लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०९४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ९४
[[लेखकः :|]]
अध्यायः ०९५ →

श्रीलक्ष्मीरुवाच--
नारायणं भवन्तं वै त्यक्त्वा गणेशपूजनम् ।
प्रथमं वै कथं केन कदा क्लृप्तं तदुच्यताम् ॥ १॥
श्रीनारायण उवाच----
शृणु लक्ष्मि ! कथां रम्यां श्रीकृष्णात्मकबोधदाम् ।
स चांशः कृष्णचन्द्रस्य तथैवाऽयोनिसंभवः ॥ २ ॥
महालक्ष्मीः स्वयं माया दक्षकन्या बभूव ह ।।
सा च नाम्ना सती शंभोर्निन्दया दक्षजन्यया ।। ३ ।।
देहं त्यक्त्वा मेनकायां हिमालयात्तु पार्वती ।
जाता तां पर्वतः पुत्रीं शंकराय ददौ मुदा ।। ४ ।।
तां गृहीत्वा महादेवो जगाम विजनं वनम् ।।
गार्हस्थ्ययोग्यकुट्यां तु सदा निवसतोस्तयोः ॥ ५ ॥
सहस्रवर्षपर्यन्तं शृंगारो ह्यभवत् सुखः ।
देवानां गर्भतो जन्म पुत्राणां नैव जायते ॥ ६ ॥
पुत्राऽलब्ध्या तु पार्वत्याः सुखं किञ्चिन्न जायते ।
दिने दिने गते तस्याः पुत्रस्पृहा व्यवर्धत ॥ ७ ॥
रतेः फलं सुखं पुत्रो ह्युभयं संभवत्यपि ।।
पुत्रफलं विनाऽऽनन्दो वार्धक्ये दुःखदो भवेत् ॥ ८ ॥
पुत्रशून्यं रतिमात्रं भाव्युद्वेगाय कल्प्यते ।।
विनाऽपत्यं स्त्रिया कालक्षेपः कार्यस्तु केन वै ॥ ९ ॥
पत्या समं रतेः कालक्षेपो भवति स्वल्पकः ।।
तदन्यकालगमकं स्त्रियोऽपत्यं भवेदिह ॥1.94.१०॥
लालने पालने तस्य क्रीडनकादिकर्मणि ।।
समयोऽत्येति नारीणां स एव स्वर्ग उच्यते ।।११॥
स्वामिसुखं प्रथमं च स्वर्गं द्वितीयमंगजम् ।
अपत्यसुखकृत्स्वर्गं तृतीयं धनधान्यजम् ।।१२।।
चतुर्थं तु भवेत्स्वर्गमारोग्यं पंचमं यशः ।
इत्येतान्येव सौख्यानि स्वर्गाणि लौकिकानि हि ॥१३॥
इति चिन्तान्विता नित्यं रेमे स्वस्वामिना सह ।
शंभुर्विज्ञाय तद्हार्दं तां पप्रच्छ पतिव्रताम् ।।१४॥
किमिच्छसि प्रिये ! नित्यं किं ते मनसि वर्तते ।
किं वै चिन्तयसे रत्यां ब्रूहि क्रिये तवेप्सितम् ॥१५॥
पार्वती प्राह देवेश ! किं मे न्यूनं तवान्तिके ।
सर्वदः सर्वलोकानां कर्ता लब्धो मया यतः ॥१६॥
यत्र भगवतो वासस्तत्र स्युः सुसमृद्धयः ।
न न्यूनं नाऽप्यशान्तिश्च नाऽलाभः प्रेष्ठवस्तुनः ।।१७।।
ऋतूत्तरं तु नारीणां प्रेष्ठः पतिस्ततः सुतः ।।
मया पतिस्त्रिलोकेशः प्राप्तोऽपि नास्ति मे सुतः ।।१८।।
पुत्रेषणा हृदये मे जागर्ति तव दर्शने ।
यदा यदा तु देवेश पश्यामि त्वां तदा तदा ॥१९॥
संकल्पो जायते मोहाद् बलेन चाग्रपूजया ।।
पतिदेवसमानो मे कदा पुत्रो भवेदिति ॥1.94.२०॥
कान्तानां कान्तविच्छेदः प्रथमं दुःखमुच्यते ।।
कान्तसत्त्वे यद्यरतिद्वितीयं दुःखमुच्यते ॥२१॥
दुःखातिरेकिदुःखं च तृतीयमनपत्यता ।।
त्रैलोक्यकान्तं कान्तं त्वां लब्ध्वापि न च मे सुतः ॥२२॥
या स्त्री पुत्रविहीनाऽस्या जीवनं तन्निरर्थकम् ।
जन्मान्तरकृतं पुण्यं तपोदानजपादिभिः ॥२३॥
तदा पुत्रः प्रजायेत परत्रेह सुखप्रदः ।
सुपुत्रो निजपित्रंशः पितृतुल्यसुखप्रदः ॥२४॥
कुपुत्रस्तु कुलांगारो मनस्तापाय केवलम् ।।
प्रार्थयन्ति जनास्तस्मात् सुपुत्रो मे भवेदिति ॥२५॥
स्वामी स्वांशेन सुस्त्रीणां गर्भे जन्म लभेद् ध्रुवम् ।।
साध्वी स्त्री मातृतुल्या च सततं हितकारिणी ॥२६॥
असाध्वी वैरितुल्या च शश्वत्संतापदायिनी ।
किमुपायं करिष्यामि वद पुत्रफलप्रद ॥२७॥
इत्युक्त्वा पार्वती देवी तूष्णीमास यदा तदा ।।
प्रहस्य शंकरो देवो बोधयामास पार्वतीम् ॥२८॥
शृणु पार्वति ! वक्ष्यामि तव भद्रं भविष्यति ।।
प्रयत्नतः कार्यसिद्धिः सर्वेषां खलु जायते ॥२९॥
सर्वसिद्धिप्रदं हृद्यमुपायं कथयामि ते ।।
हरेराराधनं कृत्वा व्रतं कुरु वरानने ॥1.94.३०॥
पुण्यकव्रतसंज्ञं तद् वर्षमेकं करिष्यसि ।।
मनोरथकल्पतरुं सुखदं पुत्रदं व्रतम् ॥३१॥
सर्वव्रतानां संश्रेष्ठं हरेस्तत्पुण्यकं व्रतम् ।
यथा गंगा सरित्श्रेष्ठा यथा देवेषु वै हरिः ॥३२॥
वैष्णवेषु यथा चाहं देवीषु त्वं महासती ।।
यथा वर्णेषु विप्रो वै श्रेष्ठस्तीर्थेषु पुष्करः ॥३३॥
पुष्पेषु पारिजातं च पत्रेषु तुलसीदलम् ।।
तिथिष्वेकादशी श्रेष्ठा वारेषु रविरुत्तमः ॥३४॥
मासेषु मार्गशीर्षश्च सर्वर्तुषु वसन्तकः ।
संवत्सरो वत्सरेषु कृतं युगेषु चोत्तमम् ॥३५॥
पूज्येषु च यथा विद्वान् माता गुरुजनेषु च ।
पत्नी यथा हितकृत्सु विश्वस्तेषु हृदन्तरम् ।।३६॥
यथा धनेषु रत्नानि प्रियेषु च पतिर्यथा ।।
यथा बन्धुषु सत्पुत्रो वृक्षेषु कल्पपादपः ॥३७॥
तथा हरेर्व्रतं श्रेष्ठं सर्वव्रतेषु पुण्यकम् ।।
फलेष्वाम्रफलं श्रेष्ठं वने वृन्दावनं यथा ॥३८॥
यथा स्त्रीषु शतरूपा ह्युर्वश्यप्सरसां यथा ।।
यथा मातृषु कमला सूर्यस्तेजस्विषूत्तमः ॥३९॥
आह्लादकेषु चन्द्रश्च सुन्दरेषु च मन्मथः ।
श्रेष्ठाः शास्त्रेषु वेदाश्च सिद्धेषु कपिलो यथा ॥1.94.४०॥
कीर्तिदेषु यथा विद्या व्यापकेषु प्रभुर्यथा ।
श्रेष्ठं चक्षुर्यथांगेषु सत्यं पुण्येषु चोत्तमम् ॥४१॥
तपस्सु श्रीहरेः सेवा गव्येषु घृतमुत्तमम् ।।
श्रेष्ठममृतं भक्ष्येषु शुद्धेषु च हुताशनः ॥४२॥
तैजसेषु यथा स्वर्णं मिष्टेषु प्रियभाषणम् ।
पतत्त्रिषु च गरुडः करिष्यैरावतो यथा ॥४३।।
तथा हरेर्व्रतं श्रेष्ठं सर्वव्रतेषु पुण्यकम् ।।
देवर्षिषु नारदश्च योगिषु सनकादयः ।।४४।।
गन्धर्वेषु चित्ररथस्तत्त्वेषु चेतनो यथा ।
कवने जीवने शुक्रः क्षमावत्सु यथा च भूः ॥४५॥
श्रेष्ठा लाभेषु वै मुक्तिः सम्पत्सु भक्तिरुत्तमा ।
पवित्रेषु यथा साधुर्वर्णेषु प्रणवो यथा ।।४६॥
मन्त्रेषु श्रीहरेर्मन्त्रो गोषु कामदुघा यथा ।
वेदेषु सामवेदश्च तृणेषु कुश उत्तमः ॥४७॥
सुखदेषु यथा ज्ञानं सर्पेषु वासुकिर्यथा ।
अक्षरेषु अकारश्च यथा तातो हितैषिषु ।।४८।।
चतुष्पात्सु यथा सिंहः शालग्रामश्च मूर्तिषु ।
यथा बुद्धिः करणेषु शक्तिमत्सु हरिर्यथा ॥४९॥
नाशवत्सु द्वयणुकश्च दधीचिर्दातृषूत्तमः ।।
ब्रह्मास्त्रं तु यथाऽस्त्रेषु चक्रेषु च सुदर्शनम् ॥1.94.५०॥
सर्वसारो यथा कृष्णो व्रतेषु पुण्यकं तथा ।
व्रतं कुरु महादेवि ! शीघ्रं स्वेष्टप्रदायकम् ॥५१॥
सर्वश्रेष्ठस्तु पुत्रस्ते व्रतादेव भविष्यति ।
व्रताराध्यो हरिः कृष्णो गोलोकाधिपतिः प्रभुः ॥५२॥
प्रसन्नः सर्वदाता स भुक्तिमुक्तिप्रदो भवेत् ।
जनो यत्सेवया बन्धान्मुच्यते पितृकोटिभिः ॥५३।।
उद्धृत्य कोटिपुरुषान् गोलोके सुखमृच्छति ।।
भ्रातॄन्भृत्यान्सहायाँश्चाश्रितान्नारीसुतादिकान् ॥५४॥
कृष्णभक्तः समुद्धृत्य सुखं याति हरेः पदम् ।।
तस्माद् गृहाण गिरिजे ! हरेर्मन्त्रव्रतं परम् ॥५५॥
कुरु व्रतं जप मन्त्रं शीघ्रं सिद्धिर्भविष्यति ।
इत्युक्त्वा जलमादाय देव्यै मन्त्रवरं ददौ ।।५६॥
शंभुर्वामे गिरिजायाः कर्णे मन्त्रं जजाप ।
पार्वती तं दीयमानं मन्त्रं दध्यौ हृदि त्विमम् ॥५७॥
“ॐ नमो हरिकृष्णाय पतिरूपधराय च ।
बीजाय गर्भरूपायाऽपत्यरूपाय शंभवे ॥५८॥
संकल्पगर्भहृद्याय नमः पुत्रप्रदाय च ।
विजेत्रेऽग्राऽर्च्यरूपाय नमो देहि सुपुत्रकम् ॥५९।।
सर्वविजयिनं देहि सर्वाग्राऽर्च्यं च मे सुतम् ।।
पुण्यकं ते व्रतं कृष्ण क्रियते प्रीतये तव ॥1.94.६०।।
निर्विघ्नं सफलं तत्स्यात् पुत्रात्मन् सुतदो भव ।।
त्वत्समं मे सुतं देहि चिरंजीवि नमो नमः ॥६१॥
इतिमन्त्रं हरदत्तं गृहीत्वा पार्वतीं सति ।
जगाम जाह्नवीतीरं शंभुना सह पावनम् ॥६२॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पार्वत्यै पुत्रजिज्ञासमानायै शंकरप्रदत्तबहुदृष्टान्तसमन्वितकृष्णमन्त्रप्रदानप्रदर्शननामा चतुर्नवतितमोऽध्यायः ॥९४॥