लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०७६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ७६
[[लेखकः :|]]
अध्यायः ०७७ →


श्रीश्वेतव्यास उवाच-
एवं सुशिख! भजनाद्धरेर्नामानुकीर्तनात् ।
हाटकांगदराजाऽपि कथारससुखोऽभवत् ।। १ ।।
श्रीनारायण उवाच--
शृणु प्रिये प्रसंगाद्वै मया तु बहु वर्णितम् ।
लोकस्यैव हितार्थे तत् कथयेऽप्यधिकं हितम् ।। २ ।।
जीवन्नेव जनः कुर्यान्मोक्षमार्गावलम्बनम् ।
मोक्षदानि मया चात्र क्लृप्तानि सुबहून्यपि ।। ३ ।।
ज्ञानान्मुक्तिः कर्मनाशान्मुक्तिर्वैराग्यवेगतः ।
तीर्थान्मुक्तिः सतां संगाद्धर्मान्मुक्तिर्गुरूश्रयात् ।। ४ ।।
निष्कामकर्मतो मुक्तिर्मुक्तिः संन्यासमार्गतः ।
साध्वीधर्माश्रयान्मुक्तिर्मुक्तिस्त्यागाच्च सेवया ।
स्वस्याऽकर्तृत्वविज्ञानान्मुक्तिः संकीर्तनादपि ।। ५ ।।
पित्रोस्तु सेवया मुक्तिर्मुक्तिः पतिनिषेवया ।
सर्वब्रह्मात्मविज्ञानान्मुक्तिः सर्वसमर्पणात् ।। ६ ।।
परोपकारकरणान्मुक्तिः परसुखार्पणात् ।
अन्यार्थितप्रदानाच्च मुक्तिरात्मसुतोषणात् ।। ७ ।।
वासनाक्षयतो मुक्तिर्मुक्तिर्विमलबोधतः ।
सर्वकार्ये कृतेऽप्यात्मा निर्लेपो मुक्त एव सः ।। ८ ।।
अहंममत्वरहितः शीतोष्णरहितस्तथा ।
अब्रह्मसत्त्वरहितो मुक्त एव न संशयः ।। ९ ।।
विसृज्य सच्चिदानन्दं भानं मृषाजडार्तिकम् ।
मनुते स्वं स वै बद्धो न मनुते स मुक्तकः ।। 1.76.१ ०।।
भगवद्योगतीर्थानि पुर्यश्च हरिनिर्मिताः ।
नद्यश्च पर्वताः पुण्यारण्यानि मन्दिराणि च ।। ११ ।।
शालग्रामशिला देवशिला बाणश्च मूर्तयः ।
तुलसीचन्दनप्लक्षधात्रीबिम्बवटद्रुमाः ।। १२।।
रोपणात्पालनात्सेकान्नमःस्पर्शनकीर्तनात् ।
निर्माणोद्धारकरणात्पापक्षपा हि मुक्तिदाः ।। १३।।
ज्ञानह्रदे सत्यजले रागद्वेषमलापहे ।
यः स्नातो मानसे तीर्थे मुक्तिं यायान्न संशयः ।। १४।।
देवः सर्वत्र वसति यदि भावोऽस्ति निर्मलः ।
देवः क्वापि न वसति नास्तिक्यं यदि राजते ।। १५।।
प्रातः प्रातः प्रपश्यन्ति गंगाद्यां मत्स्यघातकाः ।
सूर्यं सर्वेऽपि पश्यन्ति भावहीनो न मुक्तिभाक् ।। १६ ।।
पितृमातृसाधुसाध्वीगुरुगोदेवधर्मणाम् ।
कृते प्राणाँस्त्यजन् व्यक्तिर्निश्चयं मोक्षमाप्नुयात् ।। १७।।
जीवनं दानभोगाभ्यां मरणं रणतीर्थयोः ।
अवश्यं मुक्तिदं स्यात्तद् यद्वि देवार्पणान्वितम् ।। १८।।
पुण्यक्षेत्रे पुण्यतीर्थे पुण्यजनसमाश्रये ।
पुण्यस्थितौ पुण्यतिथौ मरणं मोक्षदं भवेत् ।। १९।।
कन्यादाता भुवो दाता दाता चाऽप्यभयस्य यः ।
देवप्रासादनिर्माता सद्मदाता च मुक्तिभाक् ।। 1.76.२० ।।
वापीकूपतडागानामारामोद्यानधर्मिणाम् ।
जीर्णोद्धारं प्रकुर्वाणो मुक्तिभाग् संशयो नहि ।।२ १ ।।
सर्वोपकरणोपेतं गृह धेनुं सवत्सकाम् ।
कन्यां सर्वगुणाढ्यां वै ददन् मुक्तिमवाप्नुयात् ।।२२।।
साध्वी पतिव्रता नारी पतिं विलोक्य वै मृतम् ।
स्वांगुष्ठादग्निमुत्पाद्य पत्या सह प्रयाति चेत् ।।।२३।।
तिस्रः कोट्योऽर्धकोटिश्च समाः स्वर्गे महीयते ।।
यदि भक्तिमती नारी पतिं नयति धामनि ।।२४।।
महापापसमाचारो भर्ता चेद् दुष्कृतो भवेत् ।
तस्याऽप्यनुव्रता नारी नाशयेत् सर्वकिल्बिषम् ।। २५।।
नित्यमन्नप्रदाता यः सदा ज्ञानप्रदायकः ।
नित्यात्मसुखदाता यः स वै मोक्षमवाप्नुयात् ।।२६।।
विद्यादानप्रदाता यः कन्यादानकरश्च यः ।
जीवनवृत्तिदाता यः स वै मोक्षमवाप्नुयात् ।।२७।।
सुकृतैः स्वर्गमाप्नोति स्वर्गं मोक्षस्थलं मतम् ।
त्यक्त्वा फल्गुक्रियां तस्मात्सततं मोक्षभाग्भवेत् ।। २८।।
दानं देयं दरिद्राय कन्या निर्वंशकाय च ।
अनाथकाय सद्वृत्तिः साधवे स्वेष्टवस्तुकम् ।।।२९।।
भावना गुरवे देया विद्या पात्राय मोक्षिणे ।
ज्ञानं सात्त्विकशिष्याय भक्तिर्देयाऽन्तरात्मने ।।।1.76.३ ० ।।
मोहजालं तु मायायै सर्वस्वं परमात्मने ।
मुक्तिश्च स्वात्मने देया स्वात्मा देयः परात्मने ।।२ १ ।।
एवं मोक्षं प्रपद्येत दाता दानफलं लभेत् ।
तस्मात्सर्वं प्रदातव्यं कोटियज्ञफलाधिकम् ।। ३२।।
सर्वदानप्रदाता यः स्वस्मिन्नरक्षकश्च सः ।
अर्थान्मुक्त इति भाव्यो नित्यमुक्तः स सम्मतः ।।।३३।।
नार्या कार्यं शृणु लक्ष्मि! दानं कीदृग्विधं मतम् ।
मात्रेऽर्पणीयं कन्यात्वं कौमार्यं लग्नवह्नये ।।।३४।।।
देहस्तु पतये देयः पुत्रायाऽहंममत्वकम् ।
सौन्दर्यं तु जरायै च वासनाऽर्प्या तु मृत्यवे ।।३५।।
अपत्यस्नेहो वध्वै च ननामिक्यै तु बन्धनम् ।
भावना ब्रह्मणे देया भक्तिर्देयाऽन्तरात्मने ।।३६।।
मुक्तिश्च स्वात्मने देया स्वात्मा देयः परात्मने ।
इति सर्वस्वदानं वै कर्तव्यं मोक्षकांक्षिभिः ।।।३७।।
विना विनिमयं नैव वस्त्वमूल्यमवाप्यते ।
सर्वस्वदानमूल्येनाऽमूल्यमोक्षमवाप्नुयात् ।।।३८।।
आत्मा तु नित्यशुद्धोऽस्ति शुद्धिस्तस्य न शिष्यते ।
शरीरेणाऽप्यशुद्धेन शुद्धस्याऽशुद्धता कथम् ।।३९।।
पात्रं नैवाऽस्त्यशुद्धं वै लग्नं द्रव्यं त्वशुद्धिदम् ।
लग्नद्रव्याद्यपसारात्पात्रं तु शुद्धमेव ह ।।1.76.४०।।
हस्तो नास्त्यशुद्धो वै तु मलं चाऽशुद्धिरुच्यते ।
मलापसरणाद्धस्तः शुद्ध एवेति मन्यते ।।४१।।
यदि पात्रं च हस्तश्चाऽशुद्धौ भवतः संगतः ।
तदा नाश्यं भवेत्पात्रं हस्तश्छेद्यो भवेत्तथा ।।।४२।।
किन्तु नैवं प्रकुर्वन्ति मलं निष्कासयन्ति वै ।
एवमात्मा सदा शुद्धः स्वर्णाऽग्निव्योमवन्मतः ।।।४३।।
रागद्वेषमलास्तस्मादपनेया धियाऽग्निना ।
भक्त्याऽऽराधनया प्रेम्णा प्रीत्या स्नेहेन भावतः ।।४४।।
मला ध्येया विनाश्याश्च निर्मलो ब्रह्म एव सः ।
ब्रह्मरूपः स्वयं भूत्वा परब्रह्म भजेत्सदा ।।४५।।
नारायणबलं प्राप्य नारायणमवाप्नुयात् ।
नारायणबलिस्तस्य कर्तव्यो नाऽवशिष्यते ।।४६।।
नारायणबलं यस्य नास्ति तस्यैव मुक्तये ।
नारायणबलिः कार्यस्तद्रीतिं कथयामि ते ।।४७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मुक्तेर्विविधसाधनानि निष्कामतया कृतानि निष्कामतया प्रदत्तवस्तूनि च मुक्तिदानि, देयदानानि निजात्मशुद्ध्यादीनि चेति निरूपणनामा षट्सप्ततितमोऽध्यायः ।।७६।।