लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०३०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०२९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३०
[[लेखकः :|]]
अध्यायः ०३१ →

श्रीलक्ष्मीरुवाच—
दयालो परमानन्द देवदेव कृपानिधे ! ।
अपूर्वं कथ्यते सर्वं ब्रह्मणः परिचायकम् ।। १ ।।
पुरुपुण्येन कृपया श्रोतुमेतद्धि लभ्यते ।
विना त्वां कः समर्थों वै देवचिह्नविवेचने ॥ २ ॥
नारीरूपे नृरूपे वा सचिह्नस्तु यदा भवान् ।
प्राप्यते प्रजया तर्हि भवेत्तासां तु मोक्षणम् ॥ ३ ॥
भाग्यहीनप्रजानान्तु कथं स्यात्तव सन्निधिः ।।
साक्षान्न प्राप्यते यावत्तावन्नेयाद्विमोक्षणम् ।। ४ ।।
सन्तः साध्व्यश्च वा लोके सर्वेषां गृह मेधिनाम् ।
विकटेषु निवासेषु कथं गच्छेयुरादरात् ॥ ५ ॥
सतां वा सुसतीनां च नैरपेक्ष्याच्च सर्वतः ।
गृहस्थानां न लाभः स्यात्कथं मोक्षो भवेदिति ।।६।।
युगभेदाच्च गार्हस्थ्यं बहुधा वञ्चनायुतम् ।।
अनाचाराऽऽनृताऽधर्मकापट्यादिप्रवर्धितम् ॥ ७ ॥
कुटुम्बपोषणाऽसक्तं लुब्धं दुर्वृत्तमेव च । ।
परघातकरं स्वार्थसाधकं मलिनान्तरम् ॥ ८ ॥
बह्वाऽऽयासाऽल्पभोग्यं च प्रातिपदिकवञ्चनम् ।।
अपत्यान्नधनवस्त्रवाहनाऽऽवरितं सदा ॥ ९ ॥
अर्जनक्लेशसंघृष्टं व्यापृतं चाऽप्यहर्निशम् ।।
कामाद्यर्थपराकृष्टं कथं मुक्तिं व्रजेदिति ॥1.30.१०॥
साधुसंगविहीनं तत्सत्कार्यविधुरं तथा ।
येन गृहस्थकौटुम्बं यायान्मुक्तिं च तद्वद ॥११॥
श्रीनारायण उवाच—
सत्यमुक्तं त्वया लक्ष्मि ! पुण्यहीननरस्य तु ।।
प्राप्तोऽपि साधुसंगो वै दूरे गच्छत्यभाग्यतः ॥१२॥
ससूया चाप्यविश्वासो ह्यश्रद्धा भावहीनता ।।
नास्तिक्यं स्वीयसर्वाऽन्यश्रेष्ठत्वाभिमतिः सदा ॥१३॥
सर्वथा सर्वदा दोषमात्रदर्शित्वमप्युत ।
अत्यर्थं च महत्तासत्कारमानेषणाः सदा ॥१४॥
अज्ञानित्वं च मूर्खत्वं दंभित्वं तामसात्मता ।
निन्दकत्वं चाऽऽसुरत्वं वैरं पापचयस्तथा ॥१५॥
पुण्याशीर्वादहीनत्वं दैवीसम्पद्वियोगिता ।
दोषा ह्येते सदा स्वस्य घ्नन्ति साधुसमागमम् ॥१६॥
पुण्येन लभ्यते पत्नी तपसा लभ्यते पतिः ।
दानेन लभ्यते पुत्रः स्मृद्धिर्दक्षिणयाऽऽप्यते ॥१७॥
दीपेन लभ्यते चक्षुर्घृतेनाऽऽयुर्हि लभ्यते ।।
रसैस्तु लभ्यते धातुः शास्त्रेण ज्ञानमाप्यते ॥१८॥
यत्नेन लभ्यते सिद्धिर्विद्याऽभ्यासेन लभ्यते ।
यज्ञेन लभ्यते स्वर्गं पत्न्या संप्राप्यते रतिः ॥१९॥
धर्मेण प्राप्यते सौख्यं स्त्रीभिर्वंशो ह्यवाप्यते ।।
सत्कार्येणाऽऽप्यते कीर्तिर्भक्त्या प्रसन्नताऽऽप्यते ॥1.30.२०॥
सेवया साध्यते स्वामी लुब्धो द्रव्येण साध्यते ।।
क्षुधितः साध्यते भोज्यैर्मानी मानेन भज्यते ॥२१॥
शंसया पत्यते गर्वी वीरो वेगेन पत्यते ।।
तेन तेन कृतेनापि नाऽऽप्यते सत्समागमः ॥२२॥
सर्वेषां दुर्लभः साध्वि ! सत्समागम ईरितः ।।
तेषां तु भाग्यहीनानां स्वार्थार्थं गृहमेधिनाम् ॥२३॥
रक्षणार्थं च मोक्षार्थं परलोकार्थमेव वा ।।
मन्मूर्तिस्थाऽऽत्मनिवेदित्वं वै संकृश्य मत्पृथक् ॥२४॥
पातिव्रत्यं मया सृष्टं दिव्यं सर्वार्थसाधकम् ।।
पत्युर्नार्या कृता सेवा पातिव्रत्यमिहोच्यते ॥२५॥
पातिव्रत्यात्मिका सेवा कन्यारूपा बभूव ह ।।
स्वर्गमोक्षौ करे धृत्वा पुण्यान्याधाय पादयोः ॥२६॥
देवांस्तु शरीरे धृत्वा यज्ञान् योनौ विगुह्य च ।
पत्तले सर्वतीर्थानि सक्थ्नोस्तु कल्पपादपान ॥२७॥
कुचयोः कामधेनूश्च हृदि चिन्तामणिं तथा ।।
पुण्यवल्लीस्तु केशेषु शशिसूर्यौ च नेत्रयोः ॥२८॥
धर्मं सवंशं मनसि वाचि सिद्धीस्तु यावतीः ।।
धृत्वा मस्तककेशेषु पुरुषार्थचतुष्टयम् ॥२९॥
कर्णयोर्दिक्प्रपालाँश्च ललाटे यावदीश्वरान् ।
आत्मनि श्रीहरेः सर्वानवतारान् सुगृह्य च ॥1.30.३०॥
जिह्वायां सत्युगं धृत्वा कुक्षावानन्दमित्यपि ।
ओष्ठयोरर्चिधूम्राख्यौ मार्गौ धृत्वा सुशोभनौ ॥३१॥
रम्या दिव्या सुप्रकाशा तेजःपरिधिमण्डिता ।
विकसद्यौवनस्तनी पूर्णा द्वादशहायना ॥३२॥
रत्युद्भवदशापन्ना द्रवाऽनाप्तरजस्वला ।
सूक्ष्मरोमावलीस्वर्णा कामसौन्दर्यहारिणी ॥३३॥
सलज्जा सत्यवृत्याढ्या नारायणसरूपिणी ।।
अक्षता शाश्वती देवी वरार्हा गूढचंचला ॥३४॥
पातिव्रत्याह्वया साध्वी सती बद्धकराञ्जलिः ।
नत्वा हरिं स्थिता चाग्रे प्रार्थयामास देशनाम् ॥३५॥
आज्ञापय हरे स्वामिन्नारायण जगद्गुरो ! ।
किमर्थं चाऽहमुत्पन्ना किं कार्यं च ममेष्यते ॥३६॥
नारायणोऽप्यहं तां तु योजयामास सर्वथा ।।
नारीवर्गेण साकं वै त्वया स्थेयं तु सर्वदा ॥३७॥
राधायां च रमायां च लक्ष्म्यां श्रीषु सतीषु च ।
ईशासु जीवनारीषु साध्वीषु मुक्तिदासु च ॥३८॥
नारीसृष्टिषु सुभगे ! सर्वदा वस भामिनी ।।
संविवाहितदम्पत्योर्गृहे जायासु संवस ॥३९॥
तव वासात्कुटुम्बं तन्मलिनं पापकृच्च वा।।
शुद्धं सत्स्वर्गमोक्षाख्यान् लोकान् यास्यत्ययत्नतः ॥1.30.४०॥
याभिराराध्यते त्वं तु तत्र स्थेयं त्वयाऽपि च ।।
सहस्रयज्ञकृद्गेहे त्वया स्थेयं सदाऽनघे ॥४१॥
पित्रोस्तु सेविनो गेहे त्वया स्थेयं सदाऽनघे।
ब्रह्मात्मवेदिनो गेहे त्वया स्थेयं सदाऽनघे ॥४२॥
आत्मनिवेदिभक्तस्य गेहेस्थेयं त्वयाऽनघे ।।
षट्कर्मकृद्भूदेवस्य गृहे स्थेयं त्वयाऽनघे ॥४३॥
नैष्ठिकव्रतसाध्व्यास्तु तनौ स्थेयं त्वयाऽनघे ।।
देहे सदा सांख्ययोगिनीनां स्थेयं त्वयाऽनघे ॥४४॥
योगारूढासु साध्वीषु देहे स्थेयं त्वयाऽनघे।
यासां न साग्निकः स्वामी तासां पतिरहं मतः ॥४५॥
वैधव्यधर्मनारीषु सदा स्थेयं त्वयाऽनघे ।
त्या मम प्रतापेन लोका नेया पदेऽक्षरे ॥४६॥
ओमित्यङ्गीचकारैषा प्रार्थयत्पुनरेव तम् ।।
प्रतिव्यक्तिशरीरं मे रूपं भिन्नं भवेदिति ॥४७॥
नान्यथा मम सर्वासु साध्वीष्वाप्तिः प्रसंभवेत् ।
तथास्त्विति हरिः प्राह ततोऽनन्तस्वरूपिणी ॥४८॥
पातिव्रात्या च सा कन्या भूत्वा भूत्वा प्रवेशिता ।
यत्र यत्राऽर्पिताऽऽवासा तत्र सर्वत्र संगता ॥४९॥
नैकसृष्टिषु नारीषु नैकात्मा साऽभिवर्तते ।
सकामेभ्यस्तु सुस्वर्गान् अकामेभ्यस्तु मोक्षणम् ॥1.30.५०॥
ददाति श्रीहरेर्देवी नारायणी गृहे गृहे ।।
युगे युगे च लोकेषु ब्रह्माण्डेऽधमतारिणी ॥५१॥
तस्मात्पतिव्रता नारी सेव्या पूज्या हि मे तनुः ।।
दृश्या प्रभोजनीया सत्कार्या नम्या च सर्वदा ॥५२॥
सापि साध्व्येव संबोध्या न न्यूना मामकी तनुः ।।
अधमानां समुद्धारायाऽत्र लोके मया कृताः ॥५३॥
साध्व्यः पतिव्रतानार्यो मम मूर्तय एव ताः ।।
तासां कामो न कामाय पत्युः शुश्रूषणाय तु ॥५४॥
तासां रागो न रागाय पत्युः संरमणाय तु ।
तासां रतिर्न भोगाय पत्युर्वंशकराय तु ॥५५॥
तासां भोगो न सौख्याय पत्युरानन्दनाय तु ।
तासां स्पर्शो न शैत्यार्थं पत्युः शान्तिकराय तु ॥५६॥
तासां स्रावो न सक्त्यर्थं पत्युस्तृप्तिकराय तु ।।
तासां गर्भो न दुःखाय पत्युरिष्टकराय हि ॥५७।।
तासां व्रतं न नैजार्थं पत्युर्मुक्तिकराय हि ।।
तासामायुर्न सृष्टयर्थं पत्युः पारंगमाय हि ॥५८॥
तासां मृतिर्न शोकार्थं पत्युः शोकहराय तु ।।
तासामाशीर्न मोहाय पत्युर्मोहहराय तु ॥५९॥
तासां गेहं सर्वदा पुण्यपात्रं तासां देहः सर्वदा देवपात्रम् ।
तासां धर्मः सर्वदा सौख्यपात्रं तासां प्राप्तिः सर्वदा धामपात्रम् ॥1.30.६०॥
तासां गतिश्चाऽक्षरधामगामिनी तासां मतिर्ब्रह्मसुरूपयामिनी ।
तासां कृतिर्निर्गुणभावभाविनी तासां धृतिः श्रीहरिसंगमापिनी ॥६१॥
इति ते साधनं लक्ष्मि ! पापानां शुद्धिकारकम् ।
गृहस्थानां मया प्रोक्तं कृतं चाऽप्युपधार्यताम् ॥६२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतायाः समुद्भवसामर्थ्यादिप्रदर्शननामा त्रिंशोऽध्यायः ॥३०॥