लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १७५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १७५
[[लेखकः :|]]
अध्यायः १७६ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कलहस्य गृहं रुद्रगृहं गतम् ।
द्वयोर्वै गृहयोरैक्ये किमनिष्टं न जायते ।। १ ।।
नारदो व्योममार्गेण प्राप्य वै धाम शांकरम् ।
क्षणं तत्र महोद्याने कैलासेऽवातरद्भुवि ।। २ ।।
विशश्राम हरिं ध्यायन् सती तदन्तरे बहिः ।
तस्मिन्नेवोद्यानवर्येऽविहरत् स्वसखीयुता ।। ३ ।।
तया दृष्टानि व्योम्न्येव स्वर्गात्पृथ्वीं पतन्ति वै ।
विमानानि भगिनीनां दासदासीयुतानि च ।। ४ ।।
पतिभिः कृतशृंगारप्रभृतीनां महान्ति हि ।
स्वसखीं विजयां प्राहाऽऽलोक्य सती तु रोहिणीम् ।। ५ ।।
रे सखीप्रवरे पश्य रोहिणी भगिनी मम ।
चन्द्रयुक्ता विमानस्था क्व याति पृच्छ सत्वरम् ।। ६ ।।
शीघ्रं तु विजयाऽऽपृच्छ्य ज्ञात्वा यज्ञोत्सवादिकम् ।
दक्षगृहे वर्ततेऽतस्तत्र यातीति चाह ताम् ।। ७ ।।
तावदन्यविमानानि प्रयान्ति व्योममार्गतः ।
तान्यप्यालोक्य बहुधा सती चेतस्यचिन्तयत् ।। ८ ।।
दक्षः पिता मम माता ह्यसिक्नी वीरिणी तथा ।
आह्वानं मे न कुर्वन्ति विस्मृताः किं सतीं सुताम् ।। ९ ।।
पृच्छेयं कारणं तत्र शंकरं सर्वमादरात् ।
विचार्येत्थं ययौ तूर्णं सती तु शंकरान्वितम् ।। 1.175.१ ०।।
सत्कृता शंकरेणाऽथ सत्युवाच प्रभुं तदा ।
पितुर्मम महान् यज्ञो भवतीति मया श्रुतम् ।। ११ ।।
तत्रोत्सवो महानस्ति समवेता महर्षयः ।
तत्र कथय गमनं कस्मात्तव न रोचते ।। १२।।
आवाभ्यां तत्र गन्तव्यं बहूनां दर्शनं भवेत् ।
शंभुः प्राह सति दक्षो मम द्रोही विशेषतः ।। १ ३।।
पितुस्तवाऽध्वरे प्राप्ता मानिनो ज्ञानवर्जिताः ।
तत्र यजने मे स्थानं नास्ति यावः कथं सति ।। १४।।
अनाहूतास्तु ये यान्ति परगृहं तु ते जनाः ।
प्राप्नुवन्त्यवमानं यन्मरणादतिरिच्यते ।। १५।।
परालयं गतोऽपीन्द्रो लघुर्भवति वै यतः ।
तस्मात् त्वया मया चापि न गन्तव्यं हि तद्गृहम् ।। १६।।
शत्रुशरैः प्रविद्धोऽपि न तथा व्यथते जनः ।
यथा स्वजनरूक्षोक्तैर्मर्मभेदिभिरर्द्यते ।। १७।।
ममोपरि तपस्तप्तं तस्मान्मया विवाहिता ।
न चेत् तप्तं मादृशस्तु कथं पाशेऽत्र संपतेत् ।। १८।।
विद्यैश्वर्यादिभिर्जाते गर्वे खलाः सतां गुणान् ।
गणयन्त्येव नहिते नाऽऽद्रियन्ते महाजनान् ।। १९।।
श्रुत्वैतत्सहसा देवी प्राह स्वप्राणरक्षकम् ।
कथं दक्षेण नाऽऽहूतौ ज्ञातुमिच्छामि तत्त्वतः ।।1.175.२०।।
अनुज्ञां देहि मे नाथ गन्तुं दक्षमखेऽद्य वै ।
शंभुः प्राह सतीं साध्वि गन्तुं ते प्रबला रुचिः ।।२१।।
यद्यस्त्यारुह्य वृषभं सज्जं भूषितमेव च ।
महाराज्ञ्युपचाराणि कृत्वा नीत्वा गणान्बहून् ।।।२२।
सुभूषिता गच्छ यज्ञं छत्रचामरलक्षिता ।
इत्येतदन्तरे तत्र नारदोऽप्यागतो हरम् ।।।२३।।
दृष्ट्वा शिवौ प्रणम्याथ शंभुना सत्कृताऽऽदरः ।
तत्प्रदत्तासने रम्ये ह्युपाविशन्महामुनिः ।।२४।।
शंभुः प्राह कथं दत्तं दर्शनं भवता मुने ।
अस्ति किंचिद्विचित्रं चेद्ब्रूहि शीघ्रं च मा चिरम् ।।।२५।।
इत्याज्ञां प्राप्य देवर्षिः वृत्तं तत्प्राह शंकरम् ।
अद्य नीलगिरेश्चाऽहं हरिद्वारसमीपतः ।।२६।।
अपूर्यमिव संवीक्ष्य परिप्राप्तस्तवान्तिकम् ।
त्रैलोक्ये यच्च पुंजातं सकलत्रसुतादिकम् ।।२७।।
सालंकारं समानं च सानन्दमुखपंकजम् ।
दृष्टं दक्षाध्वरे किन्तु भवद्द्वन्द्वं न लोकितम् ।।२८।।
प्रायो विषादजनकं तत्र युष्मददर्शनम् ।
दक्षस्य मर्मभेदीनि वचनानि श्रुतानि वै ।।।२९।।
तानि वक्तुं न शक्यानि श्रुत्वा त्वद्गर्हणागिरः ।
मया तु पिहितौ कर्णौ प्रत्युक्तानि दधीचिना ।।1.175.३०।।
दक्षः शप्तः क्रतुं त्यक्त्वा दुर्वासः प्रमुखा द्विजाः ।
शंभुनिन्दां समाकर्ण्य कियन्तस्तु विनिर्ययुः ।।३ १।।
प्रावर्तत महायागो दक्षपक्षातिपातिभिः ।
भगिन्यस्तत्र यास्ते ताः स्वस्वामिपरिचारिकाः ।।३२।।
दक्षतो गौरवं प्राप्तास्तद्वक्तुं नाहमुत्सहे ।
तत्रोऽत्रार्थे विधेयं तद्विधीयेतां प्रयाम्यहम् ।।३३।।
गते तु नारदे देवी प्रांजलिः प्राह शंकरम् ।
विजयस्वाऽन्धकध्वंसिन्! देह्यनुज्ञां मम प्रभो ।।३४।।
गत्वा पश्यामि दुष्टत्वं कथमावां निराकृतौ ।
शंभुः प्राह प्रियां यज्ञो गन्तव्यार्थो न भाति मे ।।३५।।
किमपूर्णं तवाऽस्त्यत्र मा परीक्षाकृतेऽप्यगाः ।
कुतो मां हातुमिच्छेस्त्यं गमने शं न दृश्यते ।।३६।।
सती प्राह मनो मे ते पादयोः स्थास्यति ध्रुवम् ।
क्रतुं द्रष्टुं पितुर्यामि नैक्षि यज्ञो मया क्वचित् ।।३७।।
शंभुः प्राहाऽधरेक्षा चेदाहरामि ततः क्रतुम् ।
क्रतुं क्रियां तथा यज्ञपुरुषं लोकपालकान् ।।३८।।
अन्यानाशु विधेहि त्वमृषीनार्त्विज्य कर्मणि ।
सती प्राह निषेधीर्मा द्रष्टव्यः पितुरध्वरः ।।३९।।
शंभुः प्राह तदा देवीं नारीहठाधिरोहिताम् ।
अद्य देवि पश्चिमायां दिक्शूलं वासरोऽशुभः ।।1.175.४०।।
तिथिनक्षत्रयोगाश्च विपरीता भवन्ति वै ।
मा गा देवि गताऽद्य त्वं नहि द्रक्ष्यसि मां पुनः ।।४१ ।।
तदा सती बभाषे यत् यदि नाम्नाऽस्म्यहं सती ।
तदा तन्वन्तरेणापि करिष्ये तव दासताम् ।।४२।।
तदा भवः पुनः प्राह को वा वारयितुं क्षमः ।
हठव्याप्तमनोवृत्तिं स्त्रियं वा पुरुषं च वा ।।४३।।
मा याहि देवि मां हित्वा गता त्वं न मिलिष्यसि ।
परं न देवि गन्तव्यं महामानधनेच्छुभिः ।।४४।।
अनाहूततया कान्ते मातापितृगृहानपि ।
पुनर्न दर्शनं देवि मम सत्यं ब्रवीम्यहम् ।।४५।।
देव्युवाच यदि रक्ता तव पादाम्बुजद्वये ।
तथा त्वमेव मे नाथो भविष्यसि भवान्तरे ।।४६।।
इत्युक्त्वा निर्ययौ देवी हठाऽन्धीकृतमानसा ।
न ननाम तदा शंभुं न च चक्रे प्रदक्षिणम् ।।४७।।
अत एव हि सा देवी गता न पुनरागता ।
देवोऽपि तां सतीं यान्तीं दृष्ट्वा तु विव्यथे हृदि ।।४८ ।।
गणान्प्राह सह देव्या गच्छन्तु सैन्यशालिनः ।
विमानं शांकरचिह्नमारुह्य यातु वैं सती ।। ४९ ।।
देवी विमानमारुह्य याता यज्ञस्थलांऽगणम् ।
सुछत्रचामरादीनि सद्वस्त्राभरणानि च ।।1.175.५० ।।
महाराज्ञ्युपचाराणि दत्तानि शंकरेण वै ।
गणाः षष्टिसहस्राणि रौद्रा जग्मुः शिवाज्ञया ।।५ १ ।।
हेतिसज्जाः सयानाश्च कुतूहलोत्सवान्विताः ।
नभोऽङ्गणाद्विमानस्था सा तु वेगादवातरत् ।। ५२ ।।
आविशद्यज्ञवाटं च हर्षस्तस्या व्यवर्धत ।
शिवप्रियायाः सत्कारो वामदेवादिभिः कृतः ।।५३ ।।
कुतूहलं गणाश्चक्रुः शिवयोर्यश उज्जगुः ।
पुप्लुवुः कूर्दनं चक्रुराकाशे गणपुंगवाः ।।५४।।
जयाऽम्बिके जय शंभो ह्यारावैः पूरितं जगत्। ।
दाक्षायणी गता तत्र यज्ञस्थले महाप्रभे ।।६५ ।।
सुराऽसुरमुनीन्द्रादिकुतूहलसमन्विते ।
नमस्कृत्याऽग्निदेवं च समाजं मण्डपस्थितम् ।।५६ ।।
जगाम जलपानाय स्वपितुर्भवनं ततः ।
ददर्श सुप्रभं चारु नानाश्चर्यसमन्वितम् ।।।५७।।
मातृस्वसृदुहितृतत्सुतासुतादिसंश्रितम् ।
आगतां च सतीं दृष्ट्वाऽसिक्नी च वीरिणी तथा ।।५८ ।।
चक्रुः समादरं तस्या भगिन्यश्च यथोचितम् ।
ददुः सलिलपानादि चासनं सुखशान्तिदम् ।।५९ ।।
विश्रम्य च क्षणं नत्वा मातरं भगिनीस्ततः ।
अवरुह्यासनात् शीघ्रमेकैवाऽगच्छदध्वरम् ।।1.175.६ ० ।।
तत्र स्वपितरं नत्वा तथाऽन्यान्वृद्धपुंगवान् ।
कृतमंगलनेपथ्याः प्रसूश्चान्याः किरीटिनीः ।। ६१ ।।
सभर्तृकाश्च भगिनीर्नवाऽलंकृतिशालिनीः ।
ज्येष्ठाः कनिष्ठाः साश्चर्याः सानन्दाश्च कुटुम्बिनीः ।।।६२।।
सती चाहो समायातेत्याश्चर्येण प्रपश्यतीः ।
सर्वा नत्वा वृद्धमातृसमाश्च हरवल्लभा ।।६३ ।।
मण्डपस्थसमाजे सा गता दक्षान्तिकं सती ।
पित्रा पृष्टा च मात्रा च भद्रंं जातं तवागमे ।। ६४।।
एहि तिष्ठ प्रियपुत्रि! जामाता स्विदनामयः! ।
तेऽपि स्वर्ग्यं सुखं नित्यं निराबाधं स्विदस्ति वै ।। ६५।।
सत्युवाच यदि वृद्धौ सुखिनौ चास्मि सुख्यहम् ।
युवयोश्चापि जामाता शिवः सुखी सदाऽस्ति वै ।।६६।।
दुःखमात्रं प्रसंगेऽत्र यददर्शनमेव यत् ।
येन यज्ञः परिपूर्णो भवेत् सोऽत्र न विद्यते ।।६७।।
यदि भद्रं जनेतर्मे समागमनतो भवेत् ।
कथं शंभुरहं नैवाऽऽहूतौ चात्र महोत्सवे ।।६८ ।।
अन्ये जामातरः पुत्र्यः समाहूताः प्रसंगतः ।
सतीं शंभुं परित्यज्य कुतो भद्रं शुभं तव ।। ६९ ।।
अभद्रं ह्यशुभं चात्र पश्यामि च क्षणान्तरे ।
इति संभाष्य मुमोचाऽश्रुबिन्दून् पितुरन्तिके ।।1.175.७ ० ।।
दक्षः प्राह अयि पुत्रि महाधन्येऽतिमंगले ।
तव दोषो मनाङ्नास्ति मा शोकं कुरु मानसम् ।।७ १ ।।
जह्युद्वेगं सुखं तिष्ठ मम दोषोऽस्ति सर्वथा ।
यन्मयाऽबुद्धिना कन्यारत्नं शर्वेऽपवर्जितम् ।।७२ ।।
यदहं तत्समाज्ञास्यमीशोऽपनीश आन्तरे ।
तदा कथमदास्यं त्वां मायाधिपतये शुभे ।।७३ ।।
अहं शिवाभिधानेन वञ्चितोऽशिवकर्मणि ।
ब्रह्मणा बहुधा सोऽयं प्रशंसितो ममाऽग्रतः ।।७४।।
शंकरोऽयमयं शंभुः शिवः सार्थकनामवान् ।
देह्यस्मै च सतीं कन्यां तद्योग्या सर्वथाऽस्ति सा ।।७५ ।।
श्रीकण्ठोऽसौ महेशोऽसौ सर्वज्ञो वृषभध्वजः ।
धन्वी सार्थकनामाऽसौ देह्यस्मै ते सतीं सुताम् ।।७६।।
इति विश्वासमाधाय दापिता त्वं हि वेधसा ।
न ज्ञातः स विरूपाक्ष उक्षगो विषभक्षकः ।।७७।।
पितृकाननसंवासः शूलधृक्च कपालधृक् ।
द्विजिह्वसंगसुभगो जलाधारः कपर्दवान् ।।७८ ।।
कलंकिकृतमौलिश्च धूलीधूसरचर्चितः ।
क्वचित्कौपीनवसनो नग्नो वातूलवत् क्वचित् ।।७९ ।।
क्वचित्तु चर्मवसनः क्वचिद्भिक्षाटनप्रियः ।
विरूपभूताऽनुचरः स्थाणुरुग्रस्तमोगुणः ।।1.175.८ ० ।।
रुद्रो रौद्रपरीवारो महाकालवपुर्धरः ।
नृकरोटीपरिकरो जातिगोत्रविवर्जितः ।।८ १ ।।
ब्रह्मणा गुणवानुक्तो जानानोऽहं प्रतारितः ।
किम्बहूक्तेन तनये समस्तनयशालिनि! ।।८ २ ।।
क्व पांसुलपटच्छन्नो महाशंखविभूषणः ।
प्रबद्धसर्पकेयूरः प्रधूसरजटासटः ।।८ ३ ।।
डमड्डमरुकव्यग्रहस्ताग्रः खण्डचन्द्रभृत् ।
ताण्डवाऽऽडम्बररुचिः सर्वाऽमंगलचेष्टितः ।।८४।।
एवंविधो हरः क्वाऽयमध्वरो मंगलालयः ।
अत एव समाहूतौ युवां न मंगलेऽध्वरे ।।८५ ।।
दुकूलान्यनुकूलानि रत्नालंकरणानि च ।
हारश्रेष्ठा विभूषाश्च प्रागेव त्वत्कृते मया ।।८६ ।।
रक्षितास्तान्पश्य पुत्रि! सर्वान् श्रेष्ठान् गृहाण च ।
शंकरार्थमपि पुत्रि यद्यन्नेतुं समीहसे ।।८७ ।।
तत्सर्वं सह नेतव्यं यज्ञपूर्त्युत्तरं सति! ।
यावदेतास्तव सख्यः स्वसारश्चोषिता मखे ।।८८ ।।
तावत् ततोऽप्यधिकं त्वं वसात्र तव रोचते ।
श्रुत्वाऽतिदूनहृदया सती वक्तुं प्रचक्रमे ।।८९ ।।
भागानपश्यद् देवानां हर्यादीनां तदध्वरे ।
शंभुभागमनालोक्य कष्टं वक्तुं प्रचक्रमे ।। 1.175.९० ।।
नाऽऽकर्णितं मया किंचित् प्रब्रूवति पितस्त्वयि ।
पदद्वयीं समाकर्ण्य तां च ते कथयाम्यहम् ।। ९१ ।।
मायाऽधिपतिरेवाऽयं जानानोऽपि प्रतारितः ।
एतत्सत्यं त्वयाऽऽख्यायि मायाऽधिपतिरेव सः ।। ९२।।
परब्रह्मपरमात्मा शिवरूपेण वर्तते ।
मायान्वितश्च मायाया व्यतिरिक्तः शिवः स वै ।। ९३ ।।
त्वं च प्रतारितः पूर्वमधुनाऽपि प्रतारितः ।
अज्ञात्वा दत्तवान् कन्यां दत्त्वाऽसम्बद्धमुच्यते ।। ९४।।
तादृशो मन्यते शंभुः कुतो मामददास्तदा ।
न हेतुस्ते मतिस्तत्र हेतुर्मत्पुण्यगौरवम् ।। ९५।।
येन पूतमिदं विश्वं समग्रं सचराचरम् ।
यज्ञो यज्ञविदां श्रेष्ठो यज्ञांगो यज्ञदक्षिणः ।। ९६ ।।
यज्ञकर्ता स्वयं शंभुस्तं विना तु कथं मखः ।
मखः स्यान्मम देहस्य पश्य दक्ष क्षणान्तरे ।। ९७।।
यस्य स्मरणमात्रेण सर्वं पूतं भवत्यहो ।
तं तु शंभुं विना सर्वं कृतं चाऽकृतमेव तत् ।। ९८ ।।
द्रव्यमन्त्रादिकं सर्वं हव्यं कव्यं च यन्मतम् ।
शंभुना हि विना कृतमपवित्रं भविष्यति ।। ९९। ।
किं शिवं सुरसामान्यं मत्वाऽकार्षीरनादरम् ।
भ्रष्टा बुद्धिस्तव जाता वार्धक्ये इव सर्वथा ।। 1.175.१०० ।।
विष्णुब्रह्मादयः सर्वे यं जानन्ति परेश्वरम् ।
त्व न जानासि तं शंभुं मा जानीहि तथोत्तरम् ।। १०१ ।।
एते कथं समायाता विष्णुब्रह्मादयोऽध्वरे ।
जानन्तोऽपि विना शंभुं लज्जन्ते न मुखदृशः ।। १०२ ।।
हे विष्णो त्वं महादेवं त्यक्त्वा यज्ञेऽत्र दृश्यसे ।
न लज्जसे सदा मित्रं विस्मृत्याऽत्र प्रवर्तसे ।। १०३ ।।
रे ब्रह्मँस्त्वं पंचमुखोऽभूर्गर्विष्ठो हरं प्रति ।
कृतश्चतुर्मुखस्तेन विस्मृतोऽसि तदद्भुतम् ।। १ ०४।।
यदि क्रुद्धो महादेवश्चत्वार्यपि विनेष्यति ।
हे सूर्य चन्द्र चेन्द्रादे न स्विज्जानथ शंकरम् । । १०५ । ।
वशिष्ठाद्याश्च मुनयो न वै जानथ शंकरम् ।
वज्रं प्रज्वालितं येन कामः प्रज्वालितस्तथा । । १०६ । ।
दारुवने लिंगपाते येन प्रज्वालितं जगत् ।
प्राग्भवीयाँश्चमत्कारान् किंस्विद् विस्मरथाऽत्र हि ।। १०७ ।।
स यदि क्रोधमापन्नो युष्माकं किं भविष्यति ।
सर्वे कां मूर्खतां प्राप्ता विना शंभुं प्रतिष्ठथ । । १०८ ।।
इति त्वेकविधा वाचोऽगदन्मखे महेश्वरी ।
कौपान्विता सती तत्र हृद्येन विदूयता ।। १०९ ।।
मौनी भूतोऽभवच्छ्रुत्वा समाजो भयविह्वलः ।
शृणु लक्ष्मि ततो दक्षः क्रुद्धोऽब्रवीत् क्षयकरम् । । 1.175.११० ।।
तव किं बहुनोक्तेन न ते कार्यं हि साम्प्रतम् ।
गच्छ वा तिष्ठ वा पुत्रि कस्माच्चात्र समागता । । १११ ।।
सर्वपूज्याऽवमानं त्वं करोष्यागत्य चाऽध्वरे ।
गच्छ मौनं वस वाऽत्र नाऽऽहूताऽसि विलज्जिके ।। ११२ ।।
अमंगलस्तु ते भर्ता भूतप्रेतपिशाचराट् ।
अकुलीनो वेदबाह्यः नाऽऽहूतोऽत्र मया तदा । । ११३ ।।
देवर्षिसंसदि वेधःप्रेरितेन मयाऽर्पिता ।
मन्दभाग्येन रुद्रायाऽविदितार्थाय किं भवेत् । । ११ ४।।
कोपं मा व्रज रुद्राणि! स्वस्था भव शुचिस्मिते ।
यद्यागताऽसि मे यज्ञे दायं गृह्णीष्व चात्मना ।। ११५ ।।
श्रुत्वाऽथ सा सती शंभोर्निन्दामचिन्तयत् हृदि ।
दायं नीत्वाऽपि किं मे स्यात्कथं वै यामि शंकरम् ।। ११६ । ।
शंकरेण यदि पृष्टा तत्र वक्ष्ये किमुत्तरम् ।
तस्मादत्रैव मर्तव्यं प्राप्स्ये देहान्तरे हरम् ।। ११७ ।।
इति निर्णीय पितरं निःश्वसन्ती ह्युवाच ह ।
किं जीवितेन मे तात! शृण्वन्त्या पतिगर्हणाम् ।। ११८ ।।
यो निन्दति महादेवं निन्द्यमानं शृणोति वा ।
तावुभौ नरकं यातौ यावच्चन्द्रदिवाकरौ ।। ११९ ।।
यदि शक्तो निन्दकस्य जिह्वां छिन्द्यात्प्रसह्य वै ।
यद्यशक्तः सुपिधाय कर्णौ गच्छेत् स्थलान्तरम् । । 1.175.१२ ० ।।
शंभुना तु निषिद्धाऽपि प्रसह्याऽत्र समागता ।
फलं तस्याऽत्र मे प्राप्तं क्व गन्तव्यं मयाऽधुना ।। १२ १ ।।
अस्मरच्छांकरं वाक्यं पश्चात्तापमवाप सा ।
सा संक्रुद्ध्य मुनीन्देवान् दक्षं निःशंकमाह यत् ।। १ २२।।
तात त्वं निन्दकः शंभोः पश्चात्तापं गमिष्यसि ।
माऽयं धूम्रो तव याज्ञो वृष्टिहेतुर्भवेदिह ।। १२३।।
अश्रुहेतुर्भवेदेवाऽऽगतानां यज्ञभोगिनाम् ।
स्फुटं भ वन्तः शंभोस्तु प्रतीपा मिलिताः खलु ।। १ २४।।
प्रतीपानां प्रतीपं संकरिष्ये यज्ञमार्जनम् ।
शंभुं विना न यज्ञः स्यात् करिष्येऽग्निप्रतोषणम् ।। १२५।।
दक्षः स्वीयं जुहोत्यग्नौ स्वीयेऽपि गणना मम ।
स्वं स्वीयं च जुहोत्यग्नौ करिष्ये हवनं मम ।। १ २६।।
किं बहूक्तेन वचसा दक्षो हरे सदा कुधीः ।
तदुद्भवेन देहेन न मे किंचित्प्रयोजनम् ।। १२७।।
तज्जन्म धिक् यन्महतामवज्ञापादकं भवेत् ।
परित्याज्यो विशेषेण जन्मसम्वन्ध एव वै ।। १२८।।
वैमनस्ये सदा शंभुर्दाक्षायणीति वक्ति माम् ।
तस्माद्दक्षांगजं चैतत्कुणपं गर्हितं सदा ।। १२९।।
व्युत्सृष्टव्यं नूनमत्र प्रोज्झितव्यं तु वह्नये ।
यावज्जीवितनाथस्य न श्रोतव्या विगर्हणा ।। 1.175.१३०।।
सत्यन्तिमं वचः प्राह नश्यन्तु शिवनिन्दकाः ।
अहं तु क्रोधदीप्ताग्नौ महादेवस्वरूपिणि ।। १३ १।।
जुहोमि देहसमिधं प्राणरोधविधानतः ।
एवमुक्त्वा सती प्राणायामं चक्रे शनैस्तदा ।। १ ३२।।
प्राणरोधः कृतः सत्या सुदृढस्तावदेव वै ।
सर्वेषां च सुरादीनां प्राणरोधोऽभवत्तदा ।। १३३।।।
नाग्निर्जज्वाल च तथा यथाऽऽज्याहुतिभिः पुरा ।
मन्त्राः कुण्ठितसामर्थ्यास्तत्क्षणादेव चाऽभवन् ।। १३४।।
महाझन्झानिलः प्राप्तः पर्वतान्दोलनक्षमः ।
मखमण्डपभूस्तेन क्षणतः स्थपुटीकृता ।। १३५।।
अकाण्डतडिदापातो जातोऽभूद्भूप्रकम्पनः ।
दिवश्चोल्काः प्रपतिताः पिशाचा नृत्यमादधुः ।। १३६।।
आपतद्ग्रध्रैरुपरि गगने मण्डलायितम् ।
तत्र पुरस्तादशिवं शिवाः क्रूरमरारिषुः ।। १३७।।
मेघा रुधिरवर्षाभिस्तत्राहुश्चात्यमंगलम् ।
निर्घातनिःस्वनो भूमेरुत्थितो हृत्प्रकम्पनः ।। १३८।।
दिव्यायुधानि च मिथो युद्ध्यन्ति स्माऽतिभीषणम् ।
हवनीयं महाद्रव्यं दूषितं क्रोष्टृभिः श्वभिः ।। १ ३९।।।
सत्याः प्राणनिरोधाश्च सर्वरोधेन तत्तदा ।
श्मशानवाटवज्जातं निष्क्रियं मखभूतलम् ।। 1.175.१४० ।।
यद्यत्राऽभूच्च विन्यस्तं तत्तत्रैव व्यवस्थितम् ।
चित्रन्यस्तमिवाऽऽसीश्च प्राणरोधबलात्तथा ।। १४१।।
सुजडा इव संजातास्तदा चक्रधरादयः ।
देवी प्राणं बहिर्नीत्वा शमयामास भीषिकाम् ।। १४२।।
चमत्कारो दर्शितोऽयं देव्या तथापि दक्षराट् ।
शंकराऽऽह्वानवचनं नोवाच माननष्टधीः ।। १४३।।
मौनीभूता सती स्मृत्वा शंभुं स्वपतिमादरात् ।
पृथ्व्यां पुनः सा सहसा निषसाद प्रशान्तधीः ।। १४४।।
जलमाचम्य विधिवत् संवृता वाससा शुचिः ।
दृङ्निमील्य पतिं स्मृत्वा योगरीतिमुपाददे ।। १४५।।
कृत्वा समाने ह्यनिलौ प्राणापानौ तथा पुनः ।
उत्थाप्योदानसमानौ नाभिचक्रात्परं गता ।। १४६।।
हृदिस्थाप्योरसि नीत्वा नीत्वा कण्ठाद् भ्रुवोः सती ।
मध्यमानीय द्युरन्ध्रं सा जगाम त्वरान्विता ।। १४७।।
अग्निमुत्पादयामास ब्रह्मरन्ध्रस्थिता सती ।
ब्रह्मरन्ध्राग्निना देहो जाज्वल्यमान एव वै ।। १४८।।
आकाशमुत्थितो व्योम्ना चाग्निकुण्डे ह्यवातरत् ।
भस्मसादभवत् कुण्डे सती समाजगोचरा ।। १४९।।
तत्पश्यतां च खे भूमौ हाहाकारो व्यवर्तत ।
हाहाभूच्च जगत्सर्वं भीता विष्णुसुरादयः ।। 1.175.१५०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सत्या व्योम्ना स्वसृविमानावलोकनम्, दक्षयज्ञे गमनाय शंभोराज्ञा, कैलासे नारदागमनं, यज्ञाद्दधीचिनिर्गमः,
यज्ञे सती गमनं, शंकराऽऽसनाऽदर्शनं,सतीदक्षवाक्यानि, सतीदेहत्यागइत्यादिनिरूपणनामा पंचसप्तत्यधिकशततमोऽध्यायः ।। १७५।।