राजनिघण्टुः/रोगादिवर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← सिंहादिवर्गः राजनिघण्टुः
रोगादिवर्गः
[[लेखकः :|]]
सत्त्वादिवर्गः →

राजनिघण्टु, रोगादिवर्गः
गदो रुजा व्याधिरपाटवामरोगामयातङ्कभयोपघाताः ।
रुङ्मान्द्यभङ्गार्तितमोविकारग्लानिक्षयानार्जवमृत्युभृत्याः ॥ २०.१
राजयक्ष्मा क्षयो यक्ष्मा रोगराजो गदाग्रणीः ।
उष्मा शोषोऽतिरोगश्च रोगाधीशो नृपामयः ॥ २०.२
पाण्डुरोगस्तु पाण्डुः स्यात्विसर्पः सचिवामयः ।
शोफः शोथस्तु श्वयथुः कासः क्षवथुरुच्यते ॥ २०.३
क्षुतं तु क्षवथुः क्षुच्च प्रतिश्यायस्तु पीनसः ।
नेत्रामयो नेत्ररोगो मुखरोगो मुखामयः ॥ २०.४
दुश्चर्मा मण्डलं कोठस्त्वग्दोषश्चर्मदूषिका ।
कुष्ठं तु पुण्डरीकः स्यात्श्वित्रं तु चर्मचित्रकम् ॥ २०.५
किलाससिध्मे च शिखी श्वासः पामा विचर्चिका ।
कण्डूः कण्डूतिकण्डूयाखर्जूकण्डूयनानि च ॥ २०.६
संचारी शुण्डिकास्फोटे पामपामे विचर्चिका ।
पीतस्फोटे तु पामा च क्षुद्रस्फोटे तु कञ्चिका ॥ २०.७
पिटका पिटिका प्रोक्ता मसूराभा मसूरिका ।
विस्फोटः स्फोटकः स्फोटः केशघ्नस्त्विन्द्रलुप्तकः ॥ २०.८
गलशुण्डी तु शुण्डा स्याद्गलगण्डो गलस्तनः ।
दन्तार्बुदो दन्तमूलं दन्तशोथो द्विजव्रणः ॥ २०.९
गुल्मस्तु जाठरग्रन्थिः पृष्ठग्रन्थौ गडुर्भवेत् ।
पक्तिशूलं तु शूलं स्यात्पाकजं परिणामजम् ॥ २०.१०
लूता चर्मव्रणो वृक्कं नाडी नाडीव्रणो भवेत् ।
श्लीपदं पादवल्मीकं पादस्फोटो विपादिका ॥ २०.११
विष्टम्भस्तु विबन्धः स्यादानाहो मलरोधनम् ।
अर्शांसि गुदकीलाः स्युर्दुर्नामानि गुदाङ्कुराः ॥ २०.१२
मलवेगस्त्वतीसारो ग्रहणीरुक्प्रवाहिका ।
वमथुर्वान्तिरुद्गारश्छर्दिर्विच्छर्दिका वमिः ॥ २०.१३
हृद्रोगो हृद्गदो हृद्रुगुत्प्राणः श्वास उच्यते ।
ज्वरस्तु स ज्वरातङ्को रोगश्रेष्ठो महागदः ॥ २०.१४
द्वंद्वजा द्वंद्वदोषोत्थाः शीताद्या विषमज्वराः ।
अतीत्यागन्तवस्ते द्व्यैकाहिकत्र्याहिकादयः ॥ २०.१५
रक्तपित्तं पित्तरक्तं पित्तास्रं पित्तशोणितम् ।
इत्येवं रक्तवातादिद्वंद्वदोषमुदाहरेत् ॥ २०.१६
तृष्णोदन्या पिपासा तृण्मदातङ्को मदात्ययः ।
पानात्ययो मदव्याधिर्मदस्तूद्रिक्तचित्तता ॥ २०.१७
मूर्छा तु मोहो मूढिश्च स्वरसादः स्वरक्षयः ।
अश्रद्धानभिलाषः स्यादरुचिश्चाप्यरोचकः ॥ २०.१८
मूत्रदोषस्तु विज्ञेयः प्रमेहो मेह इत्यपि ।
कृच्छ्रं तु मूत्रकृच्छ्रं स्यात्मूत्ररोधोऽश्मरी च सा ॥ २०.१९
वातव्याधिश्चलातङ्को वातरोगोऽनिलामयः ।
कम्पस्तु वेपनं वेपः कम्पनं वेपथुस्तथा ॥ २०.२०
जृम्भा तु जृम्भिका जम्भा जृम्भणं जम्भिका च सा ।
आलस्यं मन्दता मान्द्यं कार्यप्रद्वेष इत्यपि ॥ २०.२१
तुन्दः स्थविष्ठ इत्युक्तो जठरघ्नो जलोदरः ।
आमो मलस्य वैषम्याद्रक्तार्तिः शोणितामयः ॥ २०.२२
जालगर्दभकः प्रोक्तो जालरासभकामयः ।
जालखरगदो ज्ञेयः स गर्दभगदस्तथा ॥ २०.२३
विद्रधिः स्याद्विदरणं हृद्ग्रन्थिर्हृद्व्रणश्च सः ।
व्रणो भगप्रदेशे यः स भगंदरनामकः ॥ २०.२४
शिरःशूलादयो ज्ञेयास्तत्तदङ्गाभिधानकाः ।
इत्थमन्येऽपि बोद्धव्या भिषग्भिर्देहतो गदाः ॥ २०.२५
संतापः संज्वरस्तापः शोष उष्मा च कथ्यते ।
यश्चापि कोष्ठसंतापः सोऽन्तर्दाह इति स्मृतः ॥ २०.२६
स दाहो मुखताल्वोष्ठे दवथुश्चक्षुरादिषु ।
पाणिपादांसमूलेषु शाखापित्तं तदुच्यते ॥ २०.२७
तन्द्रा तु विषयाज्ञानं प्रमीला तन्द्रिका च सा ।
प्रलयस्त्विन्द्रियस्वापश्चेष्टानाशः प्रलीनता ॥ २०.२८
उन्मादो मतिविभ्रान्तिरुन्मनायितमित्यपि ।
आवेशो भूतसंचारो भूतक्रान्तिर्ग्रहागमः ॥ २०.२९
अपस्मारोऽङ्गविकृतिर्लोलाङ्गो भूतविक्रिया ।
स्तैमित्यं जडता जाड्यं शीतलत्वमपाटवम् ॥ २०.३०
वातिको वातजो व्याधिः पैत्तिकः पित्तसम्भवः ।
श्लैष्मिकः श्लेष्मसम्भूतः समूहः सांनिपातिकः ॥ २०.३१
व्याधितो विकृतो ग्लास्नुर्ग्लानो मन्दस्तथातुरः ।
अभ्यान्तोऽभ्यमितो रुग्नश्चामयाव्यपटुश्च सः ॥ २०.३२
तद्विशेषास्तु विज्ञेयास्तन्मत्वर्थीययोगतः ।
यथा ज्वरितकण्डूलवातकक्षयदद्रुणाः ॥ २०.३३
उत्साही द्विजदेवभेषजभिषग्भक्तोऽपि पथ्ये रतो धीरो धर्मपरायणः प्रियवचा मानी मृदुर्मानदः ।
विश्वासी ऋजुरास्तिकः सुचरितो दाता दयालुः शुचिर्यः स्यात्काममवञ्चकः स विकृतो मुच्येत मृत्योरपि ॥ २०.३४
उपचारस्तूपचर्या चिकित्सा रुक्प्रतिक्रिया ।
निग्रहो वेदनानिष्ठा क्रिया चोपक्रमः समाः ॥ २०.३५
भैषज्यं भेषजं जैत्रमगदो जायुरौषधम् ।
आयुर्योगो गदारातिरमृतं च तदुच्यते ॥ २०.३६
तच्च पञ्चविधं प्रोक्तं स्वस्वयोगविशेषतः ।
रसश्चूर्णं कषायश्चावलेहः कल्क इत्यपि ॥ २०.३७
रसो दृषदि संभिन्नो दिव्यद्रव्यसमन्वितः ।
चूर्णं तु वस्तुभिः क्षुण्णैः कषायः क्वथितैस्तु तैः ॥ २०.३८
तैः पक्वैरवलेहः स्यात्कल्को मध्वादिमर्दितैः ॥ २०.३९
पाचनः शोधनीयश्च क्लेदनश्च शमस्तथा ।
दीपनस्तर्पणः शोष इति सप्तविधाः स्मृताः ॥ २०.४०
पाचनोऽर्धावशेषश्च शोधनो द्वादशांशकः ।
क्लेदनश्चतुरंशस्तु शमश्चाष्टांशको मतः ॥ २०.४१
दीपनस्तु षडंशश्च तर्पणः पञ्चमांशकः ।
शोषणः षोडशांशश्च क्वाथभेदा इतीरिताः ॥ २०.४२
ज्ञेयं रसादिकथनादनन्तरं किलानुपानं कथयन्ति सूरयः ।
विलम्ब्य च क्रामणमेतदीरितं रात्रौ पुनः पाचनमेतदूचिरे ॥ २०.४३
आत्मनीनं तु पथ्यं स्यादायुष्यं च हितं च तत् ॥ २०.४४
किल पाटवमारोग्यमगदं स्यादनामयम् ।
कल्पस्तु पटुरुल्लाघो निरातङ्को निरामयः ॥ २०.४५
अगदो नीरुजो निरुगनातङ्कश्च कथ्यते ॥ २०.४६
वैद्यः श्रेष्ठोऽगदंकारो रोगहारी भिषग्विधिः ।
रोगज्ञो जीवनो विद्वानायुर्वेदी चिकित्सकः ॥ २०.४७
विप्रो वैद्यकपारगः शुचिरनूचानः कुलीनः कृती धीरः कालकलाविदास्तिकमतिर्दक्षः सुधीर्धार्मिकः ।
स्वाचारः समदृग्दयालुरखलो यः सिद्धमन्त्रक्रमः शान्तः काममलोलुपः कृतयशा वैद्यः स विद्योतते ॥ २०.४८
अधीरः कर्कशो लुब्धः सरोगो न्यूनशिक्षितः ।
पञ्च वैद्या न युज्यन्ते धन्वन्तरिसमा अपि ॥ २०.४९
पुमर्थाश्चत्वारः खलु करणसौख्यैकसुभगास्तदेतद्भैषज्यानवरतनिषेवैकवशगम् ।
तदप्येकायत्तं फलदमगदंकारकृपया ततो लोके लोके न परमुपकर्तैवममुतः ॥ २०.५०
राजानो विजिगीषया निजभुजप्रक्रान्तमोजोदयात्शौर्यं संगररङ्गसद्मनि यथा संबिभ्रते संगताः ।
यस्मिन्नौषधयस्तथा समुदिताः सिध्यन्ति वीर्याधिका विप्रोऽसौ भिषगुच्यते स्वयमिति श्रुत्यापि सत्यापितम् ॥ २०.५१
यथावदुत्खाय शुचिप्रदेशजा द्विजेन कालादिकतत्त्ववेदिना ।
यथायथं चौषधयो गुणोत्तराः प्रत्याहरन्ते यमगोचरानपि ॥ २०.५२
येन त्वां खनते ब्रह्मा येन त्वां खनते भृगुः ।
येनेन्द्रो येन वरुणः खनते येन केशवः ।
तेनाहं त्वां खनिष्यामि सिद्धिं कुरु महौषध ॥ २०.५३
विप्रः पठन्निमं मन्त्रं प्रयतात्मा महौषधीम् ।
खात्वा खादिरकीलेन यथावत्तां प्रयोजयेत् ॥ २०.५४
वीर्यं प्रकाश्य निजमोषधयः किलोचुरन्योन्यमुर्व्यपि दिवो भुवमाव्रजन्त्यः ।
जीवं मुमूर्षमपि यं हि वयं महिम्ना स्वेन स्तुवीमहि स जात्वपि नैव नश्येत् ॥ २०.५५
प्रत्यायिताः प्रमुदिता मुदितेन राज्ञा सोमेन साकमिदमोषधयः समूचुः ।
यस्मै द्विजो दिशति भेषजमाशु राजन् तं पालयाम इति च श्रुतिराह साक्षात् ॥ २०.५६
आसामीशो लिखितपठितः स द्विजानां हि राजा सिद्ध्यै याश्च द्विजमवृजिनं स्वाश्रयं कामयन्ते ।
तास्वेवान्यः प्रसरति मदाद्यस्तु जात्या च गत्या हीनः शून्यो जगति कुपिताः पातयन्त्येनमेताः ॥ २०.५७
द्रव्याभिधानगदनिश्चयकायसौख्यं शल्यादिभूतविषग्रहबालवैद्यम् ।
विद्याद्रसायनवरं दृढदेहहेतुमायुःश्रुतेर्द्विचतुरङ्गमिहाह शम्भुः ॥ २०.५८
अष्टाङ्गं शल्यशालाक्यकायभूतविषं तथा ।
बालो रसायनं वृष्यमिति कैश्चिदुदाहृतम् ॥ २०.५९
अष्टाङ्गज्ञः सुवैद्यो हि कियद्धीनो यथाङ्गतः ।
अङ्गहीनः स विज्ञेयो न श्लाघ्यो राजमन्दिरे ॥ २०.६०
प्राज्ञो विज्ञः पण्डितो दीर्घदर्शी धीरो धीमान् कोविदो लब्धवर्णः ।
दोषज्ञः सन् दूरदर्शी मनीषी मेधावी ज्ञः सूरिविज्ञौ विपश्चित् ॥ २०.६१
वैज्ञानिकः कृतमुखः संख्यावान्मतिमान् कृती ।
कुशाग्रीयमतिः कृष्टिः कुशलो विदुरो बुधः ॥ २०.६२
निष्णातः शिक्षितो दक्षः सुदीक्षः कृतधीः सुधीः ।
अभिज्ञो निपुणो विद्वान् कृतकर्मा विचक्षणः ॥ २०.६३
विदग्धश्चतुरश्चैव प्रौढो बोद्धा विशारदः ।
सुमेधाः सुमतिस्तीक्ष्णः प्रेक्षावान् विबुधो विदन् ॥ २०.६४
मनीषा धिषणा प्रज्ञा धारणा शेमुषी मतिः ।
धीर्बुद्धिः प्रतिपत्प्रेक्षा प्रतिपत्तिश्च चेतना ॥ २०.६५
संविज्ज्ञप्तिश्चोपलब्धिश्चिन्मेधा मननं मनः ।
भानं बोधश्च हृल्लेखः संख्या च प्रतिभा च सा ॥ २०.६६
आदानं रोगहेतुः स्यान्निदानं रोगलक्षणम् ।
चिकित्सा तत्प्रतीकारः आरोग्यं रुङ्निवर्तनम् ॥ २०.६७
मण्डः पेया विलेपी च यवागूः पथ्यभेदकाः ।
भक्तैर्विना द्रवो मण्डः पेया भक्तसमन्विता ।
विलेपी बहुभक्ता स्याद्यवागूर्विरलद्रवा ॥ २०.६८
विदलं माषमुद्गादि पक्वं सूपाभिधानकम् ॥ २०.६९
पादाहारं पथ्यमाहुश्च वैद्या विद्यादर्धाहारमाहारसंज्ञम् ।
पादोनं स्याद्भोजनं भोगमन्यद्विद्याच्छेषं वातदोषप्रसूत्यै ॥ २०.७०
अन्नं जीवनमाहारः कूरं कशिपुरोदनम् ।
अन्धो भिस्सादनं भोज्यमन्नाद्यमशनं तथा ॥ २०.७१
भोज्यं पेयं तथा चोष्यं लेह्यं खाद्यं च चर्वणम् ।
निष्पेयं चैव भक्ष्यं स्यादन्नमष्टविधं स्मृतम् ॥ २०.७२
व्यञ्जनं सूपशाकादि मिष्टान्नं तेमनं स्मृतम् ।
उपदंशो विदंशः स्यात्संधानो रोचकश्च सः ॥ २०.७३
जेमनमभ्यवहारः प्रत्यवसानं च भोजनं जग्धिः ।
बल्भनमशनं स्वदनं निघसाहारौ च निगरणं न्यादः ॥ २०.७४
जक्षणं भक्षणं लेहः स्वादनं रसनस्वदौ ।
चर्वणं पानपीती च धयनं चूषणं भिदाः ॥ २०.७५
मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ।
सन्तीति रसनीयत्वादन्नाद्ये षडमी रसाः ॥ २०.७६
मधुरं लौल्यमित्याहुरिक्ष्वादौ च स लक्ष्यते ॥ २०.७७
लवणस्तु पटुः प्रोक्तः सैन्धवादौ स दृश्यते ॥ २०.७८
तिक्तश्च पिचुमन्दादौ व्यक्तमास्वाद्यते रसः ॥ २०.७९
कषायस्तुवरः प्रोक्तः स तु पूगीफलादिषु ॥ २०.८०
अम्लस्तु चिञ्चाजम्बीरमातुलुङ्गफलादिषु ॥ २०.८१
कटुस्तु तीक्ष्णसंज्ञः स्यान्मरीचादौ स चेक्ष्यते ॥ २०.८२
मधुरश्च रसश्चिनोति केशान् वपुषः स्थैर्यबलौजोवीर्यदायी ।
अतिसेवनतः प्रमेहशैत्यं जडतामान्द्यमुखान्करोति दोषान् ॥ २०.८३
लवणो रुचिकृद्रसोऽग्निदायी पचनः स्वादुकरश्च सारकश्च ।
अतिसेवनतो जरां च पित्तं सितिमानं च ददाति कुष्ठकारी ॥ २०.८४
तिक्तो जन्तून् हन्ति कुष्ठं ज्वरार्तिं कासं दाहं दीपनो रोचनश्च ।
मर्त्यैर्गाढं प्रत्यहं सेवितश्चेत्तीव्रं दत्ते राजयक्ष्माणमेषः ॥ २०.८५
कषायनामा निरुणद्धि शोफं वर्णं तनोर्दीपनपाचनश्च ।
सत्त्वापहोऽसौ शिथिलत्वकारी निषेवितः पाण्डु करोति गात्रम् ॥ २०.८६
अम्लाभिधः प्रीतिकरो रुचिप्रदः प्रपाचनोऽग्नेः पटुतां च यच्छति ।
भ्रान्तिं च कुष्ठं कफपाण्डुतां च कार्ष्ण्यं च कासं कुरुतेऽतिसेवितः ॥ २०.८७
कटुः कफं कण्ठजदोषशोफमन्दानलश्वित्रगदान्निहन्ति ।
एषोऽपि दत्ते बहुसेवितश्चेत्क्षयावहो वीर्यबलक्षयं च ॥ २०.८८
कटुः कषायश्च कफापहारिणौ माधुर्यतिक्तावपि पित्तनाशनौ ।
पट्वम्लसंज्ञौ च रसौ मरुद्धरौ इत्थं द्विशोऽमी सकलामयापहाः ॥ २०.८९
अन्योन्यं मधुराम्लौ लवणाम्लौ कटुतिक्तकौ च रसौ ।
कटुलवणौ च स्यातां मिश्ररसौ तिक्तलवणौ च ॥ २०.९०
लवणमधुरौ विरुद्धावथ कटुमधुरौ च तिक्तमधुरौ च ।
साधारणः कषायः सर्वत्र समानतां धत्ते ॥ २०.९१
संधत्ते मधुरोऽम्लतां च लवणो धत्ते यथावत्स्थितिं तिक्ताख्यः कटुतां तथा मधुरतां धत्ते कषायाह्वयः ।
अम्लस्तिक्तरुचिं ददाति कटुको यात्यन्ततस्तिक्ततामित्येषां स्वविपाकतोऽपि कथिता षण्णां रसानां स्थितिः ॥ २०.९२
मधुरोऽम्लः कटुस्तिक्तः पटुस्तुवर इत्यमी ।
क्रमादन्योन्यसंकीर्णा नानात्वं यान्ति षड्रसाः ॥ २०.९३
आद्याद्यो मधुरादिश्चेदेकैकेनोत्तरेण युक् ।
द्विकभेदाः पञ्चदश पर्यायैः पञ्चभिस्तथा ॥ २०.९४
आद्यः सानन्तरः प्राग्वदुत्तरेण श्रुतो यदा ।
चतुर्भिरपि पर्यायैराद्ये प्रोक्ता भिदा दश ॥ २०.९५
एवं द्वितीये षड्भेदास्तृतीये च त्रयः स्मृताः ।
चतुर्थे चैक इत्येते त्रिकभेदास्तु विंशतिः ॥ २०.९६
आद्यौ सानन्तरौ त्रिः षडेकैकाग्रिमयोगतः ।
त्यक्ते द्वितीये चत्वारः स्वाग्रिमैकैकसंयुते ॥ २०.९७
आद्ये त्यक्ते तु पञ्च स्युः स्वाग्रिमैकैकसंयुते ।
चतुष्कभेदा इत्येते क्रमात्पञ्चदशेरिताः ॥ २०.९८
ततः पञ्चकभेदाः षडेकैकत्यागतः स्मृताः ।
एकः सर्वसमासेन व्यासे षडिति सप्त ते ॥ २०.९९
एवं त्रिषष्टिराख्याता रसभेदाः समासतः ।
तारतम्येष्वसंख्यातांस्तान् वेत्ति यदि शंकरः ॥ २०.१००
बृंहणं पुष्टिदं पोष्यमुत्कं पीनत्वदं च तत् ।
वीर्यवृद्धिकरं वृष्यं वाजीकरणबीजकृत् ॥ २०.१०१
आप्यायनं तर्पणं च प्रीणनं तोषणं च तत् ।
निःष्यन्दनमभिष्यन्दि नेत्रद्रावं सरं च तत् ॥ २०.१०२
इति बहुविधरोगव्याधितोपक्रमोऽत्र प्रकृतभिषगनुक्ताहारपथ्यप्रयोगम् ।
इममखिलमुदित्वा वर्गमुत्सर्गसिद्धान् प्रवदतु स च विद्वानामयप्रत्ययांस्तान् ॥ २०.१०३
येन व्याधिशतान्धकारपटलीनिष्कासनाभास्करप्रायेणापि पुनस्तरां प्रविहिता हन्त द्विषां व्याधयः ।
तस्यायं कृतिवाचि विंशतितमः श्रीमन्नृसिंहेशितुः शान्तिं नामकिरीटमण्डनमणौ वर्गो गदादिर्गतः ॥ २०.१०४