लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०७२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ७२
[[लेखकः :|]]
अध्यायः ०७३ →

श्रीनारायण उवाच----
शृणु लक्ष्मि ! प्रवक्ष्यामि प्रेतान् त्वकालमृत्युजान् ।
पाखण्डकान् लोभमृतान् चाऽसंस्कारमृताँस्तथा ।। १ ।।
चाण्डालादुदकात्सर्पात् शापाद् द्रुमाच्च वैद्युतात् ।
दंष्ट्रिशृंगिपशुभ्यश्च मृताः प्रेता भवन्ति ते ॥ २ ॥
उद्बन्धनमृता ये च विषशस्त्रादिसंहता ।
आत्मघातिन एवाऽऽभिचारकर्मादिसंहताः ॥ ३ ॥
महकष्टैर्मृता रोगैर्दस्युभिर्मारिताश्च ये ।
विसूच्यग्निहता ये च भूखण्डादिमृताश्च ये ॥ ४ ॥
असंस्कृताः प्रमृता ये मलिना मलमृत्यवः ।
पिण्डलुप्ता वृषोत्सर्गक्रियाहीना मृताश्च ये ।। ५ ।।।
पर्वताद् भित्तिपाताद्वा व्योम्न्येवं गमनान्मृताः ।
रजस्वलास्थितौ वाऽथ मैथुने शौचगे मृताः ।। ६ ।।
अन्तरिक्षे ह्यन्तराले सीम्नि निर्जनके मृताः ।
दुष्टशल्यादिना नष्टाः सूतकादौ मृताश्च ये ।। ७ ।।
तृषायां ये जलाऽनाप्ताः कुमृत्युवशगाश्च ये ।
ते वै प्रेताः प्रजायन्ते त्वटन्ति क्षितिमण्डले ।। ८ ।।
गौपशुग्रासलोप्तारो जलाऽऽरामविनाशकाः ।
देववृत्तिविनेष्टारो दीनवृत्तिविभेदकाः ।। ९ ।।
दानकर्मविलोप्तारः पुण्यकार्य प्रभञ्जकाः ।
बहूनां दुःखकर्तारः प्रेता भवन्ति पापतः ॥1.72.१०॥
परद्रोहरताः पापाः पापमृत्युवशंगताः ।
क्षुत्पिपासार्दिता नित्यं प्रेतत्वमुपयान्ति ते ॥११॥
न माता न पिता प्रेतजन्मादौ कारणं मतम् ।।
प्रेतत्वं कर्मतो याम्यसंकल्पाच्च भवत्यतः ॥१२॥
तत्र वै विकृताकारा लम्बोष्ठा विकृताननाः ।
बृहच्छरीरदशना वक्राऽऽस्याश्चापि केचन ।।१३।।
सर्पास्याश्च बिडालास्या विविधास्या भवन्ति ते ।
नामापि यादृशं कर्म कृत्वा भवन्ति नारकाः ।।१४।।
तादृग्गुणं भवत्येव प्रेतस्य तु तदा तदा ।
यादृक्पापं विधायैव प्रेततां याति मानवः ।।१५।।
तथा तथा क्षुधा तस्य पिपासापि मुहुर्भवेत् ।
भोजनं वा जलं वापि शुद्धं नैवाप्यते क्वचित् ।।१६।।
शुद्धे तु भोजने क्वापि जले वा नास्त्यधिकृतिः ।
शुद्ध त्वन्नं वसुभिश्च शुद्धं जलं तु वारुणैः ।।१७।। ।
सर्वदा रक्षितं तत्र प्रेतानां भाग एव न ।
श्लेष्ममूत्रपुरीषैश्च रेचकैः समलैः सह ।।१८।।
पर्युषितैस्तथोच्छिष्टैः प्रेतानां भोजनं भवेत् ।
शौचहीनं मलिनं यत् प्रेता भुंजन्ति तत्सदा ॥१९॥
यस्य गृहे न वै शुद्धिर्न वा देवार्पणं भवेत् ।
मद्यमांसमये दुष्टे प्रेता भुंजन्ति तद्गहे ।।1.72.२०।।
लोभक्रोधमदालस्यनिद्राशोकभयानि च ।
मायाकलहकापट्यं मालिन्यं स्नानहीनता ॥२१।।
धात्वादिमलशुद्धिर्न रजोवीर्याक्तमम्बरम् ।
लाळालिट्टमयी भित्तिर्नालिका मूत्रसंभृता ।।२२।।
यत्र यत्र गृहे सन्ति प्रेता भुंजन्ति तत्र वै ।
नित्यं लिंगभगाभ्यां च क्षरत् तत्प्रेतभोजनम् ।।२३।।
मृत्युर्नित्यं वरं जन्तोः प्रेतत्वं मा भवेत् क्वचित् ।
पतितान्नेन भुक्तेन जठरस्थेन यो मृतः ॥२४॥
पापमृत्युवशाद् यो वै स प्रेतो जायते नरः ।
देवद्रव्यं परस्वादि हरेत्प्रेतः स जायते ॥२५॥
गुरुद्रव्यं परन्यासं हरेत् प्रेतः स जायते ।
विश्वासघातः कूटश्च कन्या विक्रयकृज्जनः ॥२६॥
भ्रातृधृक् जनहा गोघ्नः पशुघ्नः पारदारिकः ।
हेमहर्ता भुवो हर्ताऽनृतः प्रेतः स जायते ॥२७॥
मातरं भगिनीं भार्यां स्नुषां दुहितरं सुतम् ।
पितरं यो वा त्यजति स प्रेतो जायते नरः ॥२८॥
शिष्टाचारविहीना ये पित्रोर्भक्तिविहीनकाः ।
मद्यमांसरता ये च पशुघातादिकर्मिणः ॥२९॥
परद्रोहप्रकर्तारो महात्रासप्रदाश्च ये ।
ये छिद्रान्वेषिणो नित्यं परकल्पान्तकारकाः ॥1.72.३०॥
बहुव्यवायसंसक्ता हार्दमांसादिभक्षकाः ।
क्रूरा व्यसनिनो दुष्टा निषिद्धाचरणे रताः ॥३१॥
चान्ये ये तादृशास्तेषां जायते ह्यायुषः क्षयः ।
स्वल्पायुषं कुशरीरं हित्वा प्रेता भवन्ति ते ।।३।।
तादृशेन शरीरेण श्रेयः स्वस्य प्रसाधयेत् ।
पुण्येन कर्मणा स्वर्गं साधयेन्मोक्षमेव वा ॥३३॥
प्राक्तनैः कर्मपाकैस्तु सुखं दुःखं तु विन्दति ।
तदत्र जन्मनि सौख्यप्रदं धर्मं समाचरेत् ॥३४॥
नरो वा यदि वा नारी स्वार्थं कृत्वापि भूतले ।
परार्थं साधयेन्नित्यं श्रेयो मोक्षकरं परम् ।।३५।।
अन्यत्तु विस्मरेत् कामं मोक्षं तु नैव विस्मरेत् ।
अन्यत्तु विस्मरेत्कार्यं धर्मं तु नैव विस्मरेत् ॥३६॥
अन्यत्तु विस्मरेद् भोग्यं आत्मसौख्यं न विस्मरेत् ।
कृत्रिमं विस्मरेद् योगं हरिं हृत्स्थं न विस्मरेत् ॥३७॥
प्रभुं विहाय सुखदं दुःखदं भजते तु यः ।
दुःखं स्यात्तु फलं तस्य नान्यत् श्रेयः स विन्दति ॥३८॥
नारकास्त्रिविधास्तस्मात् विज्ञेयाः कमलेक्षणे ! ।
एके यमपुरस्थाश्चाऽऽपरे तु प्रेतरूपिणः ॥३९॥
अन्ये तु नारकाः सर्वे गृहे गृहेऽतिदुःखिनः ।
येषां गृहे न वै सौख्यं भोज्यभोजनवैभवात् ॥1.72.४०॥
नारीपुत्रधनधान्यात् तेऽत्र प्रत्यक्षनारकाः ।
येषां कुटुम्बं बहुलं पोषणे तु दरिद्रता ॥४१॥
वस्त्रान्नानि न पूर्यन्ते तेऽत्र प्रत्यक्षनारकाः ।
एकाऽधिकस्त्रीपतिर्यः स तु प्रत्यक्षनारकी ॥४२॥
व्यभिचारो गृहे यस्य तद्वै प्रत्यक्षनारकम् ।
परदारगणिकादिरतः प्रत्यक्षनारकः ।।४३॥
श्ववत् स्वनार्या गणितः सोऽत्र प्रत्यक्षनारकी ।
पत्नी शुनीव या यत्र सापि प्रत्यक्षनारका ॥४४॥
येषां हूँ तूँ कृतो द्वेषः क्लेशो गृहजनेषु वै ।
न निद्रा न सुखं प्रेम ते वै प्रत्यक्षनारकाः ॥४५॥
स्वजनश्चौर्यकृत् यत्र स्वजनो यत्र घातकी ।
स्वजनो वंचको यत्र तद्वै प्रत्यक्षनारकम् ॥४६॥
आज्ञाकरा न पुत्राद्याः प्रेमदा वनिता नहि ।
कुटुम्ब मानदं नास्ति तद्वै प्रत्यक्षनारकम् ।।४७।।
भोजनं सर्वदा रूक्षं गालीदानादिपूर्वकम् ।
दर्शनं द्वेषनेत्रेण सोऽत्र प्रत्यक्षनारकी ॥४८॥
स्फाटितानि तु वस्त्राणि गृहं रथ्या च चत्वरम् ।
सत्कारे तु तिरस्कारः स तु प्रत्यक्षनारकी ।।४९।।
पराधीना दशा नित्यं सेवकाः क्षेपकास्तथा ।
स्वजनः श्वजनवच्च स तु प्रत्यक्षनारकी ।।1.72.५०॥
आधिव्याधिसमुपाधिक्लेशगृहं तु यद्गृहम् ।
छिद्ररौद्रधूर्तशाठ्याश्रयं प्रत्यक्षनारकम् ॥५१॥
पत्नी कामप्रदा नैव सर्वथा प्रतिपक्षिणी ।
पतिः रतिप्रदो नैव ताडकः सोऽत्र नारकः ॥५२॥
जन्मक्षता जन्मरोगा जन्मदुःखाः प्रतापिनः ।
क्लेशाढ्या जन्मत एव ते वै प्रत्यक्षनारकाः ।।५३।।
नरकं तु शरीरं वै तत्र वासात्तु नारकी ।
नरकः खलु संसारस्तत्र वासात्तु नारकी ॥५४॥
भक्त्या श्रेयःप्रकर्ता तु नरकान्मुच्यते खलु ।
यावन्नैव प्रमुच्यन्ते तावत् सर्वे तु नारकाः ॥५५॥
नरकस्य मलानां च लाळानां धातुयोगिनाम् ।
द्वाराण्यालम्ब्य रमते सोऽत्र साक्षाद्धि नारकी ॥५६॥
नरकेभ्यः समुत्पन्नो नरके सज्जते पुनः ।
पुष्टौ नरकरूपोऽयं कोऽन्यस्तस्माद्धि नारकी ॥५७।।
अवमानं महादुःखं बन्धनं तु ततोऽधिकम् ।
पराधीनं महात्रासस्तद्वानत्रैव नारकी ॥५८॥
तृष्णाख्यं नरकं यस्य लग्नं स नारकी मतः ।
एवं तृतीयनरकं सर्वस्यात्र गृहे गृहे ॥५९॥
अविशुद्धिः क्षयश्चैवाऽतिशयश्च त्रिदोषकम् ।
यस्य यस्याऽभवत् श्लिष्टं स वै नारकवद् भवेत् ॥1.72.६०॥
एते प्रेतास्तु जीवन्तो मृताः प्रेता यमालये ।
अदृश्या वायुरूपाश्च प्रेतास्त्रयः परेतकाः ॥६१॥
सर्वे वै दुःखभोक्तारः सर्वे च दुःखदास्तथा ।
सर्वे भक्तिविहीनाश्च को भेदोऽत्र परेतके ॥६॥
याम्याश्चैव च वायव्या मानवीयाश्च ते त्रयः ।
यदि श्रेयो न कुर्वन्ति तर्हि प्रेताः समास्त्रयः ।।६३।।
तस्मान्मानुषदेहेन कर्तव्यं मोक्षकारकम् ।।
तेन मुक्तिं प्रगन्तारः प्रेतत्वं नैव यान्ति हि ।।६४।।
नारी तु डाकिनी यस्य पतिर्वा भूतभीतिदः ।
पुत्रा राक्षसहन्तारः प्रेतस्तस्मात्पलायते ॥६५॥
योनिस्तु कण्डनी यस्याः क्लेदिनी मूत्रवीर्यकैः ।
कर्दमाऽऽभं शरीरं च तस्या भोक्ता तु नारकी ॥६६॥
श्वपचा ग्रामबाह्यस्था अशुद्धा दोषपेटकाः ।
दोघे दोषस्तु को देयः प्रेतस्तत्र करोति किम् ।।६७
प्रेतं प्रेतो यथा नैव त्रासयेन्न च पीडयेत् ।
तथा प्रेतसमं दुष्टं पीडयित्वा लभेत किम् ।।६८॥
तादृशं तु कुटुम्बं वै त्यक्त्वा प्रेताः प्रयान्ति वै ।
तीर्थेऽरण्येऽथवाऽन्यत्र वसन्ति नित्यदुःखिताः ॥६९॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने केषां प्रेतत्वं प्रेतानां वासो भोजनादि प्रेतास्त्रिविधेत्यादिवर्णननामा द्वासप्ततितमोऽध्यायः ।।७२॥