लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०७५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ७५
[[लेखकः :|]]
अध्यायः ०७६ →

श्रीनारायण उवाच-
षडशीतिसहस्राणि योजनानां प्रमाणतः ।
मार्गो यमपुरस्येति सर्वैः पाथेयमिष्यते ।। १ ।।
यमग्रामेऽपि भोज्यं तैरिष्यते वंशजैः कृतम् ।
वृक्षास्तु रोपिता येन तडागादिजलाशयाः ।। २ ।।
कृता येन हि मार्गे तत्सुखं यान्ति यमाध्वनि ।
हिमे तुषारशीताभ्यां पीड्यते न यमालये । । ३ ।।
तप्यमानः सुखं याति हीन्धनानि ददाति यः ।
यज्ञोत्सवादिकर्तारो भवन्ति तत्र मोदिनः ।। ४ ।।
तृप्ता विभूषिताश्चैव गन्धपुष्पसमन्विताः ।
भूमिदाने सुखं यान्ति सर्वकामैश्च पूरिताः ।। ५ ।।
सुवर्णभूमिमुक्तादिवस्त्राभरणगोधनम् ।
तेन सर्वमिदं दत्तं येन दत्ता वसुन्धरा ।। ६ ।।
व्यंजनानि विचित्राणि भक्ष्यभोज्यानि यानि च ।
दीयन्ते विधिना पुत्रैः पित्रे तदुपतिष्ठति ।। ७ ।।
अपक्वे मृन्मये पात्रे दुग्धं दद्याद् दिनत्रयम् ।
आकाशस्थः पिबेद् दुग्धं प्रेतो वायुवपुर्धरः ।। ८ ।।
चतुर्थे संचयं कृत्वा गंगास्पर्शो विधीयते ।
प्रातः प्रथमयामे तु दद्यादाद्यजलांजलिम् ।। ९ ।।
अधरोत्तरवस्त्राभ्यां वस्त्रग्रन्थिं च दापयेत् ।
एकवस्त्रः प्रदद्यात्तु सदर्भे च तिलांजलिम् ।। 1.75.१० ।।
दिनत्रयं वसेत्तोये अग्नौ चापि दिनत्रयम् ।
आकाशे च वसेत् त्रीणि दिनमेकं च वासवे ।। ११ ।।
वायुरूपो भ्रमत्येव वायुः कुट्यां स गच्छति ।
एकादशाहे यत् श्राद्धं तत्सामान्यमुदाहृतम् ।। १ २।।
कृत्वा चैकादशाहन्तु पुनः स्नात्वा शुचिर्भवेत् ।
प्रथमेऽहनि यः कुर्यात् स दशाहं समापयेत् ।। १ ३ ।।
एकादशाहे प्रेतस्य दद्यात् पिण्डं समन्त्रकम् ।
सिद्धान्नं तस्य दातव्यं शर्कराऽपूपकादयः ।। १४।।
शय्यादानं च कर्तव्यं पश्चात् कोऽनुप्रदास्यति ।
तावद्बन्धुः पिता तावद् यावज्जीवति मानवः ।। १५ ।।
मृतमेनं शवं ज्ञात्वा क्षणात् स्नेहो निवर्तते ।
आत्मा वै ह्यात्मनो बन्धुरात्मा चैवात्मनो रिपुः ।। १६ ।।
अतो जीवन् हि सर्वस्वं स्वहस्तेनैव दापयेत् ।
तस्मात् काष्ठमयीं खट्वां हेमादिपट्टिकाभृताम् ।। १७।।
सगेन्दुकां सोपधानां साऽऽदर्शगुप्तदोरकाम् ।
गन्धवस्त्रादिसत्पुष्पां सद्व्यजनसदन्तिकाम् ।। १८ ।।
सप्रच्छादनपटिकां हैमलक्ष्मीहरिश्रिताम् ।
घृतकुंभं च ताम्बूलं कर्पूरागुरुचन्दनम् ।। १ ९।।
कुंकुमं दीपकं छत्रं चामरासनभाजनम् ।
उपानहौ सप्तधान्यं भृंगारकं वितानकम् ।। 1.75.२० ।।
एवं शय्यादिदानेन स्वर्लोकः सुखदो भवेत् ।
उपयुक्तं च तस्यासीद् यत्किञ्चिद्धि गृहे तथा ।। २ १ ।।
गात्रे चापि च यल्लग्नं वस्त्रभाजनभूषणम् ।
दातव्यमुपतिष्ठेत्तदैन्द्रे सौर्येऽपि धामनि ।। २२।।
नवकं षोडशश्राद्धं शय्यां संवत्सरक्रियाम् ।
भर्तुर्या कुरुते नारी तस्याः श्रेयो भवेदिह ।। २३ ।।
प्रमदाया मृतौ देयं वस्तु स्त्रीभूषणादिकम् ।
आचार्याय प्रदातव्यं शय्यारत्नाऽम्बरादिकम् ।। २४।।
बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः ।
एकस्मै तु प्रदातव्यमाचार्याय तु केवलम् ।। २५।।
यत्पुण्यं च व्यतीपाते कार्तिक्यामयने तथा ।
एकादश्यां च यत्पुण्यं चन्द्रसूर्यग्रहे तथा ।। २६।।
प्रयागे नैमिषे यच्च कुरुक्षेत्रे तथाऽर्बुदे ।
गंगायां यमुनायां च सिन्धुसागरसंगमे ।। १७।।
शय्यादानाढिकार्येण तत्तत्फलमवाप्नुयात् ।
यत्रासौ जायते जन्तुर्भुंक्ते तत्रैव तत्फलम् । । २८ ।।
कर्मक्षये क्षितौ जातो मानुषः शुभलक्षणः ।
महाधनी च धर्मज्ञः सर्वशास्त्रविशारदः ।। २९।।
अर्होऽसौ हव्यकव्येषु पितृभिः सह मोदते ।
दिव्यं विमानमारुह्य त्वप्सरोभिः समावृतः ।। 1.75.३० ।।
देवैः सुसत्कृतो याति वैकुण्ठं मरणोत्तरम् ।
श्राद्धे तृप्तः पिता दद्यात्पुत्रान् सन्ततिवर्धकान् ।। ३१ ।।
तथा तृप्तो गोधनं तु सन्ददाति पितामहः ।
तथा तृप्तो हेमदः स्याद् यस्तस्य प्रपितामहः ।। ३२।।
दद्याद्विपुलमन्नाद्यं वृद्धस्तु प्रपितामहः ।
नारायणबलिं कुर्याद् यस्य वंशो न विद्यते ।। ३३ ।।
विमुक्तः सर्वपापेभ्यो मुक्तः स नरकाद् ध्रुवम् ।
धनिष्ठां तु समारभ्य रेवत्यन्तं तु पञ्चकम् ।। ३४।।
पंचके तु मृतस्याऽत्र दाहो नैव विधीयते ।
शवस्य तु समीपे च क्षिप्यन्ते पुत्तलास्ततः ।। ३५।।
दर्भमयाश्च चत्वार_ ऋक्षमन्त्राभिपूजिताः ।
ततो दाहश्च कर्तव्यस्तैश्च पुत्तलकैः सह ।। ३ ६।।
पञ्चकेषु मृतो योऽसौ न गतिं लभते नरः ।
दीयते न जलं तत्र सर्वदा ह्यशुभं भवेत् ।। ३७।।।
लोकयात्रा न कर्तव्या दुःखार्तः स्वजनो यदि ।
पंचकानन्तरं सर्वं कर्तव्यं विधिपूर्वकम् ।। ३८ ।।
पुत्राणां गोत्रिणां तस्य सन्तापस्त्वन्यथा भवेत् ।
गृहे हानिर्भवेत् तस्य पंचके तु मृतस्य वै ।। ३ ९।।
सूतकान्ते ततः पुत्रः कुर्याच्छान्तिकृदुत्तमम् ।
तिलान् गाँश्च हिरण्यं च तस्योद्देशे घृतं दिशेत् ।।1.75.४० ।।
भोजनोपानहौ छत्रं हेममुद्रा च वाससी ।
दक्षिणा दीयते चापि प्रेतपातकनाशिनी ।।४ १ ।।
अष्टादशैव वस्तूनि प्रेतश्राद्धे विवर्जयेत् ।
आशिषो द्विगुणा दर्भाः स्वस्त्यस्तु प्रणवस्तथा ।।४२।।।
अग्नीकरणमुच्छिष्टं श्राद्धं तु वैश्वदैविकम् ।
विकीरश्च स्वधाकारः पितृशब्दोऽप्रवाचनम् ।।।४३ ।।
आवाहनमुल्मुकं चाऽऽसीमान्तं च प्रदक्षिणा ।
विसर्जनं तिलहोमः पूर्णाहुतिर्दशाऽष्ट तान् ।।४४।।
ताम्बूलं दन्तकाष्ठं च भोजनं ऋतुसेवनम् ।
ग्राममध्ये स्थिते प्रेते वर्जयेत् पिण्डपातनम् ।।४५ ।।
कृत्वा निरशनं यो वै मृत्युमाप्नोति कोऽपि चेत् ।
मानुषीं तनुमुत्सृज्य प्राप्नोति हरितुल्यताम ।।४६।।
तस्मादनशनं नॄणां वैकुण्ठपददायकम् ।
स्वस्थावस्थेन देहेन मोक्षस्यैव प्रसाधकम् ।।४७।।
अनशनव्रतकर्ता ऋषीणां मण्डले वसेत् ।
यद्वा वैराजदेवेषु ईशेषु वाऽथ मोक्षणे ।।४८ ।।
तुष्टा ब्रह्मादयस्तस्य याम्याः सन्ति न यातनाः ।
अस्थीनि मानुषे देहे षष्ट्यधिकशतत्रयम् ।।४९।।।
उदकुंभेन पुष्टानि जलकुंभः प्रदीयते ।
सुलिप्ते भूमिभागे च पक्वान्नमपि दीयते ।।1.75.५० ।।
इत्येवमपि कर्तव्यं ब्रह्मभावनया सदा ।
नारायणः स्वयं तस्य मुक्तिं करोति संस्मृतः ।।५ १ ।।
मृत्युपूर्वं मृतौ शवयात्राया शवदाहने ।
श्राद्धे सर्वत्र वाच्यं श्रीहरिर्नारायणो मुहुः ।।५२।।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने प्रकीर्णकदानशय्यादानादिपंचकमृतोर्ध्वकार्याऽनशनकृन्मृत्यूत्तरगत्यादिनिरूपणनामा
पञ्चसप्ततितमोऽध्यायः ।।७५ ।।