्राणि गिरीणां च कैश्चिदुत्पाटितानि वै ।। १३ २।।
कैश्चित्त्वाचूडमूलाश्च पर्वता वै समुद्धृताः ।
केचनोत्पाट्य वै शालवृक्षानादाय संययुः ।। १३३ ।।
पार्षदाः कालकालस्य सर्वे रुद्रस्वरूपिणः ।
अयुताऽयुतसिंहाश्च शार्दूला मकरा गजाः ।। १३४।।
कोटिलक्षाणि यानानि वाहनानि प्रगृह्य च ।
गतानि तत्र सैन्यानि पुष्पवृष्टिरभूद्गतौ ।। १ ३५।
काली कात्यायनीशानी चामुण्डा मुण्डमर्दिनी ।
भद्रकाली तथा भद्रा कौशिकी वैष्णवी तथा ।। १३६ ।
एताभिर्नवदुर्गाभिर्युक्ता घोरस्वरूपिणी ।
महाकाली ययौ दक्षविनाशाय तु सत्वरा ।। १ ३७।।
डाकिनी शाकिनीभूतगणप्रमथगुह्यकाः।
कूष्माण्डाः पर्पटाश्चैव चटका ब्रह्मराक्षसाः ।। १३८ ।।
भैरवाः क्षेत्रपालाश्च वेतालाश्च विनायकाः ।
निर्ययुस्त्वरितं वीरा दक्षयज्ञविनाशकाः ।। १३९ ।।
तथैव योगिनीचक्रं चतुःषष्टिगणान्वितम् ।
निर्ययौ सहसा क्रुद्धं कोटिवेतालिनीयुतम् ।। 1.176.१४० । ।
अभ्ययाच्छंकुकर्णश्च दशकोट्या गणेश्वरः ।
दशभिः केकराक्षश्च विकृतोऽष्टाभिरित्यपि ।। १४१ ।।
चतुःष्या विशाखश्च नवभिः पारियात्रिकः ।
षड्भिः सर्वांकको वीरस्तथैव विकृताननः ।। १४२।।
ज्वालकेशो द्वादशकोटिभिर्जीमाँस्तु सप्तभिः ।
दुद्रुभोऽष्टाभिः कोटिभिः कपालीशस्तु पंचभिः ।। १४३ ।।
षड्भिः संदारको यायात् कोकुण्डः कोटिकोटिभिः ।
विष्टंभोऽष्टाऽष्टभिर्यायात् कोटिभिर्गणसत्तमः ।। १४४।।
सहस्रकोटिभिर्यायात् शंनादः पिप्पलस्तथा ।
आवेशानस्तथाऽष्टाभिरष्टाभिश्चन्द्रतापनः ।। १४५ ।।
महावेशः सहस्रेण कोटिना गणपस्तथा ।
कुण्डी द्वादशकोटिभिस्तथा पर्वतको ययौ ।। १४६ ।।
कालश्च कालकश्चैव महाकालस्तथा गणः ।
कोटीनां शतकेनैव यज्ञनाशं ययुः प्रति ।। १४७।।
अग्निकृच्छतकोट्या च कोट्याऽग्निमुख इत्यपि ।
आदित्यमूर्धा कोट्या च तथा कोट्या घनावहः ।। १४८ ।।
सन्नाहः शतकोट्या च कोट्या च कुमुदो गणः ।
अमोघः कोकिलश्चैव कोटिकोट्या गणाधिपः ।। १४९।।
काष्ठागूढश्चतुःषष्ट्या सुकेशी वृषभस्तथा ।
सुमन्त्रको गणाधीशस्तथा यज्ञं विनिर्ययुः ।। 1.176.१५० ।।
काकपादोदरः सन्तानकश्च षष्टिकोटिभिः ।
महाबलः पुंगवश्च नवभिः कोटिभिस्तथा ।। १५१ ।।
मधुपिंगः पूर्णभद्रो नवतिकोटिभिर्ययौ ।
विरूपाक्षस्तालकेतुः षडास्यः पंचवक्त्रकः ।। १५२।।
संवर्तकः कुलीशो दैत्यान्तो लोकान्तकस्तथा ।
भृंगीरिटिः शृंगिरिटिरशनिर्भालकस्तथा ।। १५३ ।।
चतुःषष्ट्या सहितास्ते प्रत्येकमध्वरं ययुः ।
भूतकोटिसहस्राणि श्वगणस्तिसृकोटिभिः ।। १ ५४।।
न्यपतद्व्योममार्गेण दक्षस्याऽध्वरभूमिषु ।
तया भेर्यश्च शंखाश्च पटहाश्चापि गोमुखाः ।। १५५।।
शृंगाणि विविधान्येव निनेदुश्च रणोत्सवे ।
दक्षवामाक्षि बाहूरुविस्पन्दः समजायत ।। १५६।।
भूकम्पोऽभूच्च मध्याह्ने दक्षोऽपश्यन्नक्षत्रकम् ।
दिशो मलीम्लुचस्त्वासन् निस्तेजोऽभूद्दिवाकरः ।। १५७।।
परिवेषैः सप्तभिश्च परिवृतो भयप्रदः ।
नक्षत्राणि पतन्ति स्माऽकालिकस्तनयित्नवः ।। १५८।।
नक्षत्राणामभूद्वक्रा गतिश्चाधोमुखी तदा ।
गृध्रो दक्षशिरः स्पृष्ट्वा ययौ नीत्वा शिरःपटम् ।। १५९।।
ववाशिरे च जम्बूकाः खरा वाता ववुस्तदा ।
उल्कावृष्टिः पांसुवृष्टिः श्वेतवृश्चिकवर्षणम् ।। 1.176.१६० ।।
अर्बुदाऽर्बुदशलभा दृश्यन्ते स्म मखांऽबरे ।
नीतश्च पवनैरूर्ध्वं दक्षस्याऽध्वरमण्डपः ।। १६ १।।
वेमुः रक्तं याज्ञीयास्ते सकम्पा बभूवुस्तदा ।
असृग्वृष्टिर्दिशां दाहस्तिमिरावृतिका दिशः ।। १६२।।
एवंविधान्यरिष्टानि चाद्राक्षुर्दक्षयज्ञगाः ।
भुवि ते मूर्छिताः पेतुर्हा हताः स्मेति चैरयन् ।। १६३।।
एतस्मिन्नन्तरे तत्राकाशवाणी जगाद तान् ।
धिक् दक्ष धिक् सुराद्या वोऽनिवार्यं दुःखमागतम् ।। १६४।।
तावत्तु शंभुसैन्यानि प्रविष्टानि मखांगणम् ।
भयाऽऽविष्टस्तदा दक्षो ह्यगच्छच्छरणं हरेः ।। १६५ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सतीपार्षदानां युद्धं, दक्षाय व्योमवाणी, नारदस्य पुनः कैलासगमनं, शंभुजटातो वीरभद्रोत्पत्तिः, अवशेषगणानां कैलासागमनम्, कालिकाज्वरगणभूतसिंहादिसैन्यसर्जनम्, यज्ञं प्रति प्रेषणम्, नारदस्य यज्ञं प्रत्यागमः, दक्षादेरपशकुनानि चेत्यादि निरूपणनामा षट्सप्तत्यधिकशततमोऽध्यायः ।। १७६ ।।