लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १६४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १६४
[[लेखकः :|]]
अध्यायः १६५ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततस्तेषां युद्धारंभो बभूव ह ।
सन्नद्धाः सैनिकाः सर्वे समुत्पेतुरुदायुधाः ।। १ ।।
महिषश्च तदा देवीं ददर्शाऽग्निसमोज्ज्वलाम् ।
हेतुसूर्यचमत्कारां धनुर्ज्यास्वनकारिणीम् ।। २ ।।
क्षोभिताऽशेषसैन्यां तां किरीटोल्लिखिताऽम्बराम् ।
दिशो भुजसहस्रेण परितो व्याप्य संस्थिताम् ।। ३ ।।
मुमोह बहुधा दैत्यो विजेतुं कृतनिर्णयः ।
युद्धं प्रववृते घोरं दिविषदां सुरद्विषाम् ।। ४ ।।
शस्त्रास्त्रेर्बहुधा मुक्तैर्व्याप्तं जातं दिगन्तरम् ।
महिषासुरसेनानीश्चिक्षुरो युयुधेऽमरैः ।। ५ ।।
रथानामयुतैः षड्भिरुदग्रो युयुधेऽमरैः ।
अयुध्यताऽयुतानां च सहस्रेण महाहनुः ।। ६ ।।
असिलोमा च युयुधे पञ्चाशन्नियुतैस्तदा ।
बाष्कलो युयुधे तत्राऽयुतानां षट्शतैस्तदा ।। ७ ।।
गजवाजिरथाऽसंख्यसाधनैर्व्योमचारिभिः ।
बिडालो युयुधे तत्राऽयुतानामयुतैः रथैः ।। ८ ।।
अन्येऽपि तत्र दैतेया दानवाश्चाऽयुताऽयुतैः ।
हयैर्नागैः रथैर्यानैः शस्त्रास्त्रैः पत्तिभिस्तथा ।। ९ ।।
युयुधुः संयुगे देवैर्देव्या सह च तेऽसुराः ।
तोमरैर्भिन्दिपालैश्च मुशलैरसिभिस्तथा ।। 1.164.१ ०।।
गदाभिः शक्तिभिः खड्गैः परशुभिश्च पट्टिशैः ।
युयुधे दानवा देवा यथाबुद्धिबलोदयम् ।। ११ ।।
देवीं देवाँस्तदा हन्तुं चिक्षिपुर्दानवा मुहुः ।
शस्त्राणि तानि चिच्छेद लीलया सा निजायुधैः ।। १ २।।
क्षिप्रहस्ता च सा शस्त्राण्यस्त्राण्यसुरसैन्यके ।
मुमोच चण्डिका शीघ्रं जघानाऽऽसुरसैन्यकम् ।। १३ ।।
विप्रकीर्णं समस्तं च दैत्यदानवमण्डलम् ।
चिच्छेद प्रायशो देवी सस्यानीव तु कर्षुकः ।। १४।।
अथाऽन्ये दानवाः संजीवन्या वै विद्यया तदा ।
छिन्ना अप्युत्थिता भूत्वा तया युयुधिरे सह ।। १५।।
देवास्तान्नाशयामासुर्बाणौघैः शस्त्रवृष्टिभिः ।
देवी धनुः समाकृष्याऽहनद्वै दानवं बलम् ।। १६ ।।
बाणौघैर्दिव्यतीक्ष्णास्त्रैश्चिच्छेद बहुधा बलम् ।
काँश्चित्तु गदया तीक्ष्णाऽसिना काँश्चित्तु तोमरैः ।। १७।।
पाशेन काँश्चित्तत्रैव शक्त्यर्ष्टिपरिघैस्तथा ।
चक्रेण काँश्चिद् देवी तान् निजघान महेश्वरी ।। १८।।
काँश्चित्तु कुलिशैः काँश्चिन्मुशलेन जघान सा ।
युध्यमाना रणे देवी निःश्वासान् मुमुचे बहून् ।। १ ९।।
ते सर्वे तु तदा देवीश्वासोत्पन्नाः गणेश्वराः ।
युयुधिरेऽस्त्रशस्त्रैश्च निजघ्नुर्दैत्यदानवान् ।।1.164.२० ।।
मुमुदिरे च पटहानवादयँश्च गोमुखान् ।
शंखान्मृदंगान् भेरीश्चाऽवादयँस्ते रणांगणे ।।।२ १ ।।
तदा च केसरी क्रुद्धो विधुन्वन् केसरान् मुहुः ।
महाकालकरालः सन् निषूदयति दानवान् ।। २२।।
खङ्गैः केचित् त्रिशूलैश्च द्वेधा भिन्ना हि दानवाः ।
बाणैः परश्वधैः केचिच्छेरते भिन्नवक्षसः ।।।२३ ।।
विपोथिताश्च गदया पतिता भुवि शेरते ।
मुशलैश्च हताः केचिद् रुधिरं वेमुरासुराः ।।।२४।।।
सैनिकाः कोटिशस्तत्र बाणैः प्राणांश्च तत्यजुः ।
चक्रैश्छिन्नभुजाश्छिन्नकंधराः पतिताः परे ।।२५ ।।
केचिद्विदारिता मध्ये खड्गैर्भागेन शेरते ।
विदारिता अर्धभागाः स्वपन्ति भुवि चापरे ।।२६।।
विभक्ताः कटिभिश्चान्ये द्वेधा भूमौ पतन्ति हि ।
केचिदेकाक्षिभुजपात्कबन्धाश्च द्विधाकृताः ।।२७।।
कबन्धा पतितास्तत्रोत्थायोत्थाय पुनः पुनः ।
युयुधुर्ननृतुश्चान्ये खड्गाऽसिशक्तिपाणयः । । २८ । ।
पेतुश्चान्ये मदोन्मत्ताश्चेलुश्च तत्यजुः रणम् ।
दुर्गां तां कालरात्रिं च मन्यमाना विदुद्रुवुः । । २९ । ।
अगम्या साऽभवत् पृथ्वी पातितै रणगामिभिः ।
विसुस्रुवुर्महानद्यः शोणिताऽद्भिस्तदन्तरे । । 1.164.३० । ।
एवं क्षयो महान् जातो ह्यसुराणां तदा भुवि ।
गजवाजिखरोष्ट्राणां महिषाणां रणांगणे ।। ३१ ।।
हतं सैन्यं स्वकं दृष्ट्वा सेनानीश्चिक्षुरस्तदा ।
कार्मुकं दृढमाकृष्य ववर्ष शरजालकम् । । ३२ । ।
तस्य शराँस्तदा देवी चिच्छेद स्वशरैर्मुहुः ।
सौवर्णपुंखानपरान् शरान् जग्राह षोडश । । ३३ । ।
जघान तुरगान् बाणैश्चतुर्भिश्चतुराँस्तथा ।
हत्वा सारथिमेकेन ध्वजमेकेन चिच्छिदे ।। ३ ४। ।
चिच्छेदैकेन चापं च रथं बभंज मुद्गरैः ।
स छिन्नधन्वा विरथो हताश्वो हतसारथिः । । ३५ ।।
अभ्यधावत खड्गं च चर्म प्रादाय वेगतः ।
शरैश्चतुर्भिश्चिच्छेद खड्गं चर्म महेश्वरी । । ३६ । ।
ततो जग्राह शूलं च प्राद्रवत्पुनरम्बिकाम् ।
चिक्षेप च ततस्तत्तु भद्रकाल्यां स दैत्यराट् ।। ३७ ।।
खड्गं चाऽन्यं समादाय जघान शांकरीभुजे ।
बभंज खड्गो द्वेधाऽभूत् शूलं तु शतधाऽभिनत् ।। ३८ । ।
देव्या शूलं प्रहितं स्वं वक्षसि विददार तम् ।
पादौ करौ च शीर्षं च सा चिच्छेद वरासिना । । ३९ ।।
एवं सेनापतिश्चिक्षुरोऽपतत् षड्विभागतः ।
सेनान्यं नष्टमालोक्य नमरः सैन्यमूर्धगः । । 1.164.४० । ।
समागम्य च वेगेन देव्यां शक्तिं मुमोच ह ।
हुंकाराऽभिहतां शक्तिं भस्मसादकरोद्धि सा । । ४१ ।।
दैत्यस्त्रिशूलमासाद्य सिंहाय प्राहिणोद्रणे ।
देवी क्षुरप्रधारैश्च बाणैस्तदपि चाऽच्छिनत् । ।४२ । ।
ततः सिंहः समुत्पत्य गजकुंभान्तरस्थितम् ।
नमरं जगृहे कण्ठे दंष्ट्राभिस्तीक्ष्णधारिभिः । । ४३ । ।
गतासुं कुंजरस्कन्धात् क्षिप्त्वा देव्यैः निवेदितः ।
गृहीत्वा नमरं सव्यपाणिनाऽऽभ्राम्य मस्तके । । ४४।।
अवादयत्पटहवत् साऽट्टहासं ततोऽकरोत् ।
हास्यात् समुद्गता नाना भूता विकृतविग्रहाः । । ४५ । ।
व्याघ्रास्याश्च वृकास्याश्च हयास्या महिषाननाः ।
वराहास्याः कुक्कुटास्या आख्वास्या अव्यजामुखाः ।।४६ । ।
नानावक्त्राऽक्षिचरणा नानाऽऽयुधसमन्विताः ।
गायन्त्यन्ये हसन्त्यन्ये क्रीडन्त्यन्ये तु मिश्रिताः ।।४७।।
वादयन्त्यपरे तत्र स्तुवन्त्यन्ये महेश्वरीम् ।
शातयामास भूतैः सा शेषं यद्दानवं बलम् ।।४८ ।।
समाद्रवत वेगेन तदोग्रास्यो महासुरः ।
बाष्कलश्चोद्धतश्चैव बिडालनयनोऽपरः ।।४९ ।।
दुर्धरो दुर्मुखश्चैव युयुधिरेऽतिवेगतः ।
देव्या रणे ह्युदग्रस्तु शिलावृक्षादिभिर्हतः ।।1.164.५ ० ।।
दन्तमुष्टिप्रहारैश्च बाष्कलोऽपि निपातितः ।
गदापातैस्तदा देवी चूर्णयामास चोद्धतम् ।।५ १ ।।
बिडालं भिन्दिपालेन तथा बाणैश्च दुर्धरम् ।
दुर्मुखं गदया संचूर्णयामास करालकम् ।।५२ ।।
ताम्रं तथाऽन्धकं चोग्रवीर्यं महाहनुं तथा ।
त्रिनेत्रा त्रिशूलधारैस्तान् जघान परेश्वरी ।।।५३ ।।
एवं क्षये गते सैन्ये महिषो दैत्यराट् तदा ।
माहिषं रूपमास्थाय त्रासयामास तान् गणान् ।।५४।।
काँश्चित् तुण्डप्रहारेण क्षुरक्षेपैस्तथाऽपरान् ।
काँश्चिल्लांगुलघातैश्च काँश्चिच्छृंगविदारणैः ।।५५।।
काँश्चिद्वेगेन नादेन भ्रमणेन तथाऽपरान् ।
नेत्राग्निभिश्च फुत्कारैर्निपात्य प्रमथान् बहून् ।।५६।।
अभ्यधावत् प्रहन्तुं सोऽसुरः सिंहं तु तत्क्षणे ।
कोपाद्बलान्महावीर्यः क्षुरक्षुण्णमहीतलः ।।५७।।
शृंगाभ्यां पर्वतानुच्चाँश्चिक्षेप च ननाद च ।
वेगभ्रमणघातेन पृथ्वी तत्र व्यशीर्यत ।।५८ ।।
समुद्रो लांगूलघातादुद्वेलोऽप्लावयज्जगत् ।
शृंगपुच्छविफाणैश्च मेघाश्छिन्ना ययुर्लयम् ।।५९ ।।
श्वासैर्हतास्तु गिरयो निपेतुर्व्योममार्गतः ।
ब्रह्माण्डनाशसन्देहं तदा ह्यजनयद् बली ।। 1.164.६० ।।
इत्येवं बलसर्वस्वं दर्शितं तेन शत्रुणा ।
तदा देवी तस्य कायं पाशेन प्रबबन्ध वै ।। ६१ ।।
तदा तत्याज रूपं तन्माहिषं च क्षणात्पुनः ।
सिंहोऽभवत्तदा देवी यावच्छिनत्ति मस्तकम् ।। ६२।।
तावत् स पुरुषो भूत्वा खड्गपाणिरदृश्यत ।
यावद्देवी शरैस्तं संविव्याध तावदेव सः ।। ६३ ।।
खड्गचर्मधरः शैलसदृशो ह्यभवद्गजः ।
शुण्ढादण्डेन सिंहं तं चकर्ष च जगर्ज च ।।६४ ।।
निरकृन्तत तच्छुण्ढां खङ्गेनैव महेश्वरी ।
माहिषं रूपमास्थाय स दैत्यश्चण्डिकां प्रति ।।६५।।
चिक्षेप पर्वतान् स्वीयशृंगाभ्यामथ चण्डिका।
चूर्णयामास गदया परिघैस्तोमरैस्तदा ।।६६।।
मधुपानं पपौ क्रुद्धा बभूवाऽरुणलोचना ।
बलौजोमदगर्विष्टा प्रोवाच महिषासुरम् ।।६७।।
गर्ज गर्ज क्षणं दैत्य मधु यावत् पिबामि च ।
मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ।।६८।।
गर्ज गर्ज क्षणं भीस्स्थ शकृत् यावन्न मुंचसि ।
मया त्वयि हतेऽत्रैव मरिष्यन्त्याशु दानवाः ।।६९।।
एवमुक्त्वा शूलमस्य व्यसृजद्धृदि वेगतः ।
शूलं बभंज दैत्यस्य वक्षोऽस्थिघट्टनाबलात् ।।1.164.७०।।
अथ चिक्षेप शक्तिं सा कुण्ठिताऽग्राऽपतद् भुवि ।
अथ चक्रं प्रहितं तत् कुण्ठधारं तदाऽपतत् ।।७१।।
अथ क्षिप्ता गदा सापि द्वेधा भिन्नाऽपतद् भुवि ।
अथ पाशस्तथा दण्डः क्षिप्तौ भिन्नौ च तावुभौ ।।७२।।
वज्रं गले हतं तत्र क्षुद्रत्वमगमत् तदा ।
अथ क्रुद्धा महादेवी समुत्प्लुत्य महासुरम् ।।७३ ।।
समारूढा पृष्ठभागे दैत्योऽपि पुप्लुवे तदा।
सापि ममर्द पद्भ्यां तं चकार बलवर्जितम् ।।६१४।।
कण्ठं बिभेद शूलेन निर्जगामाऽसिधृक् पुमान् ।
स एवाऽसुरवर्योऽभूत् माहिषात्मा महासुरः ।।७५।।
निष्क्रान्तमात्रं हृद्ये पत्तलेन प्रहत्य च ।
कोपात् कचेषु संगृह्य शिरश्चिच्छेद चाऽसिना ।।७६।।
ततो हाहाकृतं दैत्यबलं शेषितमित्यपि ।
ननाश प्रमथैः प्रायः पातालं प्रविवेश तत् ।।७७।।
देवाः प्रहर्षं जग्मुश्च तुष्टुवुस्तां तु चण्डिकाम् ।
गन्धर्वाश्च जगुः कीर्तिं ननृतुश्चाप्सरोगणाः ।।७८।।
वादित्राणि ह्यवाद्यन्त विजयध्वनयोऽभवन् ।
देवा ऊचुर्महादेवि! महिमान्तो न तेऽस्ति वै ।।७९।।
स ऐक्षत बहु स्यां सा चेच्छा त्वं पारमेश्वरी ।
सुन्दरता हरेमूर्तौ भवती सा प्रकीर्तिता ।।1.164.८ ०।।
आराधना तथा भक्तिर्मुक्तिः सा त्वं परेश्वरी ।
नारायणी महालक्ष्मीर्ब्रह्माणी त्वं महेश्वरी ।।८ १ ।।
त्रिगुणात्मा महामाया प्रकृतिस्त्वं कृतीश्वरी
त्वं रमा त्वं च वैराज्ञी लक्ष्मीः श्रीः सुकृतिगृहे ।।८२।।
त्वमलक्ष्मीः पुण्यहीनगृहे बुद्धिर्हृदम्बरे ।
त्वं श्रद्धा त्वं ह्रीश्च भीश्च त्वं स्वाहा क्रतुकर्मणि ।।८ ।।
त्वं स्वधा पितृदोषाय विद्या परममुक्तये ।
त्वं वाणी त्वं च गायत्री सावित्री त्वं त्रयीमयी ।।८४।।
वृत्तिर्मेधा च दुर्गा च गंगा चाऽभ्युदयप्रदा ।
सर्वेन्द्रियेषु शक्तिस्त्वं तस्यै चाऽस्यै नमोनमः ।।८५ । ।
पाह्यस्मान् सर्वदा मातः शस्त्रास्त्रैः सर्वदिक्षु च ।
जह्यसुरान सदा देवि! देवविघ्नकरान् सदा ।।८ ६ ।।
स्तुत्वैवं दिव्यकुसुमैरर्चिता गन्धलेपनैः ।
धूपदीपनिवेद्यादिभूषांऽशुकादिपूजिता । ।८७।।
प्रसन्ना प्राह देवाँश्च व्रियतां चाभिवाञ्च्छितम् ।
देवाः प्राहुः संस्मृता त्वं हिंसयस्व महापदः ।।८८ ।।
धनवित्तर्धिविभवपुत्रदारादिसम्पदाम् ।
वृद्धयेऽस्मत्प्रसन्ना त्वं भव वारिभवानने ।।८ ९ ।।
तथेत्युक्त्वा सुरान् सर्वानाश्वास्य च मुहुर्मुहुः ।
प्रभविष्याम्यमरार्थं चोक्त्वा विवेश तान्सुरान् ।। 1.164.९० । ।
इति श्रीलक्ष्मीनारायणीयसंहिताया प्रथमे कृतयुगसन्ताने महिषासुरसैन्यदेवसैन्ययोर्युद्धं देव्याऽऽसुरसैन्यविनाशन महिषासुरविनाशनं देवकृतस्तुत्यादि चेतिनिरूपणनामा चतुःषष्ट्यधिकशततमोऽध्यायः ।। १६४। ।