लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ११३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ११२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ११३
[[लेखकः :|]]
अध्यायः ११४ →

श्रीनारायण उवाच--
पार्वत्या वचनं श्रुत्वा वैष्णवश्च महेश्वरः ।

संप्रवक्तुं समारेभे तज्जिज्ञासानिवृत्तये । । १ । ।
शृणु सति! प्रवक्ष्यामि विष्णुं भजेऽहमंजसा ।
कृष्णनारायणो विष्णुः परब्रह्म परेश्वरः । । २ । ।
भजनीयः पूजनीयो जपनीयश्च सर्वदा ।
मया दीक्षा तदीया वै ग्रहीता बदरीवने । । ३ । ।
तं वै परेश्वरं नित्यं ध्याये भजामि भावतः ।
पार्वती प्राह देवेश! विस्तरात् तद्यथातथम् । । ४ । ।
मामपि श्रावय सर्वं यदि ग्राह्यं मया भवेत् ।
येनाऽहमपि गोविन्दमाश्रित्य श्रेय आप्नुयाम् । । ५ ।।
कथं नाऽद्यापि मे नाथ! कथितं नहि तत्क्वचित् ।
एतावत्कालपर्यन्तं श्रीहरेर्भजनं विना । । ६ ।।
दिवसाः सर्वथा व्यर्था गमिता मे हरिं विना ।
यद्यहं ते देवदेव! सत्पात्र सम्मतास्मि वै । । ७ । ।
तदा मामपि भक्तां श्रीहरेः संदीक्षय प्रभो ।
गुरुर्बह्मा गुरुर्विष्णुर्गुरुदेवो जनार्दनः ।। ८ ।।
गुरुः स्वस्याः पतिः प्रोक्तः पत्यौ सर्वं समास्थितम् ।
पत्युः सेवा परा सेवा पत्युर्भक्तिः परा मता ।। ९ । ।
पतिधर्मः परो धर्मस्तं धर्मं देहि शंकर ।
पतिस्तु वैष्णवो यस्याः पत्नी यदि न वैष्णवी । । 1.113.१० ।।
अवैष्णव्या कृता सेवा भक्तिः सर्वापि निष्फला ।
अवैष्णव्या कृतं भोज्यमशुद्धं पावनं नहि ।। ११ । ।
अवैष्णव्याः करजलं ह्यपेयं पावनं नहि ।
अवैष्णव्या गृहं सर्वं श्मशानमिति गीयते ।। १ भे ।।
अवैष्णव्या गृहाल्लक्ष्मीर्निःसरति सर्वथा ।
तस्मादहं स्वामिधर्मं वैष्णवं पावनं परम् । । १३ । ।
संग्रहीतुं समिच्छामि विस्तराद्ब्रूहि तत्त्वतः ।
श्रुत्वैवं पार्वतीगाथां प्राह शंभुर्महेश्वरीम् । । १४ ।।
नाद्यापि पात्रता तेऽभूत् तस्मान्न कथितं मया ।
बहूनां जन्मनां पुण्यैः पात्रता प्राप्यते खलु ।। १२ । ।
एतज्जन्मनि पात्रत्वं पुष्टिं याति कथाश्रवात् ।
सतां तु सेवया चात्मा दिवो भवति नित्यशः । । १६ । ।
पातिव्रत्येन पत्युश्च सेवयाऽऽत्मा बलं व्रजेत् ।
बलवान्भाग्यवान्साधुसेवको यो भवेज्जनः । । १७ । ।
तस्यैव निर्मला वृत्तिर्भवत्यान्तरबाह्यजा ।
नैर्मल्यं तु भवेद्बीजं श्रद्धायाः सर्वथा प्रिये ।। १८ । ।
ततो भवति जिज्ञासा तया चाऽप्यधिकारिता ।
तथा सति गुरोर्योगे सर्वं फलति यत्कृतम् ।। १ ९।।
तवेदानीं तु तत्सर्वं समुत्पन्नं च योजितम् ।
ह्युपस्थितं च संजातं तस्मात् त्वं पात्रमुत्तमम् ।। 1.113.२० ।।
जाताऽस्यद्य महादेवि! प्रसन्नश्च भवाम्यहम् ।
अहो मम प्रिया पत्नी वैष्णवीं स्थितिमिच्छसि ।। २ १ । ।
अस्मात् किन्नु महद्भाग्यं परं मम कृते भवेत् ।
अत्यतीव प्रसन्नोऽस्मि श्रुत्वा ते हृदयं प्रिये । । २२।।
सर्वं ते ऽहं प्रदास्ये वै यतस्त्वं वैष्णवी भव ।
देवि! चाद्यापि पर्यन्तं भोज्यं पेयं यदर्पितम् ।। २ ३ ।।
विष्णवे तत्समर्पय्य पश्चाद् भुक्तं मया हि तत् ।
किं वच्मि देवदेवेशि! ह्यद्याऽऽनन्दमयो महान् ।। २४।।
सूर्योदयः सुवर्णस्य मम जातोऽस्ति सर्वथा ।
पतिसेवाफलं सर्वं सखि! ते भवतु प्रिये! ।।२५।।।
गृहं सर्वं मम भूयाद्वैष्णवं भाग्यवानहम् ।
अद्य देवि! देहशुद्ध्यै कार्तिके शुक्लपक्षके ।। २६ ।।
दशम्यां तु निराहारमुपवासं कुरु प्रिये! ।
देहशुद्ध्यर्थमेवात्र पंचगव्यं गृहाण च ।। २७।।
मण्डपं श्रीकृष्णपूजाकृते रचय शोभनम् ।
कदलीस्तंभसन्नद्धमशोकदलतोरणम् ।। २८ ।।
सप्तधान्यकृतं तत्र सर्वतोभद्रमण्डलम् ।
रचय त्वं महाभागे तत्र स्थापय सद्घटम् ।। २९ ।।
अष्टदिक्षु घटान्पार्श्वे स्थापयाऽष्टौ नवाँस्ततः ।
कण्ठे वेष्टय वस्त्राणि मुखे पंचार्द्रपल्लवान् ।। 1.113.३ ० ।।
नारीकेलफलान्यष्ट कृष्णं लक्ष्मीं च तत्र वै ।
मध्ये घटे स्वर्णपात्रे प्रतिष्ठापय भावतः । । ३१ ।।
गणेशपूजनं कृत्वा श्रीकृष्णपूजनं ततः ।
लक्ष्म्याश्च पूजनं नारायणेन सह कारया ।। ३२।।
निवेदय वराण्येव ह्युपचाराणि षोडश ।
रात्रौ जागरणं कुर्याः प्रातः स्नानं तथा कुरु ।। ३३ ।।
उपचारैः षोडशभिः श्रीकृष्णं प्रतिपूजय ।
तत्र समागतं दीक्षाविधिज्ञातारमेव च ।। ३४।।
आचार्यं मां श्रय पूर्वं हर्याश्रयणसिद्धये ।
आचिनोति च शास्त्रार्थानाचारे स्थापयत्यपि ।। २५।।
स्वयं त्वाचरते यस्मात् ब्रह्माध्यापयति ध्रुवम् ।
मन्त्रं जानाति विष्णोश्च भक्तिं करोति सर्वथा । । ३६।।
श्रीमन्नारायणसम्प्रदायविद्यां तु वेत्ति यः ।
तारयति स्वकं शिष्यमाचार्यः स मतो गुरुः ।। ३७।।
तद्वाक्येषु सुविश्वासः शिष्यो भक्तिपरायणः ।
गृह्णीयान्मन्त्ररत्नं तदेकादश्यां तु कार्तिके ।।३८।।
गृहाण देवि! दीक्षांगं शंखचक्रसुमुद्रणम् ।
पंचामृतैः प्रसंस्नाप्य शंखं चक्रं प्रपूज्य च ।।३९।।
अग्निं संस्थाप्य विधिना जुहयाज्यं विधानतः ।
घृतपायसयोर्होममष्टोत्तरशतं कुरु ।।1.113.४० ।।
शंखचक्रे प्रतप्ते च कुरु ह्यग्नौ ततो गुरुः ।
अहं शंभुर्गुरुस्त्वां वै चक्रेण जलजेन च ।।४१।।
अंकयामि द्वयोर्बाह्वोः पुनः प्रपूज्य तद्द्वयम् ।
कलशस्थजलेनाऽत्राऽभिषेकं कुरु मस्तके ।।।४२।।
नूतनां शाटिकां धृत्वा जलेनाचमनं कुरु ।
ललाटे तिलकं चोर्ध्वपुंड्रं सचन्द्रकं कुरु ।।४३।।
चन्दनेन कुंकुमेन ततो मन्त्रं गृहाण मे ।
'ब्रह्माहं ब्रह्मभक्ताऽस्मि' त्रिवारं तद् गृहाण मे ।।४४।।
ततो मां प्रपूजयाऽद्रितनये! मां नमस्कुरु ।
गृहाण तुलसीकण्ठीं कण्ठे धारय चाद्रिजे ।।४५।।
लक्ष्मीनारायणश्चेति मन्त्रं गृहाण चाद्रिजे! ।
महेश्वरीति ते नाम परमेश्वरी चेत्यपि ।।४६।।
बोध्यं ततः कुरु ध्यानं श्रीहरिं द्विभुजं तथा ।
लक्ष्मीनारायणं दिव्यं ध्याने गृहाण सर्वदा ।।४७।।
परस्माद् ब्रह्मणो नारायणाद् देवोऽस्ति नो परः ।
तस्यैव चापरो मन्त्रः 'श्रीहरिं शरणं मम' ।।४८।।
गृहाणैनं शिवेऽद्य त्वं जाता पूज्या सुवैष्णवी ।
कुरु भक्तिं हरेर्नित्यं गुरोर्मे सेवनं कुरु ।।४९।।
शिष्यप्रशिष्यशाखाश्च मन्त्रदानेन वर्धय ।
लक्ष्म्यावासस्त्वयि प्राप्तो मयि नारायणस्य च ।।1.113.५०।।
आवां भक्तिं करिष्यावो नारायणस्य सर्वदा ।
सेवां तस्य करिष्यावो येन मुक्तिर्ध्रुवा भवेत् ।।५१।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कैलासे शंभुना पार्वत्यै श्रीवैष्णवीदीक्षादत्तेत्यंगभूतकाण्डनिरूपणनामा त्रयोदशाऽधिकशततमोऽध्यायः ।। ११ ३।।।