राजनिघण्टुः/सत्त्वादिवर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← रोगादिवर्गः राजनिघण्टुः
सत्त्वादिवर्गः
[[लेखकः :|]]
मिश्रकादिवर्गः →

राजनिघण्टु, सत्त्वादिवर्गः
सत्त्वं रजस्तमश्चेति पुंसामुक्तास्त्रयो गुणाः ।
तेषु क्रमादमी दोषाः कफपित्तानिलाः स्थिताः ॥ २१.१
सत्त्वं श्लेष्मा रजः पित्तं तमश्चापि समीरणः ।
द्रव्यस्य मानमुद्रिक्तं पुंसि पुंस्यनुवर्तते ॥ २१.२
सत्त्वं मनोविकाशः स्यात्सत्त्वायत्ता तथा स्थितिः ॥ २१.३
रजो रूषणमुद्रेकः कालुष्यं मतिविभ्रमः ॥ २१.४
तमस्तिमिरमान्ध्यं च चित्तोन्मादश्च मूढता ।
हृदयावरणं ध्वान्तमन्धकारो विमोहनम् ॥ २१.५
वातो गन्धवहो वायुः पवमानो महाबलः ।
स्पर्शनो गन्धवाही च पवनो मरुदाशुगः ॥ २१.६
श्वसनो मातरिश्वा च नभस्वान्मारुतोऽनिलः ।
समीरणो जगत्प्राणः समीरश्च सदागतिः ॥ २१.७
जवनः पृषदश्वश्च तरस्वी च प्रभञ्जनः ।
प्रधावनोऽनवस्थानो धूननो मोटनः खगः ॥ २१.८
अन्येऽपि वायवो देहे नाडीचक्रप्रवाहकाः ।
मया वितत्य नोक्तास्ते ग्रन्थगौरवभीरुणा ॥ २१.९
सत्त्वादिगुणसंभिन्नदोषत्रयवशात्मना ।
आभ्यन्तरं च बाह्यं च स्वरूपं संनिरुच्यते ॥ २१.१०
सत्त्वाढ्यः शुचिरास्तिकः स्थिरमतिः पुष्टाङ्गको धार्मिकः कान्तः सोऽपि बहुप्रजः सुमधुरक्षीरादिभोज्यप्रियः ।
दाता पात्रगुणादृतो द्रुततमं वाग्मी कृपालुः समो गौरः श्यामतनुर्घनाम्बुतुहिनस्वप्नेक्षणः श्लेष्मलः ॥ २१.११
राजसो लवणाम्लतिक्तकटुकप्रायोष्णभोजी पटुः प्रौढो नातिकृशोऽप्यकालपलिती क्रोधप्रपञ्चान्वितः ।
द्राघीयान्महिलाशयो वितरिता सोपाधिकं याचितो गौराङ्गः कनकादिदीप्तिललितः स्वप्नी च पित्तात्मकः ॥ २१.१२
निद्रालुर्बहुभाषकः सुकुटिलः क्रूराशयो नास्तिकः प्रायः पर्युषितातिशीतविरसाहारैकनिष्ठोऽलसः ।
कार्येष्वत्यभिमानवानसमये दाता यथेच्छं कृशः स्वप्ने व्योमगतिः सितेतरतनुर्वातूलकस्तामसः ॥ २१.१३
सत्त्वादयो गुणा यत्र मिश्रिताः सन्ति भूयसा ।
मिश्रप्रकृतिकः सोऽयं विज्ञातव्यो मनीषिभिः ॥ २१.१४
सत्त्वादिरजसा मिश्रे श्रेष्ठं सत्त्वादितामसे ।
मध्यमं रजसा मिश्रे कनीयो गुणमिश्रणम् ॥ २१.१५
सत्त्वं चित्तविकाशमाशु तनुते दत्ते प्रबोधं परं कालुष्यं कुरुते रजस्तु मनसः प्रस्तौति चाव्याकृतिम् ।
आन्ध्यं हन्त हृदि प्रयच्छति तिरोधत्ते स्वतत्त्वे धियं संधत्ते जडतां च संततमुपाधत्ते प्रमीलां तमः ॥ २१.१६
वातः स्वैरः स्याल्लघुः शीतरूक्षः सूक्ष्मस्पर्शज्ञानकस्तोदकारी ।
माधुर्यान्ने सोऽभ्रकालेऽपराह्णे प्रत्यूषेऽन्ने याति जीर्णे च कोपम् ॥ २१.१७
पित्तं च तिक्ताम्लरसं च सारकं चोष्णं द्रवं तीक्ष्णमिदं मधौ बहु ।
वर्षान्तकाले भृशमर्धरात्रे मध्यंदिनेऽन्नस्य जरे च कुप्यति ॥ २१.१८
श्लेष्मा गुरुः श्लक्ष्णमृदुः स्थिरस्तथा स्निग्धः पटुः शीतजडश्च गौल्यवान् ।
शीते वसन्ते च भृशं निशामुखे पूर्वेऽह्नि भुक्तोपरि च प्रकुप्यति ॥ २१.१९
दोषत्रयस्य ये भेदा वृद्धिक्षयविकल्पतः ।
तानतः सम्प्रवक्ष्यामि संक्षेपार्थं समञ्जसम् ॥ २१.२०
एकैकवृद्धौ स्युर्भेदास्त्रयो ये वृद्धिदास्त्रयः ।
तत्राप्येकतरा ह्यर्थे षडेवं द्वादशैव ते ॥ २१.२१
वृद्धान्योन्यव्यत्ययाभ्यां षट्त्रिवृद्ध्या तु सप्तमः ।
वृद्धोऽन्योन्यो वृद्धतरः परो वृद्धतमस्त्विति ॥ २१.२२
तारतम्येन षड्भेदास्त एवं पञ्चविंशतिः ।
एवं क्षयेऽपि तावन्तस्ततः पञ्चाशदीरिताः ॥ २१.२३
वृद्धोऽन्योन्यः समोऽन्यश्च क्षीणस्त्विति पुनश्च षट् ।
द्विवृद्ध्यैकक्षयादुक्तव्यत्ययाच्च पुनश्च षट् ॥ २१.२४
एते द्वादशतः सर्वे द्विषष्टिः समुदाहृताः ।
त्रिषष्टिस्त्वन्तिमो भेदस्त्रयाणां प्रकृतौ स्थितिः ॥ २१.२५
एवं दोषत्रयस्यैतान् भेदान् विज्ञाय तत्त्वतः ।
ततो भिषक्प्रयुञ्जीत तदवस्थोचिताः क्रियाः ॥ २१.२६
कालस्तु वेला समयोऽप्यनेहा दिष्टश्चलश्चावसरोऽस्थिरश्च ।
सोऽप्येष भूतः किल वर्तमानस्तथा भविष्यन्निति च त्रिधोक्तः ॥ २१.२७
भूते वृत्तमतीतं च ह्यस्तनं निसृतं गतम् ।
वर्तमाने भवच्चाद्यतनं स्यादधुनातनम् ॥ २१.२८
अनागतं भविष्ये स्यात्श्वस्तनं च प्रगेतनम् ।
वर्त्स्यद्वर्तिष्यमाणं च स्यादागामि च भावि च ॥ २१.२९
साधारणं तु सामान्यं तत्सर्वत्रानुवर्तते ।
विशेषणं विशेषश्च सकृत्स्थाने च वर्तते ।
तुर्यं पादं चतुर्थांशमीषत्किंचित्तथोच्यते ॥ २१.३०
भूषापीयुषांशुस्वच्छोद्योतप्रस्यन्दामन्दस्वच्छन्दापूराम्भःस्वर्गङ्गासङ्गोन्मीलनमौलिम् ।
मेरुश्रीकैलासक्रीडासङ्घाटीशोभनाम्भःश्लाघाजङ्घालश्रीगौरीगूढाङ्गं वन्दे शम्भुम् ॥ २१.३१
शब्दोच्चारे सकलगुरुके षष्टिवर्णप्रमाणे मानं काले पलमिति दश स्यात्क्षणस्तानि तैस्तु ।
षड्भिर्नाडी प्रहर इति ताः सप्त सार्धास्तथाहोरात्रो ज्ञेयः सुमतिभिरसावष्टभिस्तैः प्रदिष्टः ॥ २१.३२
पक्षः स्यात्पञ्चदशभिरहोरात्रैरुभाविमौ ।
मासो द्वादशभिर्मासैः संवत्सर उदाहृतः ॥ २१.३३
द्विशश्चैत्रादिभिर्मासैर्विज्ञेया ऋतवश्च षट् ॥ २१.३४
त्रिभिस्त्रिभिः क्रमादेतैः स्यातां च विषुवायने ॥ २१.३५
पलं विघटिका प्रोक्ता नाडी तास्तु त्रिविंशतिः ।
नाडी तु घटिका प्रोक्ता तद्द्वयं च मुहूर्तकम् ॥ २१.३६
यामः प्रहर इत्युक्तो दिनभागो दिनांशकः ॥ २१.३७
अहोरात्रदिवारात्राहर्दिवाहर्निशानि च ॥ २१.३८
घस्रो दिनोऽपि दिवसो वासरो भास्वरो दिवा ॥ २१.३९
प्राह्णापराह्णमध्याह्नसायाह्नाः स्युस्तदंशकाः ॥ २१.४०
प्रातर्दिनादिः प्रत्यूषो निशान्तः प्रत्युषोऽप्युषः ।
व्युष्टं चाहर्मुखं कल्यं प्रगे प्राह्णं प्रभातकम् ॥ २१.४१
आतपस्तु दिनज्योतिः सूर्यालोको दिनप्रभा ।
रविप्रकाशः प्रद्योतस्तमोरिस्तपनद्युतिः ॥ २१.४२
रोचिर्दीप्तिर्द्युतिः शोचिस्त्विडोजो भा रुचिः प्रभा ।
विभा लोकप्रकाशश्च तेज ओजायितं च रुक् ॥ २१.४३
सायंसंध्या दिनान्तश्च निशादिर्दिवसात्ययः ।
सायं पितृप्रसूश्चाथ प्रदोषः स्यान्निशामुखम् ॥ २१.४४
छाया विभानुगा श्यामा तेजोभीरुरनातपः ।
अभीतिरातपाभावो भावालीना च सा स्मृता ॥ २१.४५
शर्वरी क्षणदा रात्रिर्निशा श्यामा तमस्विनी ।
तमी त्रियामा शयनी क्षपा यामवती तमा ॥ २१.४६
नक्तं निशीथिनी दोषा ताराभूषा विभावरी ।
ज्योतिष्मती तारकिणी काली सापि कलापिनी ॥ २१.४७
सा ज्यौत्स्नी चन्द्रिकायुक्ता तमिस्रा तु तमोऽन्विता ॥ २१.४८
अर्धरात्रो निशीथे स्यान्मध्यरात्रश्च स स्मृतः ॥ २१.४९
ज्योत्स्ना तु चन्द्रिका चान्द्री कौमुदी कामवल्लभा ।
चन्द्रातपश्चन्द्रकान्ता शीतामृततरङ्गिणी ॥ २१.५०
कान्तिस्तु सुषमा शोभा छविश्छाया विभा शुभा ।
श्रीर्लक्ष्मीर्दक्प्रियाभिख्या भानं भातिरुमा रमा ॥ २१.५१
तमस्तमिस्रं तिमिरं ध्वान्तं संतमसं तमः ।
अन्धकारश्च भूछायं तच्चान्धतमसं घनम् ॥ २१.५२
आतपः कटुको रूक्षश्छाया मधुरशीतला ।
त्रिदोषशमनी ज्योत्स्ना सर्वव्याधिकरं तमः ॥ २१.५३
पक्षादिः प्रथमाद्या च पक्षतिः प्रतिपच्च सा ॥ २१.५४
पक्षान्तोऽर्केन्दुविश्लेषः पर्व पञ्चदशी तथा ।
द्वितीयं तु भवेत्पर्व चन्द्रार्कात्यन्तसंगमः ॥ २१.५५
प्रतिपदमारभ्यैताः क्रमात्द्वितीयादिकाश्च पञ्चदश ।
पक्षे तिथयो ज्ञेयाः पक्षश्च सितोऽसितो द्विविधः ॥ २१.५६
सितस्त्वापूर्यमाणः स्यात्शुक्लश्च विशदः शुदि ॥ २१.५७
असितो मलिनः कृष्णो बहुलो वदि च स्मृतः ॥ २१.५८
दिवसैर्यत्र तत्रापि वसुसागरसम्मितैः ।
भिषक्क्रियोपयोगाय मण्डलं भिषजां मतम् ॥ २१.५९
पूर्णिमा पौर्णमासी च ज्यौत्स्नी चेन्दुमती सिता ।
सा पूर्वानुमतिर्ज्ञेया राका स्यादुत्तरा च सा ॥ २१.६०
दर्शस्तु स्यादमावास्यामावस्यार्केन्दुसंगमः ।
सा पूर्वा तु सिनीवाली द्वितीया तु कुहूर्मता ॥ २१.६१
मासार्धस्तु भवेत्पक्षः स पञ्चदशरात्रकः ॥ २१.६२
द्विपक्षस्तु भवेन्मासश्चैत्राद्या द्वादशाश्च ते ॥ २१.६३
चैत्रस्तु चैत्रिकश्चैत्री मधुः कालादिकश्च सः ॥ २१.६४
वैशाखो माधवो राधो ज्यैष्ठः शुक्रस्तपस्तथा ॥ २१.६५
आषाढः शुचिरुक्तः श्रावणिकः श्रावणो नभाश्चापि ॥ २१.६६
भाद्रो भाद्रपदोऽपि प्रौष्ठपदः स्यान्नभो नभस्यश्च ॥ २१.६७
इषस्त्वाश्वयुजश्च स्यादाश्विनः शारदश्च सः ॥ २१.६८
कार्त्तिको बाहुलोऽपि स्यादूर्जः कार्त्तिकिकश्च सः ॥ २१.६९
मार्गः सहा मार्गशीर्ष आग्रहायणिकोऽपि सः ॥ २१.७०
पौषस्तु पौषिकस्तैषः सहस्यो हैमनोऽपि च ॥ २१.७१
माघस्तपाः तपस्यस्तु फाल्गुनो वत्सरान्तकः ॥ २१.७२
चैत्रादिमासौ द्वौ द्वौ स्युर्नाम्ना षडृतवः क्रमात् ॥ २१.७३
भवेद्वसन्तो मधुमाधवाभ्यां स्यातां तथा शुक्रशुची निदाघः ।
नभोनभस्यौ जलदागमः स्यादिषोर्जकाभ्यां शरदं वदन्ति ॥ २१.७४
हेमन्तकालस्तु सहःसहस्यौ तपस्तपस्यौ शिशिरः क्रमेण ।
मासद्विकेनेति वसन्तकाद्या धीमद्भिरुक्ता ऋतवः षडेते ॥ २१.७५
ऋतुराजो वसन्तः स्यात्सुरभिर्माधवो मधुः ।
पुष्पमासः पिकानन्दः कान्तः कामरसश्च सः ॥ २१.७६
निदाघस्तूष्मको घर्मो ग्रीष्म ऊष्मागमस्तपः ।
तापनश्चोष्णकालः स्यादुष्णश्चोष्णागमश्च सः ॥ २१.७७
वर्षाः प्रावृड्वर्षकालो घर्मान्तो जलदागमः ।
मयूरोल्लासकः कान्तश्चातकाह्लादनोऽपि सः ॥ २१.७८
शरद्वर्षावसायः स्यान्मेघान्तः प्रावृडत्ययः ॥ २१.७९
ऊष्मापहस्तु हेमन्तः शरदन्तो हिमागमः ॥ २१.८०
शिशिरः कम्पनः शीतो हिमकूटश्च कोटनः ।
इत्येतन्नामतः प्रोक्तमृतुषट्कं यथाक्रमम् ॥ २१.८१
इह सुरभिनिदाघमेघकालाः शरद्धिमशिशिरहायनाः क्रमेण ।
प्रतिदिनमृतवः स्युरूर्ध्वमर्कोदयसमयाद्दशकेन नाडिकानाम् ॥ २१.८२
मकरक्रान्तिमारभ्य भानोः स्यादुत्तरायणम् ॥ २१.८३
कर्कटक्रमणादूर्ध्वं दक्षिणायनमुच्यते ॥ २१.८४
यदा तुलायां मेषे च सूर्यसंक्रमणं क्रमात् ।
तदा विषुवती स्यातां विषुवे अपि ते स्मृते ॥ २१.८५
कालज्ञैः षष्टिराख्याता वत्सराः प्रभवादयः ।
शरत्संवत्सरोऽब्दश्च हायनो वत्सरः समाः ॥ २१.८६
वसन्ते दक्षिणो वातो भवेद्वर्षासु पश्चिमः ।
उत्तरः शारदे काले पूर्वो हैमन्तशैशिरे ॥ २१.८७
पूर्वस्तु मधुरो वातः स्निग्धः कटुरसान्वितः ।
गुरुर्विदाहशमनो वातदः पित्तनाशनः ॥ २१.८८
दक्षिणः षड्रसो वायुश्चक्षुष्यो बलवर्धनः ।
रक्तपित्तप्रशमनः सौख्यकान्तिबलप्रदः ॥ २१.८९
पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः ।
सद्यः प्राणापहो दुष्टः शोषकारी शरीरिणाम् ॥ २१.९०
उत्तरः पवनः स्निग्धो मृदुर्मधुर एव च ।
सकषायरसः शीतो दोषाणां च प्रकोपणः ॥ २१.९१
कृत्वैकमवधिं तस्मादिदं पूर्वं च पश्चिमम् ।
इति देशौ निदिश्येते यया सा दिगिति स्मृता ॥ २१.९२
दिगाशा च हरित्काष्ठा ककुप्सा च निदेशिनी ।
सा च देशविभागेन दशधा परिकल्प्यते ॥ २१.९३
ज्योतींषि तपनादीनि ज्योतिश्चक्रभ्रमीक्रमात् ।
यतो नित्यमुदीयन्ते सा पूर्वाख्या दिगुच्यते ॥ २१.९४
पूर्वा च दक्षिणा चैव पश्चिमा चोत्तरापि च ।
प्रादक्षिण्यक्रमेणैताश्चतस्रः स्युर्महादिशः ॥ २१.९५
पूर्वा प्राची पुरो मघोन्यैन्द्री माघवती च सा ।
शामनी दक्षिणावाची यामी वैवस्वती च सा ॥ २१.९६
पश्चिमा तु प्रतीची स्याद्वारुणी प्रत्यगित्यपि ।
उत्तरा दिक्तु कौबेरी दैवी सा स्यादुदीच्यपि ॥ २१.९७
दिशोर्द्वयोर्द्वयोर्मध्ये यो भागः कोणसंज्ञकः ।
विदिशस्ताश्चतस्रश्च प्रोक्ता उपदिशस्तथा ॥ २१.९८
आग्नेयी स्यात्प्राच्यवाच्योस्तु मध्ये नैरृत्याख्या स्यादवाचीप्रतीच्योः ।
वायव्यापि स्यादुदीचीप्रतीच्योरैशानी स्यादन्तरा प्राच्युदीच्योः ॥ २१.९९
उपरिष्टाद्दिगूर्ध्वं स्यादधस्तादधरा स्मृता ।
अन्तस्त्वभ्यन्तरं प्रोक्तमन्तरं चान्तरालकम् ॥ २१.१००
स्पष्टस्त्वष्टयवैर्देशो मितो ज्ञेयोऽङ्गुलाह्वयः ।
स्याच्चतुर्विंशकैस्तैस्तु हस्तो हस्तचतुष्टयम् ॥ २१.१०१
दण्डो दण्डैर्द्विसाहस्रैः क्रोशस्तेषां चतुष्टयम् ।
योजनं स्यादिति ह्येष देशस्योक्तो मितिक्रमः ॥ २१.१०२
इति प्रस्तावतो वैद्यस्योपयुक्ततया मया ।
परिमाणं तथोन्मानमिति द्वितयमीर्यते ॥ २१.१०३
धान्ये सा निष्टिका पुंसो यत्तु मुष्टिचतुष्टयम् ।
तद्द्वयेनाष्टिका ज्ञेया कुडवस्तद्द्वयेन तु ॥ २१.१०४
प्रस्थस्तु तच्चतुष्केण तच्चतुष्केण चाढकी ।
ताश्चतस्रो भवेद्द्रोणः खारी तेषां तु विंशतिः ॥ २१.१०५
गोधूमद्वितयोन्मितिस्तु कथिता गुञ्जा तया सार्धया वल्लो वल्लचतुष्टयेन भिषजां माषो मतस्तच्चतुः ।
निष्को निष्कयुगं तु सार्धमुदितः कर्षः पलं तच्चतुस्तद्वत्तच्छतकेन चाथ च तुला भारस्तुलाविंशतिः ॥ २१.१०६
इत्थं सत्त्वरजस्तमस्त्रिगुणिकानुक्रान्तदोषत्रयप्रक्रान्तोचितकालदेशकलनाभिख्यानसुख्यापितम् ।
वर्गं स्वर्गसभासु भास्वरभिषग्वर्यातिवीर्यामयध्वंसाश्चर्यकरीं प्रयाति मतिमानेनं पठित्वा प्रथाम् ॥ २१.१०७
संग्रामोत्संगरिङ्गत्तुरगसुरपटोद्धूतधात्रीरजोभिः संरम्भं याति सान्द्रे तमसि किल शमं यद्द्विषां याति सत्त्वम् ।
तस्यैषोऽप्येकविंशः श्रयति खलु कृतौ नामनिर्माणचूडारत्नापीडे प्रशान्तिं नरहरिकृतिनः कोऽपि सत्त्वादिवर्गः ॥ २१.१०८