लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०७१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ७१
[[लेखकः :|]]
अध्यायः ०७२ →

श्रीनारायण उवाच
यमपुर्यास्तु दुःखानि समनुभूय नारकाः ।
विनिःसृताश्च नरकाद्विचरन्ति यथा शृणु ।। १ ।।
ते तु प्रेता यदि जन्म किमप्याप्तुमनिश्चिताः ।
कुटुम्बं स्वं समन्विष्य पत्न्यां पुत्रे कुटुम्बिनि ॥ २ ॥
बान्धवे वा कृतस्थाना निवसन्ति गृहे जने ।
विचरन्त्यशरीरास्ते क्षुत्पिपासार्दिता भृशम् ।। ३ ।।
क्वचित्कदाचिद्बलतो रुन्धन्ति मोहयन्ति तान् ।
दुःखयन्ति मूर्छयन्ति पीडयन्ति मुहुर्मुहुः ।। ४ ।।
कथं त्वया मदर्थं वै मोक्षणार्थं कृतं नहि ।
तस्माद् वयं प्रेतभूताः पीडयिष्याम उल्बणम् ।।५।।
इतिरोषेण संरब्धा पीडयन्ति पुनः पुनः ।
पितृद्वाराणि रुन्धन्ति तन्मार्गरुन्धकास्तथा ।। ६ ।।
पितृभागाँश्च गृह्णन्ति पथिकाँस्तस्करा इव ।
स्ववेश्मनि मलमूलोत्सर्गाद्यशुद्धभूतले ॥ ७ ॥
उषित्वा च निरीक्षन्ते यं जनं स्यात् स रोगवान् ।
पीडयन्ति ज्वररूपैस्तद्भक्ष्यं भक्षयन्ति च ।। ८ ।।
पिबन्ति चापि तद्रक्तं सूक्ष्मं स्वल्पं क्वचित्क्वचित् ।
चिन्तयन्ति सदाऽनिष्टमुच्छिष्टादिस्थलस्थिताः ॥ ९ ॥
पिबन्ति तत्र पानीयं भोजनोच्छिष्टयोजितम् ।
कुटुम्बस्याऽऽत्मजादीनां चिन्तयन्ति छलं सदा ।।1.71.१०।।
एवमनिष्टमतयः स्वकान् पीडां प्रकुर्वते ।
स्वकुलं पीडयेत् प्रेतः परं छिद्रेण पीडयेत् ।।११।।
जीवन् स स्नेहवानासीन्मृतो दुष्टत्वमेति हि ।
छिद्रं मालिन्यमासाद्य मुहुः पीडां करोति सः ।।१२।।
सर्वक्रियापरिमृष्टं देवपूजाविहीनकम् ।
अशुद्धभोज्यभोक्तारं जनं प्रेतः प्रपीडयेत् ॥१३॥
एकस्य पुत्रनाशः स्यात्पुत्रं न लभतेऽपरः ।
एकः सन्ततिहीनः स्यात्प्रेतदोषोऽस्ति तत्र वै ॥१४॥
सन्ततिर्गर्भतो नश्येत् समुत्पन्नो विनश्यति ।
पशुद्रव्यविनाशश्च विरोधो बान्धवैः समम् ॥१५॥
प्रकृतिश्च विवर्तेत सुतेषु कलहस्तथा ।
अकस्माद् व्यसनप्राप्तिः सा पीडा प्रेतसंभवा ।।१६।।
उन्मत्तता ह्यनिद्रा च भोजनाऽपाचनो ज्वरः ।
उद्गारा उदरशूलं सा पीडा प्रेतसंभवा ।।१७।।
चौर्यरुचिर्गृहकलिर्धनधान्यदरिद्रता ।
सम्पत्तेस्तु शनैर्हासः पीडेयं प्रेतसंभवा ॥१८॥
बहुत्पन्नमपि द्रव्यं विनिःसरति हस्ततः ।
सुभिक्षे कृषिनाशः स्याद् उद्योगे विपरीतता ॥१९॥
हीनकर्माऽभियानं स्यात् चौराग्निराजभिर्भयम् ।
महारोगोपपत्तिश्च स्वदेहपीडनं तथा ॥1.71.२०॥
पूर्वं तु सेविका पत्नी पश्चाच्छूनीव जायते ।
गृहनाशमतिर्नित्यं पीडा सा प्रेतसंभवा ।।२१।।
भावना स्मृतिहीना च कार्यं मानसवर्जितम् ।
कलहोऽनुदिनं स्वेषु सा पीडा प्रेतसंभवा ॥२२॥
स्त्रीणां गर्भविनाशः स्यान्न पुष्पं दृश्यते तथा ।
पुष्पं प्रदृश्यतेऽथापि फलं नैव प्रदृश्यते ॥२३॥
जीवितानां क्रमान्नाशो गृहे दन्तकलिः सदा ।
भोजने कोपसमुद्वेगादिना तृप्तिशून्यता ॥२४॥
कलहो घातकाश्चैव पुत्राः शत्रोरिवात्मजाः ।
न प्रीतिर्न च वै सौख्यं सा पीडा प्रेतसंभवा ॥२५॥
पित्रोर्वाक्यं न कुरुतो स्वपत्नीं न च सेवते ।
पत्नी पतिदृशिं नाऽऽयात् सा पीडा प्रेतसंभवा ।।२६॥
अकस्मान्मृतिकर्तारः प्रेता भवन्ति पीडकाः ।
विकर्मणा भवेत् प्रेतो विधिहीनक्रियस्तथा ॥२७॥
तत्काले दुष्टसंसर्गाद् वृषोत्सर्गादृते तथा ।
दुष्टमृत्युवशाद्वापि ह्यदग्धवपुषस्तथा ॥२८॥
दाहक्रियादिलोपाच्च खट्वादिमृतिदोषतः ।
क्षुत्तृट्दाहमृतेर्दोषात् प्रेतत्वं जायते प्रिये ॥२९॥
वासनावशतः क्वापि वाणीचेष्टाविवर्जितम् ।
प्रेतत्वं सुस्थिर भावि प्रेतमुक्तिं समाचरेत् ॥1.71.३०॥
न यो वै मनुते प्रेतान् मृतः प्रेतत्वमाप्नुयात् ।
प्रेतदोषः कुले यस्य सुखं तत्र न विद्यते ।।३१॥
मतिः प्रीतिः रतिर्बुद्धिर्लक्ष्मीः पञ्चविनाशनम् ।
तृतीये पंचमे पुंसि वंशच्छेदोऽभिजायते ॥३२॥
दरिद्रो निर्धनश्चैव पापकर्मा भवे भवे ।
प्रेता एवं दुःखयन्ति स्वानेव क्रूरभावतः ॥३३॥
क्षुत्पिपासार्दिताः प्रेताः प्रविशेयुः स्ववेश्मनि ।
प्रविष्टा वायुदेहेन शयानान् स्वस्ववंशजान् ।।३४॥
स्वप्ने पुत्रकलत्रादीन् दर्शयन्ति स्वरूपकम् ।
गजो हयो वृषो भूत्वा दृश्यन्ते विकृताननाः ॥३५॥
मार्जारो वनिता सर्पो दृश्यन्तेवै क्षणं मुहुः ।
शयनं विपरीतं वा स्वात्मानं वा विपर्ययम् ॥३६॥
उत्थितः संवीक्षते वै यः स प्रेतेन पीड्यते ।
निगडैर्बध्यते स्वप्ने प्रेतकृत् तन्न संशयः ॥३७॥
अन्नं तु याचते स्वप्ने वध्यते बहुशस्त्रकैः ।
स्वयं वा हन्ति मनुजं तत्सर्वं प्रेतदर्शितम् ॥३८॥
भुंजानस्य तु पक्वान्नं गृहीत्वा वै पलायते ।
स्वस्य वाऽन्यस्य सलिलं तृषार्तस्तु पिबेद् बलात् ॥३९॥
वृषभारोहणं स्वप्ने वृषभैः सह वाऽटनम् ।
उत्प्लुत्य व्योमगमनं तीर्थे वा क्षुधया गतिम् ॥1.71.४०॥
स्वकलत्रं स्वबन्धूँश्च स्वसुतं स्वपतिं गुरुम् । ।
विद्यमानं मृतं पश्येत् तत्सर्वं प्रेतदर्शितम् ॥४१॥
यस्त्वपो याचते स्वप्ने क्षुत्तृषाभ्यां परिप्लुतः ।
तस्य प्रेतस्य मुक्त्यर्थं तीर्थे पिण्डान्प्रदापयेत् ॥४२॥
निर्गच्छतो गृहाद् रात्रौ स्वप्ने पुत्राँस्तथा पशून् ।
पितृभ्रातृकलत्राणि प्रेतदोषेण पश्यति ॥४३॥
तच्छान्त्यर्थं गृहे तीर्थे श्रीवृक्षे तर्पणं चरेत् ।
कृष्णधान्यानि संपूज्य प्रदद्याद् वेदपारगे ॥४४॥
सर्वविघ्नानि सन्त्यज्य मुक्त्युपायं करोति यः ।
तस्य कर्मफलं साधु प्रेततृप्तिश्च शाश्वती ॥४५॥
आत्मैव श्रेयसा युज्यत् प्रेतस्तृप्तिं व्रजेच्चिरम् ।
ते तृप्ताः शुभमिच्छन्ति स्वात्मबन्धुषु सर्वदा ।।४६॥
अन्यथा तु दुरात्मानः क्लेशयन्ति स्ववंशजान् ।
दर्शनाद्भाषणाद् यस्तु चेष्टनात्पीडनादपि ॥४७॥
सद्गतिं न प्रापयति प्रेतशापैः प्रपीड्यते ।
अपुत्रकोऽपशुश्चैव दरिद्रो व्याधितस्तथा ॥४८॥
वृत्तिहीनश्च दीनश्च भवेज्जन्मनि जन्मनि ।
तस्मान्मुक्तिः प्रकर्तव्या प्रेतानां तर्पणैः सदा ।।४९।।
ते तृप्ता वारयन्ति – स्वान् जायमानानुपद्रवान् ।
पश्चात्ते मुक्तिमायान्ति काले प्राप्ते तु पुत्रतः ॥1.71.५० ।।
सदाबन्धुषु यच्छन्ति ऋद्धिं वृद्धिं च सम्पदः ।
पितॄनुद्दिश्य यः कुर्यान्नारायणबलिं शुभम् ॥५१॥
कृतेन तेन विघ्नानि विनश्यन्ति न पीड्यते ।
भूतप्रेतपिशाचादिपीडाभ्यो मुच्यते ध्रुवम् ॥५२॥
नारायणबलिं कृत्वा वृषोत्सर्गादिकं क्रियात् ।
सर्वोपद्रवराहित्यं सर्वसौख्यमवाप्नुयात् ॥५३॥
पितृमातृसमं लोके नाऽस्त्यन्यद् दैवतं परम् ।
प्रभुः शरीरजन्मकृत् प्रत्यक्षदैवतं पिता ॥५४॥
हितानामुपदेष्टा च गुरुः प्रत्यक्षदैवतम् ।
तस्मात् पितागुरुर्माता वृद्धाः पूज्याः पतिस्तथा ॥५५।।
शरीरं सम्पदो दाराः सुता लोकाः सनातनाः ।
यस्य प्रसादात्प्राप्यन्ते कोऽन्यः पूज्यतमस्ततः ॥५६॥
पुंनाम्नो नरकाद् यस्मात् पितरं त्रायते तु यः ।
तस्मात् पुत्र इति प्रोक्तस्तस्मात् पितरं तारयेत् ॥५७॥
अपमृत्युमृतौ स्यातां पिता माता च कस्यचित् ।
धर्मं तीर्थं विवाहादि श्राद्धं सांवत्सरं क्रियात् ॥५८।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने प्रेतानामशुद्धभूवास-प्रेतकृत विविधपीडा-प्रेतकृतस्वप्नचिह्न-तन्निवृत्त्यादिनिरूपणनामा एकसप्ततितमोऽध्यायः ।।७१।।