लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १६३

विकिस्रोतः तः
← अध्यायः १६२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १६३
[[लेखकः :|]]
अध्यायः १६४ →

श्रीलक्ष्मीरुवाच-
कदा कथं महिषाख्यो ह्यसुरः समपद्यत ।
देवीकृतविनाशं च श्रोतुमिच्छामि मे वद ।। १ ।।
श्रीनारायण उवाच-
शृणु कोऽयं महिषोऽभूत् कथमासुरतां गतः ।
विनाशश्च कया रीत्या कृतो देव्या निबोध मे ।। २ ।।
पुरा दैत्यौ महारौद्रौ जगत्क्षोभकरावुभौ ।
रंभश्चापि करंभश्च पुत्रार्थं तेपतुस्तपः ।। ३ ।।
बहून्वर्षगणानेकः करंभः सलिले स्थितः ।
ग्राहो भूत्वा महेन्द्रस्तं जले जघान दंष्ट्रया ।। ४ ।।
नष्टे भ्रातरि रंभोऽभूदतिक्रोधपरिप्लुतः ।
वह्नौ स्वशीर्षं संछिद्य होतुमैच्छन्महाऽसुरः ।। ।५ ।।
खड्गमादाय यावद्वै छेत्तुमुद्युक्त एव सः ।
तावन्निषिद्धो वै वह्निर्नैव मा साहसं कुरु ।। ६ ।।
मा म्रियस्व यथेष्टं ते ददामि वद मा चिरम् ।
रंभ प्राह भवेत् पुत्रस्त्रैलोक्यविजयी मम ।। ७ ।।
सर्वदेवैरजेयः स्यात्तथा त्वत्तेजसाऽधिकः ।
कामरूपी कृताऽस्त्रज्ञो महाबलपराक्रमः ।। ८ ।।
वह्निः प्रोवाच तं बाढं यथेष्टं ते भविष्यति ।
यस्यां चित्तं च ते लग्नं तया मृत्युर्भविष्यति ।। ९ ।।
इत्येवमुक्तो रंभ स ययौ मालवटाभिधम् ।
यक्षं द्रष्टुं तदा मालवटस्य पशुमण्डले ।। 1.163.१ ०।।
गजाश्च महिषाश्चाऽश्वा गावोऽजा अवयस्तथा ।
वर्तन्ते बहवस्तत्र महिष्यामकरोन्मनः ।। ११ ।।
सा समागाच्च दैत्येन्द्रं कामयन्ती त्रिहायना ।
स चापि महिषो भूत्वा मैथुनं त्वाचरद् बली ।। १ २।।
सगर्भां तां महिषीं स गृहीत्वा स्वगृहं गतः ।
पाताले दानवैस्तत्र परित्यक्तो विकर्मकृत् ।। १ ३।।
पुनः स महिषीं नीत्वा यक्षं मालवटाऽभिधम् ।
समाजगाम वासाय सुषुवे महिषी सुतम् ।। १४।।
शुभ्रं तु महिषं कामरूपिणं सुमहाबलम् ।
पुत्रमासाद्य रंभः स मुमुदे वै मुहुर्मुहुः ।। १५।।
अथाऽन्यो महिषः कश्चिन्महिषीमृतुसंस्थिताम् ।
तामेव कामयामास सा च रंभं जगाद तत् ।। १६।।
तदा रंभमहिषयोर्युद्धं परमदारुणम् ।
अभूत्तदा तु तीक्ष्णाभ्यां शृंगाभ्यां हृदि ताडितः ।। १७।।
निर्भिन्नहृदयो रंभः पपात च ममार च ।
महिषी च ततो यक्षशरणं संजगाम ह ।। १८।।
यक्षैश्च रक्षिता सा च निवार्य महिषान्तरम् ।
मृतं च तं तदा रंभं यक्षा मालवटादयः ।। १९।।
चितामारोपयामासुः साऽप्यारुरोह तत्र ह ।
ततोऽग्निमध्यादुत्तस्थौ पुरुषो रौद्रभीषणः ।।।1.163.२०।।
खड्गपाणिस्तदा यक्षान् व्यद्रावयच्च तत्स्थलात् ।
महिषान् घातयामास पुत्रं पुपोष भावतः ।।२१।।
सोऽयं रंभस्य पुत्रोऽभूद् रक्तबीजश्च नामतः ।
महाबलो ह्यवध्यश्च कामरूपधरः सदा ।।२२।।
युवा स युयुधे देवैस्तथान्यैर्लोकपालकैः ।
दिक्पाला लोकपालाश्च ग्रहास्तेन जिता युधि ।।२३।।
तदाऽजं शंकरं नीत्वा देवा जग्मुर्जनार्दनम् ।
न्यवेदयन् महिषस्य रक्तबीजस्य चेष्टितम् ।।।२४।।
प्रभोऽश्विसूर्यचन्द्राणां जलवाय्वग्निवेधसाम् ।
कुबेरेन्द्रादिदेवानां राज्यान्यास्कन्दितानि वै ।।।२५।।
नाकान्निराकृता देवा वयं पृथ्व्यां वसामहे ।
यदि विष्णुश्च वा शंभुर्नो चेद्रक्षां करिष्यसे ।।२६।।
तेन संकाल्यमानाश्च व्रजामो हि रसातलम् ।
श्रुत्वैवं भगवाँस्तत्र कोपं सुदुःसहम् ।।।२७।।
तावत्प्रभोस्तदाऽऽस्याद्वै शंभोश्च ब्रह्मणस्तथा ।
इन्द्रादीनां च देवानां महत्तेजो विनिःसृतम् ।।।२८।।
या मधुकैटभौ देवी मारयित्वेन्द्रियेषु वै ।
सर्वेषां बलरूपाऽऽसीत् तेजस्तदेव निःसृतम् ।। २९।।
तत्सर्वं तु शैलतुल्यं संहतं दुःसहं परम् ।
कात्यायनमहर्षेश्चाऽऽश्रमे तत्तेजसाऽन्वितम् ।।1.163.३०।।
तस्माज्जाता विशालाक्षी कात्यायनी महेश्वरी ।
शंभुतेजोऽभवद्वक्त्रं वह्नितेजस्त्रिनेत्रकम् ।।३ १ ।।
याम्यतेजोऽभवन्केशा हरेस्तेजोऽभवन् भुजाः ।
अष्टादशप्रसंख्याता बाहवः संप्रजज्ञिरे ।।३२।।
सौम्ये युग्मं स्तनयोर्वक्षश्चैन्द्रेण तेजसा ।
ऊरू जंघे नितम्बौ च मध्यं चन्द्रस्य तेजसा । ।३३ ।।
ब्रह्मतेजोऽभवत्पाद्युगलं कोमलाऽरुणम् ।
सूर्यस्य तेजसाऽङ्गुल्यो दन्ताः प्रजेशतेजसा ।। ३४।।
यक्षतेजोऽभवन्नासा श्रवणौ वायुतेजसा ।
साध्यतेजोऽभवद् भ्रूश्च कामबाणासना नु किम् ।।३५।।
एवं तेजांसि देवानां तत्र संभूय सुन्दरी ।
नाम्ना कात्यायनी जाता महिषक्षयहेतवे ।।३६।।
ददौ त्रिशूलं शंभुश्च हरिश्चक्रं ददौ तदा ।
शंखं ददौ जलेशश्च ददौ शक्तिं हुताशनः ।।३७।।
वायुश्चापं च तूर्णं चाऽक्षय्यबाणान् गभस्तिमान् ।
वज्रं घण्टां ददौ चेन्द्रो यमो दण्डं ददौ तथा ।।३८।।
गदां कुबेरः प्रददौ ब्रह्माऽदात्तु कमण्डलुम् ।
अक्षमालां ददौ तस्यै कालोऽसिं चर्म संददौ ।। ३९।।
सोमो हारं चामरे च मालामब्धिः समुज्ज्वलाम् ।
हिमालयो मृगेन्द्रं च वाहनं प्रददौ श्रियै ।।1.163.४० ।।
विश्वकर्मा कुठारं चाऽर्धचन्द्रं कुण्डले तथा ।
चूडामणिं ददौ चित्ररथोऽदात् पानपात्रकम् ।।४१।।
शेषो भुजंगहारं चर्तवोऽम्लानसुमस्रजम् ।
ददुर्देवाश्चायुधानि शृंगाराणि च सर्वशः ।।४२।।
देवी तदाऽतितुष्टाऽभूदट्टहासं चकार वै ।
सर्वदेवैराशिषा वर्धिताऽगात् विन्ध्यपर्वतम् ।।४३।।
उच्चशृंगेकृताऽऽवासा तिष्ठते हृदयंगमा ।
महिषासुरदूतौ तां चण्डमुण्डावपश्यताम् ।।४४।।
ऊचतुर्महिषं गत्वा कन्यां सर्वांगसुन्दरीम् ।
स्वस्थो भवान् कथं शेते कन्यां भजतु चागताम् ।।४५।।
कीदृशी मुखचन्द्राभा केशा जीमूतसन्निभाः ।
त्र्यग्नयस्त्रीणि नेत्राणि कंबुः कण्ठस्थितोऽस्ति किम् ।।४६।।
सुवृत्तौ च स्तनौ निम्नचूचुकौ कुंभसदृशौ ।
अष्टादशभुजास्तस्याः पीनाः शस्त्रान्विताः शुभाः ।।४७।।
उदरं त्रिवलीव्याप्तं मध्यं रोमविनाकृतम् ।
सौन्दर्यभाजने जंघे सक्थिनी स्वर्णशोभने ।।४८।।
करपादतले रम्ये स्थलपद्मनिभे शुभे ।
नेत्रे कमलपत्राभे सर्वा सौन्दर्यभाजना ।।४९।।
पत्नीत्वेन गृहाण त्वं कन्यां तां सुरसुन्दरीम् ।
तां विना शोभते नैव तवाऽयं दिव्यविग्रहः ।।1.163.५०।।
तां विना ते मृषा राज्यमिन्द्रराज्यमपि प्रभो ।
गत्वा विन्ध्याचले पश्य कुरुष्वाभिमतं क्षमम् ।।।५ १ ।।
शुभाशुभे कृते पुंसां पश्चात् व्रजत एव हि ।
मदर्थे मम भाग्यात्तत्कन्यारत्नमुपस्थितम् ।।।५२।।
विचार्येत्थं च मुण्डं च नमरं बाष्कलं तथा ।
चण्डं विशालनेत्रं च कपिलं विक्षुरं तथा ।।५३।।
उग्रायुधं रक्तबीजं त्वादिदेश स दैत्यराट् ।
विन्ध्याचलं प्रगच्छन्तु सज्जीभूता महासुराः ।।५४।।।
तत आगम्य ते विन्ध्ये शिबिरं विनिवेश्य च ।
तदा तस्थुर्मयपुत्रो दुन्दुभिः प्राह चेश्वरीम् ।।५५।।
कुमारि! रंभपुत्रस्या दूतोऽस्मि महिषस्य वै ।
शृणु मत्स्वामिनाथस्य यथेष्टं च ततः कुरु ।।५६।।
दुन्दुभिः प्राह कन्ये त्वं मां वै वरय सर्वथा ।
अमरा मम भृत्याश्च वर्तन्ते विजिता मया ।।५७।।
आब्रह्मभुवना लोका लोकपाला वशीकृताः ।
अहमिन्द्रोऽस्मि रुद्रोऽस्मि सूर्योऽस्मि रजनीकरः ।।।५८।।
लोकेशोऽस्मि महाराजो मां भजस्व जगत्पतिम् ।
स्त्रीरत्नमाग्र्यं भवती मदर्हं हि भजस्व माम् ।।५९।।
देवी प्राह तदा श्रुत्वा दूतस्य वचनं प्रति ।
कुले मे वर्तते धर्मः शुल्काख्य इति निश्चितः ।।1.163.६० ।।
तं चेद्दद्यान्महिषो मे भजाम्यद्य पतिं तु तम् ।
दुन्दुभिः प्राह शुल्कं तत् कीदृशं त्वं निवेदय ।।६१ ।।
त्वदर्थे मस्तकं दद्यान्मम स्वामी ततः किमु!
देव्याह च तदा शुल्कं कन्यां यो जेष्यति मृधे ।।६२।।
तस्याः पतिः स एव स्यादिति तस्मै निवेदय ।
श्रुत्वा दुन्दुभिरागत्य कथयामास तद्यथा ।।६३।।
महिषोऽपि महातेजाः सर्वदैत्यपुरःसरः ।
श्रुत्वाऽभ्यागाच्च विन्ध्याद्रिमावृत्य समुपस्थितः ।।६४।।
तत्र सेनापतिर्दैत्यो चिक्षुरो नाम नामतः ।
सेनाग्रगामी नमरश्चतुरंगबलान्वितः ।।६५।।
अन्ये दैत्या दानवाश्च स्वस्वसैन्यसमन्विताः ।
आजग्मुस्तत्र युद्धार्थं महिषासुरयोजिताः ।।६६।।
अथ देव्या सहायार्थं सूर्यचन्द्रादयस्ततः ।
ब्रह्मविष्णुमहेशेन्द्रजलेशाद्यास्तदाऽऽगताः ।।६७।।
देवानामथ दैत्यानां सैन्यानि तु परस्परम् ।
विन्ध्याचले तदोग्राणि ह्यासन् भयंकराणि हि ।।६८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रंभासुरपुत्रमहिषासुरोत्पत्त्यादितद्विनाशिकाकात्यायन्युत्पत्त्यादिनिरूपणनामा त्रिषष्ठ्यधिक-
शततमोऽध्यायः ।। १६३ ।।