सामग्री पर जाएँ

राजतरङ्गिणी प्रथमो भागः.djvu/तृतीयः तरङ्गः

विकिस्रोतः तः
← द्वितीयः तरङ्गः राजतरङ्गिणी प्रथमो भागः.djvu
तृतीयः तरङ्गः
कल्हणः
चतुर्थः तरङ्गः →

तृतीयस्तरङ्गः ।

क्ष्मापालः परिचितसोदराम्बु तीर्थं
नन्दीशाध्युषितमवाप भूतभर्तुः ॥ १६९ ॥
नन्दिक्षेत्रे त्रिभुवनगुरोः सोग्रतस्तत्र याव-
त्तस्थौ तावत्स्वयमभिमतावाप्तये जायते स्म ।
भस्मस्मेरः सुघटितजटाजूटबन्धोक्षसूत्री
रुद्राक्षाको जरढमुनिभिः सस्पृहं वीक्ष्यमाणः ॥ १७० ॥
भ्राम्यञ्श्रीकण्ठदत्तव्रतजनित महासत्क्रियो भैक्षहेतो-
भिक्षादानोद्यतासु प्रतिमुनिनिलयं संभ्रमात्तापसीषु ।
वृक्षैभिक्षाकपाले शुचिफलकुसुम श्रेणिभिः पूर्यमाणे
मान्यो वैराग्ययोगेप्यनुपनतपरप्रार्थनालाघवोभूत् ॥ १७१ ॥
इति श्रीकाश्मीरिकमहामात्यश्रीचण्पकप्रभुसुनोः कहणम्य कृतौ
राजतरङ्गिण्यां द्वितीयस्तरङ्गः ॥
शतद्वये वत्सराणामष्टभिः परिवर्जिते ।
अस्मिद्वितीये व्याख्याताः षट् प्रख्यातगुणा नृपाः ॥
४९
तृतीयस्तरङ्गः ।
मुञ्चेभाजिनमस्य कुम्भकुहरे मुक्ताः कुचाग्रोचिताः
किं भालज्वलनेन कज्जलमतः स्वीकार्यमणोः कृते ।
संघाने वपुरर्धयोः प्रतिवदन्नेवं निषेत्रेण्यः
कर्तव्ये प्रिययोत्तरानुसरणोधुक्तो हरः पातु वः ॥ १ ॥
अथोल्लसत्पृथुश्लाघमानिन्युर्मेघवाहनम् ।
गान्धारविषयं गत्वा सत्रिवाधिष्ठिताः प्रजाः ॥ २ ॥

राजतरङ्गिणी

रक्तप्रजस्य भूभर्तुः पश्चाल्लोकानुरञ्जनम् ।
तस्याज्ञायि जनैर्घोतक्षौमक्षालनसंनिभम् ॥ ३ ॥
स पुनर्बांधिसत्वानामपि सत्त्वानुकम्पिनाम् ।
चर्यामुदात्तचरितैरत्यशेत महाशयः ॥ ४ ॥
तस्याभिषेक एवाज्ञां धारयन्तोधिकारिणः ।
सर्वतोमारमर्यादापटहानुद्घोषयन् ॥ ५ ॥
कल्याणिना प्राणिवधे तेन राष्ट्रान्निवारिते ।
निष्पापां प्रापिता वृत्ति स्वकोशात्सौनिकादयः ॥ ६ ॥
तस्य राज्ये जिनस्येव मारविद्वेषिणः प्रभोः ।
ऋतौ घृतपशुः पिष्टपशुर्भूतबलावभूत् ॥ ७ ॥
स मेघवननामानमग्रहारं विनिर्ममे ।
मयुष्टग्रामकृत्पुण्यज्येष्ठं मेघमठं तथा ॥ ८ ॥
भोगाय चैप्यभिक्षूणां वल्लभास्यामृतप्रभा |
विहारमुच्चैरमृतभवनाख्यमकारयत् ॥ ९ ॥
देश्यैकदेशाल्लोर्नाम्नः प्राप्तस्तस्याः पितुर्गुरुः ।
स्तुन्पा तद्भाषया प्रोक्तो लोस्तोन्पास्तूपकार्यकृत् ॥ १० ॥
चक्रे नडवने राज्ञो यूकदेव्यभिधा वधूः ।
विहारमद्भुताकारं सपत्नीस्पर्धयोद्यता ॥ ११ ॥
अर्धे यद्भिवः शिक्षाचारास्तत्रापितास्तया ।
अर्धे गार्हस्थ्यगर्हाश्च सस्त्रीपुत्रपशुत्रियः ॥ १२ ॥
अथेन्द्रदेवीभवनमिन्द्रदेव्यभिधा व्यधात् ।
विहारं सचतुःशालं स्तूपं भूपप्रियापरा ॥ १३ ॥
अन्याभिः खाद्नामम्माप्रमुखाभिर्निजाख्यया ।
देवीभिस्तस्य महिता विहारा वहवः कृताः ॥ १४ ॥

१ लोः स्तुन्पा इति स्यात् । २ शिष्टाचाराः इति स्यात् । ३ पशुश्रियः इति स्यात् ।


अर्वाक्कालोद्भवस्यापि राज्यकालोस्य भूपतेः ।
न्यक्रृतादिनृपोदन्तैर्वृत्तान्तैरद्भुतोभवत् ॥ १५ ॥
स बहिर्विहरञ्जातु भूभृद्भीतैरुदीरितम् ।
चौरश्चौरोयमित्यारादशृणोत्कन्दितध्वनिम् ॥ १६ ॥
कः कोत्र बध्यतां चौर इत्युक्ते तेन सकुधा ।
शशामाकन्दितध्वानो न च चोरो व्यभाव्यत ॥ १७ ॥
पुनर्द्वित्रैर्दिनैस्तस्य निर्गतस्याग्रतस्ततः ।
अभवन्नभयार्थिन्यो द्वित्रा दिव्यप्रभाः स्त्रियः॥ १८ ॥
ताः संशुतेप्सितास्तेन रद्धाश्वेन कृपालुना ।
अभ्यभाषन्त सीमन्तपुञ्जिताञ्जलयो वचः ॥ १९ ॥
देव दिव्यप्रभावेन भुवने भवता धृते `
अपरस्माद्भयं जातु कस्य स्यात्करुणानिधे ॥ २० ॥
तदानीं तोयदा भूत्वाच्छादयन्तो नभस्तलम्‌ ।
अकाण्डकरकापातशक्ङिभिः कार्षिकैर्मृषा ॥ २१॥
पक्कशालिवनस्फीतिरक्षाक्षुभितमानसैः ।
नागास्त्वत्कोपसंरम्भभूमितां गमिताः प्रभो ॥ २२॥
तेस्माकं पतयश्चौरश्चौर इत्यार्तभाषितम् ।
श्रुत्वा देवेन बध्यन्तामित्यवादि यदा कुधा ॥ २३॥
तदा त्वदाज्ञामात्रेण न्यपतन्पाशवेष्टिता: ।
प्रसादः कियतां तेषामस्मत्करूणयाधुना ॥ २७ ॥

चक्कलकम् ॥


तदाकर्ण्यावदद्राजा प्रसादविशदाननः।
सर्वॅ ते बन्धनान्नागास्त्यज्यन्तामिति सस्मितः ॥ २५॥
तया तस्याज्ञया राज्ञो नागा विधुतबन्धनाः ।
प्रणम्य चरणौ तूर्णं प्रययुः सपरिग्रहाः ॥ २६॥

अथ ग्राहयितुं भूपानाज्ञां हिंसानिवृत्तये ।
स दिग्जयाय निर्व्याजधर्मचर्यो विनिर्ययौ ॥ २७ ॥
अभूदभीतजनतावेक्षणश्र्लाध्यविकमः।
स्पृहणीयो जनस्यापि तदीयविजयोद्यमः ॥ २८ ॥
प्रभावविजितान्कृत्वा सोहिंसादीक्षितान्नृपान् ।
अर्णसां पत्युरभ्यर्णमवापावर्णवर्जितः ॥ २९ ॥
तत्र तालीवनच्छायासुखविश्रान्तसैनिकः ।
युक्तिं द्वीपान्तराकान्तौ क्षणमन्तर्व्यचिन्तयत्‌ ॥ ३० ॥
अथ वेलावनोपान्तात्तेनार्ताकन्दितध्वनिः।
मेघवाहनराज्येपि हतोयमिति शुश्रुवे ॥ ३१९ ॥
तप्तायःशङ्कुनेवान्तर्व्रणितः स द्रुतं ततः ।
संचारिणातपत्रेण सत्रा तां वसुधामगात्‌ ॥ ३२ ॥
अपश्यदथ केनापि चण्डिकायतनाग्रतः।
नरं शबरसेनान्या हन्यमानमधोमुखम्‌ ॥ २३ ॥
अनात्मज्ञ धिगेतत्ते कुकर्मेति महीभुजा ।
तर्जितः स भयादेव शबरस्तं व्यजिज्ञपत्‌ ॥ ३४ ॥
शिशुर्मुमूर्षुर्मे राजन्नयं रोगार्दितः सुतः।
कर्मैतद्दैवतैरुक्तमस्य श्रेयोलवावहम् ॥ २५ ॥
उपहारनिरोधेन सद्य एव विपद्यते ।
बन्धुवर्गमशेषं च विध्द्येतज्जीवजीवितम् ॥ ३६ ॥
अरण्यगहनाल्लब्धमनाथं देव रक्षसि ।
बहुलोकाश्रयं वालं कथमेतमुपेक्षसे ॥ ३७ ॥
अथाभ्यधान्महात्मा स वचोभिः शबरस्य तैः ।
वध्यस्य दृष्टिपातैश्च विक्लवैर्विवशीकृतः ॥ ३८ ॥

किरात कातरो मा भूः स्वयं संरक्ष्यते मया । बहुबन्धुस्तव सुतो वध्योप्ययमबान्धवः ॥ ३९ ॥ उपहारीकरोम्येष चण्डिकायै स्वविग्रहम्‌ । मयि प्रहर निःशङ्कं जीवत्वेतज्जनद्वयम् ॥ ४० ॥ तदद्भुतमहासत्त्वचित्तोदात्तत्वविस्मितः। उन्मिषद्रोमहर्षस्तं ततः स शबरोभ्यधात्‌ ॥ ४१ ॥ अतिकारूण्यमिषतस्तवायं पृथिवीपते । कश्चिन्मतिविपर्यासप्रकारो हृदि रोहति ॥ ४२ ॥ त्रैलोक्यजीवितेनापि यो रक्ष्यो हेलयैव तम्‌ । पृथिवीभोगसुभगं कथं कायमुपेक्षसे ॥ ४३ ॥ न मानं न यशो नार्थान्न दारान्न च बान्धवान्‌ । न धर्मे न सुतान्भूपा रक्षन्ति प्राणतृष्णया ॥ ७५ ॥ तत्प्रसीद प्रजानाथ मा वध्येस्मिन्कृपां कृथाः । शिशुश्चैष प्रजाश्चैता जीवन्तु त्वयि जीवति ॥ ५५॥ उपाजिहीर्षुरात्मानं दन्तद्योतार्घडम्बरैः । अर्च॑यन्निव चामुण्डामथोवाच स पार्थिवः॥ ४६॥ सदाचारसुधास्वादे के भवन्तो वनौकसः। जान्हवीमज्जनप्रीतिं न जानन्ति मरुस्थिताः ॥ ४७ ॥ ध्रुवापायेन कायेन कीणतः कीर्तिमव्ययाम्‌ । ममाभीष्टं प्रमार्ष्टुं ते मूढ रूढोयमाग्रहः ॥ ४८ ॥ मा वोचः किंचिदपरं प्रहर्तुं चेद्धृणा तव । न किं निजः कृपाणो मे शक्तः प्रकान्तसिद्धये ॥ ७९ ॥ इत्युक्त्वा स स्वयं देहमुपहर्तुं समुद्यतः ।

खण्डनाय स्वमुण्डस्य विकोशं शस्त्रमादधे ॥ ५० ॥


ततः प्रहर्तुकामस्य तस्य द्युकुसुमैः शिरः ।
करश्च दिव्यवपुषा रुद्धः केनाप्यजायत ।॥ ५१ ॥
अथापश्यत्तथाभूतः कंचिद्दिव्याकृतिं पुरः ।
न चण्डिकां न तं वध्यं न किरातं न दारकम्‌ ॥ ५२॥
स तं दिव्यस्तदावादीन्मां त्वं सत्त्ववशीकृतम् ।
विद्धि मध्यमलोकेन्दो वरुणं करुणानिधे ॥ ५३ ॥
यदेतत्त्वामुपास्तेद्य च्छत्रं तन्मत्पुरात्पुरा ।
महाबलोहरद्भौमः पुराणश्वशुरस्तव ॥ ५४ ॥
रसातलैकतिलकं माहात्म्यवदिदं विना ।
उपद्रवाः प्राणहराः पौराणां नः पदे पदे ॥ ५५ ॥
तदिदं प्राप्तुकामेन त्वदौदार्ये परीक्षितुम्‌ 1
कारुण्यमय मायेयं निरमायि मयेदृशी ॥ ५६ ॥
त्वदादिर्यो व्यधाज्जन्तून्व्यसून्वसुकुलात्मजः ।
प्रायश्चित्तममारेण चरसीव तदेनसः ॥ ५७ ॥
भयस्पृहाजनकयोर्धरणीधारणोचिते ।
शेषदेहे विषोद्गारफणारत्नौघयोरिव ॥ ५८ ॥
तमःप्रकाशावहयोस्तेजः कान्तदिगन्तरे ।
उषर्बुधे धूमजालज्वालापल्लवयोरिव ॥ ५९ ॥
क्लमाप्यायकियाभाजो रुद्धतेजस्विमण्डले ।
प्रावृद्वयोदच्छन्नेहि संतापासारयोरिव ॥ ६० ॥
द्वयोरालोकितं चित्रं जन्मैकस्मिन्महाकुले ।
तस्य त्रिकोटिहन्तुश्च तवाहिंसस्य च प्रभोः ॥ ६१ ॥
                         चक्कलकम् ॥
नम्रः सम्राडथैवं स वदतो यादसां प्रभोः ।
चकार पूजां स्तोेत्रेण च्छन्न्रेण च कृताञ्जलिः ॥ ६२ ॥

तृतीयस्तरङ्गः ।

तं च स प्रतिगृह्णन्तं प्रणयादुष्णवारणम् ।
जगाद गुणिनामग्यो वरुणं धरणीधवः ॥ ६३॥
कल्पद्रुमाश्च सन्तश्च नार्हन्ति समशीर्षिकाम् ।
अर्थिनां प्रार्थिताः पूर्वे फलन्त्यन्ये स्वयं यतः ॥ ६४ ॥
अवालम्बिष्यत च्छत्रं कथं नः पुण्यंपण्यताम् ।
तत्प्रार्थयिष्यत न चेदातपकृतये भवान् ॥ ६५ ॥
वदन्यः संविभागेभ्यः पूर्ण कुर्यादनुग्रहम् ।
छाययाप्याययन्दद्यात्फलान्यपि महीरुहः ॥ ६६ ॥
तदेवं विहितोदात्तसंविभागाभिचोदितः
जनोयं भगवन्किचिद्वरं प्रार्थयतेपरम् ॥ ६७ ॥
वशीकृतेयं पृथिवी कृत्स्ना भवदनुग्रहात् ।
जेतुं द्वीपान्कथ्यतां तु युक्तिः पाथोधिलङ्घने ॥ ६८ ॥
इत्यर्थ्यमानोकथयद्भूमिपालं जलेश्वरः ।

तितीर्यौ भवति स्तम्भं नीयतेम्भो मयाम्बुधेः ॥ ६९ ॥
ततो महान्प्रसादोयमित्युक्ते पृथिवीभुजा ।
तिरो बभूव भगवान्वरुणः सोष्णवारणः ॥ ७० ॥
अन्येविस्मय स्मेरैर्बलैः सीमन्तयञ्जलम् ।
प्रभावस्तम्भितक्षोभं प्रोत्ततार स वारिधिम् ॥ ७९ ॥
गुणरत्नाकरः शैलं स रत्नाकरशेखरम् ।
नानारत्नाकरं सैन्यैरारुरोहाथ रोहणम् ॥ ७२ ॥
तत्र तालीतरुवनच्छायाध्यासितसैनिकम् ।
प्रीत्या लङ्काधिराजस्तमुपतस्थे विभीषणः ॥ ७३ ॥
समागमः स शुशुभे नरराक्षसराजयोः ।
बन्दिनादाश्रुतान्योन्यप्रथमालापसंभ्रमः ॥ ७४

राजतरङ्गिणी

अथ रक्षः पतिर्लङ्कां नीत्वालंकरणं क्षितेः ।
अमर्त्यसुलभाभिस्तं विभूतिभिरुपाचरत् ॥ ७५ ॥
यदासीत्पिशिताशा इत्यन्वर्थ नाम रक्षसाम् ।
तदा तदाज्ञाग्रहणे प्रापि तदृढिशब्दताम् ॥ ७६ ॥
रक्षःशिरःप्रतिच्छन्दैः स्थिरप्रणतिसूचकैः ।
सनाथशिखरान्प्रादात्तस्मै रक्षः पतिर्ध्वजान् ॥ ७७ ॥
पाराद्वारिनिधेः प्राप्ताः कश्मीरेष्वधुनापि ये |
राज्ञां यात्रासु निर्यान्ति ख्याताः पारध्वजाः पुरः ॥ ७८ ॥
इत्थमा राक्षसकुलं प्राणिहिंसां निषिध्य सः ।
स्वमण्डलं प्रति कृती न्यवर्तत नराधिपः ॥ ७९ ॥
ततः प्रभृति तस्याज्ञा सार्वभौमस्य भूपतेः ।
हिंसाविरतिरूपा सा न कैश्चिदुदलङ्ग्यत ॥ ८० ॥
क्षुद्रैरुद्रादिभिर्नाप्सु सिंहाद्यैर्गहने न च ।
न श्येनप्रमुखैर्व्याम्नि तद्राज्ये जन्तवो हताः ॥ ८१ ॥
अतिक्रामति कालेथ कोपि शोकाकुलो द्विजः ।
पुत्रं गदार्तमादाय द्वारि चक्रन्द भूपतेः ॥ ८२ ॥
दुर्गया प्रार्थितं राजन्पश्वाहारं विनैष मे ।
अनन्यसंततेः सुनुर्वरेणाद्य विपद्यते ॥ ८३ ॥
यद्यहिंसाग्रहेणेमं क्षितिपाल न रक्षसि ।
एतद्विपत्तौ तत्कोन्यो निमित्तं प्रतिभाति मे ॥ ८४ ॥
निर्णयो वर्णगुरुणा त्वयैवैष प्रदीयताम् ।
ब्राह्मणस्य पशोर्वा स्यात्प्राणानां कियदन्तरम् ॥ ८५ ॥
तपःस्थानपि ये जघ्नुर्ब्राह्मणप्राणलब्धये ।
हा मातस्तेधुना भूमे प्रजापालास्तिरोहिताः ॥ ८६ ॥

१ प्राप इत्युचितम् ।

तृतीयस्तरङ्गः ।

इति ब्रुवात साक्षेपं शोकरूक्षाक्षरं द्विजे ।
आपन्नार्तिहरो राजा चिरमेवं व्यचिन्तयत् ॥ ८७ ॥
न वध्याः प्राणिन इति प्राङ्मया समयः कृतः ।
विप्रार्थमपि किं कुर्यो स प्रतिज्ञातविप्लवम् ॥ ८८ ॥
निमित्तीकृत्य मामद्य विपद्येत द्विजो यदि ।
तत्राप्यत्यन्तपापीयानर्थः संकल्पविलवः ॥ ८९ ॥
नैति मे संशयभ्रान्तमेकपक्षावलम्बनम् ।
संभेदावर्तपतितं प्रसूनमिव मानसम् ॥ ९० ॥
तत्स्वदेहोपहारेण दुर्गा तोषयता मया ।
प्रतिज्ञया समं न्याय्यं रक्षितुं जीवितं द्वयोः ॥ ९१ ॥
इति संचिन्त्य सुचिरं देहदानोद्यतो नृपः ।
श्वः प्रियं तव कर्तास्मीत्युक्त्वा विप्रं व्यसर्जयत् ॥ ९२ ॥
क्षपायां क्षमापतिमथ स्वमुपाहर्तुमुद्यतम् ।
निषिध्य दुर्गा व्यधित प्रकृतिस्थं द्विजन्मजम् ॥ ९३ ॥
इत्याद्यद्यतनस्यापि चरितं तस्य भूपतेः ।
पृथग्जनेष्वसंभाव्यं वर्णयन्तस्त्रपामहे ॥ ९४ ।।
अथवा रचनानिर्विशेषमार्षेण वर्त्मना ।
प्रस्थिता नानुरुन्धन्ति श्रोतृचित्तानुवर्तनम् ॥ ९५ ।।
तस्मिन्नस्तं गते भुक्त्वा क्ष्मां चतुत्रिंशतं समाः ।
अनादित्य मिवाशेषं निरालोकमभूज्जगत् ॥ ९६ ॥
अथ क्ष्माभृद्ररक्ष क्ष्मां श्रेष्ठसेनस्तदात्मजः |
प्राहुः प्रवरसेनं यं तुञ्जीनं चाञ्जसा जनाः ॥ ९७ ॥
दोः स्तम्भसंभृतासक्तौ कृपाणमणिदर्पणे ।
संक्रान्तेवोन्मुखी यस्य भुवनश्रीर्व्यभाव्यत ॥ ९८ ।।

८ ५७ राजतरङ्गिणी

समातृचक्रं निर्माय यः पूर्व प्रवरेश्वरम् ।
पुण्याः पुराणाधिष्ठाने प्रतिष्ठा विविधा व्यधात् ॥ ९९ ॥
गृहाङ्गन्नमिव क्षोणीं गणयन्वशवर्तिनीम् ।
त्रिगर्तौवों ग्रामसख्ये प्रवरेशाय यो ददौ ॥ १०० ॥
ईशो नृपाणां निःशेषक्ष्माकेदारकुटुम्बिनाम् ।
स समात्रिशतं भूभृदनिस्त्रिंशाशयोभवत् ॥ १०१ ॥
हिरण्यतोरमाणाख्यौ व्यधत्तामथ तत्सुतौ ।
साम्राज्य युवराजत्वभाजने रञ्जनं क्षितेः ॥ १०२ ॥
वालाहतानां प्राचुर्य विनिवार्यासमञ्जसम् ।
तोरमाणेन दीन्नाराः स्वाहताः संप्रवर्तिताः ॥ १०३ ॥
मामवशाय राशेव कस्मादेतेन वल्गितम् ।
इति तं पूर्वजो राजा क्रोधनो बन्धने व्यधात् ॥ १०४ ॥
चिरं स्थितित्यक्तशुचस्तत्र तस्याञ्जनाभिधा |
ऐक्ष्वाकस्यात्मजा राशी वज्रेन्द्रस्यास्त गुर्विणी ॥ १०५ ॥
आसन्नप्रसवा भर्त्रा सा त्रपार्तेन बोधिता ।
सुतं प्रविष्टा प्रासोष्ट कुलालनिलये क्वचित् ॥ १० ॥
स कुम्भकारगेहिन्या काक्येव पिकशावकः ।
पुत्रीकृतो राजपुत्रः पर्याप्तं पर्यवर्धत ॥ १०७ ॥
जनयित्र्याः कुलाल्याश्च रक्षित्र्या विदितोभवत् ।
रत्नसूतेर्भुजंग्याश्च प्रच्छन्न इव शेवधिः ॥ १०८ ॥
पौत्रः प्रवरसेनस्य गिरा मातुर्नृपात्मजः ।
पैतामहेन नाम्मैव कुलाल्या ख्यापितोभवत् ॥ १०९ ॥
वर्धमानः स संपर्क न सेहे सहवासिनाम् ।
तेजस्विमैत्रीरसिकः शिशुः पद्म इवाम्भसाम् ॥ ११० ॥

१ भ्रात्राहतानां इति स्यात् । तृतीयस्तरङ्गः । स

तं कुलीनैश्च शूरैश्च विद्याविद्भिश्च दारकैः ।
अन्वीतमेव ददृशुः क्रीडन्तं विस्मयाजनाः ॥ १११ ॥
स्ववृन्दस्यात्युदारौजा राजा चक्रे स दारकैः ।
मृगेन्द्रशावः क्रीडद्भिर्वने बालमृगैरिव ॥ ११२ ॥
संविभेजेनुजग्राह वशीचक्रे च सोर्भकान् ।
अराजोचितमाचारं नैव कंचिदसेवत ॥ ११३ ॥
भाण्डादि कर्तुं मृत्पिण्डं कुम्भकारैः समर्पितम् ।
स्वीकृत्य चक्रिरे तेन शिवलिङ्गपरम्पराः ॥ ११४ ॥
तथा साश्चर्यचर्यः स क्रीडञ्जातु व्यलोक्यत ।
मातुलेन जयेन्द्रेण सादरं चाभ्यनन्द्यत ॥ ११५ ॥
आवेद्यमानं शिशुभिस्तं जयेन्द्रोयमित्यसौ ।
भूपालवत्सावहेलं पश्यन्नन्वग्रहीदिव ॥ ११६ ॥
संभाव्य सत्त्वावष्टम्भात्तमसामान्यवंशजम् ।
सादृश्याद्भगिनी भर्तुर्भागिनेयमशङ्कत ॥ ११७ ॥
सत्वरस्तत्त्व जिज्ञासारसेनानुससार तम् ।
प्राप्तस्तद्गृहमौत्सुक्यात्स्वसारं च व्यलोकयत् ॥ ११८ ॥
सा स चान्योन्यमुन्मन्यू पश्यन्तौ भ्रातरौ चिरात् ।
निःश्वासद्विगुणोष्माणि मुहुरभ्रूण्यमुञ्चताम् ॥ ११९ ॥
कुलाल्या दारको मातः कावेताविति पृष्टवान् ।
अकथ्यतेत्थं वत्सैषा मातायं मातुलश्च ते ॥ १२० ॥
पितुर्बन्धेन सक्रोधं तं कालापेक्षयाक्षमम् ।
शिक्षयित्वा जयेन्द्रोथ कार्यशेषाय निर्ययौ ॥ १२१ ॥
उत्पिञ्जोत्पादनात् सज्जे तस्मिन्भ्रात्रा यदृच्छया ।
बन्धात्त्यक्तो नृतरणिस्तोरमाणोस्तमायया ॥ १२२ ॥

6⁰

राजतरङ्गिणी

निवार्य मरणोद्योगं मातुर्निवेंदखेदितः ।
ययौ प्रवरसेनोथ तीर्थोत्सुक्याद्दिगन्तरम् ॥ १२३ ॥
रक्षित्वा दशमासोनाः क्ष्मामेकत्रिंशतिं समाः ।
तस्मिन्क्षणे हिरण्योपि शान्ति निःसंततिर्ययौ ॥ १२४ ॥
तत्रानेहस्युज्जयिन्यां श्रीमान्हर्षापराभिधः ।
एकच्छत्रश्चक्रवर्ती विक्रमादित्य इत्यभूत् ॥ १२५ ॥
भूपमद्भुतसौभाग्यं श्रीर्वद्धरभसाभजत् ।
विहाय हरिवाहूंश्च चतुरः सागरांश्च यम् ॥ १२६ ॥
लक्ष्मी कृत्वोपकरणं गुणे येन प्रवर्धिते ।
श्रीमत्सु गुणिनोद्यापि तिष्ठन्त्युद्धुरकंधराः ॥ १२७ ॥
म्लेच्छोच्छेदाय वसुधां हरेरवतरिष्यतः ।
शकान्विनाश्य येनादौ कार्यभारो लघुकृतः ॥ १२८ ॥
नानादिगन्तराख्यातं गुणवत्सुलभं नृपम् ।
तं कविर्मातृगुप्ताख्यः सर्वास्थानस्थमासदत् ॥ १२९ ॥
स गम्भीरस्य भूभर्तुरनुभावं महाद्भुतम् ।
विविधास्थानसंवृद्धस्तस्याभ्यूह्य व्यचिन्तयत् ॥ १३० ॥
सोयमासादितः पुण्यैः क्षोणिपालो गुणिप्रियः ।
परभागोपलम्भाय पूर्वेमुष्य महीभुजः ॥ १३१ ॥
यस्मिन्राजनि तत्त्वज्ञैः सूरिभिः संभृतश्रुतैः ।
नाञ्जलिर्दीयते जातु मानाय च गुणाय च ॥ १३२ ॥
भङ्ग्यामुष्मिन्विद्धती स्वाभिप्रायप्रकाशनम् ।
वैदग्ध्यवन्ध्यतां नैति बुद्धिः कुलवधूरिव ॥ १३३ ॥
खिलीकृतखलालापे युक्तायुक्तविवेक्तरि ।
नायाति सेव्यमानेस्मिन्स्वगुणोनर्थकारिताम् ।। १३४ ॥


अनाप्नुवद्भिः सावद्यदुर्विद्यसमशीर्षिकाम्‌ ।
जीवन्मरणमस्याग्रे गुणिभिर्नानुभूयते ॥ १३५ ॥
संभावनानुसारेण प्रवृत्तोस्माद्विवेकिनः ।
शोच्यते नाञ्चितोच्छ्वासं प्रतिदायो महाशयैः ॥ १३६ ॥
गृह्नन्यथागुणं स्वान्तमुचितप्रतिपत्तिभिः।
अन्तरज्ञः समस्तानामयमुत्साहवर्धनः ॥.१३७ ॥
सेवया दष्टकष्टस्य दाक्षिण्योत्पादने श्रमः ।
अस्य यो न स भृत्यानां हिमाद्रौ हिमविक्रयः ॥ १३८ ॥
मिथ्याख्यातगुणो नाप्तो नामात्यः कलहप्रियः ।
असत्यसंधः स्थेयो वा नास्थानेस्य महीपतेः ॥ १२९. ॥
अश्लिलालापिनोन्योन्यं नर्मोक्तया मर्मभेदिनः ।
अन्यप्रवेशासहनाः संहता नास्य सेवकाः ॥ १४० ॥
छन्दानुवर्तिनामेष निजविज्ञानबन्दिनाम्‌ ।
सर्वज्ञंमन्यतान्धानां मुखप्रेक्षी न पार्थिवः ॥ १४१ ॥
अनेन सह संजातः संलापो विपुलोदयः ।
लभ्यते नान्तरा छेत्तुं दुर्जातैर्जातु दुर्जनैः ॥ १४२ ॥
सर्वदोषोञ्झितं सेव्यं नृपमेवमिमं मम ।
समासादयतः पुण्यैरदूरे स्वाथसिद्धयः ॥ १४२ ॥
गम्भीरश्च गुणज्ञश्च स्थिरबुद्धिश्च पार्थिवः।
एष क्लेशभयं त्यक्त्वा निषेव्यः प्रतिभाति मे ॥ १५४६ ॥
न चास्माद्धनमादाय रञ्जितादन्यराजवत्‌ ।
भ्राम्यतो भूतलेमुष्मिन्सेव्योन्यः प्रतिभाति मे ॥ १५५ ॥
इति संचिन्तय सुदृढं स नवामिव तां सभाम्‌ ।
नारञ्जयन्न चास्ते स्म गुणिगोष्ठीषु मध्यगः ॥ १६६. ॥


मृदुपूर्वं गुणानेव दर्शयन्तं विशां पतिः ।
विशिष्टयोग्यताज्ञप्त्यै विवेदाराधनोन्मुखम्‌ ॥ १५७ ॥
अचिन्तयञ्च नायं स्याद्नुणिमात्रं महाशयः ।
उदात्तं सत्क्रियार्हत्वं वदत्यस्य गभीरता ॥ १७८ ॥
इति संचिन्त्य राज्ञापि ज्ञातुं तस्यान्तरं मतेः ।
नाक्रियन्त परीक्षार्थं यथावल्लाभसत्क्रियाः ॥ १४९ ॥
स तेनानुपचारेण तमुदात्ताशयं नृपम्‌ ।
स्वीकर्तारं विदन्धीमान्सिषेवे प्रीतिमाश्रितः ॥ १५० ॥
क्रमोपचीयमानेन सेवाभ्यासेन धीमतः ।
तस्य नोद्वेगमत्स्वकाय इव पार्थिवः ॥ १५९१ ॥
नातीव स्वल्पया स्थित्या नातीवाप्यथ दीर्घया ।
शरन्निशाक्षणेनेव राजा निन्ये प्रसन्नताम्‌ ॥ १५२ ॥
नर्मभिर्गर्भचेतानां द्वाःस्थानां विक्रियाक्रमेः ।
मिथ्यास्तवैर्विटानां च न स क्षोभमनीयत ॥ १५३ ॥
प्रसन्नालापसंप्राप्तौ छायाग्रह इवाचलः ।
प्रतिस्पर्धीव च कुध्यन्नावज्ञायामभूत्प्रभोः॥ १५४ ॥
वीक्षणं राजदासीनां राजद्विष्टैः सहासनम्‌ ।
राजाग्रे च कथां नीचैः कालविन्नाचचार सः ॥ १५५ ॥
स्वभावाद्राजपुरूषैः सजनै राजनिन्दकैः ।
नास्मात्प्रभोरुपालम्भो लेभे पैशुन्यजीविभिः ॥ १५६ ॥
वदद्भिरादरात्स्थैयै वैफल्याद्यन्वहं प्रभोः ।
निन्ये नोत्साह्शैथिल्यं सेवोत्साहासहिष्णुभिः ॥ १५७ ॥
अन्योत्कर्षानपि वदन्प्रसङ्गेन निराग्रहः ।
स्वविद्याद्योतकः सोभूत्सभ्यानां हृदयंगमः ॥ १५८ ॥

एवं स सेवमानस्तमुद्योगेन बलीयसा ।
अनिर्विण्णो मातृगुक्तः षडृतूनत्यवाहयत्‌ ॥ ९५९. ॥
अथ तं कृशसर्वाङ्गं धूसरं जीर्णवाससम् ।
बहिर्जातु विनिर्यातो राजा वीक्ष्य व्यचिन्तयत्‌ ॥ १६० ॥
वैदेशिको निःशरणो गुणवान्बान्धवोज्झितः।
दार्ढ्यं जिज्ञासुना कष्टं सोयमायासितो मया ॥ १६९१ ॥
कोस्याश्रयः किमशनं कानि प्रावरणानि वा।
इत्यैश्वर्यविमूढेन मया हन्त न चिन्तितम्‌ ॥ १६२ ॥
वसन्तेनेव न मया शोभयाद्यापि योजितः ।
शीतवातातपैः शुष्यन्सोयं पुरुषपादपः ॥ १६३ ॥
अस्य ग्लानस्य भैषज्यं निर्विण्णस्य विनोदनम्‌ ।
श्रान्तस्य वा क्लमच्छेदं को विदध्यादसंपदः ॥ १९४ ॥
नास्मै चिन्तामणिं दद्यां नामृतं वा निषेवितः
मया यदयमेतावद्मामूढेन परीक्ष्यते ॥ १६५ ॥
तदमुष्य गुणित्वस्य तीव्रसेवाश्रमस्य च ।
प्रतिपत्त्या कतमया तावदानृण्याप्नुयाम् ॥ १६६ ॥
इति चिन्तयतस्तस्य राज्ञस्तं सेवकं प्रति ।
स्वप्रसादोचिता काचित्त्प्रत्यभान्नैव सत्क्रिया ॥ १५६७ ॥
ततः प्रावर्तत स्फारनीहारलववाहिभिः।
दहन्निवाङ्गं प्रालेयपवमानैर्हिमागमः ॥ १६८ ॥
संततध्वान्तमिषतस्तीव्रशीतवशीकृताः ।
आशाश्चकाशिरे नीलनिचोलाच्छादिता इव ॥ १६०. ॥
शीतार्त्या द्युमणावौर्वदहनोष्माभिलाषतः।
द्रुतं यातीव जलधिं दिनानि लघुतां ययुः ॥ १७० ॥

अथ दीपोज्ज्वले धाम्नि लसद्दिप्तहसन्तिके ।
कदाचिन्नृपतिर्दैवादर्धरात्रे व्यवुध्यत ॥ १७१ ॥
स हेमन्तानिलैर्भुरिभांकारपरुषैः पुरः ।
दीपान्प्रकम्पितानीपत्प्रविष्टैर्धाम्नि दृष्टवान्‌ ॥ १७२ ॥
तानुज्ज्वलयितुं भृत्यानन्विष्यन्नभ्यधात्ततः ।
यामिकेषु वहिः सज्जः को वर्तत इति स्फुटम्‌ ॥ १७३ ॥
सुखसुप्तेषु सर्वेषु बाह्यकक्ष्यान्तरात्ततः।
राजन्नयमहं मातृगुप्त इत्यश्रृणोद्वचः ॥ ९७७ ॥
प्रविशेति स्वयं राज्ञा दत्तानुज्ञस्ततो गृहम् ।
लक्ष्मीसांनिध्यरम्यं तददृष्टोन्यैर्विवेश सः ॥ १७५५ ॥
दीपानुज्ज्वलयेत्युक्तो निष्पाद्य चतुरैः पदैः ।
बहिर्यियासुरूचेथ क्षणं तिष्टेति भूभुजा ॥ १७६ ॥
स भयद्विगुणीभूत्शीतकम्पकः प्रभोः पुरः ।
किंस्विद्वक्त्तीति विमृष्न्नातिदूरेभ्युपाविशत् ॥ १७७ ॥
अथ पप्रच्छ भूपालः कियत्यस्ति निशेति तम्‌ ।
सोभ्यधाद्देव यामिन्या यामः सार्धोवशिष्यत् ॥ १७८ ॥
ततो भूभृदुवाचैनं कथं सम्यङ्गिशाक्षणः।
त्वयावधारितो निद्रा कथं नाभूच्च ते निशि ॥ १७२. ॥
अथ कृत्वा क्षणाच्छ्लोकमेतं तं स व्यजिज्ञपत्‌ ।
अवस्थावेदनादाशां दैन्यं वा त्यक्त्तुमुद्यतः ॥ १८० ॥
शीतेनोद्धृषितस्य माषशिमिवच्चिन्तार्णवे मज्जतः |
शान्ताग्निं स्फुटिताघरस्य धमतः क्षुत्क्षामकण्ठस्य मे ।
निद्रा क्वाप्यवमानितेव दयिता संत्यज्य दूरं गता
सत्पात्रप्रतिपादितेव वसुधा न क्षीयते शर्वरी ॥ १८१ ॥

तदाकर्ण्य महीपालः साधुवादैः परिश्रमम्‌ ।
अभिनन्द्य कवीन्द्रं तं पूर्वस्थानं व्यसर्जयत्‌ ॥ १८२ ॥
अचिन्तयञ्च धिङ्मां यः सगुणात्खिन्नचेतसः ।
दुःखोत्तप्तं वचः श्रृण्वन्नेवमेवाधुना स्थितः ॥ १८२ ॥
निरर्थकान्साधुवादानन्यस्येव विदन्मम ।
अयमज्ञातहृदयो दुःखमास्ते ध्रुवं बहिः ॥ १८४ ॥
चिरं चिन्तयतो यत्नात्सदृशीमस्य सत्क्रियाम् ।
अथवास्यैव सूक्तेन स्मारितोस्म्यधुना यथा ।
देयं महार्हमद्यापि न किंचित्प्रतिभाति मे ॥ १८५ ॥
वर्तते राजरहितं काम्यं काश्मीरमण्डलम् ॥ १८६ ॥
पात्रायास्मै मही तस्मात्सा मया प्रतिपाद्यते ।
अवधीर्य महीपालान्महतोप्यर्थनापरान् ॥ १८७ ॥
इति निश्चित्य चतुरं क्षपायामेव पार्थिवः।
गूढं व्यसर्जयद्दूतान्काश्मीरीः प्रकृतीः पति ॥ १८८ ॥
आदिदेश च तान्यो वो दर्शयेच्छासनं मम ।
मातृगुप्ताभिधो राज्ये निःशङ्कं सोभिषिच्यताम्‌ ॥ १८९. ॥
अथ दूतेषु यातेषु लेखयित्वा स्वशासनम्।
क्ष्मापतिस्तं क्षपाशेषं कृतकृत्योत्यवाहयत् ॥ १९० ॥
मातृगुप्तस्तु नृपतेः संलापमपि निष्फलम्‌ ।
ध्यायन्गृहीतनैराश्यस्त्यक्तभार इवाभवत्‌ ॥ १९१ ॥
अन्तर्दध्यौ च कर्तव्यं कृतं शान्तोद्य संशयः ।
आशापिशाचिकात्यक्त्तश्चतिष्याम्यधुना सुखम्‌ ॥ १९२ ॥
गतानुगतिकत्वेन कोयमासीन्मम भ्रमः
जनप्रवादात्सेव्यत्वं येनास्य ज्ञातवानहम्‌ ॥ १९३ ॥

राजतरङ्गिणी

भुञ्जानाः पवनं सरीसृपगणाः प्रख्यापिता भोगिनो
गायद्भृङ्गनिवारका निगदिता विस्तीर्णकर्णा गजाः ।
यश्चाभ्यन्तरसंभृतोष्मविकृतिः प्रोक्तः शमी स द्रुमो
लोकेनेति निरर्गलं प्रलपता सर्व विपर्यासितम् ॥ १९४ ॥
अथवा विद्यतेमुष्य न काव्यनभिगम्यता |
लक्ष्मीप्रणयिनो येन कृताः प्रणयिनां गृहाः ॥ १९५ ॥
त्यागिनो निष्कलङ्कस्य को दोषोस्य महीपतेः ।
ममापुण्यं तु तन्निन्द्यं यच्छ्रेयः प्रतिबन्धकम् ॥ १९६ ॥
रत्नोज्ज्वलाः प्रविकिरंल्लहरीः समीरै-
रब्धिः क्रियेत यदि रुद्धतटाभिमुख्यः ।
दोषोर्थिनः स खलु भाग्यविपर्ययाणां
दातुर्मनागपि न तस्य तु दातृतायाः ॥ १९७ ॥
उत्तानफललुब्धानां वरं राजोपजीविनः ।
न तु तत्स्वामिनस्तीव्रपरिक्लेशैः फलन्ति ये ॥ १९८ ॥
तिष्ठन्ति ये पशुपतेः किल पादमूले
संप्राप्यते झटिति तैर्नहि भस्मनोन्यत् ।
ये तद्वृषस्य तु समुज्ज्वलजातरूप-
प्रात्या न कानि सुदिनानि सदैव तेषाम् ॥ १९९ ॥
चिन्तयन्नपि पश्यामि न कंचिद्दोषमात्मनः ।
यातो विरक्तिं यं ज्ञात्वा सेव्यमानोप्ययं नृपः ॥ २०० ॥
अथवा नाहतोन्येन संप्राप्तोन्तिकमाप्नुयात् ।
कः फलेनाभिसंबन्धं गतानुगतिकात्प्रभोः ॥ २०१ ॥
अन्तर्ये सततं लुठन्त्यगणितास्तानेव पाथोधरै
रात्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ ।

तृतीयस्तरङ्गः ।

व्यक्तं मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः
प्रायोन्येन कृतादरो लघुरपि प्राप्तोर्च्यते स्वामिभिः ॥ २०२ ॥
इदं संचिन्तयन्सोभूत्सेव्ये तस्मिन्निरादरः ।
खिन्नस्य हि विपर्येति तत्त्वज्ञस्यापि शेमुषी ॥ २०३ ॥
प्रभातायां विभावर्यामथास्थानस्थितो नृपः ।
आकार्यतां मातृगुप्त इति क्षत्तारमादिशत् ॥ २०४ ॥
ततः प्रधावितानेकप्रतीहारप्रवेशितः ।
प्रविवेश महीभर्तुस्त्यक्ताश इव सोन्तिकम् ॥ २०५ ॥
तस्मै कृतप्रणामाय मुहूर्तादेव पार्थिवः ।
भ्रूसंज्ञितेन व्यतरल्लेखं लेखाधिकारिणा ॥ २०६ ॥
स्वयं च तमुवाचाङ्ग कश्मीरान्वेत्ति किं भवान् ।
गत्वा तत्राधिकारिभ्य एतच्छासनमर्प्यताम् ॥ २०७ ॥
स शापितोस्मद्देहेन यो लेखं वाचयेत्पथि ।
संविदेषा प्रयत्नेन विस्मर्तव्या न जातुचित् ॥ २०८ ॥
अविज्ञाताशयो राज्ञस्तामाज्ञां क्लेशशङ्कितः ।
सोबुद्ध दहनज्वालां न तु रत्नाङ्कुरद्युतिम् ॥ २०९ ॥
यथादेशस्तथेत्युक्त्वा मातृगुप्ते विनिर्गते ।
निर्गर्वः पूर्ववद्राजा तस्थावाप्तैः सहालपन् ॥ २१० ॥
अथाक्लेशोचितं क्षाममपाथेयमबान्धवम् ।
दृष्ट्वा यान्तं मातृगुप्तं निनिन्देति नृपं जनः ॥ २११ ॥
अहो नरेश्वरस्येयं यत्किंचनविधायिता ।
पृथग्जनोचिते कर्मण्यर्हतो निदधाति यः ॥ २१२ ॥
दुराशया धृतक्लेशं सेवमानमहर्निशम् ।
ध्रुवं क्लेशाईमेवैनं ज्ञातवानबुधो नृपः ॥ २१३ ॥

६७ राजतरङ्गिणो

उपायं तं पुरस्कृत्य सेवते सेवकः प्रभुम् ।
अनन्तरज्ञस्तत्रैव योग्यं तं किल मन्यते ॥ २१४ ॥
सुखार्थी नागारिप्रतिभयशमात्प्रत्युत सुखं
जहौ शेषस्तल्पीकृततनु निषेव्यासुररिपुम् ।
यतस्तेना मुष्मिन्नधिगतवता क्लेशसहतां
श्रमादायि न्यस्तं निरवधि घराभारवहनम् ॥ २१५ ॥
अयमेतद्गृहीतेषु गुणवत्सु गुणाधिकम् ।
आत्मानं गुणवान्पश्यन्नास्थयैनमशिश्रियत् ॥ २१६ ॥
अनन्तरज्ञः कोन्योस्माद्गुणान्दर्शयतेधिकान् ।
अस्मै गुणवते पूजां यश्चकार किलेटशीम् ॥ २१७ ॥
यो नानाद्युतिमत्पदार्थरसिकोसारेपि शक्रायुधे
सप्रेमा स विलोक्य वर्हमिह मे किं किं न कुर्यात्प्रियम् ।
इत्याविष्कृतबर्हराजि नटते यो बहिणेम्भोलवा-
नान्यन्मुञ्चति तं विहाय जलदं कोन्योस्ति शून्याशयः ॥ २१८ ॥
गच्छतो मातृगुप्तस्य निर्देन्यस्यैव वर्त्मसु ।
नाभूद्भाव्यर्थमाहात्म्याद्विकल्पः कोपि चेतसि ॥ २१९ ॥
अहंपूर्विकयोयद्भिनिमित्तैः शुभशंसिभिः ।
स वितीर्णकरालम्ब इव न श्रममाददे ॥ २२० ॥
अपश्यत्स फणाकोटौ खञ्जरीटमहेः पथि ।
स्वप्ने प्रासादमारुह्य स्वं चोल्लङ्घतसागरम् ॥ २२१ ॥
अचिन्तयच्च शास्त्रज्ञो निमित्तैः शुभशंसिभिः ।
एतैर्भूभर्तुरादेशो ध्रुवं मे स्याच्छुभावहः ॥ २२२ ॥
फलं मम तनीयोपि कश्मीरेषु भवेद्यदि ।
अनर्घदेशमाहात्म्यात्किं किं नातिशयेत तत् ॥ २२३ ॥

१ यं इत्युचितम् | 1. तृतीयस्तरङ्गः ।

अकृच्छ्रलङ्घयाः पन्थानो वल्लभातिथयो गृहाः ।
उपानमन्गच्छतोस्य सत्क्रियाच पदे पदे ॥ २२४ ॥
इत्थं विलङ्गिताध्वा स लोलानौकहशाद्वलम् ।
मङ्गल्यदधिपात्राभं ददर्शाग्रे हिमाचलम् ॥ २२५ ॥
सरलस्यन्दसुभगा गङ्गाशीकरवाहिनः ।
प्रत्युद्ययुस्तं मरुतः पाल्यायाः संस्तुता भुवः ॥ २२६ ॥
क्रमवर्ताभिधाने स प्रदेशे प्राप्तवांस्ततः ।
ढक्कं काम्बुवनामानं योद्य शूरपुरे स्थितः ॥ २२७ ॥
नानाजनपदाकीर्णे स्थाने तत्राथ शुश्रुवान् ।
काश्मीरिकान्महामात्यान्स्थितान्केनापि हेतुना ॥ २२८ ॥
ततोपनीतप्राग्वेषः प्रावृतो धवलांशुकैः ।
स जगामान्तिकं तेषां दातुं नृपतिशासनम् ॥ २२९ ॥
तं प्रयान्तं समुद्यद्भिः शकुनैः सूचितोदयम् ।
पान्थाः केप्यन्वयुर्द्रष्टुं निमित्तानां फलोद्गमम् ॥ २३० ॥
श्रुत्वाथ विक्रमादित्यदूतः प्राप्त इति द्रुतम् ।
द्वाःस्थाः काश्मीरमत्रिभ्यस्तमासन्नं न्यवेदयन् ॥ २३१ ॥
आगच्छत प्रविशतेत्युच्यमानोथ सर्वतः ।
स तान्समस्तसामन्तानाससादानिवारितः ॥ २३२ ॥
यथाप्रधानं सचिवैर्विहितोचितसत्क्रियः ।
ततः परार्ध्यमध्यास्त तन्निदर्शितमासनम् ॥ २३३ ॥
कृतार्हणैरथामात्यैराज्ञां पृष्टो महीभुजः ।
शनैस्तच्छासनं तेभ्यो लज्जमान इवार्पिपत् ॥ २३४ ॥
तेभिवन्द्य प्रभोर्लेखमुपांशु मिलितास्ततः ।
उन्मुच्य वाचयित्वैतमवोचन्विनयानताः ॥ २३५ ॥

६९ ७० राजतरङ्गिणी

मातृगुप्त इति श्लाघ्यं भवतामेव नाम किम् ।
एवमेवैतदित्यूचे सोपि तान्विहितस्मितः ॥ २३६ ॥
कः कोत्र संनिधातॄणामित्यत्र्यत वाक्ततः ।
राज्याभिषेकसंभारो दृश्यते स्म च संभृतः ॥ २३७ ॥
ततः कलकलोत्तालभूरिलोकसमाकुलः ।
प्रदेशः क्षणमात्रेण सोभूत्क्षुभ्यन्निवार्णवः ॥ २३८ ॥
अथ प्राङ्मुखसौवर्णभद्रपीठप्रतिष्ठितः ।
संनिपत्त्य प्रकृतिभिर्मातृगुप्तोभ्यषिच्यत ॥ २३९ ॥
तस्य विन्ध्यतटव्यूढवक्षसः परिनिर्लुठत् ।
सशब्दमभिषेकाम्बु रेवास्रोत इवाबभौ ॥ २४० ॥
अथ स्नातानुलिप्ताङ्गं सर्वाङ्गामुक्तभूषणम् ।
व्यजिज्ञपंस्तं राजानं ऋान्तराजासनं प्रजाः ॥ २४१ ।।
अथितेन स्वयं त्रातुं विक्रमादित्यभूभुजा ।
निर्दिष्टः स्वसमानस्त्वं शाधि नः पृथिवीमिमाम् ॥ २४२ ॥
मण्डलानि विलभ्यन्ते येनानेन प्रतिक्षणम् ।
मा मंस्था मण्डलं राजन्विलब्धं तदिदं परैः ॥ २४३ ॥
कर्मभिः स्वैरवाप्तस्य जन्मनः पितरौ यथा ।
राज्ञां तथान्ये राज्यस्य प्रवृत्तावेव कारणम् ॥ २४४ ॥
इत्थं स्थिते परं कंचित्त्वदीयोस्मीति शंसता ।
न नेया भवता राजन्वयमात्मा च लाघवम् ॥ २४५ ॥
इति तैस्तथ्यमुक्तोपि संस्मरन्स्वामिसत्क्रियाम् ।
मातृगुप्तो महीपालः क्षणमासीत्कृतस्मितः ॥ २४६ ॥
दानेन सुदिनं कुर्वन्नवराज्योजितेन सः ।
तत्रैव मङ्गलोदग्रं तदहो निरवर्तयत् ॥ २४७ ॥

पुरप्रवेशायान्येद्युरर्थ्यमानोथ मन्त्रिभिः।
अद्भुतप्राभृतं दूतं राज्यदातु्र्व्यसर्जयत्॥२४८॥
देशौन्नत्यानुसारेण स्पर्धामिव च तां विदन्‌।
स्वामिनो मनसि ह्रीतः सागसं स्वममन्यत॥२७९॥
अथाहूयापरान्भृत्यान्वक्तुं सेवास्मृतिं प्रभोः।
अल्पार्घाण्यपि सात्म्यानि प्राहिणोत्प्राभृतानि सः॥२५०॥
असामान्यान्गुणांस्तस्य स्मरन्पर्यस्त्रुलोचनः।
स्वयं लिखित्वा श्लोकं च स्वकमेकं व्यसर्जयत्‌॥२५१॥
नाकारमुद्धहसि नैव विकत्थसे त्वं
दित्सां न सूचयसि मुञ्चसि सत्फलानि।
निःशब्दवर्षणमिवाम्बुधरस्य राज-
न्संलक्ष्यते फलत एव तव प्रसादः॥२५२॥
ततः प्रविश्य नगरं सैन्यैः पिहितदिक्तटैः।
क्रमागतामिव महीं यथावत्पर्यपालयत्‌॥२५३॥
त्यागे वा पौरुषे वापि तस्यौचित्योन्नतात्मनः।
क्ष्माभुजस्तर्कुकस्येव नाभूत्परिमितेच्छता॥२५४॥
यष्टुं यज्ञान्ध्रतोद्योगस्त्यागी विततदक्षिणान्‌।
पशुबन्धमनुध्याय करुणाकूणितोभवत्‌॥२५५॥
अमारमादिदेशाथ यावद्राज्यं स्वमण्डले ।
चु्र्णीकृत्य खुवर्णादि प्रददौ च करम्भकम्‌॥२५६॥
करम्भके कीर्यमाणे मातृगु्प्तेन भूभुजा।
वैतृष्यमुन्मिषत्तोषो न को नाम न्यषेवत॥२५७॥
गुणी च दृष्टकष्टश्च वदान्यश्च स पार्थिवः।
विक्रमादित्यतोप्यासीदभिगम्यः शुभार्थिनाम्॥२५८॥

विवेचकतया तस्य श्लाघ्यया सुरभीरृताः।
लक्ष्मीविलासाः क्ष्माभर्तुरशोभन्त मनीषिषु॥२५९॥
हयाग्रीववधं मेण्ठस्तदग्रे दर्शयन्नवम्।
आसमाप्ति ततो नापत्साध्वसाध्विति वा वचः॥२६०॥
अथ ग्रथयितुं तस्मिन्पुस्तकं प्रस्तुते न्यधात्‌
लावण्यनिर्याणभिया तदधः स्वर्णभाजनम्‌॥२६१॥
अन्तरज्ञतया तस्य तादृश्या कृतसत्कृतिः।
भर्तृमेण्ठः कविर्मेने पुनरुक्तं श्रियोर्पणम्॥२६२॥
स्र मातृगुप्तस्वाम्याख्यं निर्ममे मधुसूदनम्‌।
कालेनादत्त यद्ग्रामान्मम्मः स्वसुरसद्मने॥२६३॥
इत्यासादितराज्यस्य शासतः क्ष्मां क्षमापतेः।
त्रिमासोना ययुस्तस्य सैकाहाः पञ्च वत्सराः॥२६४॥
कृतार्थतां तीर्थतोयैराञ्जनेयो नयन्पितृन्।
जातं तादृशमश्रौषीत्स्वस्मिन्देशे पराक्रमम्‌॥२६५॥
पितृशोकार्द्रता तस्य क्रोधेनान्तरधीयत।
तरोरिवार्कतापेन नैशाम्बुलवसिक्तता॥२६६॥
श्रीपर्वते पाशुपतव्रतिवेषस्तमागतम्।
आचख्यावश्वपादाख्यः सिद्धः कन्दाशनं ददत्‌॥२६७॥
जन्मान्तरे लब्धसिद्धिस्त्वामस्म्युपरिसाधकम्।
वाञ्छाम्पृच्छं राज्यार्थमभिलाषस्तु तेभवत्‌॥२६८॥
सयत्नं तव कर्तुं तन्मनोरथमनन्यथा।
अथ मामित्थमादिक्षत्क्षपारमणशेखरः॥२६९॥
गणोयं मामकः सिद्धौ यस्तवोपरिसाधकः।
जन्मान्तरेस्य राज्येच्छां कुर्यामहमनन्यथा॥२७०॥

भावं भवस्तद्भवतो भगवान्दत्तदशेनः।
साफल्यं नेष्यतीत्येवमभिधाय तिरोदधे॥२७१॥
साम्राज्येच्छोः समामेकां तत्र तस्य तपस्यतः।
लब्धस्मृतेः सैद्धगिरा प्रददौ दर्शनं शिवः॥२७२॥
व्रतिवेषं तमादिष्टवाञ्छितार्थसमर्पणम्।
स जगन्निर्जयोन्निद्रं नरेन्द्रत्वमयाचत॥२७२॥
उपेक्ष्य मोक्षं किं क्ष्माभृभ्दोगानिच्छसि भङ्गुरान्।
इति जिज्ञासुना भावं शंभुना सोभ्यधीयत॥२७४॥
स तं वभषे शंभुं त्वां बुद्ध्वा व्याजतपोधनम्‌।
अभ्यधामिदमद्धा त्वं न स देवो जगद्गुरुः॥२७५॥
महान्तो ह्यर्थिताः स्वल्पं फलन्त्यल्पेतरत्स्वयम्।
उदन्यया वदन्योदाद्दुग्धाब्धिं स पयोर्थिने॥२७६॥
अस्य वेकल्यकैवल्यालाभनिश्चलचेतसः।
नो वेत्स्यभिजनस्याभिभूतिं मर्मव्यथावहाम्॥२७७॥
जगत्परिवृढः प्रौढप्रीतिस्तं स फलार्थिनम्।
कृत्वा प्रादुष्कृतवपुस्ततो भूयोभ्यभाषत॥२७८॥
मज्जतो राज्यसौख्येषु सायुज्यावाप्तिदूतिकाम्।
मदाज्ञयाश्वपादस्ते संज्ञां काले करिष्यति॥२७९॥
इत्युक्तवान्तर्हिते देवे स कृतव्रतपारणः।
अगच्छदश्वपादं तमापृच्छ्याभिमतां भुवम्‌॥२८०॥
ततो विदितवृत्तान्तो मातृगुप्ताभिषेणनात्।
निषिध्य सविधायातानमात्यानव्रवीद्वचः॥२८१॥
विक्रमादित्यमुत्सिक्तमुच्छेत्तुं यतते मनः।
मातृगुप्तं प्रति न नो रोपेणारूषितं मनः॥२८२॥

अप्रियैरपि निष्पिष्टैः किं स्यात्क्लेशासहिष्णुभिः।
ये तदुन्मूलने शक्ता जिगीषा तेषु शोभते॥२८३॥
यान्यननान्युदयं द्विषन्ति शशिनः कोन्यस्ततोसंमत-
स्तन्निर्माथिकरीन्द्रदन्तदलनं यन्नाम कोयं नयः।
सामर्थ्यप्रथनाय चि्रमसमैः स्पर्घां विधूयोन्नता
ये तेषु प्रभवन्ति तत्र जहति व्यक्तं प्ररूढा रूषः॥२८४।।
त्रिगर्तानां भुवं जित्वा स व्रजन्नथ भूपतिः।
विक्रमादित्यमश्रृणोत्कालधर्ममुपागतम्॥२८५॥
तस्मिन्नहनि भूभर्त्रा शोकान्निःश्वसतानिशम्।
नास्त्रायि नाशि नास्वापि स्थितेनावनताननम्॥२८६॥
अन्येद्युर्भुवमुत्सृज्य कश्मीरेभ्यो विनिर्गतम्।
शुश्राव मातृगुप्तं स नातिदूरे कृतस्थितिम्॥२८७॥
कैश्चिन्निर्वासितो मा स्विन्मदीयैरिति शङ्कितः।
ययो प्रवरसेनोस्य पार्श्वे मितपरिच्छदः॥२८८॥
कृतार्हणं सुखासीनं ततः पप्रच्छ तं शनैः।
विनयावनतो राजा राज्यत्यागस्य कारणम्‌॥२८९॥
बभाषे तं क्षणं स्थित्वा स निःश्वस्य विहस्य च।
गतः स सुकृती राजन्येन भूमिभुजो वयम्‌॥२९०॥
यावन्मूर्ध्नि रवेः पादास्तावद्द्योतयते दिशः।
द्योतयेन्नान्यथा किं न ग्रावैव तपनोपलः॥२९१॥
अथ राजाभ्यधात्केन राजन्नपकृतं तव।
यत्प्रत्यपचिकीर्षायै तमीशमनुशोचसि॥२९२॥
मातृगुप्तस्ततोवदीत्कोपस्मितसिताधरः।
अस्मानुत्सहते कश्चिन्नापकार्तुं बलाधिकः॥२९३॥

नयता गण्यतामस्मानन्तरज्ञेन तेन हि ।
च भस्सनि हुतं सर्पिर्नोप्तं वा सस्यमूषरे॥२९४॥
उपकारं स्मरन्तस्तु कृतज्ञत्ववशंवदाः।
पदवीमुषकर्तृणां यान्ति निश्चेतना अपि॥२९५॥
निर्वाणमनु निर्वाति तपनं तपनोपलः ।
इन्दुमिन्दुमणिः किंच शुष्यन्तमनु शुष्यति॥२९६॥
पुण्यां वाराणसीं गत्वा तस्माच्छमसुखोन्मुखः।
इच्छामि सर्वसंन्यासं कर्तुं द्विजजनोचितम्‌॥२९७॥
मणिदीपमिवेदशं तमन्तरेणान्धकारिताम्‌।
बिभेमि द्रष्टुमप्युर्वीं भोगयोगे कथैव का॥२९८॥
इत्यौचित्यनिधेस्तस्य वाणीमाकर्ण्य विस्मितः।
धीरः प्रवरसेनोपि व्याजहारोचितं वचः॥२९९॥
सत्यं विश्वंभरा देवी भूपते रत्नसूरियम्।
उत्पत्या द्योतते धर्म्यैः कृतज्ञैर्या भवाद्रशैः॥२३०॥
अन्तरज्ञया श्लाघ्यः कोन्यस्तस्मान्महीभुजः।
इत्थं जडे जगत्येकस्त्वां यथावद्धिवेद यः॥३०१॥
चिरं खलु खिलीभूताः कृतज्ञत्वस्य वीथयः।
धीर त्वयेव न त्वासु संचारो यादि दर्श्यते॥३०२॥
पाकश्चेन्न शुभस्य मेद्य तदसौ प्रागेव नादात्किमु
स्वार्थश्चेन्न मयास्य किं न भजते दीनान्स्वबन्धूनयम्‌।
मत्तो रन्ध्रदृशोस्य भीर्यदि न तल्लुब्धः किमेष व्यजे-
दिव्यन्तः पुरुषाधमः कलयति प्रायः कृतोपत्क्रियः॥३०३॥
अत्युदात्तगुणेष्वेषा कृतपुण्यैः प्ररोपिता।
शतशाखीभवत्येव यावन्मात्रापि सत्किया॥३०४॥

तत्त्वं गुणवतामग्र्यस्तत्वज्ञैश्चाभिनन्दितः।
परीक्षितो मणिरिव व्यक्तं बहुमतः सताम्‌॥३०५॥
तस्मादनुगृहाणास्मान्मा स्म त्याक्षीर्नरेन्द्रताम्।
ममापि ख्यातिमायातु गुणवत्पक्षपातिता॥३०६॥
पूर्वं तेनाथ चरमं मयापि प्रतिपादिताम्‌ ।
भवान्प्रतिप्रणयिनीं विदधातु पुनर्भुवम्‌॥३०७॥
अव्याजौदर्यचर्यस्य श्रुत्वेति नृपतेर्वचः।
कृतस्मितो मातृगुप्तः शनैर्वचनमब्रवीत्॥२०८॥
यान्यक्षतराण्यन्तरेण वाच्यं वक्तु न पार्यते।
का गतिस्तदुपादाने मर्यादोल्लङ्गनं विना॥२०९॥
अतः परूषमप्यद्य किंचिदेव मयोच्यते।
अव्याजार्जवमप्येतदार्यत्वमवधीर्य ते॥३९०॥
सर्वैः स्मरति सर्वस्य प्रागवस्थासु लाघवम्‌।
आत्मैव वेत्ति माहात्म्यं वतमाने क्षणे पुनः॥३११॥
पूर्वावस्था मदीया ते त्वदीया या च मे ह्रदि।
ताभ्यां विमोहितावावां न विद्धोन्योन्यमाशयम्‌॥३१२॥
राजा भूत्वा कथं माद्रक्प्रतिग्रह्णातु संपदः।
कथमेकपदे सर्वमौचित्यं परिमार्जतु॥३१३॥
असाधारणमौदार्यमाहात्म्यं तस्य भूपतेः।
भोगमात्रकृते माद्दक्किं साधारणतां नयेत्‌॥३१४॥
अपि च स्पृहयालुः स्यां भोगेभ्यो यदि भूपते।
ध्रियमाणेभिमाने मे केन ते विनिवारिताः॥३१५॥
यन्ममोपकृतं तेन तद्धिना प्रत्युपक्रियाम्‌।
जीर्णमेवाधुनाङ्गेषु प्रभवत्वेष निश्चयः॥३१६॥

या गतिर्भुभूजोमुष्य मया तामनुगच्छता।

पात्रापात्रविवेक्तृत्वख्यातिर्नेया प्रकाशताम्‌॥३९७॥ एतावत्येव कर्तव्ये यातेस्मिन्कीर्तिशेष्ताम्। भोगमात्रपरित्यागाद्विदध्यां सस्यसंधताम्‌ ॥ ३९८ ॥ इत्युक्त्वा विरते तस्मिञ्जगाद जगतीपतिः। त्वदीया न मया स्पृश्यास्त्वयि जीवति संपद:॥३१९॥ अथ वाराणसीं गत्वा कृतकाषायसंग्रहः। सर्वं संन्यस्य सुकृती मातगुप्तोभवद्यतिः॥३२०॥ राजा प्रवरसेनोपि कश्मीरोत्पत्तिमञ्जसा। निखिलां मातृगुप्ताय प्राहिणोदृढनिश्चय॥३२१॥ स हठापतितां लक्ष्मीं भिक्षाभुक्प्रतिपादयन्‌। सर्वीथिभ्यः कृती वर्षान्दश प्राणानधारयत्‌॥३२२॥ अन्योन्यं साभिमानानामन्योन्यौचित्यशालिनाम्। त्रयाणामपि वृत्तान्त एष त्रिपथगापयः॥३२३॥ राजा प्रवरसेनोथ नमयन्नवनीधरान्‌। अकृच्छ्र्लङ्घयाः ककुभो व्रुद्धस्य यशसो व्यधात्‌ ॥ ३२४ ॥ पीताब्धिर्लङ्घितोर्वीभ्रुत्कुम्भयोनिरिवानयत् । तस्य प्रतापः प्रभवन्भुवनानि प्रसन्नताम्‌ ॥ ३२५ ॥

शुप्यत्तमालपत्रानणि चक्रेरिस्त्रिमुखानि च । तत्नाणैवतीराणि चक्ररिखीमुखानि च ॥ २२६ ॥ स गङ्गालिद्धिताङ्गस्य पूर्ववारिनिधेव्य धात्‌ । सेन्येभमदनिःप्यन्दैः कालिन्दीसंगमधियम्‌ ॥ २२७ ॥ रोधस्यपरपाथोधेः करकैः स्पृष्टदिक्तटेः। चकारोत्पाख्य सौराष्टानसौ रा्विपारनम्‌ ॥ ३२८ ॥


१ अवनीश्तः इ्य॒चितम्‌ । ७८ राजतरङ्गिणी

यशोर्थिनः पार्थिवेषु द्वेषरागबहिष्कृतः ।
ववृधे धर्मविजयस्तस्य क्षितिशतक्रतोः ॥ ३२९ ॥
वैरिनिर्वासितं पित्र्ये विक्रमादित्यजं न्यधात् ।
राज्ये प्रतापशीलं स शीलादित्यापराभिधम् ॥ ३३० ॥
सिंहासनं स्ववंश्यानां तेनाहितहृतं ततः ।
विक्रमादित्यवसतेरानीतं स्वपुरं पुनः ॥ ३३१ ॥
हेतूनुदीर्य विविधानमन्वानं पराजयम् ।
सप्त वारान्स तत्याज जित्वा मुम्मुनिभूभुजम् ॥ ३३२ ॥
धाष्टर्यादथाष्टमे बारे हेतुमाख्यातुमुद्यतम् ।
धिक्पशून्वध्यतां सोयमित्यूचे नृपतिः क्रुधा ॥ ३३३ ॥
अवध्योहं पशुत्वेन वीरेत्युक्त्वा भयोत्सुकः ।
मध्येसभं ननर्तास्य सोनुकुर्वन्कलापिनम् ॥ ३३४ ॥
नृत्तं केकां च शिखिनो दृष्ट्वास्मै द्रविणं नृपः ।
अभयेन समं प्रादात्तालार्धचरणोचितम् ॥ ३३५ ॥
चसतोस्य दिशो जित्वा ननुः पैतामहे पुरे ।
कर्तु पुरं स्वनामाङ्कं प्रथते स्म मनोरथः ॥ ३३६ ॥
रात्रौ क्षेत्रं च लग्नं च दिव्यं ज्ञातुमथैकदा ।
स वीरो वीरचर्यायां निर्ययौ पार्थिवार्यमा ॥ ३३७ ॥
गच्छतः क्षमापतेस्तस्य मौलिरत्नाग्रबिम्बितः ।
बभार ताराप्रकरो रक्षासर्षपविभ्रमम् ॥ ३३८ ॥
अथानन्तचितालोकस्पष्टभीमतद्रुमाम् ।
श्मशानप्रान्ततटिनीं पर्यटन्नाससाद सः ॥ ३३९ ॥
ततस्तस्य सरित्पारे मुक्तसंरावमग्रतः ।
ऊर्ध्वबाहु महद्भूतं प्रादुरासीन्महौजसः ॥ ३४० ॥

तृतीयस्तरङ्गः ।

नृपतिस्तस्य दृक्पातैर्ज्वलद्भिः कपिशीकृतः ।
उल्काज्योतिःकृताश्लेषः कुलाद्रिरिव दिद्युते ॥ ३४१ ॥
तमथ प्रतिशब्देन घोरेणापूरयन्दिशः ।
अत्रासं विहसन्नुच्चैरुवाच क्षणदाचरः ॥ ३४२ ॥
संत्यज्य विक्रमादित्यं सत्त्वोद्रितं च शूद्रकम् ।
त्वां च भूपाल पर्याप्तं धैर्यमन्यत्र दुर्लभम् ॥ ३४३ ॥
वसुधाधिपते वाञ्छासिद्धिस्तव विधीयते ।
सेतुमेतं समुत्तीर्य पार्श्वमागम्यतां मम ॥ ३४४ ॥
इत्युदीर्य निजं जानुं रक्षः पारात्प्रसारयत् ।
तन्महासरितो वारि सेतुसीमन्तितं व्यधात् ॥ ३४५ ॥
अङ्गेन रक्षःकायस्य ज्ञात्वा सेतुं प्रकल्पितम् ।
वीरः प्रवरसेनोथ विकोशां क्षुरिकां दधे ॥ ३४६ ॥
स तयोत्कृत्य तन्मांसं कृतसोपानपद्धतिः ।
अतरद्यत्र तत्स्थानं क्षुरिकावाल उच्यते ॥ ३४७ ॥
पार्श्वस्थं तं लग्नमुक्त्वा प्रातर्मत्सूत्रपातनम् ।
दृष्ट्वा पुरं विधेहीति चदद्भूतं तिरोदधे ॥ ३४८ ॥
देव्या शारिकयाट्टेन यक्षेणाधिष्ठिते च सः ।
ग्रामे शारीटकेपश्यत्सूत्रं वेतालपातितम् ॥ ३४९ ॥
भक्त्या प्रतिष्ठां प्राक्कस्मिन्निनीषौ प्रवरेश्वरम् ।
जयस्वामी स्वयं पीठे भित्त्वा यन्त्रमुपाविशत् ॥ ३५० ॥
वेतालावेदितं लग्नं जानतो जगतीभुजा ।
स्थपतेः स जयाख्यस्य नाम्ना प्रख्यापितोभवत् ॥ ३५१ ॥
नगराप्रातिलोम्याय भक्त्या तस्य विनायकः ।
प्रत्यङ्मुखः प्राङ्मुखतां भीमस्वामी स्वयं ययौ ॥ ३५२ ॥

७९ ८० राजतरङ्गिणी

सद्भावध्यादिका देव्यस्तेन श्रीशब्दलाञ्छिताः ।
पञ्च पञ्चजनेन्द्रेण पुरे तस्मिन्निवेशिताः ॥ ३५३ ॥
वितस्तायां स भूपालो बृहत्सेतुमकारयत् ।
ख्याता ततः प्रभृत्येव तादृङ्गौसेतुकल्पना ॥ ३५४ ॥
श्रीजयेन्द्रविहारस्य बृहद्बुद्धस्य च व्यधात् ।
मातुलः स नरेन्द्रस्य जयेन्द्रो विनिवेशनम् ॥ ३५५ ॥
बुभोज सिंहलादीन्यो द्वीपान्स सचिवोकरोत् ।
मोराकनामा मोराकभवनं भुवनाद्भुतम् ॥ ३५६ ॥
पहलक्षाणि पुरं तत्पप्रथे पुरा ।
यस्यास्तां वर्धनस्वामी विश्वकर्मा च सीमयोः ॥ ३५७ ॥
दक्षिणस्मिन्नेव पारे वितस्तायाः पुरा किल ।
निर्मितं तेन नगरं विभक्तैर्युक्तमापणैः ॥ ३५८ ॥
ते तत्राभ्रंलिहाः सौधा यानध्यारुह्य दृश्यते ।
वृष्टिस्निग्धं निदाघान्ते चैत्रे चोत्कुसुमं जगत् ॥ ३५९ ॥
तद्विना नगरं कुत्र पवित्राः सुलभा भुवि ।
सुभगाः सिन्धुसंभेदाः क्रीडावसथवीथिषु ॥ ३६० ॥
दृष्टः क्रीडानगोन्यत्र न मध्येनगरं क्वचित् ।
यतः सर्वोकसां लक्ष्मीः संलक्ष्या ग्रुपथादिव ॥ ३६१ ॥
वैतस्तं वारि वास्तव्यैर्वहत्तुहिनशर्करम् ।
ग्रीष्मोग्रेहि स्ववेश्माग्रात्क ततोन्यत्र लभ्यते ॥ ३६२ ॥
प्रतिदेवगृहं कोशास्ते तस्मिन्नपिता नृपैः ।
सहस्रशः शक्यते यैः केतुं भूः सागराम्बरा ॥ ३६३ ॥
पुरे निवसतस्तस्मिंस्तस्य राजप्रजासृजः ।
शनैः साम्राज्यलाभस्य षष्टिः संवत्सरा ययुः ॥ ३६४ ॥

ललाटे शूलमुद्राङ्के जराशुक्लाः शिरोरुहाः ।
तस्य शंभुभ्रमासङ्गिगङ्गाम्भोविभ्रमं दधुः ॥ ३६५ ॥
अथाश्वपादेनेशाननिदेशात्तत्क्षणागतः ।
काश्मीरिको जयन्ताख्यो द्विजन्मायोजि पार्श्वगः ॥ ३६६ ॥
श्रान्तोस्यध्वन्य नान्यस्माद्देशात्तेभिमतं भवेत्‌ ।
राज्ञे प्रवरसेनाय लेख एष प्रदर्श्यताम्‌ ॥ ३६७ ॥
इत्युक्त्वार्पितलेखोसावसमर्थः पथः प्रुथून्‌ । ्
गन्तुं प्रस्थानखिन्नोस्मि सद्यस्तेनेत्यगद्यत ॥ ३६८ ॥
स्नाह्यद्य तावत्वं स्पृष्टो द्विजः कापालिना मया ।
उक्त्वेति तेन क्षिप्तोसावासन्ने दीर्घिकाजले ॥ ३६९. ॥
उन्मीलितेक्षणोद्राक्षीत्स्वं स्वदेशादथोत्थितम्‌ ।
तस्थुषश्चार्चने राज्ञो भृत्यान्व्यग्राञ्जलाह्रुतौ ॥ २७० ॥
स्वमावेदयितुं नद्या नीयमाने नृपान्तिकम्‌ ।
अव्याक्षिप्तोक्षिपल्लेखं स स्नानकलशे ततः ॥ ३७१ ॥
प्रवरेशं स्नापयता स्रस्तं तत्कलशात्पुनः ।
राज्ञा लेखं वाचयित्वा जयन्तः प्रापितोन्तिकम्‌ ॥ ३७२ ॥
कृतं कृत्यं महदत्तं भोगा भुक्ता वयो गतम्‌ ।
किमन्यत्करणीयं त एहि गच्छ शिवालयम् ॥ ३७३ ॥
ततस्तं वृत्तसंकेतः संतोष्याभिमतार्पणात् ।
भित्वा तमश्मप्रासादं जगाहे विमलं नभः ॥ २७४ ॥
जनैः स ददृशे गच्छन्कैलासतिलकां दिशम्।
विशदे घटयन्व्योम्नि द्वितीयतपनोदयम् ॥ ३७५ ॥
जयन्तेनाद्भुतोदन्तहेतुनावाप्य संपदः ।
स्वनामाङ्काग्रहारादिकर्मभिर्निर्मलाः कृताः ॥ २७६ ॥
११

एवं स भुवनैश्वर्यं भुक्त्वा भूमिभृतां वरः ।
अनेनैव शरीरेण भेजे भूतपतेः सभाम्‌ ॥ ३७७ ॥
प्रासादे प्रवरेशस्य सिद्धिक्षेत्रे क्षमापतेः
स्वर्गद्वारप्रतिभटं द्वारमद्यापि लक्ष्यते ॥ ३७८ ॥
तस्य रत्नप्रभादेव्यां जातो राजा युधिष्ठिरः ।
अपासीन्नवमासोनाः क्ष्मां चत्वारिंशतिं समाः ॥ ३७९ ॥
सर्वरत्नजयस्कन्दगुप्तशब्दाङ्किताभिधाः।
आसन्विहारचैत्यादिकृत्यैस्तत्सचिवा वराः ॥ ३८० ॥
भवच्छेदाभिधं ग्रामं स्तुत्यं चेत्यादिसिद्धिभिः।
यो व्यधात्सोस्य वज्रेन्द्रोप्यासीन्मन्त्री जयेन्द्रजः ॥ ३८१ ॥
दिक्कामिनीमुखोत्कीर्णकीर्तिचन्दनचित्रकाः।
आसन्कुमार सेनाद्यास्तस्यान्येप्यग्र्यमन्त्रिणः ॥ ३८२ ॥
पद्यावत्यां सुतस्तस्य नरेन्द्रादित्य इत्यभूत्‌ ।
लःखणापरनामा यो नरेन्द्रस्वामिनं व्यधात्‌ ॥ २८३ ॥
वज्रन्द्रतनयौ वज्रकनकौ यस्य मन्त्रिणौ ।
अभूतां सुकृतोदन्तो राज्ञी च विमलप्रमा ॥ ३८४ ॥
स विधायाधिकरणं लिखितस्थितये निजम्‌ ।
द्यां त्रयोदशभिर्वर्षैरारूरोह महाभुजः ।। २८५ ॥
तस्यानुजो धरणिभृद्रणादित्यस्ततोभवत्‌ ।
तुञ्जीनापरनामानं यं जनाः प्राहुरञ्जसा ।॥ ३८६ ॥
जगद्विलक्षणं यस्य शङ्खमुद्राङ्कितं शिरः ।
अपूर्वशर्वरीशान्तर्लीनभानुश्रियं दधे ॥ ३८७ ॥
रिपुकण्ठाटवीष्वासीद्यस्य धाराधरः पतन्‌ ।
तद्वधूनेत्रकुण्डैस्तु जलाधिक्यमधार्यत ॥ ३८८ ॥


अपूर्वो यत्प्रतापाग्निः प्रविश्योर्वीं द्विषां न्यधात्‌ ।
नारीनेत्रेषु नीरोर्मीन्मन्दिरेषु तृणाङ्कुरान्‌ ॥ ३८९ ॥
यस्य पाणिप्रणयितां कृपाणे समुपागते ।
कबन्धेभ्यः परो नृत्तं न व्यधत्त द्विषद्वले ॥ ३९० ॥
तस्याव्यपोह्यमाहात्म्या देवी दिव्याकृतेः प्रिया ।
विष्णुशक्तिः क्षितिं प्राप्ता रणारम्भाभिधाभवत्‌ ॥ ३९१ ॥
स हि जन्मान्तरे पूर्वं द्यूतकारोभवत्किल ।
कदापि प्राप निर्वेदं सर्वस्वं कितवैर्जितः ॥ २९२ ॥
देहत्यागोप्यतोद्यासीत्प्राप्यं किंचिद्विचिन्तयन्‌ ।
न पयन्तेप्युपेक्षन्ते कितवाः स्वार्थसाधनम्‌ ॥ ३९३ ॥
अवन्ध्यदर्शनां विन्ध्ये देवीं भ्रमरवासिनीम्‌ ।
द्रष्टुमैच्छद्वराकाङ्क्षी निर्व्यपेक्षः स्वजीविते ॥ ३९७ ॥
भ्रमरैः शङ्कुपुच्छाद्यैः खण्ड्यमानस्य देहिनः ।
तदास्पदं हि विशतो दुर्लङ्घ्या पञ्चयोजनी ॥ ३९५ ॥
स वज्रशङ्कुपुच्छानां धीमान्स्तेषां पतिक्रियाम्‌ ।
देहेवश्य परित्याज्ये मन्वानोभूददुष्कराम्‌ ॥ ३९६ ॥
प्रागयोर्वर्मणा देहं ततो महिषचर्मणा ।
तेन च्छादयता दत्तो मृल्लेपोथ सगोमयः ॥ ३९७ ॥
अथ भानुकरोच्छुष्कमृल्लेपाम्रेडिताङ्गकः
स लोष्ट इव संचारी प्रतस्थे क्रूरनिश्चयः ॥ ३९८ ॥
सरलां सरणिं त्यक्त्वा जीवितस्पृहया समम्‌ ।
गुहा तेन ततः सान्द्रतमोभीमा व्यगाह्यत ॥ ३९९ ॥
अथोदतिष्ठन्गर्तभ्यो घोरा भ्रमरमण्डलाः ।
पक्षशब्दैः श्रुतिं घन्तो मृत्युतूर्यरवैरिव ॥ ४०० ॥

राजतरङ्गिणी

ते तमुच्छुष्क मृल्लेपरेणुव्रणितलोचनाः ।
सहसा नाक्रमन्ते स्म प्रहरन्तोपि बाधितुम् ॥ ४०१ ॥
रेणुभियॅन्धितदृशस्ते न्यवर्तन्त पदाः ।
तेखण्डयंस्तु मृल्लेपं न्यपतन्ये नवा नवाः ॥ ४२ ॥
तैः खण्ड्यमानमुच्चण्डैव्रजतो योजनत्रयीम् ।
क्रमान्मृत्कवचं तस्य पथि संक्षयमाययौ ॥ ४०३ ॥
ततो मुहुः प्रहरतां तेषां महिपचर्मणि |
घोरश्चटचटाघोषः प्रादुरासीद्भयंकरः ॥ ४०४ ॥
चतुर्थयोजनस्यार्धमतिक्रम्य विवेद सः ।
रणत्कारैर्द्विरेफांस्तानयोवर्मणि पातिनः ॥ ४०५ ॥
धावंस्ततोतिवेगेन खण्ड्यमानेन पट्दैः ।
स शस्त्रवर्मणामोचि चित्तं धैर्येण नो पुनः ॥ ४२६ ॥
गव्यूतिमात्रमासन्ने देवीधामनि धैर्यवान् ।
धुन्वन्कराभ्यां मधुपान्धावति स्म स धीरधीः ॥ ४०७ ॥
अथ स्नाय्वस्थिशेषाङ्गो लूनमांसः पडमिभिः ।
कराभ्यामक्षिणी रक्षन्देव्यायतनमासदत् ॥ ४०८ ॥
प्रशान्ते भृङ्गसंपाते प्रकाशमवलोकयन् ।
स देव्याः पादयोरग्रे पपातोद्भ्रान्तजीवितः ॥ ४०९ ॥
स्तोकावशेषप्राणं तं देव्याश्वासयितुं ततः ।
अभिरामं वपुः कृत्वा पस्पर्शाङ्गेषु पाणिना ॥ ४१० ॥
दिव्येन पाणिस्पर्शेन तेन पीयूपवर्पिणा |
स क्षिप्रासादितस्वास्थ्यो दिक्षु चिक्षेप चक्षुषी ॥ ४११ ॥
प्रविष्टमात्रः प्रैक्षिष्ट सिंहविष्टरसीम्नि याम् ।
घोराकारां स तां देवीं तदाद्राक्षीन्न तां पुरः ॥ ४१२ ॥

१ पुनः इति स्यात् । तृतीयस्तरङ्गः ।

ददर्श पुनरुद्यानलतावासे विलासिनीम् ।
स्थितां पुष्करिणीतीरे श्यामां पुष्करलोचनाम् ॥ ४१३ ॥
गृहीतहारमुक्तार्घा बद्धापीनस्तनाञ्जलिम् ।
महार्हैः कान्तिकुसुमैर्यौवनेनाचिंताङ्गकाम् ॥ ४१४ ॥
यावकाहारिणौ पादौ दधतीं कृच्छ्रचारिणौ ।
स्तनच्छन्नमुखं द्रष्टुं तपस्यन्ताविवान्वहम् ॥ ४१५ ॥
भास्वद्विम्वाधरां कृष्णकेशीं सितकराननाम् ।
हरिमध्यां शिवाकारां सर्वदेवमयीमिव ॥ ४१६ ॥
तां विभाव्यानवद्याङ्गीं निर्जने यौवनोर्जिताम् ।
निन्ये वारितवामेन स कामेन विधेयताम् ॥ ४१७ ॥
दधती रूपमाधुर्यपूरच्छन्नामधृष्यताम् ।
अप्सराः प्रत्यभात्तस्य सा हि चित्ते न देवता ॥ ४१८ ॥
कृपामृदुरवादीत्तं व्यथितोसि चिरं पथि ।
मुहुः सौम्य समाश्वस्य प्रार्थ्यतामुचितो वरः ॥ ४१९ ॥
स तां वभाषे शान्तो मे भवत्या दर्शनाच्छ्रमः |
अदेवी किं तु भवती वरं दातुं कथं क्षमा ॥ ४२० ॥
देवी जगाद तं भद्र कोयं ते मनसि भ्रमः ।
देवी वा स्यामदेवी वा वरीतुं त्वां तु शक्नुयाम् ॥ ४२१ ॥
इति सोभीष्टसंप्राप्तौ कारयित्वा प्रतिश्रवम् ।
दूरमुत्क्रान्तमर्यादः संगमं तामयाचत ॥ ४२२ ॥
तमभ्यधात्सा दुर्बुद्धे कोयं तेनुचितो विधिः ।
प्रार्थयस्वेतरद्यस्मात्साहं भ्रमरवासिनी ॥ ४२३ ॥
देवीं तां जानतोप्यस्य नाभूदवहितं मनः ।
निरुद्धा वासनाः केन जन्मान्तरनिवन्धनाः ॥ ४२४ ॥

८६ राजतरङ्गिणी

स तामुवाच सत्यां चेद्देवि स्वां गिरमिच्छसि ।
प्रमाणीकुरु मद्राणीमहमन्यन्न कामये ॥ ४२५ ॥
पूर्वमेव हि जन्तूनां योधिवासो निलीयते ।
तिलानामिव तेषां स पर्यन्तेपि न शीर्यते ॥ ४२६ ॥
देवी वा भवकान्ता वा भीमा वा शोभनापि वा ।
यादृशीं पूर्वमद्राक्षं तादृश्येवावभासि मे ॥ ४२७ ॥
तमित्थं कथयन्तं सा ज्ञात्वा निश्चलनिश्चयम् ।
एवं जन्मान्तरे भावीत्यभ्यधादनुरोधतः ॥ ४२८ ॥
उत्सहन्ते हि संस्प्रटुं न दिव्या मर्त्यधर्मिणः |
तद्गच्छ क्रूरसंकल्पेत्युक्त्वा सान्तर्दधे ततः ॥ ४२९ ॥
अशून्यजन्मा भूयासं तया देव्येति चिन्तयन् ।
प्रयागवटशाखाग्रादहासीत्स वपुस्ततः ॥ ४३० ॥
सोजायत रणादित्यो रणारम्भा च सा भुवि ।
मर्त्यभावेपि या नैव जहाँ जन्मान्तरस्मृतिम् ॥ ४३१ ॥
रतिसेनाभिधश्चोलराजः सज्जोब्धिपूजने ।
तां तरङ्गान्तराल्लेभे रत्नराजिमिवोज्ज्वलाम् ॥ ४३२ ॥
आ वाल्याद्व्यक्तदिव्योक्तिं तामलंकृतयौवनाम् ।
दिव्याहा॑ पृथिवीशेभ्यो नाथिभ्योपि ददौ नृपः ॥ ४३३ ॥
रणादित्यनृपामात्ये दृत्यायाते तथैव तम् ।
प्रत्याख्यानेच्छुमाचख्यौ सैव तद्वरणं वरम् ॥ ४३४ ॥
तदर्थमेव कथितस्वोत्पत्तिं तां ततः पिता ।
द्रुतं कुलतभूभर्तुः सुहृदः प्राहिणोद्गृहान् ॥ ४३५ ॥
प्रहृष्टोविप्रकृष्टं तं देशं गत्वा व्यधत्त ताम् ।
परिणीय रणादित्यः शुद्धान्तस्याधिदेवताम् ॥ ४३६ ॥

तृतीयस्तरङ्गः ।

मर्त्यसंस्पर्शभीरुः : सा महादेवीभवन्त्यपि ।
तं मायया मोहयन्ती न पस्पर्श कदाचन ॥ ४३७ ॥
व्यधान्मायामयीं राशस्तल्पे स्वसदृशीं स्त्रियम् ।
स्वयं सा भ्रमरीरूपा निर्जगाम वहिर्निशि ॥ ४३८ ॥
स नाम्ना स्वस्य देव्याश्च कृत्वा सुरगृहद्वयम् ।
माहेश्वरे शैललिङ्गे कारयामास कारुभिः ॥ ४३९ ॥
श्वः प्रतिष्ठाप्रसङ्गेथ सजे तल्लिङ्गयोयम् ।
देशान्तरागतः कश्चिदृपयामास दैववित् ॥ ४४० ॥
स दृष्टप्रत्ययः शश्वत्तयोर्घटितलिङ्गयोः ।
अश्मखण्डैः समण्डूकैर्वभाषे गर्भमावृतम् ॥ ४४१ ॥
किंकर्तव्यतया मूढं प्रतिष्ठाविघ्नविह्वलम् ।
दिव्यदृष्टिः स्वयं देवी ततो राजानमब्रवीत् ॥ ४४२ ॥
राजन्गिरिसुतोद्वाहे पौरोहित्यं पुरा भजन् ।
स्वमर्चादेवमादत्त पूजाभाण्डात्प्रजापतिः ॥ ४४३ ॥
तां विष्णोः प्रतिमां वीक्ष्य पूजितां तेन धूर्जटिः ।
शून्यामिव तदा मेने शक्तिरूपां विना शिवम् ॥ ४४४ ॥
निमन्त्रितैढौंकितानि रत्नान्यथ सुरासुरैः ।
पिण्डीकृत्य स्वयं चक्रे लिङ्गं भुवनवन्दितम् ॥ ४४५ ॥
तां विष्णुप्रतिमां तच्च लिङ्गमीशानपूजितम् ।
स्वयं प्रजासृजः पूज्यं कालेनादत्त रावणः ॥ ४४६ ॥
तेनाप्यभ्यर्च्यमानं तङ्कायामभवच्चिरम् ।
देवद्वयं रावणान्ते नीतमासीञ्च वानरैः ॥ ४४७ ॥
तिर्यक्तया ते कपयो मुग्धा हिमनगौकसः ।
शान्तौत्सुक्याः शनैर्देवौ न्यधुरुत्तरमानसे ॥ ४४८ ॥

८७ ८८ राजतरङ्गिणी

प्रागेव सरसस्तस्मात्कुशलैः शिल्पिभिर्मया |
तावृद्धृतौ प्रातरत्र प्राप्तौ द्रक्ष्यस्यसंशयम् ॥ ४४९ ॥
तयोः प्रतिष्ठा क्रियतामित्युक्त्वा पृथिवीभुजम् ।
देवी प्रयाता शुद्धान्तं सिद्धान्सस्मार खेचरान् ॥ ४५० ॥
ते ध्यातमात्राः संप्राप्ता देव्यादेशेन पाथसः ।
उद्धृत्य नृपतेर्धाम्नि देवौ हरिहरौ न्यधुः ॥ ४५१ ॥
दिव्यैः प्रसूनैः संवीतौ हरनारायणौ जनः ।
प्रातर्नृपगृहे दृष्ट्वा परं विस्मयमाययौ ॥ ४५२ ॥
सज्जे प्रतिष्टालग्नेथ माहेश्वरतया नृपः |
रणेश्वरप्रतिष्ठायां पूर्व यावत्समुद्यतः ॥ ४५३ ॥
रणारम्भानुभावेन तावदेवाद्भुतावहः ।
स्वयं पीठे रणस्वामी भित्त्वा यत्रमुपाविशत् ॥ ४५४ ॥
कर्तुं प्रभावजिज्ञासां राज्ञा दत्तधनस्ततः ।
स स्वयंभूः स्वयं भक्तैस्तांस्तान्ग्रामानदापयत् ॥ ४५५ ॥
कुम्भदासतया छन्नः सिद्धो ब्रह्माभिधो वसन् ।
परिज्ञाय तयोर्देव्या प्रतिष्ठाकर्म कारितः ॥ ४५६ ॥
स वृत्तप्रत्यभिज्ञः सन्प्रतिष्ठाप्य रणेश्वरम् ।
व्योम्ना व्रजन्रणस्वामिप्रतिष्ठां गूढमादधे ॥ ४५७ ॥
जनास्त्वलक्षयन्यत्स स्वयं पीठमवातरत् ।
इति केषामपि हृदि प्रवचोद्यापि वर्तते ॥ ४५८ ॥
सा ब्रह्मप्रतिमं सिद्धं देवी ब्रह्मविदां वरम् ।
अकारयत्तमुद्दिश्य परार्ध्य ब्रह्ममण्डपम् ॥ ४५९ ॥
रणारम्भास्वामिदेवौ दंपतिभ्यां व्यधीयत ।
मठः पाशुपतानां च ताभ्यां प्रद्युम्नमूर्धनि ॥ ४६० ॥

♥ . तृतीयस्तरङ्गः ।

आरोग्यशाला निरघाप्युल्लाघत्वाय रोगिणाम् ।
तेन सेनामुखी देवी भयशान्त्यै च कारिता ॥ ४६१ ॥
ख्यातिं रणपुरस्वामिसंज्ञया सर्वतोगतम् ।
स सिंहरोत्सिकाग्रामे मार्ताण्डं प्रत्यपादयत् ॥ ४६२ ॥
अमृतप्रभया तस्य राज्ञः पत्न्यान्यया कृतः ।
दक्षिणेस्मिन्त्रणेशस्य पार्श्वे देवोमृतेश्वरः ॥ ४६३ ॥
मेघवाहनभूभर्तृपत्न्या भिन्नाख्यया कृते ।
विहारेपि तया बुद्धबिम्बं साधु निवेशितम् ॥ ४६४ ॥
राशे देव्यनुरक्ताय सानुक्रोशाय सैकदा ।
पातालसिद्धिदं मत्रं प्रददौ हाटकेश्वरम् ॥ ४६५ ।।
मा भून्मोघास्य मत्प्राप्तिरिति मत्वा तयार्पितम् ।
असाधयत्स तं प्राप्य वशान्तं वत्सरान्बहून् ॥ ४६६ ॥
कृत्वेष्टिकापथे कष्टं ततो नन्दिशिलां गतः ।
भूरिभिर्वत्सरैर्मश्रसिद्धेः प्रणयितां ययौ ॥ ४६७ ॥
स्वनैश्च सिद्धिलिङ्गैश्च जाताभङ्गुरनिश्चयः ।
चन्द्रभागाजलं भित्त्वा नमुचेः प्राविशद्विलम् ॥ ४६८ ॥
विलेपावृततां याते दिवसान्येकविंशतिम् ।
प्रविश्य पौरान्प्राङ्गिन्ये दैत्यस्त्रीभोगभागिताम् ॥ ४६९ ॥
स एवं भूपतिर्भुक्त्वा भुवं वर्षशतत्रयम् ।
निर्वाणश्लाघ्यनिर्व्यूढि पातालैश्वर्यमासदत् ॥ ४७० ॥
सानुगे नृपतौ याते दैतेययितान्तिकम् ।
देवी सा वैष्णवी शक्ति: श्वेतद्वीपमगाहत ॥ ४७१ ॥
राजवंशेष्वनेकेषु राशोवंशद्वये परम् ।
द्वयोरेवात्र निर्व्यूढिं प्रजावात्सल्यमागतम् ॥ ४७२ ॥

१२ . ८९ राजतरङ्गिणी

रणादित्यस्य गोनन्दवंशे रामस्य राघवे ।
लोकान्तरसुखस्यापि ययोरंशभुजः प्रजाः ॥ ४७३ ॥
विक्रमाक्रान्तविश्वस्य विक्रमेश्वरकृत्सुतः ।
॥ ४७४ ॥
तस्यासीद्विक्रमादित्यस्त्रिविक्रमपराक्रमः
राजा ब्रह्मगलूराभ्यां सचिवाभ्यां समं महीम् ।
सोपासीदासवसमो द्वाचत्वारिंशतिं समाः ॥ ४७५ ॥
चक्रे ब्रह्ममठं ब्रह्मा गलूनो लूनदुष्कृतः ।
रत्नावल्याख्यया वध्वा विहारं निरमापयत् ॥ ४७६ ॥
राज्ञोनन्तरजस्तस्य राजाभूत्तदनन्तरम् ।
तापितारातिभूपालो वालादित्यो वलोजितः ॥ ४७७ ॥
लवणार्णवपानेन तर्षोत्कर्षमिवोद्वहन् ।
यत्प्रतापो रिपुत्रीणां सनेत्राम्भोभजन्मुखम् ॥ ४७८ ॥
आसन्येरिमनोगाधवोधदण्डा इवाहृताः ।
यस्याद्यापि जयस्तम्भाः सन्ति ते पूर्ववारिधौ ॥ ४७९ ॥
प्रभावान वकालां जित्वा येन व्यधीयत ।
काश्मीरिकनिवासाय कालव्याख्यो जनाश्रयः ॥ ४८० ॥
कश्मीरेषु धनोदग्रमग्रहारं द्विजन्मनाम् ।
राजा मडवराज्ये यो भेडराख्यमकारयत् ॥ ४८१ ॥
विशां विपाटितारिटमरिष्टोत्सादने व्यधात् ।
घल्लभा यस्य विम्वोष्ठी बिम्वा विम्वेश्वरं हरम् ॥ ४८२ ॥
भ्रातरो मन्त्रिणस्तस्य त्रयो मठसुरौकसोः ।
सेतोश्च कारका आसन्खङ्खशत्रुघ्नमालवाः ॥ ४८३ ॥
वभूव तस्य भूभर्तुर्भुवनाद्भुतविम्रभा ।
तनयानङ्गलेखाख्या शृङ्गारोदधिकौमुदी ॥ ४८४ ॥

१ ब्रह्मगलूनाभ्यां इत्युचितम् ।


तां वीक्ष्य लक्षणोपेतां मृगाक्षीं पितुरन्तिके ।
अमोघप्रत्ययो व्यक्तं व्याजहारेति दैववित्॥ ४८५ ॥
भविता तव जामाता जगतीभोगभाजनम्‌ 1
त्वदन्तमेव साम्रज्यं गोनन्दान्वयजन्मनाम्‌ ॥ ४८६ ॥
सुतासंतानसाम्राज्यमनिच्छन्नथ पार्थिवः।
दैवं पुरुषकारेण जेतुमासीत्कृतोद्यमः ॥ ४८७ ॥
अराजान्वयिने दत्ता नेयं साम्रज्यहारिणी ।
मत्वेति प्रददौ कन्यां न कस्मैचन भूभुजे ॥ ४८८ ॥
हेतुं सरूपतामात्रं कृत्वा जामातरं नृपः।
अथाश्वघासकायस्थं चक्रे दुर्लभवर्धनम् ॥ ४८९ ॥
मातुः कार्कोटनागेन सुस्नातायाः समीयुषा ।
राज्यायैव हि संजातो राज्ञा नाज्ञायि तेन सः ॥ ४९० ॥
निश्चिन्वते हि ज्ञंमन्या यमेवायोग्यमाग्रहात् ।
जिगीषयेव तत्रैव निदधाति विधिः शुभम्‌ ॥ ४९९ ॥
मात्सर्येण जहद्ग्रहान्विसदृशे धूमध्वजे योग्यतां
ज्ञात्वा स्वां निद्‌धत्त्विषं दिनपतिर्हास्यः प्रशान्त्युन्मुखः।
दैवं वेत्ति न यः शिखी स परतो नामास्तु तत्संभवाः
स्युर्दीपा अपि यद्वशेन जगतस्तिम्मांशुविस्मारकाः ॥ ४९२ ॥
धिया भाग्यानुगामिन्या चेष्टमानो नयोचितम्‌
अभूत्सर्वस्य चश्चुष्यः स तु दुर्लभवर्धनः ॥ ४९३ ॥
प्रज्ञया द्योतमानं तं प्रज्ञादित्य इति प्रथाम्‌ ।
कौबेरभाग्यसाम्यं च शनकैः श्वशुरोनयत् ॥ ४९.४ ॥
पित्रोः प्रेयस्तयोद्दृत्ता तारुण्यादिमदेन च ।
राजपुत्री यथावत्तु गणयामास नैव तम्‌ ॥ ७०५ ॥

स्वैरिणीसंगमो भोगा युवानोग्रे पितुर्गृहम् ।
पत्युर्मृदुत्वमित्यस्याः किं नाभूच्छीलविघ्नकृत् ॥ ४९६ ॥
सा नित्यदर्शनाभ्यासच्छनकैर्विशता मनः।
अनङ्गलेखा खङ्खेन संप्रयुज्यत मन्त्रिणा ॥ ४९७ ॥
छन्नप्रेमसुखाभ्यासनपृह्नीभीतिसंभ्रमा । ५
धार्ष्ट्यं दिनाद्दिनं यान्ती ततस्तन्मयतां ययौ ॥ ४९८ ॥ ४,
स मन्त्री दानमानाभ्यां वशीकृतपरिच्छदः ।
अन्तःपुरे यथाकामं विजहार तया सह ॥ ४९९ ॥
उपलेभे च शनकैस्तस्यास्तं शीलविप्लवम् ।
विरागलिङ्गैरोरुद्यद्भिर्धीमान्दुर्लभवर्धनः ॥ ५०० ॥
सखीमध्ये रहः स्मेरा विवर्णा भर्तृदर्शने ।
अकाण्ड एव प्रोत्थाय पश्यन्ती सत्मितं पथः ॥ ५०१ ॥
पत्युः कोपे कृतावज्ञा भूनेत्रचिवुकाञ्चनैः।
तदप्रियं भाषमाणे सस्मितं न्यस्तलोचना ॥ ५०२ ॥
तत्तुल्यगुणनिरोविण्णा तद्विपक्षस्तुतौ रता ।
रिरंसां तस्य संलक्ष्य सखीभिर्बद्धसंकथा ॥ ५०३ ॥
तच्चुम्बने भुग्नकण्ठी तदाश्लेषासहाङ्गका ।
तत्संभोगे त्यत्त्कहर्षा तत्तल्पे व्याजनिद्रिता ॥ ५०४ ॥
भवेद्धि प्रायशो योषित्प्रेमविक्रीतचेतना ।
निवेदयन्ती दौःशील्यपिशाचावेशवैकृतम्‌ ॥ ५०५ ॥ ५
कुलकम्‌ ॥
निगूढदारदौरात्म्यचिन्ताकृशवपुस्ततः ।
शुद्धान्तमविशज्जातु निशि दुर्लभवर्धनः ॥ ५०६ ॥
सोपरश्यत्सुरतक्लान्तिसुलभस्वापनिःसहाम् ।
दुर्जारभर्तुरङ्गेषु प्रत्युप्तामिव वल्लभाम्‌ ॥ ५०७ ॥

श्वासैरगालितवेगैः कम्पयद्धिः कुचाङ्करौ !
निवेदयन्तौ तत्काकमेव निर्वहणं रतेः ॥ ५०८ ॥
अन्यस्यापि कोधहेतुं पुनरप्यक्षमावहास्‌ ।
तां तथावस्तितां वीक्ष्य स प्रजज्वाल मन्युना ॥ ५०९ ॥
प्रजिहीषुः स रोषेण विमर्शेन निवारितः ।
प्रहृत्यव प्रहृत्यव निवृत्तं स्वममन्यत ॥ ५९१० ॥
ततस्तथाविधः क्षुभ्यन्प्रककोपावेशसागरः ।
विचारवेलया तस्य बलाच्छममनीयत ॥ ५११ ॥
नमस्तस्मै ततः कोन्यो गण्यते वशिनां धुरि ।
जीर्यन्ते येन पर्याप्तै ईष्याविषविषूचिकाः ॥ ५१२ ॥
सोचिन्तयदहो कष्टाश्चेष्टा रागानुगा इमाः ।
विचारवन्ध्याः क्चिप्यन्ते क्षिप्रं याभिरधो नराः ॥ ५१३ ॥
सखीति नामेन्द्रियर्थोयमिन्द्रिया्था यथा परे ।
तथैव सर्वसामान्या विशिनमत्र क्रुधः ॥ ५९१७ ॥
निसर्ग्तरला नारीः को नियनत्रयितुं क्षमः ।
नियन्रणेन किं वा स्याद्यत्सतां स्मरणोचितम्‌ ॥ ५१५ ॥
यः शुनौरिव संघंषं एकार्थाभिनिविष्टयोः ।
रागिणोयैदि मानः स कोवमानस्ततः परः ॥ ५१६ ॥
ममकारौ मृगाक्षीषु क इवायं सचेतसाम्‌ ।
स्वदेहेनुपपन्नोपि यः सोन्यत्र कथं मतः ॥ ५९१७ ॥
उद्वेगोत्पादनादेषा वध्या चेत्प्रतिभाति मे।
रागस्तद्धिस्मृतः कस्मान्मूखमुद्धेगशाखिनः ॥ ५१८ ॥
सप्तपातालनिक्षिप्तमूल रागमहीरुहः ।
भूमिभूतमनुत्पाट्य द्वेषमुन्मूल्यते कथम्‌ ॥ ५१९. ॥

 1 २ मुनेः इति स्यात्‌ ।



20

राजतरङ्गिणी

द्वेषो नामैष दुर्धर्षो जितो येन विवेकिना |
क्षणार्धेनैव रागस्य तेन नामापि नाशितम् ॥ ५२० ॥
वीक्ष्यैतद्दिव्यया दृष्ट्या रागिणां वाच्यमौषधम् ।
ईर्ष्या जेया ततो रागः स्वयमाशाः पलायते ॥ ५२१ ॥
इति ध्यात्वालिखद्वर्णान्खङ्घस्यांशुकपल्लवे ।
वध्योपि न हतो यत्त्वं स्मर्तव्यं तत्तवेत्यसौ ॥ ५२२ ॥
जनैरलक्ष्यमाणेथ याते दुर्लभवर्धने ।
त्यक्तनिद्रः स मन्त्री तद्दृष्ट्वा वर्णानवाचयत् ॥ ५२३ ॥
दाक्षिण्यात्प्राणदस्यास्य खङ्घः स मनसा तदा ।
विसस्मारानङ्गलेखां दध्यौ तु प्रत्युपक्रियाम् ॥ ५२४ ॥
तस्योपकर्तुरुचितं प्रतिकारमिच्छो-
श्चिन्ताविशन्न तु मनः स्मरबाणपङ्किः ।
दृग्गोचरे परिचयप्रणयं प्रपेदे
निर्निद्रता न तु कदाचन राजपुत्री ॥ ५२५ ॥
भूत्वा सप्तत्रिंशतिमब्दान्स चतुर्भि-
र्मासैर्वन्ध्यां मूर्धनि रत्नं नृपतीनाम् ।
तस्मिन्काले लोकमवापोज्ज्वलकृत्यो
बालादित्यो बालशशाङ्काङ्कितमौलेः ॥ ५२६ ॥
पूर्व विपन्नतनयेभिजनस्य शेषे
गोनन्द संततिरजायत तत्र शान्ते ।
प्राग्दन्तिभुग्ननलिनाथ हठप्रविष्ट
तोयौघपाटितबिसा नलिनीव दीना ॥ ५२७ ॥
अथ शिथिलितमुख्यामात्यवैमत्यविघ्नः
कनकघटविमुक्तैः पावनं तीर्थतोयैः ।

! चतुर्थस्तरङ्गः ।

कथमपि स कृतज्ञो राजजामातुरुच्चै
fधित विधिवदिष्टं मूर्ध्नि राज्याभिषेकम् ॥ ५२८ ॥
कार्केटप्रभवः प्रभुः स मुकुटप्रत्युप्तमुक्ताकण-
द्योतश्रेणिफणाङ्कुराङ्कितबृहद्वाद्दुर्महीमुद्वहन् ।
ज्ञातिप्रीतिसतोषशेषफणभृत्संफुल्लदृक्पल्लव-
न्यासावर्जकहाटकानपटलस्रग्दा मशोभोभवत् ॥ ५२९ ॥
अथ विगलिता गोनन्दोर्वीभुजोभिजनाच्छुचे-
रतिशुचिनि भूः कार्कोटाहे: कुले व्यधित स्थितिम् ।
चिरपरिचितात्स्वर्गाभोगाध्वनः पतनं श्रिता
त्रिभुवनगुरोः शंभोर्गौलाविवामरनिम्नगा ॥ ५३० ॥
इति श्रीकाश्मीरिकमहामात्यचण्पकप्रभुसूनोः कहणस्य कृतौ रा
जतरङ्गिण्यां तृतीयस्तरङ्गः ॥
चतुर्थस्तरङ्गः ।
तद्वीतव्यतिरेकमद्वितनयादेहेन मिश्रीभव-
निष्प्रत्यूहमिह व्यपोहतु वपुः स्थाणोरभद्राणि वः ।
वेण्या भोगिवधूशरीरकुटिलश्यामत्विषा वेष्टिता
जूटाहेरपि यत्र भाति दयितांमूर्त्यैव पृक्ता तनुः ॥ १ ॥
स महीं राजकन्यां च प्राप्तवानेकतः कुलात् ।
रत्नानां च सुतानां च राजाभूद्भाजनं शनैः ॥ २ ॥
पतिगोपितदौः शील्या तुल्यसौभाग्यगौरवा ।
अनङ्गभवनं चक्रे विहारं नृपतिप्रिया ॥ ३॥