लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ११७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ११६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ११७
[[लेखकः :|]]
अध्यायः ११८ →

श्रीनारायण उवाच-
पार्वती प्राह देवेशं वैष्णवाग्र्यं महेश्वरम् ।
नाथ ब्रूहि यथा नारायणरूपस्य गौरवम् ।। १ ।।
मुक्तिदं चामृतं पीत्वा न वै तृप्यति मानसम् ।
कथमेतावता दीर्घकालेनापि न बोधितम् ।। २ ।।
एतत्त परम श्राव्यं परब्रह्माऽमृताऽमृतम् ।
श्रवणीयं मया नित्यं नूतनं तु श्रवे श्रवे ।। ३ ।।
शंभुः प्राह तदा देवीं पार्वतीं परमेश्वरीम् ।
शृणु देवि! ममाऽप्येषा नारायणमयी कथा ।। ८ ।।
नूतना सुरसा भाति तदाह्लादो विवर्धते ।
यथास्मर्यं कथयामि ह्यवाङ्गोचरमस्त्यपि ।। ५ ।।
परब्रह्म स्वयं साक्षाद्दिव्यो नारायणः प्रभुः ।
राजते सर्वदा धाम्नि स्वयं राजाधिराजकः ।। ६ ।।
अनन्तशीर्षा पुरुषश्चानन्ताक्षोऽप्यसंख्यपात् ।
स सृष्टिं सर्वतस्पृत्वाऽप्यतिष्ठत्केशमात्रके ।। ७ ।।
स वै सर्वत्र संभाति मोक्षेशानोऽतिऋद्धिमान् ।
नान्योऽतोऽस्ति परः कश्चिन्न समो नापि दायभाग् ।। ८ ।।
प्रतल्लोकचतुर्थांशे सर्वा जीवेशसृष्टयः ।
व्यंशस्तु ब्रह्मलोकोऽत्र ब्राह्मणा व्योम्नि वै परे ।। ९ ।।
नास्ति तत्र विजिघत्सा नो पिपासा प्रवर्तते ।
क्षुत्पिपासाश्रया माया तदधस्ताद्विकासते ।। 1.117.१० ।।
तस्य धाम्नि च धामानि परमाणि भवन्ति वै ।
मुक्तानां चेश्वराणां चावताराणां मनांसि सः ।। १ १।।
स्वस्मिन् वै धारयन् दिव्यो देव एको विराजते ।
एवं बृहत्स्वरूपोऽयं ब्रह्मणा सहराजते ।। १२।।
अनन्तकोटिमुक्तैश्च पार्षदैः परिसेवितः ।
ईश्वरीभिस्तथा श्रीभिः शक्तिभिश्चातिसेवितः ।। १३।।
निःसीमदिव्यभोगाढ्यदिव्यमंगलरूपवान् ।
युवाऽच्युतमहासत्त्वः सुकुमारांऽगकोमलः ।। १४।।
जगज्जननीश्रीपूर्णज्योत्स्नामूर्तिकयौवनः ।
कोटिकन्दर्पलावण्याऽक्षयप्रेमप्रपूरितः ।। १९।।
श्रियः संकल्पसिद्ध्यर्थं वैकुण्ठकृतमण्डलः ।
राधायै सुखदानार्थं गोलोके श्यामलः स्थितः ।। १६।।
मुक्तसौख्यप्रदं धामाऽक्षरं ब्रह्म सदा मतम् ।
भोगार्थं परमे व्योम्नि वैकुण्ठं धेनुलोककम् ।। १७।।
लीलार्थं भक्तवासार्थं त्रिसृष्टमखिलं जगत् ।
सुखभोगप्रलीलाख्या भूमिकास्ता विभूतयः ।। १८।।
तिस्रो भवन्ति तस्यैव विभूतित्रयमेव तत् ।
लीलाख्या सकला सृष्टिर्भोगार्थं धाम तद्द्वयम् ।। १९।।
मुक्तसौख्यप्रदानार्थं परमं धाम चास्थितम् ।
यदा लीलां महासृष्टिं संहरते जनार्दनः ।।1.117.२० ।।
तदा भोगविभूतौ वै नित्या स्थितिस्तु विद्यते ।
ततोऽप्यन्या महानन्दा परा मूर्तिमयी स्थितिः ।।२ १।।
लीला भोगस्तथा सौख्यं त्रयं तस्यैव शक्तयः ।
त्रिपात् तत्परमं धाम नित्यं शाश्वतमैश्वरम् ।।।२२।।
तस्यैव प्रान्तभागेषु धामान्यन्यानि नित्यदा ।
तानि सर्वत्र भक्तानां सेवाभोगार्थमातनोत् ।।।२२।।।
अमृतं धाम बदरीधामाऽव्याकृतमित्यपि ।
लक्ष्मीधाम श्वेतधाम सेवाभोगार्थमातनोत् ।।।२४।।
तपोर्थं चापि व्यतनोल्लोकरक्षणहेतवे ।
त्रिपात्तत्तु शाश्वतं वै पादमेकमशाश्वतम् ।।२५।।
अच्युतं ब्रह्मरूपाढ्यं वैकुण्ठं च गवांस्थलम् ।
अमृतं श्रीपुरं चेति राधिकायाः श्रियस्तथा ।।२६।।
अन्यासां प्रभुपत्नीनां क्रीडार्थानि कृतानि वै ।
भगवान्श्रीहरिस्तत्र नित्यं यौवनमाश्रितः ।।२७।।
नित्यैषा च जगन्माता लक्ष्मीश्च राधिका तथा ।
यथा सर्वगतो विष्णुस्तथा लक्ष्मीश्च राधिका ।।।२८।।।
ईशानो भूतभव्यस्य तथेशानी महेश्वरी ।
श्रीश्च लक्ष्मीश्च राधा च विष्णोश्चैवाऽनपायिनी ।।।२९।।।
सर्वतोहस्तचरणा सर्वतोऽक्षिशिरोमुखा ।
नारायणी च कृष्णा च विष्णुपत्नी जगन्मयी ।।1.117.३ ०।।
महामाया जगत्कर्त्री सृष्टिसंहारकारिणी ।
यदपांगस्थितं सर्वं जडचेतनमिश्रणम् ।।।३ १ ।।
मेषोन्मेषकृतं यस्या लयोद्भवमयं जगत् ।
नित्याऽजा वामभागा मा महालक्ष्मीः परेश्वरी ।।३२।।
अव्यक्ता व्यक्तरूपा सा समव्याप्या व्यवस्थिता ।
पृथ्व्यां रसा सुधा स्वर्गे पुण्या सा पितृमन्दिरे ।।३ २ ।।
जले मिष्टाऽनले पाका लक्ष्मीश्च धनरूपिणी ।
सौन्दर्यं कान्तिसौभाग्ये रूपं लावण्यमित्यपि ।।३४।।
नारीणामखिलं सर्वं तस्या एवास्ति संगतम् ।
तया ब्रह्मपदं शैवं माहेन्द्रं याम्यमित्यपि ।।३५।।
सौर्यं कौबेरमाग्नेयं चान्द्रं दृष्टं समृद्धिमत् ।
महामाया महालक्ष्मीर्लक्ष्मीः श्रीः राधिका प्रिया ।।२६।।
कमला शारदा पद्मा विद्या मा परमा रमा ।
अब्धिपुत्री सती श्यामा महादेवी च वैष्णवी ।। ३५७।।
नारायणी महाविद्या विष्णुपत्नी महेश्वरी ।
गौरी सरस्वती शान्तिः प्रभा स्वाहा स्वधा रतिः ।।३८।।
सावित्री कंभरादेवी पार्वतीति द्विषोडश ।
नामान्यस्याः प्रतिप्रातः पाठ्यानि भूतिलब्धये ।। ३९।।
हिरण्यवर्णां हरिणीं हिरण्यरजतात्मिकाम् ।
चान्द्रीं स्वर्णमयीं लक्ष्मीं नारायणो म आवह ।।1.117.४० ।।
धनां धान्यां गोस्वरूपां वाहनीं पुरुषात्मिकाम् ।
नारायणो म आवह लक्ष्मीमनपगामिनीम् ।।४१।।
तृप्तिं तेजस्विनीं स्वर्णप्राकारां भास्वरां श्रियम् ।
दैवीं वर्चस्विनीं वार्क्षीं कीर्तिं कृष्णो म आवह ।।४२।।
सुगन्धाढ्यामनाधृष्यां नित्यपुष्टां करीषिणीम् ।
सर्वेश्वरीं महालक्ष्मीं नारायणो म आवह ।।४३ ।।
आकूतिचितिसंकल्पसिद्धिं हरिर्म आवह ।
हिरण्यदासदासीदां तामिहोपह्वये श्रियम् ।। ४४।।
यैरेवं प्रस्तुता लक्ष्मीस्तेषामनपगामिनी ।
हरेर्वक्षसि नित्याप्ता स हरिः पुरुषोत्तमः ।।४५ ।।
सर्वेश्वरः सर्वस्वामी नारायणो गुणाकरः ।
सर्वज्ञः सर्वशक्त्याढ्यः पूर्णकामः सुहृत्सुखी ।।४६ ।।
करुणासागरः श्रीमान् शरणागतवत्सलः ।
स्वर्गापवर्गविभवस्तस्य दास्यं करोम्यहम् ।।४७।।
सर्वदा सर्वथा सर्वावस्थासु तं भजाम्यहम् ।
दास्यं तस्य करोम्येव दासभूतमिदं हरेः ।।४८।।
श्रीमान् नारायणः स्वामी सेव्यः प्राप्यः परोऽक्षरात् ।
स एव जननी भ्राता पिता पुत्रश्च बान्धवः ।।४९। ।
शरणं चाश्रयो वासो गतिर्निधनमेव सः ।
सर्वदिव्यगुणैर्युक्तो मायागुणादिवर्जितः ।।1.117.५० ।।
नारायणः परंब्रह्म तत्त्वं नारायणः परः ।
नारायणः परोज्योतिरात्मा नारायणः परः ।।५१।।
नारायणपरो ध्याता ध्यानं नारायणः परः ।
यच्च किंचिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा ।।५२।।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।
हृद्ये जीवमध्ये स परमात्मा व्यवस्थितः ।।।५३।।
स वै तत्र परे धाम्नि श्रीयुङ्नारायणः स्थितः ।
तस्य शक्त्या श्रिया मूलप्रकृत्या रचितं महत् ।।५४।।
ततो विराडभूद्भूमिर्ग्राम्यारण्याश्च जीविनः ।
यदास्यबाहूरुपादा वर्णा वै संभवन्ति हि ।।५५।।
प्रविप्रक्षत्रविड्डासा ह्यजायन्त मखो हि सः ।
हव्यं कव्यं च होता च भागभुक् समिधश्च सः ।।५६।।
यज्ञं नारायणं देवा अयजन्त च ताः क्रियाः ।
प्रागेवाऽऽसन् परे धर्मा आराधनादिभक्तयः ।।५७।।
पूर्वे मुक्ताः परे धाम्नि महिमानं सचन्त वै ।
तद्दासभक्तिकर्तारो यान्ति नारायणं पदम् ।।५८।।
ते वै दिव्या सदा सिद्धा मुक्ता वसन्ति धामनि ।
मायापारे परे लोके ब्रह्मसाधर्म्यमास्थिताः ।।५९।।
न वै मायामहाकालपापकर्मयमादिभीः ।
यद्गत्वा न परावृत्तिस्तद्धरेर्धाम चाक्षरम् ।।1.117.६० ।।
माया जगन्मयी नित्या त्रिगुणा प्रकृतिर्हि सा ।
अविद्या योगनिद्रा च प्रधानाऽव्यक्तशाश्वती ।।६ १ ।।
धामच्छायास्वरूपा सा ज्ञानघनस्वरूपिणी ।
लूतातन्तुसमं चाण्डमनित्यं प्रकरोति हि ।
तयाऽऽवृतं जगत्सर्वं सा ब्रह्मतेजसाऽऽवृता ।।।६२।।
मायाब्रह्मसम्बन्धश्च सीमा धाम्नः समुच्यते ।
सर्वव्यापि त्वसीमं तत् तूपचारात् ससीमकम् ।।६२।।
मायान्तरे गतं सर्वं संकोचं च विकासनम् ।
तिरःप्राविर्भवत्येव भक्ता गच्छन्ति तद्बहिः ।।६४।।
तदा सीम्नि ब्रह्महदे तेजआनन्दचेतने ।
स्नात्वा यान्ति ब्रह्मतनुं परज्योतिःप्रतापतः ।।६५।।
निष्पद्यन्ते तदात्मानः स्वेन रूपेण मूर्तयः ।
नरो वा यदि वा नारी भक्त्या यान्ति यदाऽक्षरम् ।।६६ ।।
सीम्नि ब्रह्महदे स्नान्ति तनुर्ब्राह्मी स्वयं भवेत् ।
नाऽन्यद्रव्यविभूतेर्वा योगो देहेऽस्ति कश्चन ।।६७।।
आत्मा सुदृक् हरिरूपाऽनुरूपो दृश्यते स्वयम् ।
न योगो न विभागो वा न योगिद्रव्यसाकृतिः ।।६८।।
एकात्मतत्त्वमूर्त्यात्मा सुमूर्तः स हरिर्यथा ।
महामाया तु विरजा सा तु वैकुण्ठगामिनाम् ।।६९।।
वैकुंठमाययोर्मध्ये नारायणद्रवात्मिका ।
दृश्यते तत्र संस्नात्वा श्रीर्यथा पार्षदा यथा ।।1.117.७०।।
निष्पद्यन्ते दासदास्यस्तथा नित्या विकुंठके ।
यन्तु ज्योतिःपरं व्योमाऽक्षरं ब्रह्म सनातनम् ।।७१ ।।
सच्चिदानन्दतत्त्वं तद्दिव्यं वै ब्रह्मसंज्ञितम् ।
कोटिसूर्याग्निरोमैकमजरं लयवर्जितम् ।।७२।।
स्वप्नादिशून्यमानन्दवार्धिशीतलशान्तिकृत्
यदक्षरं वेदगुप्तं निषेदुर्मुक्तकोटयः ।।७३।।
तन्न विदुः ऋचस्तस्य विदस्तत्र समासते ।
तद्विष्णोः परमं स्थानं यत्प्रपश्यन्ति सूरयः ।।७४।।
वैराजा अपि यल्लोकं न वै पश्यन्ति यत्पदम् ।
यत्र गावो भूरिशृंगा आयताः सुखदाः सदा ।।७५।।
तद्वै धाम परं कृष्णः कृष्णस्य गोसुखावहम् ।
आदित्यवर्णं तमसः परस्ताद्यान्ति तद्विदः ।।७६।।
तत्र पूर्वे ह्यनादिनः साध्या मुक्ता वसन्ति हि ।
विश्वे विश्वाद्गता देवा मुक्ताः सचन्त तत्सुखम् ।।७७।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने परब्रह्माऽक्षरधामविभूतिलीलाब्राह्मीतनुनारायणनारायणीगौरवप्रभृतिवर्णनंनामा सप्तदशाधिकशततमोऽध्यायः ।। ११७।।