लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०३१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३१
[[लेखकः :|]]
अध्यायः ०३२ →

श्रीनारायण उवाच--
शृणु लक्ष्मि महादेवि त्वं वै पूर्वं प्रपूजय ।।
पातिव्रत्यां महादेवीं कन्यां दिव्येन गन्धिना ॥ १ ॥
कुंकुमेनाऽक्षतेनाऽथ भोजयैनां सुभावतः ।।
परमान्नेन मिष्टेन ताम्बूलेन फलेन च ॥ २ ॥
श्रीलक्ष्मीरुवाच
देहि द्रव्याणि भगवन् ! पूजाया भोजनस्य च ।।
यैरहं पूजये देवीं कन्यां सौभाग्यमंगलाम् ॥ ३ ॥
इत्यर्थनां समाश्रुत्य स्वयं श्रीहरिणा स्वकात् ।।
तनोः शैत्यं सुगन्धश्च द्रवरूपौ प्रकाशितौ ।। ४ ।।
तद्वै हिरण्मये पात्रे जातं सुगन्धि चन्दनम् ।।
ततो नारायणेन स्वस्यौष्ठाद् रक्तं प्रकाशितम् ॥ ५ ॥
द्रवश्चूर्णे परिणतः कुंकुमं दिव्यमद्भुतम् ।
धृतं तद्राजते पात्रे लक्ष्म्याः पूजार्थमेव यत् ।६।।
ततो नारायणेनाऽऽस्यादमृतं प्रकटीकृतम् ।।
धृतं तत्सन्मणिपात्रे जातास्तस्मात्कणाऽक्षताः ॥ ७ ॥
लब्ध्वा द्रव्याणि तान्येव लक्ष्म्या तु पूजनं कृतम् ।।
पातिव्रत्यात्मकन्याया भोज्यार्थं च मनो दधे ।।८।।
तदा नारायणेनापि स्वतालोरमृतं कृतम् ।।
तदमृतं परं दिव्यं श्वेतं यावद्बहिर्गतम् ।। ९ ।।
तस्य पिण्डस्तु तत्रैव सञ्जातो वै तदिच्छया ।
पिण्डादर्धात् सुरूपा वै सुदोग्ध्री गौरजायत ।।1.31.१०।।
श्वेता सर्वांगसम्पन्ना चतुष्पादा त्रिहायना ।।
कल्याणी सुरभिं लक्ष्मीर्दुदोह परमादरात् ॥११॥
दुग्धं तु मधुरं लब्ध्वा किं करोमीत्यचिन्तयत् ।
नारायणेन नेत्रात्स्वात् तावदग्निः प्रकाशितः ॥१२॥
अग्निना फाणिते दुग्धे कणान् चिक्षेप साऽऽज्ञया ।।
ततः किमिति कार्यं मे यदा चिन्तयति स्वयम् ॥१३।।
तावच्छ्रीहरिणा स्वस्य जिह्वाग्रादमृतं कृतम् ।।
रसरूपं समुद्भूतं शुभ्रं मिष्टं परं च तत् ॥१४।।
शर्करारूपतां प्राप्तं तच्चिक्षेप हरीच्छया ।।
संयुक्तं च त्रयं पक्वं क्वथितं कुशलं यदा ।।१५।।
परमान्नं तु तज्जातं दुग्धपाकः स कथ्यते ।
तत्राऽन्यसौरभार्थाय दक्षिणात्तु नसस्ततः ॥१६॥
एलाः प्रकाशिताः सूक्ष्माः सुगन्धाऽऽस्वादसञ्जिताः ।
वामाच्चैव नसस्तेन जातीफलमथो कृतम् ॥१७॥
वायुकोपप्रहाराय तद्वै शोषणकं मतम् ।
स्वर्णरंगप्रकाशार्थं पुनः श्रीहरिणा स्वकात् ॥१८॥
हिरण्यश्मश्रुभागाद्वै केसरं प्रकटीकृतम् ।।
तद्वै सर्वं यथायोग्यं निहितं परमान्नके ॥१९॥
मिश्रितं सुसमापन्नो दुग्धपाकः सुशर्करः ।।
हरीच्छयाऽथ दुग्धस्य दध्यर्थं तन्मनो दधे ॥1.31.२०॥
मधुराम्ब्लात्मकं तक्रं चाऽमृतं तद्विलक्षणम् ।
स्वक्रकाटात्कृतं तेन निक्षिप्तं दुग्धभाजने ॥२१॥
तद्योगात्तु दधि रम्यं निष्पन्नं मधुराम्ब्लकम् ।।
तत्र हरीच्छया पक्वं नवनीतं प्रकाशितम् ॥२२॥
ततो घृतं कृतं देव्या लक्ष्म्या नारायणाज्ञया ।
सुगन्धं च परं दिव्यं कथं स्यादौपयोगिकम् ॥२३॥
विचारयति यावत्सा तावन्नारायणेन तु ।
अवशिष्टात्पादपिण्डाद् गोधूमाः कणिशाः कृताः ॥२४॥
ततः श्रीहरिणा स्वस्य भ्रूकुट्योर्भ्रममात्रतः ।।
चक्रद्वयं कृतं रम्यं पेषणी सा मता शुभा ॥२५॥
तदेव कालचक्रस्य स्वरूपमभवत्पुनः ।
कालचक्रं सदा जीवान् चूर्णयत्यतिवेगतः ॥२६॥
विकरालभ्रूकुटेस्तु चूर्णिका प्रमदा कृता ।।
चूर्णिकाऽप्यभवत्सृष्टौ विपत्तिनामधारिणी ॥२७॥
विपत्त्या जन्तवः सर्वे चूर्णायन्ते क्षणे क्षणे ।।
तया चूर्णिकया पिष्टं गोधूमानां कृतं मृदु ॥२८॥
तस्मात्तु पोलिका लक्ष्म्या घृतेनाऽऽक्ता कृता शुभा ।
लक्ष्म्या पतिव्रतादेव्यै भोजनं कारितं शुभम् ॥२९॥
शेषेण पिण्डपादेन ब्राह्मणः पुरुषः कृतः ।
स वै ब्रह्मतनुः प्रोक्तस्तत्र मन्त्रा धृताः सदा ।।1.31.३०।।
गोषु हविः समाधत्तं तेन यज्ञः प्रजायते ।।
ब्राह्मणाय प्रदत्ता सा गौः सदा यज्ञलब्धये ॥३१॥
ब्राह्मणात् सर्वलोकेषु ब्रह्मवंशाः प्रकाशिताः ।
प्रथमं ब्राह्मणाः सर्वेऽप्यासन् ब्रह्मजनित्वतः ॥३२॥
सुरभेस्तु हरेः सृष्टौ गवां वंशाः प्रकाशिताः ।।
पातिव्रत्याख्यदेव्यास्तु पतिव्रताः प्रकाशिताः ॥३३।।
केसरात् केसरगुल्मा जायन्ते स्म सदा त्विह ।
जातिफलात्तु तद्वृक्षा जाता इह तथाफलाः ॥३४॥
एलाबीजात्तदेलानां स्वल्पगुल्माः कृता इति ।
शर्करारसतो लोके दीर्घा दण्डा सदिक्षवः ॥३५॥
जाताः सर्वत्र सृष्टौ वै ह्यमृतं च तदुच्यते ।
अग्नेः सकाशात् पाकानामग्नयो बहवो मताः ॥३६॥
अक्षतेभ्यो ह्यजायन्त तण्डुला व्रीहयः खलु ।
हरेरोष्ठद्रवाज्जाता हरिद्रा रक्तवर्णजा ॥३७॥
पिशंगा च ततो लोकैः कुंकुमं साध्यते सदा ।
अमृताच्चन्दनरसाद् वृक्षाश्चन्दनशीतलाः ॥३८॥
अजायन्त ततो बोध्याः श्रीहरेरुद्भवा इति ।
अथ मिष्टं जलं तत्र हरेरास्यात्प्रकाशितम् ॥३९॥
जलं पीत्वा चुलुकं च कृत्वा तिष्ठति यावता ।।
तावलक्ष्मीश्चिन्तयति किं देयानि फलानि तु ॥1.31.४०॥
श्रीहरिणा ततः स्वाऽऽस्यादमृतं प्रकटीकृतम् ।।
तस्मान्मिष्टफला वृक्षा आम्रदाडिमसन्तुराः ॥४१॥
नारीकेलाऽङ्गुदीरामफलाऽनानसशार्कराः ।
नवरंगाऽमृतजम्बुजम्बीरद्राक्षखारिकाः ॥४२॥
सफलांजनकदलपुष्पपनसखर्जुराः ।।
जातास्तत्फलबाहुल्यं समादायाऽर्पितं ततः ॥४३॥
तान्यत्त्वा संस्थितायै तु किं देयं मुखशोधकम् ।
यावच्चिन्तयते लक्ष्मीस्तावच्छ्रीहरिणाऽमृतात् ॥४४॥
नागवल्ली सपत्रा च सुगन्धोत्तेजना शुभा ।
कृता तत्पक्वपात्रे तु शैत्यार्थं गण्डतः स्वकात् ॥४५॥
चूर्णं खादिरमारक्तं समुत्पादितमेव च ।।
दन्तेभ्यः श्वेतचूर्णं सोत्तेजनं च कृतं तथा ॥४६॥
पत्रे लिप्त्वा च निक्षिप्य चूर्णं ताम्बूलमादधत् ।।
भ्रूकुटेः श्रीहरेस्तावत्स्वेदबिन्दुः पपात ह ॥४७॥
स वै पूगीफलं जातं द्रागेवाऽऽस्यस्य शोधकम् ।
वरीयसीतृणं जातं मुखस्याऽमृतबिन्दुतः ॥४८॥
गृहीत्वा तद्द्वयं तत्र ताम्बूलं सुविनिर्मितम् ।।
तस्माच्चाऽपरबिन्दोस्तु त्वक्लवंगे कृते कटू ॥४९॥
ते सूक्ष्मे तत्र ताम्बूले पोथिते च ततः पुनः ।
स्वर्णपत्रिकया लिप्तं ताम्बूलं चार्पितं शुभम् ॥1.31.५०॥
चर्वितं च तया पातिव्रत्यया कन्यया च तत् ।।
लक्ष्म्या चापि तथा नारायणेनापि कृतं परम् ॥५१॥
ग्रस्तं चर्वितमास्ये तत् , रसस्ताम्बूलजः परः ।।
गण्डुषः सर्वलोकेषु निक्षिप्तः स रसो महान् ॥५२॥
बहुधा भेदमापन्नो लोके सृष्टौ स्थितो हि सः ।।
पक्वकाले फले मिष्टो यो रक्तो रस एव सः ॥५३॥
फलानां रक्तता या या सा साऽपि रस एव सः ।।
धातूनां रक्तता या या गैरिकाणां च रङ्गिणाम् ॥५४॥
सन्ध्याया रक्तता चाग्नेः शरीराणां च रक्तता ।।
ओष्ठयोर्गण्डोयोश्चैव पुष्पाणाम् ऋतुभागिनाम् ॥५५॥
या या तु रक्तता रम्या मिष्टा चापि रसस्य सा ।।
रतिर्देवी रसात्तत्मात् उद्भूता रमणप्रिया ॥५६॥
रक्ता रक्तरसोपेता सर्वरक्तगुणाश्रया।
कन्या रतिः सुरूपा सा प्राप्तनवीनयौवना ॥५७॥
पूर्णरक्तभरा स्वर्णवर्णा सर्वांगसुन्दरी ।।
आज्ञया श्रीहरेः सा तु रतिः पतिव्रता तथा ॥५८॥
आगते तेऽत्र सर्वत्र लोके स्थिते पृथक् पृथक् ।
ताभ्यामागत्य लोकेऽत्र तज्ज्ञानं च प्रसारितम् ॥५९॥
खदिरः कथको जातः पूगी तु तृणराजकः।।
तृणानि यानि चान्यानि जातानि तद्रसात्तथा ॥1.31.६०॥
इत्येवं श्रीहरेर्मूर्तेरुत्पन्नाः सारसौरभाः।
तत्र गावो ब्राह्मणाश्च प्रोत्तमा मामकी तनुः ॥६१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
कुंकुमादिद्रव्याऽक्षतादिधान्य ताम्बूलादिवल्ली नारीकेलाऽम्रादिफलरक्तगैरिकादिरतिप्रभृतिरसाद्युत्पत्ति
वर्णननामा एकत्रिंशोऽध्यायः॥३१॥