लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०९३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ९३
[[लेखकः :|]]
अध्यायः ०९४ →

श्रीनारायण उवाच
असुरा गर्जमानास्ते आक्षिपन्तो रणे सुरान् ।
शतकोटिप्रमुख्याश्च बलेन बलिना सह ।। १ ।।
प्रदुद्रुवुः सुराँस्ते वै महाबलपराक्रमान् ।।
स्वानि रूपाणि बिभ्रन्तः समापेदुः सहस्रशः ।। २ ।।
केचिद्व्याघ्रकृतस्वाराः केचिन्महिषपृष्ठगाः ।।
केचिदश्वसमारूढा द्विपपृष्ठस्थिताः परे ॥ ३ ॥
सिंहारूढास्तथा केचित्केचिच्छरभवाहनाः ।।
केचिद्गृध्रसमारूढाः केचिच्छार्दूलपृष्ठगाः ॥ ४ ॥
केचित्कुलिंगमयूरहंसकाकादिवाहनाः।
अन्ये मकरकूर्मोष्ट्रश्वाऽश्वजम्बूकपृष्ठगाः ॥ ५ ॥
एवं पशुक्लृप्तवाहाः पक्षिपृष्ठाप्तवाहनाः ।।
जलाकाशादिसंचारिप्राणिपृष्ठासनास्तथा ll६॥
रथयन्त्रशकटादिवह्रिविमानसंस्थिताः।
पादात्या बहवस्तत्र खड्गशक्त्यृष्टिपाणयः ॥ ७ ॥
पट्टिशपाशपरिघशूलमुद्गलपाणयः
भूशुण्डीछुरिकाखड्गगदाचक्रशरायुधाः Il८ll
विमानानां गजानां च रथानां वाजिनां तथा ।
पद्गानां तत्र सैन्यानि बलिमुख्यानि कोटिशः ॥ ९ ॥
स्पर्धमानास्ततोऽन्योन्यं गर्जमाना भटा मिथः ।
बहुक्रुद्धा दुराधर्षा योद्धुकामा व्यवस्थिताः ।।1.93.१०॥
वदन्ति स्म च विश्वासो न कार्यो दुर्हृदां क्वचित् ।। ।
न विश्वसेत्पूर्वविरोधिषु स्वार्थिजनेष्वपि ॥११॥
यो विश्वसेदरातौ स क्लेशाब्धिं मस्तके वहेत् ।
पूर्वं परिचिता देवा बहुवारं तु दानवैः ॥१२॥
तत्र पुनः पुनः शाठ्यं कृतवन्तस्त एव तु ।
सुधा न पायिताऽस्मभ्यं मनागपि न दीयते ॥१३॥
तस्माद्युद्धेन नाशस्तु तेषां कार्यस्ततोऽमृतम् ।।
स्वर्गराज्यं च भोक्ष्यामो वयं युद्धार्जितं स्वकम् ॥१४॥
ध्वजैश्छत्रैः पताकैश्च रणभूमिममण्डयन् ।
चामरैः पटहैः शंखैस्तूर्यैश्च द्विगलैस्तथा ॥१५॥
तद्वत् सर्वे सुराश्चेन्द्रप्रमुखा रणगामिनः ।
पीत्वाऽमृतं महाभागा वाहानारुह्य दंशिताः ॥१६॥
स्वस्वबलसमायुक्ता दैत्यान्प्रति समुत्कटाः ।।
गजारूढो महेन्द्रश्च सूर्यश्चोच्चैःश्रवःस्थितः ॥१७॥
शशारूढः शशी तद्वद् यमो महिषमास्थितः ।।
नैर्ऋतः प्रेतपृष्ठस्थो वरुणो मकरे स्थितः ॥१८॥
पवनस्तु मृगारूढो वृषारूढः शिवस्तथा ।।
कुबेरः पुष्पकारूढो देवाश्चान्ये बलान्विताः ॥१९॥
विमानस्था लक्षलक्षाः पक्षिस्थाः कोटिशस्तथा ।।
पशुमृगादिवाहस्था ह्यर्बुदा देवकोटयः ॥1.93.२०॥
स्वस्वाभिमानसंयुक्ताः सर्वे देवास्त्वरान्विताः ।।
छत्रचामरसंवीताः शोभिता विजयश्रियाः ॥२१॥
विष्णुं प्रणम्य संग्रामे रणे दैत्यानुपस्थिताः ।
भीमास्तत्राऽसुराः सर्वे सुराश्च भीमविक्रमाः ॥२२॥
तेषां घोरमभूद् युद्धं दैत्यदानवनाकिभिः ।।
महाघोरं महानाशं सर्वभूतभयावहम् ॥२३॥
बाणवर्षि शस्त्रघाति चाऽस्त्रक्षेपि भयानकम् ।
शब्दा हृन्नाशका जाताः शरपातास्तथाऽभवन् ॥२४॥
तीरतोमरनाराचैराहतास्त्वपतन् भुवि ।
वध्यमानास्तथा केचित्समाधिं तत्र लेभिरे ॥२५॥
भल्लैर्भग्ना निपतिता नाराचैः शकलीकृताः ।
क्षुरैः प्रहारिताः केचिन्मुद्गरैश्च विपोथिताः ॥२६॥
शस्त्रघातैः प्रभिन्नाश्च छिन्नाश्च बाणपातनैः ।।
दैत्यसैन्यं महामारैर्भग्नं देवाश्च प्रहृषुः ॥२७॥
शंखनादान्प्रकुर्वाणाः सूचयांचक्रिरे जयम् ।।
देवान्प्रति कृतामर्षा दानवास्ते महाबलाः ॥२८॥
बलिप्रभृतयः सर्वे संश्रमेणोत्थिताः पुनः ।।
विमानैः सूर्यसंकाशैरनेकैस्त्वरयाऽन्विताः ॥२९॥
द्वन्द्वयुद्धमभूत्तेषां सुराणामसुरैः सह ।।
बलिना दानवेन्द्रेण महेन्द्रो युयुधे तदा ॥1.93.३०॥
यमो नमुचिना सार्धं नैर्ऋतः प्रघसेन च ।
कुंभेन सह वरुणो निकुंभेन समीरणः ॥३१॥
सुदंष्ट्रेण कुबेरस्तु शेषैः शेषा ववल्मिरे।
राहुं केतुं समायान्तौ दृष्ट्वा देवाः पलायिताः ॥३२॥
केतुना व्योमसदृशं मुखं स्वस्य प्रसारितम् ।
देवानां वै भक्षणार्थं देवाः प्रदुद्रुवुस्तदा ।।३३।।
केचिद्धरिं स्मरन्ति स्म केचिद्भक्त्या विनायकम् ।।
केचिद् दुर्गां तथा शंभुं ब्रह्माणं चाऽपरेऽमृतम् ॥३४॥
राहुशिरः पुरस्कृत्य दैत्या जयोन्मुखाः सुरान् ।
ताडयामासुरत्युग्राः शस्त्रास्त्रप्रस्तरादिभिः ॥३५॥
देवाः पलायिता दैत्या जयं समाप्नुवँस्तदा ।
केतुरादौ मुखं स्वं वै व्यादाय ग्रसितुं हरिम् ।।३६॥
चन्द्रं शक्तं तथा सूर्यं तं तं समीपमागतम् ।
उद्युक्तोऽभूदमृतोऽसौ वज्रेणापि न नश्यति ॥३७॥
तदा चन्द्रो महादेवमस्तौत् धावन् कृतांजलिः ।
त्वं शंभो त्राहि मां देव शरणागतरक्षक ॥३८॥
देवाँस्त्राहि तथा सर्वान् केतुदुःखं विनाशय ।।
एवमभ्यर्थितः शंभुर्मा भैष्टेत्यवदत्सुतान् ॥३९॥
केतुस्तत्राऽगमच्चन्द्रं ग्रसितुं यावदेव हि ।
धृतश्च शंभुना केतुर्मुण्डमालासु गुम्फितः ॥1.93.४०॥
केतू रूपद्वयं कृत्वा जगाम दिवि तत्स्थलात् ।।
शंभुं तदा पुरस्कृत्य देवा युद्धे मनो दधुः ॥४१॥
सुरैर्दैत्या हन्यमानाः शस्त्रास्त्रबाणतोमरैः ।।
निपेतुर्बहवस्तत्र क्षता भग्नाश्च कर्तिताः ॥४२॥
चक्रुर्भुवं मृता दैत्या मांसशोणितकर्दमाम् ।।
नद्यो भयावहास्तत्र वहन्ति मृतदानवान् ॥४३॥
ध्वजयन्त्रपताकाऽनोगजवाजिशिरांसि च ।।
अगाधाः शोणितोदाश्च प्रवहन्ति रणांगणे ॥४४॥
तथा तस्मिन्महारौद्रे सुरासुरसमागमे ।।
शक्त्या जघान देवेन्द्रं वैरोचनिरमर्षणः ॥४५॥
शक्तिं तां वंचयित्वेन्द्रो बलिं वज्रेण तत्क्षणम् ।।
जघान बाहुं चिच्छेद भूमावपातयद् बलिः ॥४६॥
वज्रेण च पुनर्वृषपर्वाणमप्यपातयत् ।।
तत्रापि शतधारेण वज्रेणैव पुनः पुनः ॥४७॥
अन्येन हेतिना चेन्द्रो दानवानवधीद्रणे ।।
शिरांसि कर्तितान्येवेन्द्रेण प्रकुपितेन वै ॥४८॥
यमेन वायुना चैव वरुणेन तथाऽग्निना ।
नैर्ऋतेन कुबेरेण शंभुनापि विदारिताः ॥४९॥
इत्येवं कदनं दृष्ट्वा कालनेमिमहासुरः।
सिंहस्थो दंशितश्चोग्रः त्रिशूलेन समन्वितः ॥1.93.५०॥
दैत्यानामर्बुदेनैव सिंहारूढेन संगतः ।
सिंहस्थां दैत्यसेनां तां दृष्ट्वा चेन्द्रपुरोगमाः ॥५१॥
किं कुर्मोऽद्य वयं सर्वे जेष्यामः कथमासुरान् ।
विना विष्णुं नाऽस्य जेता कश्चिदन्यो हि लक्ष्यते ॥५२॥
इति विष्णुं स्मरन्तश्चाऽस्तुवन्नारायणं हरिम् ।
नमस्तुभ्यं भगवते नमस्ते विश्वनायक ॥५३॥
श्रीनिवास नमस्तुभ्यं सुरत्रात्रे नमो नमः ।।
त्रातुमर्हसि दैत्येन्द्रकालनेमिभयादिह ॥५४॥
श्रुत्वा स्तोत्रं हरिः शीघ्रमारुह्य गरुडे स्वकम् ।
चक्रपाणिः समायातो देवानां विजयाय वै ॥५५॥
हरिं दृष्ट्वा कालनेमिः प्रहस्योवाच रोषतः ।
कस्त्वं कथं समायातो मम शस्त्रस्य भोजनम् ॥५६॥
हरिः प्राह तदा दैत्यं युद्धार्थं समुपागतः ।
देवानां मूलभूतोऽहं स्थिरो भव सुमृत्यवे ॥५७॥
सपक्षसिंहसैन्येन कालनेमिर्विहायसा ।।
युयुधे सगरुडेन शाङ्गपाणिसुविष्णुना ॥५८॥
गरुडेन तदा तुण्डपक्षनखादिहेतिभिः ।।
सिंहा दैत्याः पाटिताश्च खण्डिताश्च विनाशिताः ॥५९॥
विष्णुना स्वीयचक्रेण निहताः शकलीकृताः ।
त्रिशूलेनाऽहनद्विष्णुं कालनेमिः प्रतापवान् ॥1.93.६०॥
वामहस्तेन संगृह्य त्रिशूलं तत्तु लीलया ।
तेनैव च त्रिशूलेन कालनेमिं जघान ह ॥६१॥
मूर्छितः पतितश्चाथोत्थायोन्मील्य स्वलोचने ।
धृत्वा खड्गं समधावद्विष्णुं तावत्तु विष्णुना ॥६२॥
चक्रेण कर्तितं तस्य मस्तकं तत्क्षणात् खलु ।।
अन्ये दैत्यास्तु देवैश्च हता नष्टा क्षयं गताः ॥६३॥
कालनेमिर्हतो दैत्यो देवा जाता ह्यकंटकाः ।।
तिरोधानं गतो विष्णुरिन्द्रस्तत्राऽकरोद् दयाम् ॥६४॥
पतितक्लीबरूपाणां भग्नानां भीतचेतसाम् ।
मुक्तकच्छशिखानां च चक्रे स्वास्थ्यक्रियां हरिः ॥६५॥
आयात् त्रिविष्टपं चाथ सुरसेनान्वितो हरिः ।।
बभूवुर्मुदिताः सर्वे यक्षगन्धर्व किन्नराः ॥६६॥
देवर्षयो ब्रह्मर्षयः प्रोचुरिन्द्रोऽभिषिच्यताम् ।।
स एवेन्द्रोऽमरावत्यामभिषिक्तः शचीयुतः ॥६७॥
तदा महोत्सवो लक्ष्मि ! देवलोके परोऽभवत् ।।
शंखपटहमृदंगमुरजानकगोमुखाः ॥६८॥
भेरीदुन्दुभितूर्याणि नेदुः स्वर्गे गृहे गृहे ।।
जगुश्च गायकाः सर्वे गन्धर्वाः किन्नरास्तथा ॥६९॥
तुष्टुवुश्च तदा सिद्धगन्धर्वचारणर्षयः ।
ननृतुश्चाप्सरोगणा उत्सवोऽभूत्स्थले स्थले ॥1.93.७०॥
शुक्राचार्यो दैत्यगुरुस्तपोऽर्थं मानसोत्तरम् ।
गतोऽभूत् क्षयमाश्रुत्य जगाम समरांगणे ।।७१॥
संजिवन्या विद्यया स मृतदैत्यानजीवयत् ।।
निद्रापायगता यद्वदुत्थितास्ते तदासुराः ।।७।।
तेऽपि सर्वे निवासार्थं पातालमगमन् सुखम् ।।
सुधापानप्रलाभेन देवा नैवाऽम्रियन्त ह ।।७३॥
वाहनादीनि भगवान् संकल्पेनाऽप्यजीवयत् ।
इति देवि ! समुद्रस्य मन्थनं त्वभवत्पुरा ॥७४।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सुधापानभेदजन्यदेवाऽसुरसंग्रामेन्द्राभिषेकादिनिरूपणनामा त्रिनवतितमोऽध्यायः ॥९३॥