लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ११६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ११५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ११६
[[लेखकः :|]]
अध्यायः ११७ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततः शंभुर्मन्त्रमाहात्म्यमुत्तमम् ।
पार्वतीं प्राह सर्वार्थं सबीजं च सविस्तरम् ।। १ ।।
अवैष्णवोपदिष्टेन मन्त्रेण नैव सिद्ध्यति ।
मोक्षो वा कार्यमेवापि तस्माद्वैष्णवमाश्रयेत् ।। २ ।।
वैष्णवाचार्यदत्तो वै मन्त्रः सर्वार्थसाधकः ।
गुरुं तु वैष्णवं कुर्यान्नाऽवैष्णवं कदाचन ।। ३ ।।
वैष्णवस्य गुरोर्योगाच्छुद्धा भवन्ति मानवाः ।
बैष्णवस्तु गुरुः प्रोक्तो नारायणस्वरूपकः ।। ४ ।।
नारायणसमो देवो गुरुर्वै तारयेज्जनान् ।
गुरुर्नारायणः साक्षान्मन्त्रदो मोक्षदस्तथा ।। ५
न वै नारायणान्न्यूनो नारायणसुखप्रदः ।
नारायणसमो देहे नारायणसमो गुणे ।। ६ ।।
नारायणसमो मोक्षे नारायण इवार्थदः ।
तस्माद्वैष्णवमूर्धन्याद्गुरोर्ग्राह्यः सुमन्त्रकः ।। ७ ।।
सहस्रशाखाध्यायी च सर्वयज्ञाधिकारवान् ।
विप्रादिजन्मवाँश्चापि न गुरुः स्यादवैष्णवः ।। ८ ।।
गुरुमाश्रित्य मन्त्रार्थः सम्यग् ज्ञातव्य एव च ।
शंखचक्रादिचिह्नाक्तः कृतोर्ध्वपुंड्रचंद्रकः ।। ९ ।।
कण्ठस्थतुलसीमालो मन्त्रार्थं चिन्तयेद् बुधः ।
न्यासश्चाष्टाक्षरो मन्त्रो 'ब्रह्माहं व्रह्मभक्तोऽस्मि' ।। 1.116.१०।।
अन्येऽपि वैष्णवा मन्त्रा 'लक्ष्मीनारायणा' दयः ।
न्यासो मन्त्रो मन्त्ररूपं वैष्णवानां परं मतम् ।। १ १।।
तदन्ये वैष्णवा मन्त्रास्तारकाः सन्ति देहिनाम् ।
न्यासार्थे तु परिज्ञाते ज्ञातव्यार्थो न शिष्यते ।। १२।।
तस्माच्छृणु महादेवि! मन्त्ररत्नार्थमेव च ।
ब्रह्माहं ब्रह्मभक्तोऽस्मि तत्र चतुष्पदानि वै ।। १३।।
ब्रहत्वाद् बृंहणत्वाच्च व्यापकं ब्रह्म चोच्यते ।
तद्वै ब्रह्म भवेद् द्वेधा साकारं च निराकृति ।। १४।।
साकारं मूर्तिमत्सेवाधर्मवद्धाम्नि संस्थितम् ।
सेवक चाक्षरं ब्रह्मा वर्तते पार्षदा यथा ।। १५।।
कदाचिन्मम मुक्ताख्यं कदाचिच्छ्रीस्वरूपकम् ।
नररूपं कदाचित्तु कदाचित् सिंहमासनम् ।। १६।।
तस्य धर्मोऽनन्यसेवा पातिव्रत्येन सेवनम् ।
सेवाधर्मो ब्रह्मधर्मो तद्वद् ब्रह्मसुमूर्तिकम् ।। १७।।
द्वितीयं तु निराकारं ब्रह्मलोकः स उच्यते ।
अक्षरं धाम चेत्युक्तं श्रीहरेर्व्योमधाम तत् ।। १८।।
अतितेजोमयं शान्तं रम्यमाह्लादसौख्यदम् ।
तेजोमयः प्रदेशः स व्यापकं धाम चोच्यते ।। १९।।
परब्रह्मनिवासाय मुक्तानां वासहेतवे ।
सर्वदा शाश्वतं रूपं वर्तते दिव्यभूस्तरः ।।1.116.२०।।
सच्चिदानन्दतत्त्वं तत् चिदाकाशाख्यमेव वै ।
तत्र दिव्यो हरिः साक्षात्पुरुषोत्तमसंज्ञकः ।।२१।।
वसत्येव परे धाम्बि चाक्षराख्ये सुखाश्रये ।
तस्य धाम्नो भवत्येव धर्मो निर्लेपितात्मकः ।। २२।।
मायातत्त्वेषु सर्वेषु व्यापकं चाऽप्यलेपि तत् ।
मायाधर्मैर्न लेपोऽस्ति तस्मादलेपि कीर्त्यते ।।।२३।।।
इत्येवं द्विविधौ धर्मौ सेवा निर्लेपता तथा ।
सेवकश्चापि निर्लेपो ब्रह्मशब्दार्थ उच्यते।।।
अहंशब्दः शरीर्यर्थमात्मानं बोधयत्यपि ।
विशेषदेहमापन्नश्चेतनश्चाहमुच्यते ।।२५।।
मुमुक्षुस्तादृशो ह्यात्मा देहभिन्नस्तदाश्रितः ।
अहंपदेन बोद्धव्यो नामरूपोपलक्षितः ।।२६।।
पुंस्त्रीशारीरआत्माहं निर्लेपः सेवकस्तव ।
इति ब्रह्माहमित्यस्य तात्पर्योर्थोऽवधार्यताम् ।।२७।।
ब्रह्मभक्तपदे व्रह्म परब्रह्मपद परेश्वरः ।
परमात्माऽक्षरपरः पुरुषोत्तम उच्यते ।।।२८।।
तस्य वै विविधा भक्तिः पातिव्रत्यसमाह्वया ।
तदाश्रयः सदा भक्तः प्रपन्नः शरणागतः ।।२९।।
भक्तिः प्रपत्तिः शरणागतिः षड्रूपधारिणी ।
विश्वासो वरणं न्यासः कार्पण्यं च स्थिरा मतिः ।।1.116.३ ०।।
अनुवृत्तिश्च बोध्या सा षड्विधा शरणागतिः ।
पत्नी देहः पतिश्चात्मा तयोरैक्येन वर्तनम् ।।३ १।।
पातिव्रत्यं भवेद्धर्मः सा भक्तिः पतिसेवनम् ।
श्रवणं कीर्तनं तस्य स्मरणं पादसेवनम् ।।३२।।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।
इति भक्तिः प्रेमपूर्वा सेवा वै स्वामिसेवनम् ।।।३ ३।।
निपत्य पादयोस्तस्य यत्करोतु कुरुष्व मे ।
इत्यर्पणं सर्वथा सा प्रपत्तिः प्राणनार्पणम् ।।३४।।
व्याप्याऽधीनाऽसमर्थादिधर्मी योऽहंपदाश्रयः ।
सोऽहं पत्युः स्वामिनश्च प्राणप्रियस्य सेवनम् ।। ३५।।
कारोमीत्येव त्रैकालाऽबाध्यसेवाश्रयोऽभवम् ।
समष्ट्यर्थस्तु 'ब्रह्माहं ब्रह्मभक्तोऽस्मि मन्त्रजः ।। ३६ ।।
व्याप्याऽधीनाऽसमर्थादिधर्म्यहं सेवको हरेः ।
निर्लेपः सन् पातिव्रत्यश्रवणादिकभक्तिमान् ।। ३७।।
शाश्वतिकपदावासोऽभवमित्यर्थ ईरितः
एनं वै मन्त्ररत्नार्थं वारं वारं विचार्य च ।।३८।।
ब्रह्मानन्दे सुमग्नेन भाव्यं भक्ते न सर्वथा ।
नारायणं विना नैव सुखदो मोक्षदोऽपरः ।। ३ ९।।
तस्मात् तत्रैव सर्वस्वं स्थाप्यं चार्प्यं समन्ततः ।
मन्त्रादौ ब्रह्मणो नाम नियोज्यं ओमिति ध्रुवम् ।।1.116.४० ।।
अकारोकारमवर्णा वेदास्त्रयस्तु वै खलु ।
अकारेण स्वयं विष्णुरुकारेणोच्यतेऽब्धिजा ।।४१ ।।
मकारेण तयोर्भक्त ओमितित्रय एव ते ।
अकारो वासुदेवः स्यादुकारः श्रीप्रबोधकृत् ।।४२।।
मकारेण तयोर्दास ओमित्येव त्रयो मताः ।
अकारस्तु परब्रह्म उकारो ब्रह्म कथ्यते ।।४३ ।।
मकारेण तयोर्भक्तः सेवादास इति स्मृतः ।
भास्करस्य प्रभेवास्ति नित्यं ततोऽनपायिनी ।।४४।।
लक्ष्मीर्नारायणतनुः पत्नी विष्णोर्मनोरमा ।
जगतामीश्वरी नित्या माता जगद्विधारिणी ।।४५।।
ज्ञानो ज्ञानगुणो ज्ञानाश्रयः सूक्ष्मो हृदिस्थितः ।
चेतनानन्दसन्दोहाश्रय आत्मा ह्यहं मतः ।।४६।।
शेषभूतो दासभूतो भक्तः श्रीमद्धरेर्मतः ।
स्वस्वत्वं तु हरौ न्यस्य तदायत्तात्मजीवनः ।।४७।।
नारायणस्य सामर्थ्यान्नाऽलभ्यं चात्मनो भवेत् ।
नराणां तु समूहो वै नारा आत्मान एव ते ।।४८ ।।
तत्रायनं भवेदस्य तेन नारायणः स्मृतः ।
सर्वचिदचितत्त्वेषु व्यापकः श्रीहरिस्तु सः ।।४९ ।।
नराज्जातं जलं नारं तत्रायनान्नरायणः ।
नराणां त्रगतां यत्र प्रलयेऽयनमुच्यते ।।1.116.५ ० ।।
तस्मान्नारायणो देवः सृष्टिसंहारकारकः ।
यत्र सर्वं यतः सर्वं यश्च सर्वं नरायणः ।।।५१।।।
अनन्तचक्षुश्चरणोऽनन्तशीर्षाऽमृताधिपः ।
हिरण्यगर्भो विष्णुर्वै भूतभव्यभवत्प्रभुः ।।५२।।
ब्रह्मसृष्टावीशसृष्टौ जीवसृष्टावपि स्थितः ।
त्रिपाल्लोके ह्येकपाद व्याप्य तिष्ठति यो हरिः ।।।५३।।
परब्रह्माऽक्षरंब्रह्म वासुदेवो हिरण्मयः ।
वैराजो विष्णुरीशेशो यज्ञो वै सविता शिवः ।।५४।।
स च वै सर्वतस्पृत्वा भूमिमावृत्य तिष्ठति ।
दित्यदित्यौ ततो जाते ये के चोभयतोदतः ।।।५५।।।
ग्राम्यारण्यास्ततो जाताः साध्याश्च ऋषयश्च ये ।
यज्ञसूत्रास्तथाऽसूत्रास्तत एवाग्नयस्तथा ।।५६।।
कृताः परिधयस्तेनाऽऽनखचूडामयं जगत् ।
दिशांपालास्तथा लोकालोकपालास्ततोऽपि हि ।।५७।।
जायन्ते च तस्तस्मिँस्तस्य भक्तो भवाम्यहम् ।
इत्यर्थंं परिविज्ञाय सिद्धिं विन्दति सेवकः ।।५८।।
भक्तभूतं दासभूतं देहभूतं सदा जगत् ।
भजनीयं सेवनीयं देहिनं तं समाश्रयेत् ।।५९।।
अथाऽन्यमन्त्रसत्यार्थरहस्यं शृणु सुन्दरि! ।
लक्ष्मं मोहकरं चिह्नं पारावारकृपा तु सा ।।1.116.६० ।।
तया युक्ता महाशक्तिः सा वै लक्ष्मीरुदाहृता ।
नारायणस्तया युक्तो लक्ष्मीनारायणः प्रभुः ।।६ १ ।।
श्रीः प्रोक्ता दिव्य सम्पत्तिः सा यस्याऽस्तीति स प्रभुः ।
श्रीमन्नारायणः प्रोक्तस्तत्कृपा सम्पदाम्प्रदा ।।६२।।
अव्याहतं स्वमैश्वर्यं षड्विधं चाष्टधाऽपि च ।
सर्वज्ञाता नित्यतृप्तिः सफलेच्छाऽहनाकृतिः ।।६ ३।।
नित्यानन्दो नियामकतेति षट् सन्ति तत्र वै ।
आहतपाप्मताऽशोकताऽविजिघत्सता तथा ।।६४।।
तथाऽपिपासता चैव विजरत्वं विमृत्युता ।
सत्यसंकल्पता सत्यकामतेतिगुणाष्टकम् ।।६५।।
यत्राऽस्ति स स्वयं स्वामी नारायणः परः प्रभुः ।
नं ब्रह्मचर्यं राति यो नरो नारायणः प्रभुः ।।६६।।
हरति भक्तदुःखानि हरिनारायणः स हि ।
मायां निकृष्य नयते कृष्णनारायणः स हि ।।६७।।
वसति दीव्यति चान्तर्यामी यश्च प्रकाशकः ।
वासुदेवः स वै नारायणः श्रेयस्करः प्रभुः ।।६८।।
रमन्ते योगिनो यत्र रामनारायणः स हि ।
ओमित्युक्तः परब्रह्म श्रीरित्युक्ता हरिप्रिया ।।६९।।
ताभ्यां युक्तो नरसंघस्तत्रान्तर्यामिता हरेः ।
ऐश्वर्यं च तथा वीर्यं यशो लक्ष्मीश्च विज्ञता ।।1.116.७० ।।
वैराग्यं चेति षष्णां वै भगसंज्ञा प्रकीर्तिता ।
तद्वते वासुदेवाय नम उत्कृष्टवान् भव ।।७ १ ।।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांसि यत्र च ।
सन्त्ययं भगवान् श्रीमान् परब्रह्मपरात्परः ।७२।।।
आत्मायनाय जानामि ध्यायाम्यन्तःस्थितं हरिम्।
व्यापकः स प्रभुस्त्वस्मान्मोक्षकार्ये प्रवर्तयेत् ।।७३ ।।
गायत्रीमन्त्रमित्यर्थं ज्ञात्वा यो भजते हरिम् ।
तस्य मुक्तिः सदा देवि! हस्तमध्ये कृतास्पदा ।।
श्रीहरिः शरणं मेऽस्ति प्रपत्तिरर्थसंभृता ।।७४।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुग-
सन्ताने वैष्णवगुरुप्रदत्तविविधशरणागति-
मन्त्राणामर्थप्रदर्शननामा षोडशा-
धिकशततमोऽध्यायः ।। १ १६।।