लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ११२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १११ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ११२
[[लेखकः :|]]
अध्यायः ११३ →

श्रीलक्ष्मीरुवाच-
नारायण हरेकृष्ण प्राणनाथ महाप्रभो ।
भवतोक्तं महादेवो वैष्णवाग्र्योऽस्ति सर्वथा ।। १ ।।
कथं स वैष्णवः प्रोक्तस्तत्कथां श्रोतुमुत्सहे ।
क्व कदा वैष्णवो जातः श्रावयाऽद्य मम प्रिय! ।। २ ।।
श्रीनारायण उवाच-
शृणु देवि! कथां दिव्यां महावैष्णवकारिणीम् ।
मोक्षदां विष्णुसम्बद्धां कथयामि समासतः ।। ३ ।।
सन्ति पृथ्व्यां पर्वताश्च देवादिवासदायिनः ।
तेषां प्रियतमः शैत्यप्रदो मोक्षप्रदस्तथा ।। ४ ।।
हिमालयः सदा शान्तस्तत्र बदरिकाश्रमम् ।
पुरुषौ तत्र वर्तेते नरनारायणावुभौ ।। ५ ।।
तत्रैकः श्वेतपुरुषश्चान्यः कृष्णस्तु रूपतः ।
अनुजः पिंगलः प्रोक्तः कृष्णो नारायणः स्वयम् ।। ६ ।।
द्विबाहुश्च चतुर्बाहुर्नरो नारायणः क्रमात् ।
तत्र देवा वसन्तीह ऋषीणां चाश्रमाः शुभाः ।। ७ ।।
गंगा यत्राऽलकनन्दा दिव्या वहति सर्वदा ।
एकस्मिन्वत्सरे तत्र महेशस्तप्तवाँस्तपः ।। ८ ।।
तदा नारायणो देवो भक्तनामभयंकरः ।
सुप्रसन्नोऽब्रवीच्छंभुं वरं वरय शंकर ।। ९ ।।
यं यमिप्ससि देव त्वं तं तं कामं ददाम्यहम् ।
शंभुः प्राह तदा नारायणं तु करुणाकरम् ।। 1.112.१० ।।
अहं गृह्णामि भो देव यदि दातुं त्वमिच्छसि ।
द्वौ वरौ मम दीयेतां सुप्रसन्नो जनार्दन! ।। १ १।।
तव भक्तिः सदैवाऽस्तु भक्तराजो भवाम्यहम् ।
सर्वलोके प्रसिद्धः स्यां शिवो भक्तो महानिति ।। १२।।
विष्णुभक्त इतिख्यातिर्लोकेषु भुवनेष्वपि ।
जायतां सर्वदा विष्णु! नारायण! जगत्प्रभो! ।। १३ ।।
अथ ये मां भजिष्यन्ति ग्रहीष्यन्त्याश्रयं मम ।
तस्य तव प्रसादेन मुक्तिदाता भवाम्यहम् ।। १४।।
यस्याहं वरदाता स्यां तस्य मुक्तिर्भवेद् ध्रुवा ।
विष्णुभक्तो मुक्तिदाता स्यां मे देहि वरद्वयम् ।। १५।।
इति श्रुत्वा स्वयं कृष्णः प्राह शंभुं गुणाकरम् ।
भव शंभो मम भक्तो दाता मुक्तेश्च संभव ।। १६।।
एवं वरौ तदा लब्ध्वा शंकरः प्राह तं हरिम् ।
देहि दीक्षां च मे नाथ वैष्णवश्च भवाम्यहम् ।। १७।।
नाऽवैष्णवो भवेद्भक्तो मुक्तिदो नाऽप्यवैष्णवः ।
भुक्तिर्मुक्तिश्च ते योगाद्वैष्णवत्वे सति ध्रुवा ।। १८।।
वैष्णवेन ततो भाव्यं देहि दीक्षां कृपां कुरु ।
विष्णुर्नारायणो देवः श्रुत्वा प्राह तु शंकरम् ।। १ ९।।
साधु संकल्पितं शंभो सर्वलोकहितार्थि यत् ।
गृहाण शंभो प्रथमं मन्त्ररत्नं शुभावहम् ।।1.112.२० ।।
'ब्रह्माहं ब्रह्मभक्तोस्मि जपस्वैनं निरन्तरम् ।
मन्त्ररत्नमिदं नाम प्रपाति शरणागतम् ।।२१ ।।
लक्ष्मीनारायणश्चेति मन्त्रः सर्वफलप्रदः ।
श्रीमन्नारायणश्चेति मन्त्रः सर्वार्थसाधकः ।।२२।।
स्वामिनारायणश्चेति मन्त्रो मोक्षप्रदः स्मृतः ।
नरनारायणश्चेति मन्त्रो ब्रह्मगतिप्रदः ।।२३।।
हरिनारायणश्चेति मन्त्रो दुःखविनाशकः ।
कृष्णनारायणश्चेति मन्त्रो विभूतिदायकः ।।२४।।
मन्त्रो वासुदेवनारायणस्त्वैश्वर्यदायकः ।
रामनारायणश्चेति मन्त्रः पापविनाशकः ।।२५।।
ॐ श्रीनारायणो मन्त्रो भुक्तिमुक्तिप्रदायकः ।
मन्त्रः प्रपत्तिदस्त्वेषः-'श्रीहरिः शरणं मम' ।।२६।।।
इत्येवं मन्त्रदशकं देयं भक्तेभ्य उत्तमम् ।
ॐ नमो भगवत वासुदेवायेति मन्त्रराट् ।।२७।।
मन्त्रराजं मन्त्ररत्नं दशमन्त्राँश्च शंकर! ।
एतान् द्वादशमन्त्राँस्त्वं देहि शिष्यजनाय वै ।।२८।।
मन्त्रोच्चारणमात्रेण चातितुष्टोऽस्मि नित्यदा ।
मन्त्राधिकारिणः सर्वे ये मे भक्ता मुमुक्षवः ।।२९।।
ज्ञानिनो योगिनश्चान्ये जडा नार्यस्तथाऽऽश्रिताः ।
भक्तिश्रद्धान्विताः सर्वे मानवा ह्यधिकारिणः ।।।1.112.३० ।।
ब्रह्माण्डे येऽत्र तिष्ठन्ति सुराद्याश्चाधिकारिणः ।
तेभ्योऽन्यतममन्त्रो वै दातव्यः श्रेयसे भवेत् ।।३ १।।
शंखं चक्रं गदां पद्मं गृहाण भुजयोस्तथा ।
तप्तमुद्रांकनं चैतच्चन्दनांकनमेव वा ।।३२।।
गृहाण शंभो बाह्वोस्तद्विष्णुरूपत्वदायकम् ।
पञ्चविंशत्यक्षरां च गायत्रीं च गृहाण वै ।। ३३ ।।
ॐ नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो ब्रह्म प्रचोदयादिति जप्याऽन्वहं त्वया ।।२४।।।
ध्यायस्व मां सुरूपं च द्विभुजं वा चतुर्भुजम् ।
द्विभुजं ब्रह्मणो रूपं ब्रह्मधामनि संस्थितम् ।।३५।।
सर्वावतारसंधर्तृ परब्रह्मात्मकं शुभम् ।
चक्रहस्तं तथाऽभयप्रदहस्तं द्विहस्तकम् ।।।३६।।
हारकुण्डलमालाकटकमुकुटभूषणम् ।
पीताम्बरं षोडशाब्दं प्रसन्नं परमेश्वरम् ।।३७।।
चतुर्भुजं शंखचक्रगदापद्मकरान्वितम् ।
वामांकस्थश्रिया सार्धं रूपं ध्यायस्व हृद्गमम् ।।३८।।
अथ मां षोडशदिव्योपचारैः पूजयस्य च ।
आवाहनं स्वासनं च पाद्यमर्घ्यं ततः परम् ।।३९।।
आचमनं तथा स्नानं मधुपर्कं तथाऽम्बरम् ।
चन्दनं भूषणं पुष्पं धूपं दीपं निवेदनम् ।।1.112.४०।।
यज्ञसूत्रं च ताम्बूलं देहि मे भक्तिभावतः ।
सुगन्ध्यर्कं कर्पूरं च सुगन्धं देहि मेऽनघम् ।।४१ ।।
कुरु प्रदक्षिणां दण्डवच्च नमस्क्रियाः कुरु ।
स्तुतिं पुष्पाञ्जलिं देहि क्षमां याचस्व मत् तथा ।।४२।।
विसर्जय बहिष्टो मां स्वे हृदि स्थापयाऽऽत्मनि ।
श्रवणं कीर्तनं चैव स्मरणं पादसेवनम् ।।४३।।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।
ध्यानं समाधिरैक्यं च कुरु भजस्व साधनैः ।। ४४।।
ऊर्ध्वपुण्ड्रं च तिलकं ललाटे कुरु शंकर ।
बाह्वोश्च हृदये चाप्यूर्ध्वपुण्ड्रं तिलकं कुरु ।।४५।।
चन्दनेन सुगन्धेन सत्केसरयुतेन च ।
तन्मध्ये चन्द्रकं तेन कुंकुमेनाऽथवा कुरु ।।४६।।
कण्ठे गृहाण तुलसीग्रैवेयं द्विसरं शुभम् ।
कण्ठी सा तु सदा धार्या न तु त्याज्या कदाचन ।।४७।।
तुलसीमालिकां चाष्टोत्तरशतार्थपूरिताम् ।
गृहाण जपकार्याय मण्यादिनिर्मितां च वा ।।४८ ।।
ईश्वरान्तं च ते नाम प्रकरोमि महेश्वरम् ।
पालकेन रमया च कृतस्त्वं 'परमेश्वरः' ।।४९।।
परेण च मया लक्ष्म्या कृतस्त्वं 'परमेश्वरः' ।
पं विष्णुं रं रमां मश्च मिमीते भजते तु यः ।।1.112.५० ।।
ऐश्वर्याश्रय इत्युक्तस्त्वं शंभुः 'परमेश्वरः' ।
ईश्वरान्तानि नामानि तव शंभो भवन्तु वै ।।५१ ।।
एवं लक्ष्मि! मया दीक्षा दत्ता श्रीशंकराय वै ।
तदारभ्य सदा शंभुर्भजते मामनन्यभाग् ।।५२।।
दीक्षामादाय शंभु स गतो वै गन्धमादने ।
स्वीयावासे तु कैलासे भजते मामहर्निशम् ।।५३।।
पत्रं पुष्पं फलं कन्दं तोयं ग्राह्यं च यद्भवेत् ।
तत्सर्वं मामनिवेद्य नैव गृह्णाति शंकरः ।।५४।।
करोति तिलकं स्थाने मां च जपति मालया ।
तिष्ठति ध्यानमग्नोऽसौ मम मूर्तावनीहया ।।५५।।
दृष्ट्वैवं वैष्णवीं भक्तिं शंकरं प्राह पार्वती ।
कस्य ध्यानं च मालाभिर्जपश्च तिलकादिकम् ।।५६ ।।
क्रियते लोकनाथेन परमेश्वररूपिणा ।
भवानेव परब्रह्म परात्परतरः स्वयम् ।।५७।।
इत्येवं पूर्णरूपस्य कस्य ध्यानं जपश्च वै ।
इति श्रुत्वा महादेवः पार्वतीं प्राह तात्त्विकम् ।।५८।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने बदरिकाश्रमे नारायणेन शंकराय वैष्णवीदीक्षाप्रदानं तदंगकलापादिप्रदर्शन चेति निरूपणनामा
द्वादशाधिकशततमोऽध्यायः ।। १ १२।।