सामग्री पर जाएँ

राजतरङ्गिणी प्रथमो भागः.djvu/चतुर्थः तरङ्गः

विकिस्रोतः तः
← तृतीयः तरङ्गः राजतरङ्गिणी प्रथमो भागः.djvu
चतुर्थः तरङ्गः
कल्हणः
पञ्चमः तरङ्गः →

चतुर्थस्तरङ्गः ।

कथमपि स कृतज्ञो राजजामातुरुच्चै
fधित विधिवदिष्टं मूर्ध्नि राज्याभिषेकम् ॥ ५२८ ॥
कार्केटप्रभवः प्रभुः स मुकुटप्रत्युप्तमुक्ताकण-
द्योतश्रेणिफणाङ्कुराङ्कितबृहद्वाद्दुर्महीमुद्वहन् ।
ज्ञातिप्रीतिसतोषशेषफणभृत्संफुल्लदृक्पल्लव-
न्यासावर्जकहाटकानपटलस्रग्दा मशोभोभवत् ॥ ५२९ ॥
अथ विगलिता गोनन्दोर्वीभुजोभिजनाच्छुचे-
रतिशुचिनि भूः कार्कोटाहे: कुले व्यधित स्थितिम् ।
चिरपरिचितात्स्वर्गाभोगाध्वनः पतनं श्रिता
त्रिभुवनगुरोः शंभोर्गौलाविवामरनिम्नगा ॥ ५३० ॥
इति श्रीकाश्मीरिकमहामात्यचण्पकप्रभुसूनोः कहणस्य कृतौ रा
जतरङ्गिण्यां तृतीयस्तरङ्गः ॥
चतुर्थस्तरङ्गः ।
तद्वीतव्यतिरेकमद्वितनयादेहेन मिश्रीभव-
निष्प्रत्यूहमिह व्यपोहतु वपुः स्थाणोरभद्राणि वः ।
वेण्या भोगिवधूशरीरकुटिलश्यामत्विषा वेष्टिता
जूटाहेरपि यत्र भाति दयितांमूर्त्यैव पृक्ता तनुः ॥ १ ॥
स महीं राजकन्यां च प्राप्तवानेकतः कुलात् ।
रत्नानां च सुतानां च राजाभूद्भाजनं शनैः ॥ २ ॥
पतिगोपितदौः शील्या तुल्यसौभाग्यगौरवा ।
अनङ्गभवनं चक्रे विहारं नृपतिप्रिया ॥ ३॥

राजतरङ्गिणी

शिशुरेवायुपोल्पत्वं दैवज्ञोक्तं विचिन्तयन् ।
राशः सुतो महणाख्यो महणस्वामिनं व्यधात् ॥ ४ ॥
पारेविशोकं कोटाद्रौ प्रदत्तप्रतिपत्तिना ।
अदीयत द्विजेन्द्रेभ्यश्चन्द्रग्रामः क्षमाभुजा ॥ ५ ॥
श्रीनगर्या प्रतिष्ठाप्य दुर्लभस्वामिनं हरिम् ।
पशिता स वर्षाणां क्षमावृषास्तमुपाययौ ॥ ६ ॥
अनङ्गदेव्यां संभूतस्तस्य दुर्लभकः सुतः ।
शशास वासवसमस्ततो वसुमती कृती ॥ ७ ॥
मातामहस्य यो मात्रा दौहित्रस्तनयीकृतः ।
प्रतापादित्य इत्याख्यां तत्कुलानुगुणां दधे ॥ ८ ॥
औडेनैडविडात्प्राप्तश्रिया यन्मत्रिणा कृताः ।
अग्रहारा हनुमता पुण्यानुमतसंपदा ॥ ९ ॥
प्रतापतापितारातिः प्रतापपुरपत्तनम् ।
मघवन्नगरस्पधि दीर्घबाहुर्व्यधत्त सः ॥ १० ॥
नानादिगन्तरायाततत्तत्क्रयिकसंकुले ।
नोणाभिधोवसत्तस्य देशे रौहीतको वणिक् ॥ ११ ॥
रौहीतदेशे जातानां निवेशाय द्विजन्मनाम् ।
महागुणो नोणमठं पुण्यज्येष्ठं चकार सः ॥ १२ ॥
स जातु राजभवने राज्ञा प्रीत्या निमंत्रितः ।
अर्चितोभवदेकाहमुपचारैर्नृपोचितैः ॥ १३ ॥
प्रातः सुखासिकां प्रेम्णा पृष्टोथ पृथिवीभुजा ।
शीर्षव्यथामकथयत्प्रजातां दीपकज्जलैः ॥ १४ ॥
ततः क्रमेण नृपतिस्तेन जातु कृतार्थनः ।
वसंस्तदास्पदेद्राक्षीत्क्षपायां मणिदीपकान् ॥ १५ ॥

चतुर्थस्तरङ्गः ।

विलासित्वेन लक्ष्म्या च तादृश्या तस्य विस्मितः ।
अथ द्वित्राण्यहान्यासीत्तत्रैव स कृतार्हणः ॥ १६ ॥
एकदा तेन तत्कान्ता व्यलोकि ललिताकृतिः ।
श्रीनरेन्द्रप्रभा नाम हम्यै हिमकररानना ॥ १७ ॥
उरोजपूर्णकुम्भाङ्का सदूर्वाहितविभ्रमा ।
मूर्ति मन्मङ्गलमिव स्मरस्य च गृहस्य च ॥ १८ ॥
हर्म्यस्य निर्जनतया स निःशङ्कविहारिणीम् ।
तां विलोक्यानवद्याङ्गीमभिलाषेण पस्पृशे ॥ १९ ॥
सापि दर्शितमालीभिः किंचित्साचीकृतानना ।
अपश्यत्काश्यपीकान्तं श्रोत्रविश्रान्तया दृशा ॥ २० ॥
प्राग्जन्मप्रेमबन्धाद्वा निदेशाद्वा मनोभुवः ।
सपक्षपातं सा तस्य दृष्ट्यैव विधे मनः ॥ २१ ॥
क्षणादलब्धस्पर्शोपि तां सौभाग्यसुधामयीम् ।
मजानमपि संस्पृश्य स्थितामिव विवेद सः ॥ २२ ॥
हर्म्यस्तम्भच्छन्नगात्री क्षणं भूत्वा जगाम सा ।
व्यावर्त्य वक्रं पश्यन्ती पार्थिवं तं मुहुर्मुहुः ॥ २३ ॥
गृहीत हृदयस्तन्व्यास्तावतैव महीपतिः ।
स चिन्ताजिह्मनयनो राजधानीं शनैर्ययौ ॥ २४ ॥
तत्र तस्य तदाकारध्यानावहितचक्षुषः
सममन्तः पुरप्रीत्या प्रपेदे तानवं तनुः ॥ २५ ॥
अचिन्तयत्स धिक्कष्टं रूढोयमशुभावहः ।
अस्मिन्मे मानसोद्याने रागनामा विपद्रुमः ॥ २६ ॥
अहो नु सुभगा रागवृत्तिश्चित्तं विजित्य या ।
विवेकादीन्व्यधाद्दूरे सुहृदः परिपन्थकान् ॥ २७ ॥

१३ 2 ♥ राजतरङ्गिणी

भाव्यं कौलीनभीतेन येन भूमिभृता सता ।
तस्य मे दुःसहः कोयं सदाचारविपर्ययः ॥ २८ ॥
यत्र दारापहरणं राजैव कुरुते विशाम् ।
परः को नाम तत्रास्तु शासिता नीत्यतिक्रमे ॥ २९ ॥
विमृष्यन्निति भूपालो विस्मर्तुमभवत्क्षमः ।
न पद्धति साधुसेव्यां न च तां दीर्घलोचनाम् ॥ ३० ॥
तमथ प्रथितास्वास्थ्यं नेदीयोमरणं वणिक् ।
स जनाज्ज्ञातवृत्तान्तः सुजनो विजनेब्रवीत् ॥ ३१ ॥
इमामवस्थां प्राप्तोसि किं धर्मेण निरुध्यसे ।
न प्राणसंशये जन्तोरकृत्यं नाम किंचन ॥ ३२ ॥
यन्मतानि प्रतीक्ष्यन्ते विबुधैर्धर्मसंशये ।
तेषामपीडशे कृत्ये श्रूयते संयमव्ययः ॥ ३३ ॥
यशोनुरोधादुचितं नापि देहमुपेक्षितुम् ।
स्वकीर्तिर्न परासूनां कीर्णाकर्णरसायना ॥ ३४ ॥
मा भून्मदनुरोधस्ते त्वत्प्रियार्थ हि पार्थिव ।
प्राणा अपि न मे गण्या इन्द्रियार्थेषु का कथा ॥ ३५ ॥
एवमुक्तोपि नादत्से तां चेत्तत्सा सुरास्पदात् ।
गृह्यतां नर्तकीभूत्वा नृत्यज्ञत्वान्मयार्पिता ॥ ३६॥
तेनेति प्रेर्यमाण: स वलिना च मनोभुवा |
प्राग्लज्जामथ जग्राह कथंचित्तां सुलोचनाम् ॥ ३७ ॥
कृत्यैरुदात्तैः सापास्ततादृक्कारित्रलाघवा ।
नरेन्द्रमहिषी चक्रे श्रीनरेन्द्रेश्वरं हरम् ॥ ३८ ॥
क्रमेण च प्रजापुण्यैश्चन्द्रापीडाभिधं सुतम् ।
प्रासोष्ट पार्थिववधूर्निधानमिव मेदिनी ॥ ३९ ॥

१ कीर्णकर्ण इत्युचितम् । २ नर्तकीभूता इत्युचितम् । चतुर्थस्तरङ्गः ।

तस्याभिजनमालिन्यं स्वच्छेरच्छेदि तद्गुणैः ।
शाणाश्मकषणैः कार्ण्यमाकरोत्थं मणेरिव ॥ ४० ॥
धूमाद्गाढमलीमसाच्छुचिपयः सूते घनस्योद्गमो
लोहस्यातिशितस्य जातिरचलात्कुण्ठाश्ममालामयात् ।
किं चात्यन्तजडाजलाइयुतिमतो ज्वालाध्वजस्योद्भवो
जन्मावन्यनुकारिणो न महतां सत्यं स्वभावाः क्वचित् ॥४१॥
तारापीडोपि तनयः क्रमात्तस्यामजायत ।
अविमुक्तापीडनामा मुक्तापीडोपि भूपतेः ॥ ४२ ॥
वज्रादित्योदयादित्यललितादित्यसंज्ञकाः ।
९९
प्रतापादित्यजाः ख्याताश्चन्द्रापीडादयोपि ते ॥ ४३ ॥
वर्षान्पञ्चाशतं भुक्त्वा भुवं दुर्लभभूपतिः ।
पुण्यनिःश्रेणिभिः पुण्यामारुरोह दिवं शनैः ॥ ४४ ॥
राजचूडामणिः श्रीमांश्चन्द्रापीडस्ततोभवत् ।
पीडितेन्दुत्विषा कीर्त्या कलेः पीडां चकार यः ॥ ४५ ॥
एकपादाकृतिर्धर्मः समस्येवोज्झितो नृपैः ।
शुद्धश्लोककृता येन पादैः संयोजितस्त्रिभिः ॥ ४६ ॥
यं क्षमाविक्रममुखाः परस्परविरोधिनः ।
सिषेविरे गुणास्तुल्यं दिव्योद्यानमिवर्तवः ॥ ४७ ॥
स्थाने स्थाने यदीया श्रीस्तुल्यमाप्याययन्त्यभूत् ।
द्रुमानुद्यानकुल्येव निखिलाननुजीविनः ॥ ४८ ॥
दोषांस्त्यक्त्वान्यभूपेषु यं शुद्धा श्रीरशिश्रियत् ।
मार्गादिष्वोघकालुष्यं शिवा सिन्धुरिवार्णवम् ॥ ४९ ॥
कार्यज्ञो यो न तच्चक्रे यत्फलेभूद्विविनधीः ।
परं समाचरन्स्तुत्यं स्तूयमानस्त्रपां दधे ॥ ५० ॥

राजतरङ्गिणी

व्यनीयत न योमात्यैर्विनयं तान्स्वशिक्षयत् ।
वज्रं न भिद्यते कैश्चिच्छिनत्त्यन्यान्मणीस्तु तत् ॥ ५१ ॥
यस्याधर्मभयादासीत्संत्याज्यो धर्मसंशये ।
निजोपि पक्षः कुलिशत्रासादिव गरुत्मतः ॥ ५२ ॥
न्याय्यं दर्शयता वर्त्म तेन राज्ञा प्रवर्तिताः ।
स्थितयो वीतसंदेहा भास्वतेव दिनक्रियाः ॥ ५३ ॥
नियन्त्रिता यद्भणितिस्तद्गुणोदीरणादियम् ।
अतिप्रसङ्गभङ्गात्तन्नेयत्तावाप्तितः पुनः ॥ ५४ ॥
तस्य त्रिभुवनस्वामिप्रासादारम्भकर्मणि ।
चर्मकृत्कोपि न प्रादात्कुटी क्षेत्रोपयोगिनीम् ॥ ५५ ॥
शश्वत्प्रतिश्रुतार्थानां नवकर्माधिकारिणाम् ।
नैसर्गिकाग्रहग्रस्तः सूत्रपातं न चक्षमे ॥ ५६ ॥
विज्ञापितोथ तैरेत्य तमर्थ पृथिवीपतिः ।
तानेव सागसो मेने चर्मकारं न तं पुनः ॥ ५७ ॥
सोभ्यधात्तान्धिगेतेषामप्रेक्षापूर्वकारिताम् ।
प्रागेव यैरपृष्ट्वा तं प्रविष्टं नवकर्मणि ॥ ५८ ॥
नियम्यतां विनिर्माणं यद्वान्यत्र विधीयताम् ।
परभूम्यपहारेण सुकृतं कः कलङ्कयेत् ॥ ५९ ॥
ये द्रष्टारः सदसतां ते धर्मविगुणाः क्रियाः ।
वयमेव विदध्मश्चेद्यातु न्यायेन कोध्वना ॥ ६० ॥
इत्युक्तवति भूपाले प्रेषितो मन्त्रिपर्षदा |
पार्श्वोत्पादूकृतस्तस्य दूतः प्राप्तो व्यजिज्ञपत् ॥ ६१ ॥
इच्छति स्वामिनं द्रष्टुं स च ब्रूते न चेन्मम ।
युक्तः प्रवेश आस्थाने वाह्याल्यवसरेस्तु तत् ॥ ६२ ॥

१ न्याय्येन इत्युचितम् ।


अन्येद्युरथ भूपेन स बहिर्दत्तदर्शनः ।
पुण्यकर्मणि नो विघ्नः किं त्वमेवेत्यपृच्छयत ॥ ६३ ॥
प्रतिभाति गृहं तच्चेद्रम्यं तव ततोधिकम्‌ |
तदर्थ्य॑तां धनं वापि भूर्येवं चाभ्यधीयत ॥ ६४ ॥
तूष्णीं स्थितं ततो भूपं चर्मकारो व्यजिझपत् ।
दन्तांशुसूत्रैस्तत्सत्त्वमानं ज्ञातुमिवोद्यतः ॥ ६५ ॥
राजन्विज्ञाप्यते किंचिद्यदस्माभिर्यथाशयम् ।
न स्थेयमचलिप्तेन तत्र द्रष्ट्रा सता त्वया ॥ ६६ ॥
नाहमूनः शुनो नास्ति काकुस्थात्पार्थिवः पृथुः ।
क्ष्युभ्यन्तीवाद्य तत्सभ्याः संलापेस्मिन्किमावयोः ॥ ६७ ॥
जातस्य जन्तोः संसारे भङ्गुरः कायकञ्चुकः ।
अहंताममताख्याभ्यां शङ्कुभ्यामेव बध्यते ॥ ६८ ॥
कङ्कणाङ्गदहारादिशोभिनां भवतां यथा । |
निष्किंचनानामस्माकं स्वदेहेहंक्रिया तथा ॥ ६९ ॥
देवस्य राजधान्येषा यादृशी सौधहासिनी ।
कुटी घटमुखानद्धतमोरिस्तादृशी मम ॥ ७० ॥
आ जन्मनः साक्षिणीयं मातेव सुखदुःखयोः ।
मठिका लोठ्यमानद्य नेक्षितुं क्षम्यते मया ॥ ७१ ॥
नृणां यद्वेश्महरणे दुःखमाख्यातुमीश्वरः ।
तद्धिमानच्युतो मर्त्यो राज्यश्रष्टोथ पार्थिवः ॥ ७२ ॥
एवमप्येत्य मद्धेदम सा चेद्देवेन याच्यते ।
सदाचारानुरोधेन दातुं तदुचितं मम ॥ ७३ ॥
इति तेनोत्तरे दत्ते भूभृद्नत्वा तदास्पदम्‌ ।
कुटीं जग्राह वित्तेन नाभिमानः शुभार्थिनाम्‌ ॥ ७४ ॥




अवोचच्चर्मकारस्तं तत्र स व्यञ्चिताञ्जलिः।
राजन्धर्मानुरोधेन परवत्ता तवोचिता ॥ ७५ ॥
श्वविग्रहेनण धर्मेण पाण्डुसूनोः पुरा यथा ।
धार्मिकत्वं तथा तेद्य मयास्पृश्येन वीक्षितम्‌ ॥ ७६ ॥
स्वस्ति तुभ्यं चिरं स्थेया धर्म्या वृत्तान्तपद्धतीः ।
दर्शयन्नीदृशीः शुद्धाः श्रद्धेया धर्मचारिणाम्‌ ॥ ७७ ॥
एवं निष्कल्मपाचारः स चके पावनीं भुवम्‌ ।
राजा त्रिभुवनस्वामिकेशवस्य प्रतिष्टया ॥ ७८ ॥
कृत्यैः प्रकाशदेव्याख्या प्रकाशाकाशकान्तिभिः ।
प्रकाशिकाविहारस्य तत्पत्नी कारयित्र्यभूत् ॥ ७९ ॥
गुरुर्मिहिरदत्ताख्यस्तस्योदात्तगुणोभवत् ।
विश्वंभरस्य गम्भीरस्वामिनाम्नो विधायकः ॥ ८० ॥
सर्वाधिकरणस्थैर्योच्छेत्ता छलितकाभिधः ।
नगराधिकृतस्तस्य च्छलितस्वामिनं व्यधात्‌ ॥ ८१ ॥
कदाचन सभासीनं पृष्टा धर्माधिकारिभिः ।
प्रायोपविष्ठा राजानं ब्राह्मणी काचिद्‌व्रवीत् ॥ ८२ ॥
त्वयि प्रशासति महीमहो गर्हानिबर्हणे ।
सुखसुप्तस्य मे पत्युर्हृतं केनापि जीवितम्‌ ॥ ८२ ॥
एषैव महती लज्जा सदाचारस्य भूपतेः ।
यदकालभवो मृत्युस्तस्य संस्पृशति प्रजाः ॥ ८४ ॥
कलिकालबलात्तच्चेत्त्वादृशैरपि दृश्यते ।
पापात्पापतरेमुष्मिन्दोपे कथमुदास्यते ॥ ८५ ॥
चिन्तयन्त्यपि नावैमि भर्तुः कंचिद्विरोधिनम् ।
निर्दोषस्य हि तस्यासन्सर्वतः शीतला दिशः ॥ ८६ ॥

 

</poem>


अनसूयो निरुत्सेकः प्रियवाग्गुणवत्सलः ।
पूर्वाभिभाषी निर्लोभो न विद्वेष्यो हि कस्यचित्‌ ॥ ८७ ॥
तस्य तुल्यवया वाल्यात्प्रभृत्यध्ययनेधमः ।
माक्षिकस्वामिवास्तव्यो विप्रः शङ्क्योभिचारवित् ॥ ८८ ॥
गुणदारिद्र्यनिर्निद्रैः क्षुद्रैः कौशलशालिनाम्‌ ।
प्रसिद्धिस्पर्धया वन्ध्यैर्वाध्यन्तेसूययासवः ॥ ८९ ॥
नापुंश्चलेयो दुःशीलो नाद्रोहो नित्यशङ्कितः |
नावाचालो मृषाभाषी नाकायस्थः कृतघ्नधीः ॥ ९० ॥
नादातृगृहजो लुब्धो नानीर्ष्यो नित्यदुःखितः ।
नास्त्रीजितः सर्वहास्यो नावृद्धः स्निग्धभाषितः ॥ ९१ ॥
नानन्यजः पितृद्वेषी नारागी निरपत्रपः।
नाक्षुद्रविद्यः पापीयानिति भूतार्थसंग्रहः ॥ ९२ ॥
                            तिलकम्‌ ॥
इत्युक्तवत्यां बाह्यण्यां तच्छङ्कावसर्ति द्विजम्‌ |
आनीय परिशुध्यस्वेत्यभ्यधाद्वसुधाधिपः ॥ ९२ ॥
भूयो ब्राह्मण्यवादीत्तं ख्यातः खार्खोदविद्यया ।
निःसंभ्रमः स्तम्भयितुं देव दिव्यक्रियामयम्‌ ॥ ९४ ॥
म्लायद्वक्क इवावादीत्ततस्तां मेदिनीपतिः ।
अदृष्टदोषे किं कुर्मो वयमत्राधिकारिणः ॥ ९५ ॥
नान्यस्मिन्नपि दण्डस्य प्रसङ्गोनिश्चितागसि ।
किं पुनर्ब्राह्मणो दण्ड्यो यो दोषेपि वधं विना ॥ ९६ ॥
उक्त्वेति विरते तस्मिन्द्विजजायाव्रवीत्पुनः ।
चतस्रः क्षणदाः क्षीणा राजन्नपि न शस्यते ॥ ९७ ॥
नान्वगां परिणेतारं हन्तुः प्रतिचिकीर्षया ।
तत्राविहितदण्डेसस्मिंस्त्यजाम्यनशनैरसून्‌ ॥ ९८ ॥
 

१०४

राजतरङ्गिणी

तथा स्थितायां ब्राह्मण्यां कृतप्रायोपवेशनः ।
स्वयं त्रिभुवनस्वामिपादानुद्दिश्य सोभवत् ॥ ९९ ॥
त्रिरात्रोपोषितं तत्र राजानं रजनीक्षये ।
स्वप्ने स्वप्नोत्तमोवोचत्सत्योक्किं सत्यवाहनः ॥ १०० ॥
ईड युज्यते राजन्सत्यस्यान्वेषणं कलौ ।
निशीथे कस्य सामर्थ्य कर्तुं दिवि विकर्तनम् ॥ १०१ ॥
भवच्छक्त्यनुरोधेन सकृदेतत्प्रवर्त्यते ।
मत्प्रासादाङ्गनेमुष्मिञ्शालिन्चूर्ण विकीर्यताम् ॥ १०२ ॥
प्रदक्षिणं कुर्वतोस्य त्रिरत्र यदि हृश्यते ।
ब्रह्महत्यापादमुद्रा पादमुद्रानुयायिनी ॥ १०३ ॥
तदेष वधको भूत्वा सदृशं दण्डमर्हति ।
रात्रावेष विधिः कार्यो दिने पापहृदर्यमा ॥ १०४ ॥
अथ तत्कारयित्वा स दृष्टदोषे द्विजन्मनि ।
दण्दं दण्डधरश्चक्रे द्विजत्वाद्वधवर्जितम् ॥ १०५ ॥
महीमघोना भर्तृघ्ने तस्मिन्विहितशासने ।
ततो द्विजन्मजाया सा कृताशीरभ्यधादिदम् ॥ १०६ ॥
इयत्यवनिभृत्सर्गे गूढपापानुशासनम् ।
कार्तवीर्यस्य वा दृष्टं तव वा पृथिवीपते ॥ १०७ ॥
दण्डधारे त्वयि क्षमाप क्षितिमेतां प्रशासति ।
को वैरस्नेहयोः पारमनासाद्यावसीदति ॥ १०८ ॥
इत्थं कृतयुगध्येयैर्धर्म्यवृत्तान्तवस्तुभिः ।
स्वल्पोपि राज्यकालोस्य पर्याप्तैः पर्यपूर्यत ॥ १०९ ॥
स्रष्टुर्विष्टरपाथोजसंसर्गेण निरर्गलः ।
निबिडं जडिमा जाने व्यधत्त घियि संनिधिम् ॥ ११० ॥

. चतुर्थस्तरङ्गः ।

विभक्तवर्णशोभस्य तस्यासावन्यथा कथम् ।
माहेन्द्रस्येव धनुषो विदधे दृष्टनष्टताम् ॥ १११ ॥
कारयित्वाभिचारं तं निग्रहोग्ररुषं द्विजम् ।
तं यशः शेषतामीशं तारापीडोनुजोनयत् ॥ ११२ ॥
दुष्कर्मदुर्भगान्भोगान्भोक्तुं पापा गुणोन्नतम् ।
मृद्गन्ति कण्टकान्प्राप्तुं करभा इव केतकम् ॥ ११३ ॥
ततः प्रभृति भूपानां राज्येच्छूनां गुरुन्प्रति ।
दुष्टाः प्रवृत्ता राज्येस्मिन्नभिचारादिकाः क्रियाः ॥ ११४ ॥
श्री चन्द्रापीडदेवस्य तत्क्षमित्वमपश्चिमम् ।
संस्मर्यमाणं कुरुते न कस्योत्पुलकं वपुः ॥ ११५ ॥
मुमूर्षुर्यत्स लब्ध्वापि तं कृत्याधायिनं द्विजम् ।
चराकेन्यप्रयुक्तेस्मिन्को दोष इति नावधीत् ॥ ११६ ॥
विस्मृतः स कृतक्ष्माभृत्पङ्किमध्येद्य वेधसा |
दत्त्वा काकपदं नूनं न्यस्तः कलिनृपावलौ ॥ ११७ ॥
अष्टौ वर्षान्साष्टमासाननुगृह्येति मेदिनीम् ।
प्रविवेश वशी स्वर्गमनिशं च सतां मनः ॥ ११८ ॥
१०५
भ्रातृद्रोहास्रसुहृदा प्रतापेन भयावहः ।
उवाह तारापीडः स चण्डः क्ष्मामण्डलीं ततः ॥ ११९ ॥
पूर्णपात्रप्रतिभटं द्विपां लुण्ठयता यशः ।
शिशोः प्रतापस्योत्पत्तौ कवन्धा येन नर्तिताः ॥ १२० ॥
तस्यातिदुष्टचेष्टस्य लक्ष्मीप्तापि सर्वतः ।
अभूदुद्वेगजननी श्मशानाग्नेरिव द्युतिः ॥ १२१ ॥
मन्त्रैः प्रभावसांनिध्यं देवानां क्रियते द्विजैः ।
मत्वेति देवद्वेषी स द्विजानां दण्डमत्यजत् ॥ १२२ ॥

१४ राजतरङ्गिणी

मासं षड्भिर्दिनैरूनं चतस्रश्च समा भुवि ।
स प्राभवद्गुरुद्रोहप्ररोहत्सुकृतात्ययः ॥ १२३ ॥
अथ गूढाभिचारेण विहितायुःक्षयो द्विजैः ।
स भ्रातुः सदृशीं शान्ति प्रपेदे न पुनर्गतिम् ॥ १२४ ॥
यो यं परापकरणाय सृजत्युपायं
तेनैव तस्य नियमेन भवेद्विनाशः ।
धूमं प्रसौति नयनान्ध्यकरं यमग्नि-
र्भूत्वाम्बुदः स शमयेत्सलिलैस्तमेव ॥ १२५ ॥
राजा श्रीललितादित्यः सार्वभौमस्ततोभवत् ।
प्रादेशकेश्वरस्रष्टुर्विधेर्बुद्धेरगोचरः ॥ १२६ ॥
प्रतापांशुच्छटाकूटैः पटवाससधर्मभिः ।
जम्बुद्वीपद्विपेन्द्रस्य येनातन्यत मण्डनम् ॥ १२७ ॥
नयाञ्जलिषु बद्धेषु राजभिर्विजयोद्यमे ।
पार्थिवः पृथुविक्रान्तिर्युधि क्रोधं मुमोच यः ॥ १२८ ॥
विनिःसरजनतया भयाद्गर्भानिवामुचन् ।
द्विषां वसतयो यस्य निशम्यास्कन्ददुन्दुभिम् ॥ १२९ ॥
विलोलतिलकान्तैर्यः सनेत्राम्भोभिराननैः ।
निवापाञ्जलिदानानि द्विषां नारीरकारयत् ॥ १३० ॥
क्षितिं प्रदक्षिणयतो रवेरिव महीपतेः ।
जिगीषोः प्रायशस्तस्य यात्रास्वेव वयो ययौ ॥ १३१ ॥
करं पूर्वदिशो गृह्णन्प्रतापानलसंनिधौ ।
अन्तर्वेद्यां महाराजः स कीयुष्णीषभृद्धभौ ॥ १३२ ॥
कन्यानां यत्र कुञ्जत्वं व्यधागाधिपुरे मरुत् ।
तत्रैव शंसनीयः स पुंसां चक्रे भयस्पृशाम् ॥ १३३ ॥

चतुर्थस्तरङ्गः ।

यशोवर्माद्रिवाहिन्याः क्षणात्कुर्वन्विशोषणम् ।
नृपतिर्ललितादित्यः प्रलयादित्यतां ययौ ॥ १३४ ॥
मतिमान्कन्यकुञ्जेन्द्रः प्रत्यभात्कृत्यवेदिनाम् ।
दीप्तं यल्ललितादित्यं पृष्ठं दत्त्वा न्यषेवत ॥ १३५ ॥
तत्सहायास्ततोप्यासन्निकाममभिमानिनः

कुसुमाकरतोप्युच्चैः सुरभिश्चन्दनानिलः ॥ १३६ ॥
श्रीयशोवर्मणः संधौ सांधिविग्रहिको न यत् ।
नयं नियमनालेखे मित्रशर्मास्य चक्षमे ॥ १३७ ।।
सोभूत्संधिर्यशोवर्मललितादित्ययोरिति ।
लिखितेनादिनिर्देशादर्हत्वं विदन्प्रभोः ॥ १३८ ।
युगलकम् ॥
सुदीर्घविग्रहाशान्तैः सेनानीभिरसूयिताम् ।
औचित्यापेक्षतां तस्य क्षितिभृद्बह्वमन्यत ॥ १३९ ॥
प्रीतः पञ्चमहाशब्दभाजनं तं व्यधत्त सः ।
यशोवर्मनृपं तं तु समूलमुदपाटयत् ॥ १४० ॥
अष्टादशानामुपरि प्राक्सिद्धानां तदुद्भवैः ।
कर्मस्थानैः स्थितिः प्राप्ता ततः प्रभृति पञ्चभिः ।। १४१ ।।
महाप्रतीहारपीडा स महासंधिविग्रहः ।
महाश्वशालापि महाभाण्डागारश्च पञ्चमः ॥ १४२ ॥
महासाधनभागश्चेत्येता यैरभिधाः श्रिताः ।
शाहिमुख्या येष्वभवन्नध्यक्षाः पृथिवीभुजः ॥ १४३ ॥
कविर्वाक्पतिराजश्रीभवभूत्यादिसेवितः ।
जितो ययौ यशोवर्मा तद्गुणस्तुतिबन्दिताम् ॥ १४४ ॥
किमन्यत्कन्यकुबोर्वी यमुनापारतोस्य सा ।
अभूदा शालिकातरं गृहप्राङ्गनवद्वशे ॥ १४५ ॥

१ विग्रहश्रान्तैः इति स्यात् । १०७ १०८ राजतरङ्गिणी

यशोवर्माणमुल्लङ्घय
हिमाद्रिमिव जाह्नवी ।
सुखेन प्राविशत्तस्य वाहिनी पूर्वसागरम् ॥ १४६ ॥
पश्यद्भिर्जन्मवसुधां सेधोरणभत्सितैः ।
तन्मातङ्गैः कलिङ्गेभ्यः कथंचित्प्रस्थितं पथं ॥ १४७ ॥
आकृष्टलक्ष्मीपर्यङ्कदन्तिसख्यादिवागताः ।
अशिश्रियंस्तं निःशेषा दन्तिनो गौडमण्डलात् ॥ १४८ ॥
कटकेभघटाहस्तकृतवीचिकचग्रहः ।
अदृश्यताग्रगैस्तस्य गृहीतः पूर्ववारिधिः ॥ १४९ ॥
वनराजिश्यामलेन दिशं वैवस्वताङ्किताम् ।
स प्रतस्थेब्धितीरेण तत्कृपाणेन तु द्विषः ॥ १५० ॥
तस्योर्ध्वजूटाः कर्णाटाः कृतप्रणतयोनयन् ।
सुवर्णकेतकीस्त्यक्वा प्रतापमवतंसताम् ॥ १५१ ॥
तस्मिन्प्रसङ्गे रट्टाख्या कर्णाटी चटुलेक्षणा |
अपासीन्नृपतिर्भूत्वा पृथुश्रीदक्षिणापथम् ॥ १५२ ॥
विन्ध्याद्रिमार्गाः पर्याप्ता निष्पर्यन्तप्रभावया ।
दुर्गयेव तया देव्या कृता निहतकण्टकाः ॥ १५३ ।।
ललितादित्यपादाजनखदर्पणमण्डले ।
स्वमूर्ति वीक्ष्य संक्रान्तां प्रणता सापि पिप्रिये ॥ १५४ ॥
तालीतरुतलाचान्तनालिकेररसोर्मयः ।
कावेरीतीरपवनैस्तद्योधाः क्लममत्यजन् ॥ १५५ ॥
चन्दनाद्वेस्तदास्कन्दत्रासभ्रश्यहिच्छलात् ।
श्रीखण्डद्रुमदोः षण्डान्मण्डलाग्रा इवापतन् ॥ १५६ ॥
उत्तराश्मस्विव पदं क्षिप्त्वा द्वीपेष्वविघ्नतः ।
स कुल्याया इवाम्भोधेः क्षिप्रं चक्रे गतागतम् ॥ १५७ ॥

3 चतुर्थस्तरङ्गः ।

ततोब्धिवीचिनिर्घोषैरुद्गीतजयमङ्गलः ।
प्रतस्थे पश्चिमामाशां जिगीषूणामपश्चिमः ॥ १५८ ॥
आक्रम्य क्रमुकश्यामान्कोङ्कणान्सत तापयन् ।
तुरगानिव तिग्मांशोः प्रतापस्तस्य पप्रथे ॥ १५९ ॥
पश्चिमाब्धेर्मरुद्भ्यस्तवीचेराविर्भवन्त्यभूत् ।
द्वारका तस्य सैन्यानां प्रवेशौत्सुक्यदायिनी ॥ १६० ॥
विन्ध्याद्रिस्तद्वलक्षुण्णधातुरेण्वावृताम्बरः ।
प्रत्यभात्त्यक्तमर्यादः कोपताम्र इवोन्नमन् ॥ १६१ ।।
विशतां दशनश्रेण्यस्तस्यावन्तिषु दन्तिनाम् ।
महाकालकिरीटेन्दुज्योत्स्नया खण्डिताः परम् ॥ १६२ ॥
सर्वतोदिक्कमालोक्य जितप्रायांस्ततो नृपान् ।
स प्राविशत्सुविस्तीर्णमपथेनोत्तरापथम् ॥ १६३ ॥
राजभिस्तस्य तत्रोद्यैः संग्रामोभूत्पदे पदे ।
कुलाद्रिभिरिवेन्द्रस्य पक्षच्छेदोद्यमस्पृशः ॥ १६४ ॥
काम्बोजानां वाजिशाला जायन्ते स्म हयोज्झिताः ।
ध्वान्तच्छलात्तद्विरुद्धैर्निरुद्धा महिषैरिव ।। १६५ ।।
भुःखाराः शिखरश्रेणीर्यान्तः संत्यज्य वाजिनः ।
कुण्ठभावं तदुत्कण्ठां हियाननान् ॥ १६६ ॥
त्रीन्वारान्समरे जित्वा जितं मेने स मुम्मुनिम् ।
सकृज्जयमरेवरा मन्यन्ते हि घुणाक्षरम् ॥ १६७ ॥
चिन्ता न दृष्टा भौट्टानां वक्रे प्रकृतिपाण्डुरे ।
वनौकसामिव क्रोधः स्वभावकपिले मुखे ॥ १६८ ॥
तस्य प्रतापो दरदां न सेहेनारतं मधु ।
दरीणामोषधिज्योतिः प्रत्यूपैर्क इवोदितः ।। १६९ ॥

१०९ ११० राजतरङ्गिणी

कस्तूरीमृगसंस्पर्शी धूतकुङ्कुमकेसरः ।
सैन्यसीमन्तिनीस्तस्य संचस्कारोत्तरानिलः ॥ १७० ॥
शून्ये प्राग्ज्योतिषपुरे निर्जिहानं ददर्श सः ।
धूपधूमं वनप्लुष्टात्कालागुरुवनात्परम् ॥ १७१ ॥
मरीचिकावितीर्णार्णोविभ्रमे वालुकाम्बुधौ |
तद्गजेन्द्रा महाग्राहसमूहसमतां ययुः ॥ १७२ ॥
तद्योधान्विगल द्धैर्यान्स्त्रीराज्ये स्त्रीजनोकरोत् ।
तुङ्गौ स्तनौ पुरस्कृत्य न तु कुम्भौ कवाटिनाम् ॥ १७३ ॥
स्त्रीराज्यदेव्यास्तस्याग्रे वीक्ष्य कम्पादिविक्रियाम् ।
संत्रासमभिलापं वा निश्चिकाय न कञ्चन ॥ १७४ ॥
उत्तराः कुरवोविक्षंस्तद्भयाजन्मपादपान् ।
उरगान्तकसंत्रासाद्विलानीव महोरगाः ॥ १७५ ॥
जयार्जितधनः सोथ प्रविवेश स्वमण्डलम् ।
भिन्नेभमौक्तिकापूर्णपाणिः सिंह इवाचलम् ॥ १७६ ॥
जालंधरं लोहरं च मण्डलानीतराणि च ।
प्रसादीकृत्य विधे राजत्वं सोनुजीविनाम् ॥ १७७ ॥
पराजयव्यञ्जनार्थं नानालिङ्गानि पार्थिवाः ।
उग्रेण ग्राहितास्तेन वहन्त्यद्यापि निर्मदाः ॥ १७८ ॥
वन्धमुद्राभिधानाय पश्चाद्वाहू तदाज्ञया ।
तुरुष्का दधते व्यक्तं मूर्धानं चार्धमुण्डितम् ॥ १७९ ॥
क्षितिभृद्दाक्षिणात्यानां तिर्यक्त्वज्ञापनाय सः |
पुच्छ महीतलस्पर्शि चक्रे कौपीनवाससि ॥ १८० ॥
न तत्पुरं न स ग्रामो न सा सिन्धुर्न सोर्णवः ।
नस द्वीपोस्ति यत्रासौ प्रतिष्ठां न विनिर्ममे ॥ १८१ ॥

१ बलप्पुष्टात् इति स्यात् ।


कचिच्चेष्टासमुचितं क्वचिञ्च् समयानुगम्‌।
बाहुल्येन प्रतिष्ठनां स मानी नाम संदधे ॥
सुनिश्चितपुरं चक्रे दिग्जये कृतनिश्चयः ।
सगर्वो दर्पितपुरं कृतवाक्क्रुतकेशवम् ॥ १८३ ॥
फलं गृह्णन्फलपुरं पर्णोत्सं पणैमाददत्‌ ।
क्रीडारामविहारं च कीडन्राजा विनिर्ममे ॥ १८४ ॥
पकमुर्धं नयद्रत्नमधः कर्षत्तथापरम्‌ ।
बद्धा व्यधान्निरालम्बं स्त्रिराज्ये न्रुहरिं च सः ॥ १८५ ॥
दिगन्तरस्थे भूपाले तस्मिस्तत्क्रर्मक्रुत्किल ।
पुरं विधाय तन्नाम्ना तत्कोपफलमन्वभूत्‌ ॥ १८६ ॥
ललिताख्ये पुरे तसिन्नादित्याय स भूपतिः ।
सग्रामां कन्यङकुजोर्वीमभिमानोर्जितो ददौ ॥ १८७ ॥
तेन इुष्कपुरे श्रीमान्मुक्तस्वामी व्यधीयत ।
बृहद्विहरो भूपेन सस्तूपश्च महात्मना ॥ १८८ ॥
एकां कोटिं ग्रहीत्वा स दिग्जयाय वैनिर्गतः|
xxxx ददौ शुद्ध्यै कोटीरेकादशागतः ॥ १८९. ॥
स तत्र ज्येष्ठरुद्रस्य शिलाप्रासादयोजनम् ।
भूमिग्रामप्रदानं च विदधे वसुधाधिपः ॥ १९० ॥
चक्रे चक्रधरस्तेन वितस्ताम्भः प्रतारणम्‌ ।
विनिमौयारघतट्टालीस्ताग्रामन्प्रयच्छता ॥ १९१ ॥
सोखण्डिताश्मप्राकारं पासादान्तव्येधत्त च 1
मार्ताण्डस्याभ्दुतं दाता द्राक्षास्फीतं च पत्तनम्‌ ॥ १९२ ॥
लोकपुण्ये पुरं कृत्वा नानोपकरणावलीम्‌ ।
प्रतिपादितवाञ्जिष्णुग्रौमैः साकं स विष्णवे ॥ १९३ ॥

 
ततः परं परीहासशीलो भूलोकवासवः ।
विहसद्वासवावासं परीदासपुरं व्यधात्‌ ॥ १९४ ॥
विरेजे राजतो देवः श्रीपरीहासकेशवः।
लीप्तो रत्नाकरस्वापे मुक्ताज्योतिर्भरैरिव ॥ १९५ ॥
नाभीनलिनकिञ्जल्कपुञ्चेनेवाचुरञ्ञितः ।
अचकात्काश्चनमयः श्रीमुक्ताकेशवो हरिः ॥ १९६ ॥
महावराहः शुशुभे काञ्चनं कवचं दधत्‌ ।
पाताले तिमिरं हन्तुं वहन्निव रविप्रभाः ॥ १९७ ॥
गोवर्धनधरा देवो राजतस्तेन कारितः।
यो गोकुलपयःपूरैरिव पाण्डुरतां दधे ॥ १९८ ॥
चतुष्पञ्चाशतं हस्तान्रोपयित्वा महाशीलाम्‌ ।
ध्वजाग्रे दितिजारातेस्तार्क्ष्यस्तेन निवेशीतः ॥ १९९ ॥
चक्रे बृहञ्चतुःशालाब्रुहञ्चैत्यब्रुज्जिनैः ।
राजा राजविहारं स विरजा; सततोर्जितम्‌ ॥ २०० ॥
तोलकानां सहस्राणि चर्तुर्भिरधिकानि सः ।
अशीतिं निदधे हेम्नो मुक्ताकेशवविग्रहे ॥ २०१॥
तावन्त्येव सहस्राणि पालानां रजतस्य च ।
संधाय शुद्धधीश्चक्रे श्रीपरीहासकेशवम्‌ ॥ २०२ ॥
र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्रीतिप्रस्थसहस्रैस्तु तेन तावभ्दिरेव सः।
व्योमव्यापिवपुः श्रीमान्ब्रुभ्दुध्दो व्यधीयत ॥ २०२ ॥
चतुःशालं च चैत्यं च तावता तावता व्यधात्‌ ।
धनेनैवेति तस्यासन्पश्च निर्मतयः समाः ॥ २०४ ॥
राजतान्क्कापि सौवर्णान्क्कापि देवान्विनिर्ममे।
पाश्वेषु मुख्येदवानां पार्थिवो धनदोपमः ॥ २०५ ॥


कियन्ति तत्र रत्ननि ग्रामान्परिकरं तथा ।
स प्रादादिति कः शक्तः परिच्छेत्तुमियत्तया ॥ २०६ ॥
अवरोधैरमात्यैश्च सेवकैश्च नरेश्वरैः ।
तत्र प्रतिष्ठाः शतशो विहिता भुवनाद्भुताः ॥ २०७ ॥
राज्ञी कमलवत्यस्य कमलाहट्टृकारिणी
राजतं चिपुलकारं कमलाकेशवं व्यधात्‌ ॥ २०८ ॥
अमात्यो मित्रशर्मापि चक्रे मित्रेश्वरं हरम्‌ ।
श्रीकय्यस्वामिनं चक्रे लाटः कय्याभिधो नृपः२०९ ॥
श्रीमान्कय्यविहारोपि तेनैव विदघेभ्दुतः ।
भिक्षुः स्वर्वज्ञमित्रोभुत्क्रमाद्यत्र जिनोपमः ॥ २१०॥
भुःखारश्चङ्कुणश्चक्रे स चङ्कुणविहारक्रुत् ।
भूपचित्तोन्नतं स्तूपं जिनान्हेममयांस्तथा ॥ २१९ ॥
ईशानदेव्या तत्पन्त्या खाताम्बु प्रतिपादितम्‌ |
सुधारसमिव स्वच्छमारोग्याधायि रोगिणाम्‌ ॥ २१२ ॥
वल्लभादित्यभूभर्तुर्वल्लमा चक्रमर्दिका ।
सहश्राण्योकसां सप्त तत्र चक्रपुरं व्यधात्‌ ॥ २१२ ॥
आचार्यो भपटो नाम विदधे भपटेश्वरम्‌ ।
अन्येपि रक्छटेराद्या बहवो बहुभिः कृताः ॥ २१७ ॥
अधिष्ठानान्तरेप्यत्र चङ्कुणेनाग्र्यमन्त्रिणा ।
सचैत्यः सुक्रुतोदारो विहारो निरमीयत ॥ २१५ ॥
भिषगीशानचन्द्राख्यः श्यालश्चङ्कुणमन्रिणः।
विहारमकरोल्लब्ध्वा तक्षकानुग्रहच्छ्रियम् ॥ २१६ ॥
एवं हेममयीमुर्वी स कु्वन्नुर्वरापतिः ।
गुणैरौदार्यशौर्याद्यैर्मघवानमलङघयत् ॥ २१९७ ॥
१५


हेलयपि विनिर्यान्ती वक्राव्दसुमतीपतेः ।

न कदाचन तस्याज्ञा देवैरप्युदलङ्घ्यत ॥ २१९८ ॥
तथाहि पूर्वपाथोधेस्तटे सकटको वसन्‌ ।
आनीयन्तां कपित्थानीत्यादिदेश स जातुचित्‌ ॥ २१९ ॥
किकर्तव्यतयान्धेषु पुरोगेषु स्थितेष्वथ ।
उपानयत्कपित्थानि दिव्यः कोपि पुमान्पुरः ॥ २२० ॥
अग्रादुपायनं गृह्णन्कृतसंज्ञो भ्रुवा प्रभोः।
कस्य त्वमिति पप्रच्छ प्रतीहारः प्रस्रुत्य तम्‌ ॥ २२१ ॥
सोभ्यधात्तं कपित्थानि दत्त्वा राज्ञः प्रियाण्यहम्‌ ।
प्रहितोद्य महेन्द्रेण नन्दनोद्यानपालकः ॥ २२२ ॥
रहो महेन्द्रसंदिष्टं वक्तव्यं किंचिदस्ति मे।
इति श्रुत्वा प्रतीहारः सभां चक्रे स निर्जनाम्‌ ॥ २२३ ॥
ततो दिव्यः पुमानूचे शाक्रस्त्वां वक्ति भूपते ।
क्षन्तव्यं पथ्यमप्येतत्सौजन्यान्निष्ठुरं वचः ॥ २२४ ॥
तुर्यै युगेपि भूपाल दिक्पाला अपि ते वयम्‌ ।
विभ्रुमो यत्प्रणम्याज्ञां श्रुयतां तत्र कारणम्‌ ॥ २२५ ॥
पुरा ग्रमगहस्थस्य कस्यचित्पृथुसंपदः ।
जन्मान्तरे कर्मकरो हालिकोभूभ्दवन्किल ॥ २२६ ॥
एकदा तस्य ते ग्रीष्मे वाहयित्वा महाव्रुषान्‌ |
श्रान्तस्य निर्जलेरण्ये क्षीणप्रायमभूदहः ॥ २२७ ॥
ततः स्वामिग्रहात्क्षुत्रुतट्खिन्नस्य भवतोन्तिकम्‌ ।
वारिकुम्भीमपूपं च ग्रुहीत्वा कश्चिदाययौ ॥ २२८ ॥
निर्धौतपाणिपादस्त्वं मोक्तुं संप्रस्तुतस्ततः।
विप्रं कण्ठगतप्राणमपश्यः पुरतोतिथिम्‌ ॥ २२९. ॥

<poem>

स त्वामवोचन्मा भुङ्क्ष्व दुर्भिक्षोपहतस्य मे ।
कण्ठे यियासवः प्राणा वर्तन्ते भोजनं विना ॥ २३० ॥
वारितः पार्श्वगेनाआपि तस्मै त्वं प्रीतिपू्ैकम्‌ ।
पूपार्धं वारिकुम्भीं च प्रादाः प्रियमुदीरयन्‌ ॥ २३१ ॥
पात्रे प्रसन्नचित्तस्य काले दानेन तेन ते ।
अखण्डितानामाज्ञानां शतमासीत्रिविष्टपे ॥ २३२॥
तेन वारिप्रदानेन वाञ्छामात्रेपि दर्शिते।

प्रादुर्भवन्ति सुस्वादा नद्यो मरूपथेष्वपि ॥ २३३ ॥
सत्क्षेत्रप्रतिपदितः प्रियवचोबद्धालावालावलि-
निर्दोषेण मनःप्रसादपयसा निष्पन्नसेकक्रियः।
दातुस्तत्तदभीप्सितं किल फलन्कालेतिबालोप्यसौ
राजन्दानमदीरुदो विजयते कल्पद्रुमादीनपि ॥ २३७ ॥
अल्पावशोषास्तास्त्वद्य सन्त्याज्ञास्तव भूपते ।
वचोलङ्घ्यं क्षपयतो यत्र तत्राविचारतः ॥ २२५ ॥
अपि चेतरभूपालसुलभं महतः सतः।
कस्माव्दिचारशून्यत्वं तवापि ह्रुदि रोहति ॥ २३६ ॥
दिनानि कतिचिद्यानि कश्मिरेषु घनागमे ।

जायन्ते तानि पूर्वाब्धौ फलानि शिशिरे कुतः ॥ २३७ ॥
विगाहसे दिशं यां यां तत्र तत्रैव तत्पतेः ।
त्वदाज्ञाग्रहणे यत्न्ः पूवदानप्रभावतः ॥ २३८ ॥
आशां श्रितस्य माहेन्द्रीमाज्ञा स्वल्पापि तेधुना ।
गृहीता कथमप्येषा राक्रेणाभग्नशक्तिना ॥ २२९ ॥
विना प्रयोजनं मुख्यं तस्मादाज्ञास्त्वया क्वचित्‌ ।
नैवमेव पुनर्देया विरलाः सन्ति ता यतः ॥ २७० ॥

</poem>


इत्युक्त्वान्तर्हिते तस्मिन्भूपालो विपुलाशयः ।
चिन्तयन्दानमाहात्म्यं परं विस्मयमाययौ ॥ २७१ ॥
ततः प्रभृति ताद्रुक्षयोग्यार्थेप्राप्तिलालसः।
परिहासपुरे चक्रे स्थिरां गुर्वी स पर्विणीम्‌ ॥ २४२ ॥
सहस्रभक्तमित्येवं प्रख्यातायां सदक्षिणम्‌ ।
लक्षमेकोत्तरं भक्तपात्राणां यत्र दीयते ॥ २४३ ॥
अभिप्रायेण तेनैव पत्तनान्यूषरेषु सः।
चक्रे यद्येषु तृष्णार्तः कश्चिज्जितु पिबेदपः ॥ २४४ ॥
संजग्राह स देशेभ्यस्तांनन्तरविन्नरान्‌ ।
विकचान्सुमनःस्तोमान्पादपेभ्य इवानिलः ॥ २४५ ॥
तेन कङ्कणवर्षस्य रससिद्धस्य सोदरः ।
चङ्कुणो नाम भुःखारदेशानीतो गुणोन्नतः ॥ २४७६ ॥
स रसेन समामातन्वन्कोरो बहुसुवर्णताम्‌ ।
पद्माकरः इवानजस्य भूभ्रुतोभूच्छुभावहः ॥ २७७ ॥
रुद्धः पञ्चनदे जातु दुस्तरैः सिन्धुसंगमैः ।
तटे स्तम्भितसैन्योभूद्राजा चिन्तापरः क्षणम्‌ ॥ २४८ ॥
ततोम्बुतरणोपायं तस्मिन्प्रुच्छति मन्त्रिणः ।
अगाधेम्भसि रोधस्थङ्कुणो मणिमक्षिपत्‌ ॥ २४९ ॥
तत्प्रभावाव्द्विभूतं सरिन्निरं ससैनिकः ।
उत्तीणों न्रुपतिस्तूर्णं परं पारं समासदत्‌ ॥ २५० ॥
मणिमन्येन मणिना चङ्क्कुणोप्याचकषे तम्‌ ।
सलिलं पागवस्थं च क्षणेन सरितामभूत्‌ ॥ २५१ ॥
परिभाव्याभ्दुतं तत्स पशंसामुखराननः ।
प्रणयाञ्चङ्कुणं राजा मणियुग्ममयाचत ॥ २५२ ॥

 
स तमाह स्म विहसन्कर्मेमौ कुरूतो मणी ।
योग्यौ मत्पाणिगावेव किं स्यात्स्वीकरणेन वः ॥ २५३ ॥
सामान्येष्वेव लभते सोत्कर्षं वस्तु संप्रथाम्‌
महत्सु तस्य का शोभा विविधोत्क्रुष्टवस्तुषु ॥ २५७ ॥
प्रस्यन्दनं शशिमणेर्गणयन्ति ताव-
द्यावत्स्थितो जलनिधेः पुलिनैकदेशे ।
स स्वीक्रियेत यदि तेन ततस्तदास्य
स्यन्दः स्फुरन्नपि न तत्सलिले विभाव्यः ॥ २५५ ॥
इत्युक्त्वा विरते तस्मित्राजा सस्मितव्रवीत्‌ ।
संभावयसि किं रत्नमाभ्यामभ्यधिकं मम ॥ २५६ ॥
अतोधिकतरं यद्वा किचित्वं मम पश्यसि ।
तदादाय प्रयच्छेदं निष्क्रयेण मणिद्धयम्‌ ॥ २५७ ॥
ततो महान्प्रारसादोयमित्युक्त्वा चङ्कुणोव्रवीत्‌ ।
स्वायत्ते स्वामिनो रत्ने मह्यमिष्टं तु दीयताम्‌ ॥ २५८ ॥
गजस्कन्धेधिरोप्यैतन्मागधेभ्यो यदाह्रुतम्‌ ।
द्त्वा सुगतबिम्बं तज्जनोयमनुग्रुह्यताम्‌ ॥ २५९ ॥
सलिलोत्तरणोपायो मणी देवेन गृह्यताम्‌ ।
संसारोत्तरणोपायः सुगतो मह्यमर्प्यताम्‌ ॥ २६० ॥
इति तेनार्थितो युत्क्या जिनबिम्बं ददौ नृपः ।
वाग्मिनां कस्य सामर्थ्यं परिपन्थयितुं वचः ॥ २६१ ॥
स्वविहारेथ भगवान्स तेन विनिवेशितः ।
कपिशाभिः सकापाय इव यो भाति कान्तिभिः ॥ ८६
द्रुस्यतेद्यापि कटकैरायसेः परिवेष्टितः ।
गजस्कन्धनिवद्धस्य सूचको यस्य विष्टरः ॥ २६३ ॥
 

१ मगघेभ्यो इति सात्‌ ।


अभिप्रायानुसारेण प्रकटीकुरुते प्रियम्‌ ।
अहो महाप्रभावानां भूपतीनां वसुंधरा ॥ २६४ ॥
अरिक्षितं कदाचित्स स्वयं दमयितुं हयम्‌ ।
निनायारण्यमेकाकी हयविद्याविशारदः ॥ २६५ ॥
दूरान्निर्मानुषे तत्र ललनां ललिताक्रुतिम् ।
एकां ददर्श गायन्तीं न्रुत्यन्तीमपरामपि ॥ २६६ ॥
क्षणाच्च ते समापय्य गीतनृत्ते म्रुगीद्रुशौ ।
प्रणम्य किचिन्दच्छन्त्यावपश्यद्दमन्हयम्‌ ॥ २६७ ॥
तुरगं तं समारुह्य तत्रागच्छद्दिने दिने ।
द्रष्ट्वा तथेव ते कान्ते गत्वापृच्छत्सविस्मयः ॥ २६८ ॥
तमूचतुस्ते नर्तक्यावावां देवग्रुहाश्रिते ।
यः शूर वर्धमानोयं ग्रमस्तत्रावयोर्ग्रुहम्‌ ॥ २६९ ॥
इहत्यजीवनभुजां मातृणामुपदेशतः ।
अस्मत्कुलेन नियतं न्रुत्तमत्र विधीयते ॥ २७० ॥
रूढिः परम्परायाता सेयमस्मग्द्रुहे स्थिता ।
आवामन्योपि वा नात्र निमित्तं ज्ञातुमीश्वरः ॥ २७१ ॥
एवं वचस्तयोः श्रुत्वा न्रुपोन्येद्युः सविस्मयः ।
तदुक्त्या मेदिनीं क्रुत्स्नां कारुभिर्निरदारयत्‌ ॥ २७२ ॥
दूरं निह्रुतम्रुभ्दिस्तैरथाद्राक्षीन्निवेदितम्‌ ।
न्रुपतिः पिहितद्वारं जीर्णं देवग्रुहद्धयम्‌ ॥ २७३ ॥
उद्धाटिताररिर्वर्णैः पीठोत्कीर्णैर्निवेदितौ ।
अपश्यत्केशवौ तत्र रामलक्ष्मणनिर्मितौ ॥ २७४ ॥
परिहासहरेः पाश्वे पृथक्क्रुत्वा शिलाग्रुहम्‌ ।
स रामस्वामिनः श्रीमान्प्रतिष्ठाकर्म निर्ममे ।॥ २७५ ॥


देवोपि लक्ष्मणस्वामी तथैवाभ्यर्थ्य पार्थिवम्‌ ।
चक्रमर्दिकया चक्रेश्वरपार्श्वे निवेशितः ॥ २७६ ॥
दिग्जये पुरूषः कश्चिध्द्रुत्तप्रत्यग्रनिग्रहः ।
अग्रे न्यक्षिपदात्मानं गजारूढस्य भूभुजः ॥ २७७ ॥
तं कृत्तपाणिघ्राणादिव्रणैः शोणितवार्पिणम्‌ ।
त्रणार्थिनं कारुणिकः स्वोदन्तं पृष्टवान्न्रुपः ॥ २७८ ॥
स तस्मै सिकतासिन्धुसविधस्थस्य भूपतेः ।
प्रख्यातमूचे सचिवमात्मानं हितकारिणम्‌ ॥ २७९ ॥
प्रणतिर्ललितादित्यन्रुपतेः क्रियतामिति ।
हितं कथयतः स्वस्य निग्रहं च ततो न्रुपात्‌ ॥ २८० ॥
प्रतिजज्ञे च भूपेन ततस्तत्स्वामिनिग्रहः।
रूढब्रणोगदंकारै स चाकार्यत सत्कृतैः ॥ २८१ ॥
ततो विहितयात्रं तं स मन्त्रि कृतसत्क्रियः ।
कदाचिदेवमवदव्दिजने जगतीभुजम्‌ ॥ २८२ ॥
एवंविधस्य कायस्य राजन्यत्परिक्षणम्‌ ।
तत्र वैरविशुध्द्याशा विडम्बयति मामियम्‌ ॥ २८२३ ॥
बाष्पैर्जलाञ्जलिं दत्त्वा दुःखाय च सुखाय च।
कृतकृत्यो ध्रुवं जह्यादवमानहतानसून्‌ ॥ २८४ ॥
अपरृत्याधिकं शत्रोरपकारं जयेन्मितम्‌ ।
गम्भीरं प्रतिनद्येव निनादं नदतो गिरिः ॥ २८५ ॥
इतो मासेखिभिर्गम्या भूः प्राप्या त्वरितं कथम्‌ ।
यद्‌ वा प्राप्यते वैरी तदा तत्रैव किं वसेत्‌ ॥ २८६ ॥
मासार्घलङ्घयं पन्थानं तस्मादुपदिशामि ते। ग्रुहीत्वा स जलं गभ्यश्चमूनां किंतु निर्जलः ॥ २८७ ॥


तद्धूमिजा वन्धवो मे न वक्ष्यन्ति त्वदागमम्‌ ।
सामात्यान्तःपुरो राजा छद्मनानेन गृह्यते ॥ २८८ ॥
इत्युक्त्वा सोकरोत्तस्य प्रवेशं वालुकार्णवे ।
पक्षे क्षीणे च कटको निस्तोयः समपद्यत ॥ २८९. ॥
तत्राप्यहानि द्वित्राणि वहन्नेवाभवन्रुपः ।
तृष्णार्तं वीक्ष्य सैन्यं च मत्रिणं तमभाषत ॥ २९.० ॥
उक्तकालाधिका यावद्वसरा गमिताः पथि ।
मुमूर्षु तृष्णया सैन्यं तदध्वा रिप्यते कियान्‌ ॥ २९१ ॥
ततो विहस्य सोवादीज्जिगीपो शेषमध्वनः ।
किं प्रुच्छत्यरिराष्ट्रस्य यमराष्ट्रस्य वा भवान्‌ ॥ २९२ ॥
त्वं हि स्वामिहितायैव ससुपेक्ष्य स्वजीवितम्‌ ।
सत्युवक्रं स कटको मया युक्त्या प्रवेशितः ॥ २९३ ॥
नेदं मरूमहीमात्रं भीमोयं वालुकार्णवः ।
नाम्भोत्र लभ्यते क्वापि कस्राता तेद्य भूपते ॥ २९४ ॥
श्रुत्वेति पृतना कृत्स्ना समभूद्वीतसौष्ठवा ।
करकाभ्रंशितफला स्तस्बरोषेव शालिभूः ॥ २९५ ॥
संत्यक्तजीविताशानां भीरूणां क्रन्दितध्वनिम्‌ ।
भुजमुद्यम्य शमयंस्ततो न्रुपतिरव्रवीत्‌ ॥ २९६ ॥
अमात्य तव क्रुत्येन प्रीताः स्वामिहितैषिणः ।
मरावप्यत्र शीतार्ता इव रोमाञ्चिता वयम्‌ ॥ २९७ ॥
अभेद्यसारे मयि तु व्यक्तमेवंविधोपि ते ।
प्रयोगः कुण्ठतां यातो लोहं वज्रमणाविव ॥ २९८ ॥
मणिभ्रमाद्वह्लिकणं गृह्णन्दग्धा इवाङ्गुलिः ।
त्वं मिथ्यावयवोल्लूनानद्य रोचिष्यसि ध्रुवम्‌ ॥ २९९ ॥

निदेशोनैव मे पश्यः पयः सूतेद्य मेदिनी ।
रसितेनाम्वुवाहस्य रत्नं वैदूर्यभूरिव ॥ ३०० ॥
इत्युक्त्वा सोम्वु निष्क्रष्टुं कुन्तेनोर्वीं व्यदारयत्‌ ।
उज्जिहीर्षुर्वितस्ताम्भः शूलेनेव त्रिलोचनः ॥ ३०१ ॥
अथोज्जगाम पाताललक्ष्मीलीलास्मितच्छाविः ।
रसातलात्सरित्साकं सैन्यानां जीविताशया ॥ ३०२ ॥
तस्य सेनाचराणां सा क्लमं चिच्छेद वाहिनी ।
बृथाब्ययीकृताङ्गस्य मन्त्रिणस्तस्य चेप्सितम्‌ ॥ ३०३ ॥
  लूनाङ्गोमङ्गलाशंसी स मन्त्री विफलश्रमः |
स्वस्य भर्तुर्विवेशदौ नगरीमन्तकस्ततः ॥ २०४ ॥
राज्ञापि कुटिलाचारो निगृह्य स महीपतिः
निजस्य मन्रिणस्तस्य तुल्यावस्थो व्यधीयत ॥ २०५ ॥
यथोपयोगं तेनैव स्थाने स्थाने प्रवर्तिताः ।
अद्यापि कुन्तवाहिन्यः प्रवहन्त्युत्तरापथे ॥ ३०६ ॥
सहस्रशः संभवन्तोप्यपरे भुवनाद्भुताः ।
अतिप्रसङ्गभङ्गेन तद्रृत्तान्ता न दिर्शिताः ॥ ३०७ ॥
यन्निःरब्दजला घनाश्मपरुपे देशोतिघोरारवा
यच्चच्छाः समये पयोदमलिने कालुष्यसंदूषिताः ।
द्रुश्यन्ते कुलनिम्नगा अपि परं दिग्देशकालाविमौ
तत्सत्यं महतामपि स्वसद्रुशाचारप्रवृत्तिप्रदौ॥ २०८ ॥
कलेर्वायं प्रभावः स्यान्नरनाथासनस्य वा ।
यत्सोपि भीमकलुपाः प्रबृत्तीः समदर्शयत्‌ ॥ ३०९ ॥
युग्मम्‌ ॥
अवरोधसखो राजा परिहासपुरे स्थितः ।

स जातु मदिराक्षीवः सचिवानेवमन्वशात् ॥ २१० ॥
१६

कृतं प्रवरसेनेन यदेतत्प्रवरं पुरम्‌ ।
तन्निर्दहथ मन्यध्वे मत्पुरस्यैव चेच्छ्रियम्‌ ॥ ३१९ ॥
घोरामलङ्घिताज्ञस्य श्रुत्वेत्याज्ञां महीपतेः ।
गत्वाश्वघासकूटानि तेदहन्वातुलानके ॥ ३१२ ॥
हर्म्याग्राद्वीक्षमाणस्तद्वह्निज्वालोज्वलाननः ।
उल्कामुख इवाभूत्स हर्षाट्ट्हसितोत्कटः ॥ २१२ ॥
 द्वेषादिवैकृतवतः प्रतिभासतेन्यो
मिथ्यैव चित्रमधिको विशदात्मनोपि ।
चन्द्रादि पश्यति पुरो द्विगुणं प्रकृत्या
तेजोमयं तिमिरदोषहतं हि चक्षुः; ॥ ३१४ ॥
 नैवं चेदेकमपि तत्पुरं ग्रवरभूपतेः!
असंख्यपुरनिर्माता स विवेदाधिकं कुतः ॥ ३९१५ ॥
युग्मम्‌ ॥क्षीणक्षैव्योथ निर्ध्याय नगरप्लोषकिल्विषम्‌ ।
उष्णनिःश्वाससुहृदा पस्पर्शेनुशायाग्निना ॥ २१६ ॥
तत्कुवतेन्तःसुषिरा गुढं येनातनुक्षयम्‌ ।
दह्यन्ते जीर्णतरवः काटस्थानला इव ॥ ३९१७ ॥
प्रातस्तमथ शोचन्तं सदुःस्त्रं वीक्ष्य मन्रिणः।
चिन्तानिवर्तनायोचुः पुरोप्लोषं मृषैव तत्‌ ॥ ३१८ ॥
 श्रुतेप्रनष्टे नगरे निःशोकोभून्महीपतिः ।
स्वप्रान्तर्हारिते पुत्रे प्रवुद्धो्ग्र इव स्थिते ॥ ३१९ ॥
 कार्यं जातु न तद्वाक्यं यत्क्षीवेण मयोच्यते ।
तान्युक्तकारिणोमात्यान्प्रशंसन्निति सोव्रवीत्‌ ॥ ३२० ॥
प्रियमनुचितं क्ष्मापण्यस्त्रिक्षणप्रभुरीश्वरो
रमयति यतो धिक्तान्भृत्यान्स्ववृत्तिसुखार्थिनः

चतुर्थस्तरङ्गः ।

नृपमपथगं पान्ति प्राणानुपेक्ष्य निजानपि
प्रसभमिह ये तैः पूतेयं महात्मभिरुर्वरी ॥ ३२१ ॥
अतीन्द्रमपि माहात्म्यं राशस्तस्याधितिष्ठतः ।
अयमन्योपि दोषोभूदितरक्षितिपोचितः ॥ ३२२ ॥
दत्त्वापि यत्स मध्यस्थं श्रीपरीहासकेशवम् |
जघान तीक्ष्णपुरुषैस्त्रिग्राम्यां गौडपार्थिवम् ॥ ३२३ ॥
गौडोपजीविनामासीत्सत्त्वमत्यद्भुतं तदा ।
जहुर्ये जीवितं धीराः परोक्षस्य प्रभोः कृते ॥ ३२४ ॥
शारदादर्शनमिषात्कश्मीरान्संप्रविश्य ते ।
मध्यस्थदेवावसथं संहताः समवेष्ट्रयन् ॥ ३२५ ॥
दिगन्तरस्थे भूपाले प्रविवेक्षूनवेक्ष्य तान् ।
परिहासहरिं चक्रुः पूजकाः पिहिताररिम् ॥ ३२६ ॥
ते रामस्वामिनं प्राप्य राजतं विक्रमोर्जिताः ।
परिहासहरिभ्रान्त्या चक्रुरुत्पाट्य रेणुशः ॥ ३२७ ॥
तिलं तिलं तं कृत्वा च चिक्षिपुर्दिक्षु सर्वतः |
नगरान्निर्गतैः सैन्यैर्हन्यमानाः पदे पदे ॥ ३२८ ।।
श्यामला रक्तसंसिक्तास्तेपतन्निहता भुवि ।
अञ्जनाद्भिदृषत्खण्डा धातुस्यन्दोज्वला इव ॥ ३२९ ॥
तदीयरुधिरासारैः समभूदुज्वलीकृता ।
स्वामिभक्तिरसामान्या धन्या चेयं वसुंधरा ॥ ३३० ॥
वज्राद्वज्रकृतं भयं विरमति श्रीः पद्मरागाद्भवे-
नानाकारमपि प्रशाम्यति विषं गारुत्मतादश्मनः ।
एकैकं क्रियते प्रभावनियमात्कर्मेति रत्नैः परं
पुंरत्नैः पुनरप्रमेयमहिमोन्नद्धैर्न किं साध्यते ॥ ३३१ ॥
१ प्रविविक्षून् इत्युचितम् ।

१२३ १२४ राजतरङ्गिणी

क्व दीर्घकाललङ्घयोध्वा शान्ते भक्तिः क्व च प्रभौ ।
विधातुरप्यसाध्यं तद्यद्गौविहितं तदा ॥ ३३२॥
लोकोत्तरस्वामिभक्तिप्रभावानि पदे पदे ।
तादृशानि तदाभूवन्भृत्यरत्नानि भूभृताम् ॥ ३३३ ॥
राशः प्रियो रक्षितोभृगौडराक्षसविलवे ।
रामस्वाम्युपहारेण श्रीपरीहासकेशवः ॥ ३३४ ॥
अद्यापि दृश्यते शून्यं रामस्वामिपुंरास्पदम् ।
ब्रह्माण्डं गौडवीराणां सनाथं यशसा पुनः ॥ ३३५ ॥
एवं नानाविधोदन्तैर्वासराः क्षमापतेर्ययुः ।
विरलाः स्वपुरे तस्य भूयांसस्तु दिगन्तरे ॥ ३३६ ॥
अनन्याक्रान्तपृथिवीसमालोकनकौतुकी ।
अपारं प्रविवेशाथ पुनरेवोत्तरापथम् ॥ ३३७ ॥
कर्तुं प्रभावजिज्ञासां प्रहितैर्धनदादिभिः ।
नैरृतैः सह वृत्तान्तास्तस्य ते ते तदाभवन् ॥ ३३८ ॥
नाद्यापि या भुवो दृष्टा जाने भानुकरैरपि ।
राज्ञस्तस्य बभूवाज्ञा तत्र स्वैरविहारिणी ॥ ३३९ ॥
चिरमज्ञातवृत्तान्तैर्मन्त्रिभिः प्रहितस्ततः ।
प्रत्यावृत्तस्तस्य पार्श्वाद्दूतस्तानेवमुक्तवान् ॥ ३४० ॥
इत्यादिशति वः स्वामी कोयं मोहो भवादृशाम् ।
क्ष्मामिमां मे प्रविष्टस्य प्रतीक्षध्वे यदागमम् ॥ ३४१ ॥
नवं नवं प्रतिदिनं संत्यज्य विजयार्जनम् ।
स्वराष्ट्रं संप्रविष्टस्य किं कार्य मम पश्यथ ॥ ३४२ ॥
विनिर्गतानां स्वभुवः सरितां सलिलाकरः ।
न निर्व्याजजिगीषूणां दृश्यते ह्यवधिः क्वचित् ॥ ३४३ ॥

१ सुरास्पदम् इति स्यात् । चतुर्थस्तरङ्गः ।

तस्मादाचारसारं वो वक्ष्ये स्वविषयोचितम् ।
राज्यं तदनुसारेण निर्विघ्नं कुरुतानघाः ॥ ३४४ ॥
अत्रस्थैः सर्वदा रक्ष्यः स्वभेदः प्रभविष्णुभिः ।
चार्वाकाणामिवैषां हि भयं न परलोकतः ॥ ३४५ ॥
अपराधं विनाप्यत्र दण्ड्या गहरवासिनः ।
ते हि संभृतवित्ताः स्युर्दुर्भेद्या दुर्गसंश्रयाः ॥ ३४६ ॥
वर्षीपभोग्यान्यन्नानि क्षेत्रभूसंमिता वृषाः ।
ग्राम्याणां नातिरिच्यन्ते यथा कार्य तथासकृत् ॥ ३४७ ॥
अधिकीभूतवित्ता हि वत्सरेणैव ते भृशम् ।
भवेयुर्डामराः क्रूरा नृपाज्ञातिक्रमक्षमाः ॥ ३४८ ॥
वस्त्रं स्त्रियः कुथा भोज्यमलंकारा हया ग्रहाः |
आसाद्यन्ते यदा जातु ग्रामीणैर्नगरोचिताः ॥ ३४९ ॥
मदाद्दुर्गाण्युपेक्ष्यन्ते संरक्ष्याणि यदा नृपैः ।
यदा चानन्तरशत्वं तेषां भृत्येषु दृश्यते ॥ ३५० ॥
प्रदेशादेकतो रूढा यदा वृत्तिश्च शस्त्रिणाम् ।
अन्योन्योद्वाहसंबन्धैः कायस्थाः संहता यदि ॥ ३५१ ॥
कर्मस्थानानि वीक्षन्ते क्षमापाः कायस्थवद्यदा |
तदा निःसंशयं ज्ञेयः प्रजाभाग्यविपर्ययः ॥ ३५२ ॥
चकलकम् ॥
चेष्टानुसारेणोन्नीय गूढमाशयसंविदम् ।
मयोक्तं हृदये कार्यमन्तरं राजवीजिनाम् ॥ ३५३ ॥
प्रत्यासत्तिं मदकरटिनो दानगन्धेन वायु-
गर्जोद्भूति प्रकटितरुचिश्चञ्चलेवाम्बुदस्य ।
चेष्टा स्पष्टं वदति मतिमन्नैपुणोन्नेयतत्त्वा
जन्तोर्जन्मान्तरपरिचितां निश्चलां चित्तवृत्तिम् ॥ ३५४ ॥

१२५ १२६ राजतरङ्गिणी

पुत्रः कुवलयादित्यो वज्रादित्यश्च मे समौ ।
भिन्नशीला तयोर्भ्रात्रोर्धीद्वैमातुरयोः पुनः ॥ ३५५ ।।
ज्यायान्त्राज्येभिषेक्तव्यः स च स्याद्बलवान्यदा |
तस्याज्ञातिक्रमः कार्यो भवद्भिनियमात्तदा ॥ ३५६ ॥
उत्सृजञ्जीवितं वापि राज्यं वापि स पार्थिवः ।
शोचनीयो न केनापि स्मरतेदं वचो मम ॥ ३५७ ॥
कार्यः कनीयान्न नृपः प्रमादात्क्रियते यदि ।
नोल्लङ्घनीया तस्याज्ञा रक्ष्यश्च विषमोपि सः ॥ ३५८ ॥
पौत्रेषु मे कनीयान्यो जयापीडोस्ति दारकः ।
पितामहसमो भूया इति वाच्यः स सर्वदा ॥ ३५९ ॥
भर्तुर्गृहीतनैराश्याः साभिप्रायां प्रणम्य ताम् ।
आनर्चुः पश्चिमामाज्ञां ते बाष्पार्धकणत्यजः ॥ ३६० ॥
उवाच चङ्कुणो जातु संनिपत्याखिलाः प्रजाः ।
बाष्पैः पतिवियोगाग्नितप्तां सिञ्चन्वसुंधराम् ॥ ३६१ ॥
राज्ये कुबलयापीडो राजपुत्रोभिषिच्यताम् ।
सुगृहीताभिधो राजा गतः स सुकृती दिवम् ॥ ३६२ ॥
ससृजे यस्य कृतिनो दैवतैः कोशवृद्धये ।
रससिद्धिरकस्मान्मे यस्मात्सास्तमुपागता ॥ ३६३ ॥
दूरस्थोपि हि भूभृत्स भाग्यशक्त्या कयाचन |
कार्याणि घटयन्नासीद्दुर्घटान्यपि हेलया ॥ ३६४ ॥
अम्भोजानि घनाघनव्यवहितोप्युल्लाघयत्यंशुमा-
न्दूरस्थोपि पयोधरोतिशिशिरस्पर्श करोत्यातपम् ।
शक्तिः काव्यपरिक्षतास्ति महतां स्वैरं दविष्ठान्यहो
यन्माहात्म्यवशेन यान्ति घटनां कार्याणि निर्यत्रणाम् ॥३६५॥

1 चतुर्थस्तरङ्गः ।

सैकादशदिनान्सप्त मासान्तं समाः ।
एवमाह्लाद्य स महीं प्रजाचन्द्रोस्तमाययौ ॥ ३६६ ॥
तुषारवर्षैर्बहलैस्तमकाण्डनिपातिभिः ।
आर्याणकाभिधे देशे विपन्नं केचिदूचिरे ॥ ३६७॥
राजप्रष्टः प्रतिष्ठां स रक्षितुं चिरसंचिताम् ।
संकटे क्वापि दहनं प्राविक्षदिति केचन ॥ ३६८ ॥
केषांचित्तु मते भूभृहवीयस्युत्तरापथे ।
सोमर्त्यसुलभां भूमिं प्रविष्टः कटकान्वितः ॥ ३६९ ॥
अत्यद्भुतानि कृत्यानि श्रुतान्यस्य यथा किल ।
विपत्तिरपि भूभर्तुस्तथैवात्यद्भुता श्रुता ॥ ३७० ॥
यातोस्तं द्युमणिः पयोधिसलिलं कैश्चित्प्रविष्टोपरैः
संप्राप्तो दहनं गतः किल परैर्लोकान्तरे कीर्त्यते ।
जायन्ते महतामहो निरुपमप्रस्थानहेवाकिनां
निःसामान्यमहत्त्वयोगपिशुना वार्ता विपत्तावपि ॥ ३७१ ॥
ततः कुवलयापीडो भेजे कुवलयेशताम् ।
जातः कमलदेव्या यः श्रीमाञ्शक इवादितेः ॥ ३७२ ॥
त्यागेन चक्रे विशदां योनुरक्तां नृपश्रियम् ।
महोरगस्त्वचमिव स्वभावमलिनामपि ॥ ३७३ ॥
भ्रात्रा तुल्यप्रभावेन कंचित्कालं हृतप्रभः ।
स हुताशोष्मणाक्रान्तः प्रदीप इव नारुचत् ॥ ३७४ ॥
भृङ्गैरिवानु गैर्दानलोभात्पर्यायवृत्तिभिः ।
श्रीर्दुस्थाभूत्तयोरन्तर्मत्तेभकटयोरिव ॥ ३७५ ॥
अथोभयधनादायिभृत्यचक्रिकया समम् ।
राजा कुवलयापीडो बभञ्जानुजमञ्जसा ॥ ३७६ ॥

१२७ १२८ राजतरङ्गिणी

राज्यं निष्कण्टकं कृत्वा ततः प्राप्तवलो नृपः ।
दिग्जयायोर्जितक्रान्तिः सोभूत्संभृतसाधनः ॥ ३७७ ॥
एकस्तस्मिन्क्षणे मन्त्री तस्याज्ञामुद्लङ्घयत् ।
स्मरन्वा तत्पितुर्वाचं भजन्वा दर्पविक्रियाम् ॥ ३७८ ।।
प्राप्तायामथ यामिन्यां तल्पे कोपाकुलो नृपः ।
तमाशातिक्रमं ध्यायन्न निद्रां क्षणमप्यगात् ॥ ३७९ ॥
एवं कृतागसं हन्तुं सस्पृहस्य तदाश्रयात् ।
वहवः प्रत्यभासन्त वध्यास्तस्योद्यतत्रुधः ॥ ३८० ॥
विचारशैलमथितात्तस्य चित्तमहोदधेः ।
प्रकोपकालकूटस्य पश्चाच्छमसुधोद्गात् ॥ ३८१ ॥
दध्यौ सोध गतक्रोधः प्रवृद्धः प्राणिसंक्षयः ।
एतावान्कस्य नु कृते कर्तव्यः प्रत्यभान्मम ॥ ३८२ ||
अकार्याण्यपि पर्याप्य कृत्वापि वृजिनार्जनम् ।
विधीयते हितं यस्य स देहः कस्य सुस्थिरः ॥ ३८३ ॥
कृतघ्नस्यास्य कायस्य हेतोरगलितस्मृतेः ।
हन्तव्याः कस्य पन्थानः प्रतिभान्त्यनपायिनः ॥ ३८४ ॥
विदन्ति जन्तवो हन्त पच्यमानस्य नात्मनः ।
अवस्थां कालसूदेन कृतां तां तां क्षणे क्षणे ॥ ३८५ ॥
हाः पश्यद्भिरकरणस्मितसितं पाथोजकोशाकृति
इमश्रृद्धोधकठोरमद्य रभसादुत्तप्तताम्रप्रभम् ।
प्रातर्जीर्णवलक्ष केशविकृतं वृद्धाजशीर्पापमं
वक्रं नः परिहस्यते ध्रुवमिदं भूतैश्चरस्थास्नुभिः ॥ ३८६ ॥
इत्याद्यनित्यताचिन्तादत्तशान्तिसुखादरः ।
राज्यं संत्यज्य स वनं प्रस्रवणं ययौ ॥ ३८७ ॥

चतुर्थस्तरङ्गः ।

गच्छ भद्र वनायैव तपस्याधीयतां मनः ।
सापायाः क्षणभङ्गिन्य एवंप्राया विभूतयः ॥ ३८८ ॥
तेन संत्यजता राज्यं लिखितेन निजासने ।
वैराग्यवासनोत्सेकः श्लोकेनानेन सूचितः ॥ ३८२ ॥
अभग्नशम संवेगलब्धसिद्धिर्नराधिपः ।
श्रीपर्वतादावद्यापि भव्यानामेति दृक्पथम् ॥ ३९० ॥
तथा याते प्रभोः पुत्रे मित्रशर्मा शुचान्वितः ।
वितस्तासिन्धुभेदे सभार्यो जीवितं जहौ ॥ ३९१ ॥
राज्यं समां समासार्धं कृत्वा स वसुधाधिपः ।
निःश्रेयसाप्तिनिःश्रेणी सुधीः सिद्धिं समासदत् ॥ ३९२ ॥
वज्रादित्यो वप्पियको ललितापीड इत्यपि ।
ख्यातोथ भूभृदभवद्यन्माता चक्रमर्दिका ॥ ३९३ ॥
स क्रूरचरितो भ्रातुः प्रजाह्लादविधायिनः ।
सुधांशोरिव दुर्वासा नूनं विसदृशोभवत् ॥ ३९४ ॥
परिहासपुरात्पित्र्यां नानोपकरणावलीम् ।
स जहार दुराचारो भूभृल्लोभवशंवदः ॥ ३९५ ॥
रागिणो भूमिपालस्य भूयस्योन्तःपुरस्त्रियः ।
बीजाश्वस्येव वडवास्तास्ताः समभवन्प्रियाः ॥ ३९६ ॥
विक्रयेण प्रयच्छन्स म्लेच्छेभ्यः पुरुषान्चहून् ।
म्लेच्छोचितां व्यवहृतिं प्रावर्तयत मण्डले ॥ ३९७ ॥
सप्ताब्दान्वसुधां भुक्त्वा सोतिसंभोगजन्मना ।
जगाम संक्षयं क्ष्माभृत्क्षयरोगेण किल्बिषी ॥ ३९८ ॥
तस्मान्मञ्जरिकादेव्या जातो राजा प्रजान्तकः ।
ततः पृथिव्यापीडोभूत्समासाश्चतुरः समाः ॥ ३९९ ॥

१७ १२९ १३० राजतरङ्गिणी

जातो मम्माभिधानायां वप्पियात्सप्त वासरांन् ।
संग्रामापीडनामाथ तमुत्पाट्याभवन्नृपः ॥ ४०० ॥
भ्रातरौ तौ समासाद्य राज्यं नैव व्यराजत ।
हेमन्तशिशिरावाप्य चण्डांशोरिव मण्डलम् ॥ ४०१ ॥
शान्तेथ संग्रामापीडे कनीयान्वप्पियात्मजः ।
राजा श्रीमाञ्जयापीडः प्राप राज्यं ततः क्रमात् ॥ ४०२ ॥
पितामहसमो भूया इत्यमात्यवचः स्मरन् ।
जिगीषुः संभृतबलो दिग्जयाय स निर्ययौ ॥ ४०३ ॥
स्वदेशादेव नयविद्वशं नीतैः समं नृपैः ।
वृद्धान्पप्रच्छ निर्गच्छन्कश्मीरद्वारगोचरान् ॥ ४०४ ॥
पितामहस्य नः सैन्यं कियन्निर्गच्छतोभवत् ।
इति ब्रूताद्य यात्रासु यूयं संख्यातसैनिकाः ॥ ४०५ ॥
कृतस्मितास्तमृचुस्ते किं प्रश्नामुना प्रभो ।
वस्तु कश्चिदतिक्रान्तं नानुकर्तु क्षमोधुना ॥ ४०६ ॥
कर्णीरथानां तस्यासीत्सपादं लक्षमीशितुः ।
अशीतिस्तु सहस्राणि देवस्याद्य जयोद्यमे ॥ ४०७ ॥
तदाकर्ण्य जयापीडो बहु मेने न निर्जयम् ।
क्षिप्रं क्षितेः संकुचन्त्याः कालस्य बलवत्तया ॥ ४०८ ॥
जिगीषोः क्षमाभुजस्तस्य भावमालोक्य तादृशम् ।
दध्युर्भावज्ञतां वृद्धा ललितादित्यभूपतेः ॥ ४०९ ॥
तस्य दूरप्रयातस्य स्यालो जज्जाभिधो बलात् ।
द्रोहेणाक्रम्य कश्मीरान्स्वयं भेजे नृपासनम् ॥ ४१० ॥
दिने दिने राजसैन्यात्स्वदेशस्मारिणस्ततः ।
सैनिकाः स्वा न्यवर्तन्त स्वामिभक्तिपराङ्मुखाः ॥ ४११ ॥

१ वत्सरान् इति स्यात् ।

प्रख्यापयिष्यन्स्वामेव शक्तिं परिकरं विना ।
निश्चिकाय जयापीडो युक्तां कांचित्तु संविदम्‌ ॥ ४१२॥
अभङ्गुरास्तेभिमानास्तस्यैवासन्मनस्विन:|
अत्यवर्तत यैरेष वैधात्रीरपि वामता: ॥ ४१३ ॥
स विसृज्य भुवं स्वां स्वां भूपतीननुयात्रिकान् ।
प्रयागमगमत्स्यैन्यै: परिमेयैर्निजै: समम्‌ ॥ ४१४ ॥
तत्रावशिष्टान्नुच्चित्य वाजिन: स मनोजवान्‌ ।
द्विजेभ्यो लक्षमेकोनं प्रददौ भूरिदक्षिणम्‌ ॥ ४१५ ॥
संपूणेमन्यो लक्षं यः प्रदद्यादत्र वाजिनाम्‌ ।
तन्मुद्रयेयं मन्मुद्रा विनिवार्येत्युदीर्य च ॥ ४१६॥
श्रीजयापीडदेवस्येत्यक्षरैरुपलक्षिताम् |
दिग्देशगामिनो मुद्रां गाङ्गस्य पयसो ददौ ॥ ४१७ ॥
तन्मुद्राङ्कं पयः पीत्वा गाङ्गमद्यापि निर्मलम्‌ ।
चित्ते प्रवर्धते तापो भूपानामभिमानिनाम्‌ ॥ ४१८ ॥
स्वदेशगमनानुज्ञां सैन्यस्याप्तमुखेन सः ।
दत्वा निशायमेकाकी निर्ययौ कटकान्तरात्‌ ॥ ४१९ ॥
मण्डलेषु नरेन्द्राणां पयोदानामिवार्यमा
॥ ४२०॥
गोडराजाश्रयं गुप्तं जयन्ताख्येन भूभुजा ।
प्रविवेश क्रमेणाथ नगरं पौण्ड्रवर्धनम् ॥ ४२१ ॥
तस्मिन्सौराज्यरम्याभि: प्रीत: पौरविभूतिभिः।
लास्यं स द्रष्टुमविशत्कार्तिकेयनिकेतनम् ॥ ४२२ ॥
भरतानुगमालक्ष्य नृत्तगीतदि शास्त्रवित् ।
ततो देवगृहद्वारशिलमध्यास्त स क्षणम्‌ ॥ ४२३ ॥

तेजोविशेषचकितैर्जनैः परिहृतान्तिकम् ।
नर्तकी कमला नाम कान्तिमन्तं ददर्श् तम्‌ ॥ ४२४ ॥
असामान्याकृतेः पुंसः सा ददर्श् सविस्मया ।
अंसपृष्ठेथ धावन्तं करं तस्यान्तरान्तरा ॥ ४२५ ॥
अचिन्तयत्ततो गूढं चरन्नेष भवेद्धृवम् ।
राजा वा राजपुत्रो वा लोकोत्तरकुलोद्भवः ॥ ४२६ ॥
एवं ग्रहीतुमभ्यासः पृष्टस्थाः पर्णवीटिकाः ।
अंसपृष्ठेन येनायं लसत्पाणिः प्रतिक्षणम् ॥ ४२७ ॥
लोलश्रोत्रपुतटो मदोत्कमधुपापातात्ययेपि द्विपः
सिंहोसत्यपि पृष्ठतः करिकुले व्यावृत्य विप्रेक्षिता ।
मेघोन्मुख्यशमेप्यशान्तवदनोद्गीर्णस्वरो बर्हिण-
श्चेष्टानां विरमेन्न हेतुविगमेप्यभ्यासदिर्घा स्थितिः ॥ ४२८ ॥
इत्यन्तश्चिन्तयन्ती सा कृत्वा संक्रान्तसंविदम्‌ ।
सखीमभिन्नहृदयां विससर्जे तदन्तिकम्‌ ॥ ४२९. ॥
प्राग्वत्पृष्ठं गते पाणौ पूगखण्डांस्तयार्पितान्‌ ।
वक्रे क्षिपञ्जयापीडः परिवृत्य ददर्श ताम्‌ ॥ ४३० ॥
भ्रुसंज्ञयासि कस्य त्वं पृष्टाया इति सुभ्रुवः ।
ददत्या वीटिकशस्तस्या वृत्तान्तमुपलब्धवान्‌ ॥ ४३१ ॥
तया जनितदाक्षिण्यस्तैस्तैर्मधुरभाषितै:।
सख्याः समाप्तनृत्ताया निन्ये स वसतिं शनैः ॥ ४३२ ॥
अग्राम्यपेशलालापा तथा तं सा विलासिनी ।
उपाचरत्परार्ध्यश्रीः सोप्यभूद्विस्मितो यथा ॥ ४३३ ॥
ततः शशाङ्कधवले संजाते रजनीमुखे ।
पाणिनालम्ब्य भूपालं शय्यावेश्म विवेश सा ॥ ४३४ ॥


ततः काञ्चनपर्यङ्कशायी मैरेयमत्तया ।
तयार्थितोपि शिथिलं विदधे नाधरांशुकम् ॥ ४३५ ॥
प्रवेशयन्निव बृहद्वक्षस्तां सत्रपां ततः ।
दीर्घबाहुः समाश्लिष्य स शनैरिदमब्रवीत् ॥ ४३६ ॥
न त्वं पद्मपलाशाक्षि न मे हृदयहारिणी ।
किं तु कालानुरोधायं सापराधं करोति माम्‌ ॥ ४३७ ॥
दासस्तवायं कल्याणि गुणैः क्रीतोस्म्यकृत्रिम् ।
अचिराञ्ज्ञातवृतान्ता ध्रुवं दाक्षिण्यमेष्यसि ॥ ४३८ ॥
कार्यशेषमनिष्पाद्य सज्जं मानिनि कंचन ।
अभोगे कृतसंकल्पं सुखानां त्वमवेहि माम्‌ ॥ ४३९ ॥
तामेवमुक्त्वा पर्यङ्कं साङ्गुलीयेन पाणिना ।
वादयन्निव निःश्वस्य श्लोकमेतं पपाठ सः ॥ ४४० ॥
असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।
अनाक्रम्य जगत्कृस्रं नो संध्यां भजते रविः ॥ ४४१ ॥
श्लोकेनात्मगतं तेन पठितेन महीभुजा ।
सा कलाकुशलाज्ञासीन्महान्तं कंचिदेव तम्‌ ॥ ४४२ ॥
गन्तुकामं च तं प्रातर्नृपं प्रणयिनी बलात्‌ ।
अर्थयित्वा चिरं कालमप्रस्थानमयाचत ॥ ४४३ ॥
एकदा वन्दितुं संध्यां प्रयातः सरितस्तटम्‌ ।
चिरायातो गृहं तस्या ददर्श भृशविह्वलम् ॥ ४४४ ॥
किमेतदिति पृष्टाथ तमूचे सा शुचिस्मिता ।
सिंहोत्र सुमहान्रात्रौ निपत्याहन्ति देहिनः ॥ ४४५ ॥
नरनागाश्वसंहारः कृतस्तेन दिने दिने ।
त्वय्यभूवं चिरायाते तद्भयेन समाकुला ॥ ४४६ ॥

राजानो राजपुत्रा वा तद्भयेन विसूत्रिताः।
गृहेभ्यो नात्र निर्यान्ति प्रवृत्ते क्षणदाक्षणे ॥ ४४७ ॥
तामिति ब्रुवतीं मुग्धां निषिध्य च विहस्य च ।
सव्रीड इव तां रात्रिं जयापीडोत्यवाहयत्‌ ॥ ४४८ ॥
अपरेद्युर्दिनापायो निर्गतो नगरान्तरात्‌
सिंहागमप्रतीक्षोभून्महावटतरोधः ॥ ४४९ ॥
अदृश्यत ततो दूरादुत्फुल्लबकुलच्छविः ।
अट्टहासः कृतान्तस्य संचारीव मृगाधिपः ॥ ४५० ॥
अध्वनान्येन यान्तं तमथ मन्थरगामिनम्‌ ।
राजसिंहो नदन्सिंहं समाह्वयत हेलया ॥ ४५१ ॥
स्तब्धश्रोत्रो व्यात्तवक्रः कम्प्रकूर्चः प्रदीप्तदृक्‌ ।
उदस्तपूर्वकायस्तं सगर्जः समूपद्रवत् ॥ ४५२ ॥
तस्य न्यस्याननबिले कफोणिं पततः छरुधा ।
क्षिप्रकारी जयापीडो वक्षः क्षुरिकयाभिनत् ॥ ४५३ ॥
शोणितं जग्धगन्धेभसिन्दूराभं विमुञ्चता ।
एकप्रहारभिन्नेन तेनात्यज्यत जीवितम्‌ ॥ ४५४ ॥
आमुक्तव्रणपट्टः स कफोणिमथ गोपयन्‌ ।
प्रविश्य नर्तकीवेश्म निशि सुष्वाप पूर्ववत्‌ ॥ ४५५ ॥
प्रभातायां विभावर्यां श्रुत्वा सिंहं दतं नृपः ।
प्रहृष्टः कौतुकाद्रष्टुं जयन्तो निर्ययौ स्वयम्‌ ॥ ४५६ ॥
स दृष्टा तं महाकायमेकप्रहृतिसंहृतम् ।
साश्चर्यो निश्चयान्मेने प्रहर्तारममानुपम्‌ ॥ ४५७ ॥
तस्य दन्तान्तराल्लब्धं केयूरं पार्श्वगार्पितम् ।
श्रीजयापीडनामाङ्कं ददर्शाथ सविस्मयः ॥ ४५८ ॥

स्यात्कुतोत्र स भूपाल इति ब्रुवति पार्थिवे ।
जयापीडागमाशङ्कि पुरमासीद्भयाकुलम् ॥ ४५९. ॥
ततः पौरान्विमृश्यैवं जयन्तः क्षितिपोब्रवित् ।
प्रहर्षावसरे मूढाः कस्माद्वो भयसंभवः ॥ ४६० ॥
श्रुयते हि जयापीडो राजा भुजबलोर्जितः ।
केनापि हेतुना भ्राम्यन्नेकाक्येव दिगन्तरे ॥ ४६१ ॥
राजपुत्रः कल्लट इत्युक्त्वा कल्याणदेव्यसौ ।
तस्मै नियमिता दातुं निष्पुत्रेण सता मया ॥ ४६२॥
सोन्वेष्यश्चेत्स्वयं प्राप्तस्तद्रत्नाहरणेच्छया ।
रत्नद्वीपं प्रतिष्ठासोर्निधानासादनं गृहात्‌ ॥ ४६३ ॥
अस्मिन्नेव पुरे तेन भाव्यं भुवनशासिना ।
ब्रुयादेनं ममान्वेष्य योस्मै दद्यामभीप्सितम् ॥ ४६४ ॥
वाचि सप्रत्ययाः पौरा भूपतेः सत्यवादिनः ।
अन्विष्य कमलावासवर्तिनं तं न्यवेदयन्‌ ॥ ४६५ ॥
सामात्यन्तःपुरोभ्येत्य प्रयत्नेन प्रसाद्य तम्‌ ।
ततः स्ववेश्म नृपतिर्निनाय विहितोत्सवः ॥ ४६६ ॥
कल्याणदेव्यास्तेनाथ कल्याणाभिनिवेशिना ।
राजलक्ष्म्या व्यपास्ताया इव सोजिग्रहत्करम्‌ ॥ ४६७ ॥
व्यधाद्विनापि सामग्रीं तत्र शक्तिं प्रकाशयन्‌ ।
पञ्च गौडाधिपाञ्जित्वा श्वशुरं तदधीश्वरम् ॥ ४६८ ॥
गतशेषं प्रभुत्यक्तं सैन्यं संवाहयन्स्थितः ।
मित्रशर्मात्मजो देवशर्मामात्यस्तमाययौ ॥ ४६९ ॥
निजदेशं प्रति ततः स प्रतस्थे तदर्थितः।
अत्रे जयाश्रियं कुर्वन्पश्चात्तेथ सुलोचने ॥ ४७० ॥

सिंहासनं जितादादौ कन्यकुब्जमहीभुजः।
स राज्यककुदं राजा जहारोदारपौरुषः ॥ ४७१ ॥
तस्मिन्प्रविष्टे स्वभुवं स्फूर्जदूर्जितविक्रमे ।
सैन्यैः समं समित्सज्जैर्जज्जो योद्धुं विनिर्ययौ ॥ ४७२ ॥
शुष्कलेत्राभिधे ग्रामे तेन सार्धं सुदारूणः।
जयापीडस्य संग्रामः सुवहृनि दिनान्यभूत्‌ ॥ ४७३ ॥
अनुरक्तप्रजो राजा जज्जराज्यासहिष्णुभिः।
युधि सोन्विप्यमाणोभूद्ग्राम्याटविकमण्डलैः ॥ ४७४ ॥
श्रीदेवो ग्रामचण्डालः प्राप्तो ग्राम्यैः समं युधि।
कोत्र जज्ज इति भ्राम्यन्योधान्पप्रच्छ सर्वतः ॥ ४७५ ॥
तृष्णार्तं स्वर्णभृङ्गारात्पिबन्तं वारि तस्यते।
रणमध्ये हयारूढं तं दूरात्समदर्शयन्‌ ॥ ४७६ ॥
भ्रमयन्क्षेपणीयं स क्षिप्त्वाश्मानं तदानने ।
सोयं हतो मया जज्ज इत्यमोघक्रियोनदत्‌ ॥ ४७७ ॥
साहायकाय राज्ञोहं यामीत्युक्त्वार्थिताशनः।
मातुर्हसन्त्या जज्जस्य प्रतिज्ञायाययौ वधम्‌ ॥ ४७८ ॥
अश्मसंरुग्णभीमास्यं मुमूर्षुं पतितं हयात्‌ ।
विवेष्टमानं मेदिन्यां जज्ज त्यक्त्वा ययुर्निजाः ॥ ४७९ ॥
स समर्थाहितापातचिन्तासततदुःस्थितः।
द्रोहाज्जितेन राज्येन त्रिभिर्वर्षैर्व्ययुज्यत ॥ ४८० ॥
न्यासापहाराद्वणिजां वेश्यानां कामिवण्चनात्‌ ।
द्रोहाचोपनता राज्ञामस्थिरा पव संपदः ॥ ४८१ ॥
हते जज्जे जयापीडः प्रत्यावृत्य निजां श्रियम्‌ ।
जग्राह दोष्णा भूभारं कृत्येन च सतां मनः ॥ ४८२ ॥

प्रपेदे यत्र कल्याणं स विरोधिवधानृपः । देशे कल्याणपुर कृत्तत्र कल्याणदेव्यभूत्‌ ॥ ४८३ ॥ राजा मह्लाणपुरकृण्चके विपुलकेशवम्‌ । कमला सा स्वनाम्नापि कमलाख्यं पुरं व्यधात्‌ ॥ ४८४ ॥ महाप्रतीहारपीडाधिकारं प्रतिपद्य सः। कल्याणदेवीदाक्षिण्यादकरोदधिकोन्नतिम्‌ ॥ ४८५ ॥ उत्पत्तिभूमौ देशेस्मिन्दूरदूरतिरोहिता । कश्यपेन वितस्तेव तेन विद्यावतारिता ॥ ४८६ ॥ वचो मूर्खोयमित्येव कस्मैचिद्वदते स्फुटम्‌ । सर्वज्ञानं ददच्चक्रे सर्वान्विद्याभियोगिनः ॥ ४८७ ॥ देशान्तरादागमय्य व्याचक्षाणः क्षमापतिः । प्रावर्तयत विच्छिन्नं महाभाष्यं स्वमण्डले ॥ ४८८ ॥ क्षीराभिधाच्छब्दविद्योपाध्यायात्संभृतश्रुतः । बुधेः सह ययौ वृद्धिं स जयापीडपण्डितः ॥ ४८९ ॥ भूपतेरात्मना स्पर्धा चक्षमे न स कस्यचित्‌ । आत्मनस्तु बुधैः स्पर्धां शुद्धधीर्बह्वमन्यत ॥ ४९० ॥ तावत्पण्डितशब्देभूद्राजशब्दादपि प्रथा । तैस्तैर्दोषैर्न तु म्लानिं कालान्तरवदाययौ ॥ ४९१ ॥ नृपतो विद्वदायत्ते राजसांमुख्यकाङ्क्षिभिः । गृहा बभूवुर्विदुषां व्याप्ताः सेवागतैर्नृपैः॥ ४९२ ॥ समग्रहीत्तथा राजा सोन्विष्यन्निखिलान्बुधान्‌ । विद्वद्दुर्भिक्षमभवद्दथान्यनृपमण्डले ॥ ४९३ ॥ अध्यक्षो भक्तदशालायां शुक्रदन्तस्य मन्त्रिणः ।

विद्वत्तया थक्कियाख्यस्तेन स्वीकृत्य वर्धितः ॥ ४९४ ॥

विद्वान्दीनारलक्षेण प्रत्यहं कृतवेतनः ।
भट्टोभूदुद्भटस्तस्य भूमिभर्तुः सभापतिः ॥ ४९५ ॥
स दामोदरगुप्ताख्यं कुट्टनीमतकारिणम्‌ ।
कविं कविं बलिरिव धुर्यं धीसचिवं व्यधात्‌ ॥ ४९६ ॥
मनोरथः शङ्खदत्तश्चटकः संधिमांस्तथा ।
वभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः ॥ ४९७ ॥
स स्वप्ने पश्चिमाशायां लक्षयन्नुदयं रवेः।
देशं धर्मोत्तराचार्ये प्रविष्टे साध्वमन्यत ॥ ४९८ ॥
सचेताः संस्तवव्यक्तविवेक्रुत्वो बभूव सः।
भावानां भुज्यमानानामास्वादान्तरविन्नृपः ॥ ४९९ ॥
अपश्यद्भिर्महास्वादान्भावान्स्वादुविवेकिभिः।
किं ज्ञेयमशनादन्यत्क्ष्मापैरन्धैरिवोक्षभिः ॥ ५०० ॥
आरूढस्य चितां कृतानुमरणोद्योगप्रियालिङ्गनं
पुण्ड्रेक्षुद्रवपानमुल्बणमहामोहप्रलुप्तस्मृतेः ।
वीतासोरवतंसमाल्यवलयामोदश्च यादृग्भवे-
द्भावानां सुभगः स्वभावमहिमा निश्चेतसस्तादृशः ॥ ५०१ ॥
मन्त्रविक्रमयोस्तस्य द्वयोर्दर्पणयोरिव ।
एकैव बिम्बिता मूर्तिः सहस्रगुणतां ययौ ॥ ५०२ ॥
अकुर्वन्विगुणामाज्ञां लङ्केन्द्रात्पण्च राक्षसान्‌ ।
तेनानयेति जगदे दूतो जातु पुरःस्थितः ॥ ५०३ ॥
सांधिविग्रहिकः सोथ गच्छन्पोताच्च्युतोम्बुधौ ।
प्राप पारं तिमिग्रासं तिमिमुत्पाट्य निर्गतः ॥ ५०४ ॥
प्रियमर्त्यो रामभक्त्या नृपाज्ञालेखदायिनम्‌ ।
स्वदेशमनयद्दत्तै रक्षोभिस्तं विभीषणः ॥ ५०५ ॥

दूतं वित्तैः पूरयित्वा सरोगाधं च राक्षसैः ।
चक्रे जयपुरं कोट्टं त्रिविष्टपसमं नृपः ॥ ५०६ ॥
बुद्धत्रयं महाकारं विहारं च विधाय सः।
नगरान्तर्जयादेवीं पुण्यकर्मा स निर्ममे ॥ ५०७ ॥
तत्पुरे चतुरात्मा च शेषशायी च केशवः।
विष्णुलोकस्थितिं त्यक्त्वा ध्रुवं बध्नाति संनिधिम्‌ ॥५०८॥
अन्यत्कर्मान्तरं किंचित्कारयित्वा स राक्षसान्‌ ।
प्यधात्कारुभिरेवाम्भ इति शंसन्ति केचन ॥ ५०९. ॥
स हि स्वप्ने जलान्तर्मे कुरु द्वारवतीमिति ।
उक्तः कंसारिणा चक्रे विनिर्माणं तथाविधम्‌ ॥ ५१० ॥
श्रीद्वारवत्यधिष्ठानं बाह्यं कोट्टं तथाह्यसौ ।
अभ्यन्तरं जयपुरं ब्रुतेद्याप्यखिलो जनः ॥ ५११ ॥
मन्त्रि पन्चमहाशब्दभाजनं जगतीभुजः ।
तस्मिण्जयपुरे कोट्टे जयदत्तो व्यधान्मठम्‌ ॥ ५१२॥
राजक्षत्तुः प्रमोदस्य जामाता मथुरापतेः ।
आचाभिधो व्यरचयच्छुचिराचेश्वरं हरम्‌ ॥ ५१३ ॥
पुनः संभृर्सतसामग्यौ दिग्जयाय विनिर्ययौ ।
बलैर्जलधिवेलाद्रीन्द्राघयन्नलघुद्विपैः ॥ ५१४ ॥
संप्रविष्टापि पूर्वाब्धिमविच्छिन्ना हिमाचले ।
भगीरथस्य गङ्केव रेजे तस्यानुगा चमूः ॥ ५१५ ॥
सार्ध प्रचण्डैश्चण्डालैरटन्तः.कटकाद्वहिः।
तस्यासन्यामिका रात्रौ सुम्मुनिप्रमुखा नृपाः ॥ ५१६ ॥
नामान्यद्विनयादित्य इति प्रख्यापयन्नृपः।
पुर्वाशां विनयादित्यपुरेणालंकृतां व्यधात्‌ ॥ ५१७ ॥

अत्युत्सेकेन सहसा साहसाध्यवसायिनाम्‌ ।
श्रीरारोहति संदेहं महतामपि भूभृताम्‌ ॥ ५१८ ॥
भीमसेनाभिधानस्य स दुर्गे पूर्वदिक्पतेः ।
निःशब्दो व्रतिभि: सार्धं व्रतिलिङ्गी विवेश यत्‌ ॥ ५१९ ॥
तं रन्ध्रान्वेषिणं तत्र परिज्ञाय चिरस्थितः।
भ्राता जज्जस्य सिद्धाख्यो गत्वा राज्ञे न्यवेदयत्‌ ॥ ५२० ॥
भूपतिं भीमसेनोथ राजाकस्माद्वबन्ध तम्‌ ।
नहुषाजगरो भीममिव भीमपराक्रमम्‌ ॥ ५२१ ॥
तस्मिन्वीरे तथा बद्धे धुर्ये पुरुषकारिणाम्‌ ।
पौरुषद्वेषिणा जाने दैवेनोन्नमितं शिरः ॥ ५२२ ॥
जयापीडस्त्वसंमूढो व्यसनेप्यतिदारुणे ।
तांस्तान्संचिन्तयन्नासीदुपायानुदयोन्मुखः ॥ ५२३ ॥
अत्रान्तरे नरपतेः पौराणामतिदुस्तरा ।
लुतामयकृता व्यापदुदपद्यत मण्डले ॥ ५२४ ॥
आमयः स्पर्शसंचारी तत्र व्यापादकश्चः सः ।
देशदोषादतो जन्तुर्लूताव्याप्तो विवर्ज्यते ॥ ५२५ ॥
तदाकण्ये जयापीडो जातोपायप्रयुक्तधीः ।
स्वभृत्यनोपयुक्तानि द्रव्याण्यानीतवान्रहः ॥ ५२६ ॥
तैः पित्तोद्रेचकैर्भुक्तैर्ज्वलत्पित्तोवहज्ज्वरम् ।
वज्रवृक्षपयश्चाङ्गे क्षिप्त्वा सपिटकोभवत्‌ ॥ ५२७ ॥
तं लूताव्याप्तमाकर्ण्य विपक्षो रक्षिणां मुखात्‌ ।
विपत्स्यते ध्रुवमिति ध्यात्वा देशाद्वहिर्व्यधात्‌ ॥ ५२८ ॥
एवं स्वमतिमाहात्म्यात्संतीर्णों विपदर्णवात् ।
व्याप्तव्योमाग्रहीद्दुर्गं यशश्च परिपन्थिनः ॥ ५२९ ॥

यः सर्वकालमवुधैः परिहस्यमानो
मुलाङ्कुराद्यपि न जातु पुरस्करोति ।
व्यापत्सु शास्त्रवितपी स फलं प्रसूय
पुंसः किलैकपद एव लुनात्यलक्ष्मीम् ॥ ५३० ॥
तमैच्छदभिसंधातुं विद्याविक्रमसंयुतः ।
मायाव्यरमुडिर्नाम राजा नेपालपालकः ॥ ५३१ ॥
अकृतप्रणातिस्तस्य प्रविष्टस्य स्वमण्डलम्‌ ।
अग्रात्सुदूरमध्वानं ससैन्योपससार सः ॥ ५३२ ॥
जिगीषोस्तस्य तु तथा तत्तत्पार्थिवनिर्जयः।
पृथक्प्रयत्ननिर्वतर्त्यो नाभूत्तदनुसारिणः ॥ ५३३
मग्नं क्वापि कचिद्दृश्यं प्रतिदेशं स वैरिणम्‌ ।
श्येनः कपोतं कक्ष्यान्तरिवान्विष्यञ्जगानम सः ॥ ५३४ ॥
ततो निःशेषितापाये तस्मिन्कुर्वन्स दिग्जयम्‌ ।
आसन्नाब्धेस्तटे सिन्धोः समुपावेशयद्बलम्॥ ५३५ ॥
प्रतस्थे दिवसैर्द्वित्रैरथ पूर्वार्णवोन्मुखः ।
कर्षन्वेलानिलस्पर्शोत्सृष्टध्वजपटाश्चमूः ॥ ५३६ ॥
ततस्तसिन्सरित्पारे दक्षिणस्मिन्क्षमापतेः।
तस्थावरमुडिः सैन्यं स्वच्छ्न्त्राङ्कं प्रकाशयन् ॥ ५३७ ॥
भूरिभेरीरवोद्भारि प्रबलं वीक्ष्य तद्बलम्।
प्रजज्वाल जयापीडः पीतसर्पिरिवानलः ॥ ५३८ ॥
स जानुदबघ्नं निर्विघ्नं पश्यन्नग्रे सरिज्जलम् ।
अपूर्वत्वादभूमिज्ञः क्रुद्धस्तर्तुं व्यगाहत ॥ ५३९. ॥
मध्यं प्राप्ते नृपे पूर्णा वेलया वर्धमानया ।
अकालेभूदगाधाम्भाः सार्णवाभ्यर्णगा सरित्‌ ॥ ५७० ॥


नरनागाश्वबहुरं तया सैन्यं महीपतेः ।
प्रवृध्दया प्लाव्यमानं क्षणात्संक्षयमाययौ॥५४१॥
नृपतिवीचिसंमर्दभ्रंशिताभरणांशुकः।
बाहुभ्यां लहरीश्छिन्दञ्जलैर्दूरमनीयत ॥ ५७२ ॥
एकस्य करुणाक्रन्दैः सैन्यस्यान्यस्य गर्जितैः ।
सरित्तरङ्गघोषैश्च बभूवुस्तुमुला दिशः ॥ ५७२ ॥
क्षिप्रकारी सद्दतिभिः संनध्दैः सरितोन्तरात् ।
स चाकृष्य जयापीडं बबन्ध विहितोत्सवः।।५४४॥
दैवस्याम्बुमुचश्च नास्ति नियमः कोप्यानुकूल्यं प्रति
व्यञ्जन्यः प्रियमुत्कटं घटयते जन्तोः क्षणादप्रियम् ।
क्षिप्रं दीर्धनिदाघवासरविपत्संतापनिर्वापणं
प्रादुष्कृत्य वनस्पतेः प्रकुरुते विद्युद्धिसर्गं च यः ॥ ५७५ ॥
स कालगण्डिकातीराश्रयात्युच्चाश्यवेश्मनि ।
निचिक्षेप जयापीडमाप्तानां रक्षिणां करे ॥ ५४६ ॥
तथा काश्मीरिका राजा निमग्नोः व्यसने पुनः।
स किंकर्तव्यतामूढः शुचा गूढमदह्यत ॥ ५४७ ॥
कलावत्सु शशाङ्कोपि तेजस्विष्वर्य मापि तम्‌।
न ददर्श यथा धीमान्स ररक्ष तथा नृपः ॥ ५४८ ॥
अपश्यन्निर्गतः किंचिदालोकन्यस्तलोचनः ।
आसन्नां तटिनीमासीदुपायांश्च स चिन्तयन्‌ ॥ ५४९. ॥
अवस्थावेदकास्तत्र प्रथिताः पृथिवीभुजा ।
आर्द्रन्तःकरणैः श्लोकाः स्मर्यन्तेद्यापि सूरिभिः ॥ ५५० ॥
तथा तस्मिन्स्थिते मानी देवशर्मैव मन्त्रिषु ।
चिन्तयन्स्वामिसंमानमनिश पर्यतप्यत ॥ ५५१ ॥


भर्तुः स्वदेहत्यागेन स हितं कर्तुमुद्यतः।
दूतैररमुदेश्चक्रे प्रियवाग्भिः प्रलोभनम्‌ ॥ ५५२ ॥
जयापीडश्रिया साकं राज्यं कश्मिरमण्डले ।
दास्यामि तुभ्यमित्यस्य दूतैः स श्रावितोभवत्‌ ॥ ५५३ ॥
प्रप्तेषु प्रतिदूतेषु पूर्णायामथ संविदि ।
गृहीतकटको मन्त्रि नेपालविषयं ययौ ॥ ५५४ ॥
स कालगण्डिकासिन्धोरर्वाचि कटकं तटे।
स्थापयित्वा परं पारं ययौ मितपरिच्छदः ॥ ५५५ ॥
सामन्तैरग्रमयातैस्तं सभां संप्रवेशितम्‌ ।
सत्कृत्यारमुडिः प्रह्वं न्यवेशयत विष्टरे ॥ ५५६ ॥
अध्वश्रान्त इति क्षिप्रं प्रतिक्षिप्तः क्षमाभुजा ।
तद्विसृष्टोपचारस्तन्निनायावसथे दिनम्‌ ॥ ५५७ ॥
स चारमुडिभूबृच्च पीतकोशौ परस्परम्‌ ।
आसातां निर्जनेन्येद्द्युः कर्तव्यकृतनिश्चयौ ॥ ५५८ ॥
नृपमूचेथ सचिवो जयापीडार्जितं धनम्‌ ।
अस्ति सैन्ये तदाप्तानं तस्य वा विदितं च तत्‌ ॥ ५५९ ॥
दानेन भविता मोक्षस्तवेत्युक्त्वा विमोहयन्‌ ।
तस्मात्तं प्रष्टुमिच्छामि क्व वसु न्यस्तमित्यहम्‌ ॥ ५६० ॥
अत पव मया सैन्यं संहतं न प्रवेशितम्।
यदेतन्मध्यगाः शक्त्या न बन्द्धुं न्यासधारिणः ॥ ५६१ ॥
तस्मादेकैकमाहूय तेषु बद्धेषु सैनिकाः।
कोपमज्ञातहृदया न यास्यन्ति विवक्षवः ॥ ५६२ ॥
एवं विमोहितात्तस्मात्प्राज्ञोनुज्ञां स रुब्धवान् ।
बद्धस्य प्रययौ पार्श्वे जयापीडमहीभुजः ॥ ५६२ ॥




तदालोकनजं शोकं गोपयन्धेर्यसागरः ।
गृहं तन्निर्जनं कृत्वा क्षिप्रं पप्रच्छ तं नृपम् ॥ ५६४ ॥
अपि त्वया निजं तेजो भित्तिभूतं न हारितम्‌ ।
तस्मिन्हि सति सिध्यन्ति साहसालेख्यकल्पनाः ॥ ५६५ ॥
स तं बभाषे निःशस्रो मन्त्रिन्नेवं व्यवस्थितः ।
अद्भुतं कर्म किं कु्र्यौ ध्रियमाणेन तेजसा ॥ ५६६ ॥
मन्त्रि तमूचे तेजश्चेद्राजन निसृतं तव ।
जानीहि तत्क्षणेनैव लङ्घितं विपदर्णवम्॥ ५६७ ॥
अपि वातायनादस्मात्पतित्वा निम्नगाम्भसि।
पारं गन्तुं समर्थोसि सैन्यं ह्यत्र निजं तव ॥ ५६८ ॥
राजा जगाद तं नास्मात्पतित्वोत्थीयतेम्भसः।
विना दृतिं दृतिश्चात्र दूरपाताद्विदीर्यते ॥ ५६९ ॥
तस्मान्नायमुपायोत्र न च नाम विमानितः ।
बहु मन्ये तनुत्यागमनिर्मथ्यापकारिणम्‌ ॥ ५७० ॥
ततो निश्चित्य सोमात्यस्तमवादीमहीपते ।
बहिः केनाप्युपायेन वहेस्त्वं नालिकाद्वयम् ॥ ५७१ ॥
प्रविश्यैकाकिनैवाथ द्रष्टव्यः संभृतौ मया ।
सरिढुत्तरणोपायः सोनुष्ठेयोप्यशङ्कितम्‌ ॥ ५७२ ॥
श्रुत्वेति निर्गतो गत्वा पायुक्षालनवेस्म सः।
सविलम्बं वहिर्वेलां तदुक्तामत्यवाहयत्‌ ॥ ५७२ ॥
एकाकी संप्रविष्टोथ तं ददर्श च्युतं क्षितौ ।
विपन्नं गरमुद्धध्य दृढया चेलचीरया ॥ ५७४ ॥
सद्योव्यापादिततनुःश्वासापूरितविग्रहः ।
अभेद्योहं तव दृतिर्मामारुह्य तरापगाम्‌ ॥ ५७५ ॥


आरोढुरूबन्धाय स्वोर्वौरुष्णीषपट्टिका ।
बद्धा मया तां प्रविश्य क्षिप्रमेव पताम्भसि ॥ ५७६ ॥
नखनिर्भिन्नगात्रास्रलिखितामिति संविदम्‌ ।
दृष्ट्वा चावाचयत्कण्ठनिबद्धांशुकपल्लवे ॥ ५७७ ॥
तिलकम्‌ ॥
विस्मयस्नेहयोः पश्चात्पूवै स सरितस्ततः ।
प्रवाहे पतितो राजा परं पारं समासदत्‌ ॥ ५७८ ॥
ग्राप्तसैन्यः प्रविश्याथ क्षणेनैव निनाय सः ।
तमशेषं सभूपालं नेपालविषयं क्षयम्‌ ॥ ५७९ ॥
रक्षिणोपि न यावत्तमजानन्बन्धनाच्च्युतम् ।
तावदेव कथाशेषं विषयं तं चकार सः ॥ ५८० ॥
नृत्यत्कवन्धः स्वर्गस्त्रीमुक्तस्त्रक्तूर्यघोषवान् 1
भूपतेर्बन्धनान्मोक्षे बभूव समरोत्सवः ॥ ५८१ ॥
दावानलोल्बणभुवो गिरयो निदाघे
यत्रैव दूरमितरे परिवर्जनीयाः ।
तत्रैव संभवति सान्द्रहिमद्रवाद्र॑-
श्चित्रं तुषारशिखरी नितरां निषेव्यः ॥ ५८२ ॥
जज्जादीनां क्षणे यत्र जन्म स्वामिदृहामभूत् ।
तत्रैव मन्त्रिणश्चित्रं कृतिनो देवशर्मणः ॥ ५८३ ॥
नाभूद्विसदृशः सूनुः स पितुर्मितन्त्रशर्मणः ।
तमोमयो भास्वरस्य भानोरिव शनैश्चरः ॥ ९८४ ॥
रक्षारत्नोपमे तस्मिन्सचिवेस्तमुपागते ।
प्राप्रामपि श्रियं मेने नृपतिहरितामिव ॥ ५८५ ॥
तस्य दिग्विजयस्यान्ते मानम्लानिर्विनिर्ययौ ।
मानसात्पृथिवीभर्तुर्नामात्योपक्रिया पुनः ॥ ५८६ ॥
१९

राजतरङ्गिणी

चित्रं जितवतस्तस्य स्त्रीराज्ये मण्डलं महत् ।
इन्द्रियग्रामविजयं वह्वमन्यन्त भूभुजः ॥ ५८७ ।।
कर्णश्रीपटमाबध्य स्त्रीराज्यान्निर्जिताद्धृतम् ।
धर्माधिकरणाख्यं च कर्मस्थानं विनिर्ममे ॥ ५८८ ॥
द्वितीयं चलगञ्जाख्यं कर्मस्थानमाप व्यधात् ।
उपयुक्तं प्रयाणेषु गञ्जे दूरस्थिते निजे ॥ ५८९ ॥
किमन्यत्तद्भुजावासनिवासिन्या जयश्रियः ।
चत्वारोम्वुधयोभूवन्विलासमणिदर्पणाः ॥ ५९० ॥
पुनः प्रविश्य कश्मीरान्स भूपैः परिवारितः ।
चिराय बुभुजे राजा विजयोपार्जितां श्रियम् ॥ ५९१ ॥
तं कदाचिन्नृपं स्वप्ने सर्वाशाविजयोर्जितम् ।
पुमान्दिव्याकृतिः कोपि व्याजहार कृताञ्जलिः ॥ ५९२ ॥
सुखं त्वद्विषये राजन्वसन्नस्मिन्सवान्धवः ।
नागेन्द्रोहं महापद्मनामा त्वां शरणं श्रितः ॥ ५९३ ॥
द्राविडो मात्रिकः कश्चिन्मामितो नेतुमुद्यतः ।
जलाकाङ्क्षणि वित्तेन विक्रेतुं मरुमण्डले ॥ ५९४ ॥
तस्माचेत्पासि मां तत्ते स्वर्णधातुसुवं गिरिम् ।
स्वदेशे दर्शयिष्यामि स्फीतोपकृतिकारिणः ॥ ५९५ ॥
राजा स्वप्ने निशम्येति दिक्षु संप्रेषितैश्चरैः ।
कुतोपि प्राप्तमानीय तं पप्रच्छ चिकीर्षितम् ॥ ५९६ ॥
दत्ताभयः स नागोक्तं यथावत्सर्वमुक्तवान् ।
सविस्मयेन भूभत्र स्वयं भूयोप्यपृच्छयत ॥ ५९७ ॥
भूरियोजनविस्तीर्णात्सरसोभ्यन्तरात्त्वया ।
नागः प्रभावोत्कृष्टः स निष्कष्टुं शक्यते कथम् ॥ ५९८ ॥

F. चतुर्थस्तरङ्गः ।

स तं व्यजिज्ञपद्राजन्नचिन्त्या मत्रशक्तयः ।
ताश्चेद्दिदृक्षसे क्षिप्रमेत्याश्चर्यं विलोक्यताम् ॥ ५९९ ॥
अथानुगम्यमानः स राज्ञा प्राप्तः सरोन्तिकम् ।
अभिमच्योज्झितैर्वाणैर्वद्धाशोशोषयजलम् ॥ ६०० ॥
राजापश्यत्ततः पङ्के लुठन्तं मानुषाननम् ।
वितस्तिदेश्यमुरगं भूरिहस्वोरगान्वितम् ॥ ६०१ ॥
मत्रसंकोचितं राजन्गृह्णाम्यमुमिति ब्रुवन् ।
मा ग्रहीरिति भूपेन सोभिधाय न्यषिध्यत ॥ ६०२ ॥
तूर्ण राजाज्ञया तेन मत्रवीर्येथ संहृते ।
सरोभूत्प्रागवस्थं तत्पुनर्व्याप्तदिगन्तरम् ॥ ६०३ ॥
द्राविडं द्रविणं दत्त्वा विसृज्याचिन्तयन्नृपः ।
दद्यान्नाद्याप्यसौ नागः कथं स्वर्णाकरं गिरिम् ॥ ६०४ ॥
ध्यायन्तमेव तं स्वप्ने ततः प्रोवाच पन्नगः ।
केनोपकारेण गिरिः स्वर्णसूस्तव दर्श्यते ॥ ६०५ ॥
स्वदेशोयं विदेशोयमिति बुद्धेः प्रवर्तकः ।

अन्वयव्यतिरेकाभ्यां स्थित्यभ्यासः शरीरिणाम् ॥ ६०६ ॥
शरणं त्वामहमगामवमानभयात्पुनः ।
शरण्येन सता तत्तु भवतैव प्रदर्शितम् ॥ ६०७ ॥
उदन्वानिव योक्षोभ्यो ज्ञायते संश्रितैः प्रभुः ।
का ह्रीस्ततोन्या सोन्यैर्यत्तेषामग्रेशिभूयते ॥ ६०८ ॥
याभिरन्याभिभूताभिरीक्षितस्त्रातुमक्षमः ।
१४७
तासां केनाभिमानेन स्त्रीणां द्रक्ष्याम्यहं मुखम् ॥ ६०९ ॥
ये कारणसधर्माणो व्यामूढस्य भवाम ते ।
विडम्ब्यमानाः क्रीडायै ते वयं प्राकृता इव ॥ ६१० ॥

१४८

राजतरङ्गिणी

अथवा श्रीमदान्धानामप्रेक्षापूर्वकारिणाम् ।
यत्किंचनविधायित्वं पार्थिवानां किमद्भुतम् ॥ ६११ ॥
मन्यन्ते क्ष्माभुजः क्रीडामुन्नतानां विमाननाम् ।
यावज्जीवं तु सभ्वासं मरणं तां विदन्ति ते ॥ ६१२ ॥
उपेक्ष्यपक्षे भूपानां मानः स्वार्थस्य सिद्धये ।
स तु प्राणानुपेक्ष्यापि ग्राह्यपक्षे मनस्विनाम् ॥ ६१३ ॥
महतो येवमन्यन्ते घटन्ते च विमानितैः ।
मानस्वरूपाभिज्ञत्वं तेषां केनानुमीयते ॥ ६१४ ॥
भवन्त इव तत्रापि न वयं व्यर्थदर्शनाः ।
ताम्रधातुरसस्यन्दी दर्श्यते तगिरिस्तव ॥ ६१५ ॥
इत्युक्त्वा संविदं तस्मै स्वप्न एव स तां ददौ ।
यया प्रबुद्धः प्रत्यूषे प्राप ताम्राकरं गिरिम् ॥ ६१६ ॥
स तस्मात्क्रमराज्यस्थात्ताम्रमाकृष्य निर्ममे ।
शतं दीन्नारकोटीनामेकोनं स्वाभिधाङ्कितम् ॥ ६१७ ॥
पूर्ण कोटिशतं कुर्याद्यः स मां निर्जयेदिति ।
दर्पभङ्गाय भूपानां समयं स्थापयन्नृपः ॥ ६१८ ॥
समस्या इव स क्ष्माभृत्सावशेषैर्विचेष्टितैः ।
चिक्षेप तुल्यनिर्माणकुण्ठत्वायेति भूभृताम् ॥ ६१९ ॥
अथाकस्मान्महीपालः प्रजाभाग्यविपर्ययैः ।
त्यक्त्वा पैतामहं मार्ग ययौ पित्र्येण सोध्वना ॥ ६२० ॥
किं दिग्जयादिभिः क्लेशैः स्वदेशादर्ज्यतां धनम् ।
इत्यर्थ्यमानः कायस्थैः स्वमण्डलमदण्डयत् ॥ ६२१ ॥
शिवदासादिभिर्लुब्धैर्धनस्थानाधिकारिभिः ।
प्रविवर्धितवित्तेच्छः सोभूल्लोभवशंवदः ॥ ६२२ ॥

चतुर्थस्तरङ्गः ।

काश्मीरिकाणामुत्पन्नं निजाज्ञाव्यवधायकम् ।
कायस्थवक्रप्रेक्षित्वं ततः प्रभृति भूभृतात् ॥ ६२३ ॥
मन्त्रस्तस्य महीभर्तुर्योभूत्तत्तन्नृपग्रहे ।
वास्तव्यबन्धचिन्तायां स एव स्थैर्यमाययौ ॥ ६२४ ॥
यत्सतां प्रशमाधायि पापस्योपदिदेश तत् ।
जयापीडस्य पाण्डित्यं प्रजापीडनशौण्डताम् ॥ ६२५ ॥
स सौदास इवानेकलोकप्राणापहारकृत् ।
अस्तुत्यकृत्यसौहित्यं स्वप्नेपि न समाययौ ॥ ६२६ ॥
कुर्मः किल्बिषमेतदेव हृदये कृत्वेति कौतूहला-
त्स्वैरिण्यः क्षितिपाश्च धिक्कपलतां क्रौर्य च कुर्युः सकृत् ।
पापाक्रान्तधियो भवन्त्यथ तथा नान्त्यान्स्पृशन्त्योपि ता
दूयन्ते न च ते यथा स्वपितरौ घ्नन्तोपि शान्तत्रपाः॥६२७॥
लोभाभ्यासात्तथा क्रौर्य स ययौ वत्सरत्रयम् ।
सह कार्षिकभागेण यथाहार्षीच्छरत्फलम् ॥ ६२८ ॥
लुब्धत्वध्वस्तधीर्भूभृत्स्वल्पवित्तलवप्रदान् ।
सर्वस्वहारिणो मेने कायस्थान्हितकारिणः ॥ ६२९ ॥
सामुद्रास्तिमयो नृपाश्च सहशा एके हृतादम्भसः
स्वस्मादेव कणान्घनस्य जहतो जानन्ति ये दातृताम् ।
सर्वस्मात्स्फुटलुण्ठिताद्वितरतो लेशान्किलान्येपि ये
दुष्कायस्थकुलस्य हन्त कलयन्त्यन्तर्हिताधायिताम् ॥६३०
सर्वकालं ब्राह्मणानामहो धैर्यमकुण्ठितम् ।
निस्त्रिंशस्य बभूवुर्ये तस्यापि परिपन्थिनः ॥ ६३१ ॥
देशान्तरं प्रयातेभ्यो ये शेषास्ते व्यरंसिषुः ।
विक्रोशन्तो न मरणाद्धरणान्नापि पार्थिवः ॥ ६३२ ॥

१५०

राजतरङ्गिणी

विप्राणां शतमेकोनमेकाहेन विपद्यते ।
निवेद्यमेतदित्यूचे क्रौर्याक्रान्तोथ पार्थिवः ॥ ६३३ ॥
विपर्यस्तचरित्रस्य तस्य क्रूरस्य भूपतेः ।
एवं स्तुतिविपर्यासः काव्येष्वपि बुधैः कृतः ॥ ६३४ ॥
नितान्तं कृतकृत्यस्य गुणवृद्धिविधायिनः |
श्रीजयापीडदेवस्य पाणिनेश्च किमन्तरम् ॥ ६३५ ॥
भाप्यव्याख्याक्षणे लोको वैचक्षण्यहृतैः कृतः ।
सोयं तस्य विपर्यासो वुधैरेव प्रवर्तितः ॥ ६३६ ॥
कृतविप्रोपसर्गस्य भूतनिष्ठाविधायिनः ।
श्रीजयापीडदेवस्य पाणिनेश्च किमन्तरम् ॥ ६३७ ॥
तूलमूल्यापहर्ता च चन्द्रभागातटे स्थितः ।
विप्राणां शतमेकोनमशृणोत्तजले मृतम् ॥ ६३८ ॥
ततोग्रहारहरणादेव प्रविरतोभवत् ।
वास्तव्यानां हृतां भूमिं न तु निःशेषतो जहौ ॥ ६३९ ॥
अथ विज्ञप्तिसमये तूलमूल्यौकसो द्विजाः ।
चुक्रुशुर्जातु तस्याने प्रतीहारकराहताः ॥ ६४० ॥
मनुमांधातृरामाद्या बभूवुः प्रवरा नृपाः ।
अन्वभावि तदपि ब्राह्मणैर्न विमानना ॥ ६४१ ॥
सेन्द्रं स्वर्ग सशैलां क्ष्मां सनागेन्द्रं रसातलम् ।
निर्दग्धं हि क्षणेनैव विप्राः शक्ताः प्रकोपिताः ॥ ६४२ ॥
तदाकर्ण्यास्तसामन्तत्यक्तपृष्ठः क्षमापतिः ।
उल्लासितैक भ्रलेखो दर्पाद्वचनमब्रवीत् ॥ ६४३ ॥
भिक्षाकणभुजां कोयं शठानां वो मदज्वरः ।
येनर्षय इव बूथ प्रभावाख्यापकं वचः ॥ ६४४ ॥

भीमभ्रूभङ्गश्रीतेषु तेषु तूष्णीं स्थितेष्वथ ।
इट्टिलाख्यस्तमाह स्म ब्रह्मतेजोनिधिर्द्विजः॥ ६४५ ॥
राजन्युगानुरूप्येण भावाभावानुवर्तिनः ।
शासितुस्तेनुसारेण न कस्मादृषयो वयम् ॥ ६४६ ॥
आह स्म विश्वामित्रो वा वसिष्ठो वा तपोनिधिः ।
त्वमगस्त्योथवा किं स्या इति दर्पेण तं नृपः ॥ ६४७ ॥
ज्वलन्निव ततः स्फूर्जत्तेजोदुष्प्रेक्ष्यविग्रहः
स फणीवोत्फणस्ताम्यन्को पान्नृपतिमब्रवीत् ॥ ६४८ ॥
भवान्यत्र हरिश्चन्द्रस्त्रिशङ्कुर्नहुषोपि वा ।
विश्वामित्रमुखेभ्योहं तत्रैको भवितुं क्षमः ॥ ६४९ ॥
विहस्योवाच तं राजा विश्वामित्रादिकोपतः ।
हरिश्चन्द्रादयो नष्टास्त्वयि क्रुद्धे तु किं भवेत्‌ ॥ ६५० ॥
पाणिना ताडयन्नुर्वी ततः क्रुद्धोभ्यधाद्विजः ।
मयि क्रुद्धे क्षणादेव ब्रह्मदण्डः पतेन्न किम्‌ ॥ ६५१ ॥
तच्छ्रुत्वा विहसन्न्राजा कोपाद्ब्राह्मणमब्रवीत् ।
पततु ब्रह्मदण्डोसौ किमद्यापि किमद्यापि विलम्बते ॥ ६५२ ॥
नन्वयं पतितो जाल्मेत्यथ विप्रेण भाषिते ।
राज्ञः कनकदण्डोङ्गे वितानस्खलितोपतत्‌ ॥ ६५२ ॥
कृतव्रणः स तेनाङ्गे विसर्पक्लिन्नविग्रहः ।
कीर्यमाणक्रिमिकुलः क्रकचैश्चारितैरभूत् ॥ ६५४ ॥
अनुभाव्य व्यथां भाविनिरयक्लेशवर्णिकाम् ।
गणरात्रेण तं प्राणाः काङ्क्षितापगमा जहुः ॥ ६५५ ॥
ब्रह्मदण्डकृतं दण्डं भुक्त्वा दण्डधराधिपः |
अकाण्डदण्डस्रष्ठाथ ययौ दण्डधरान्तिकम्‌ ॥ ६५६ ॥

 

तस्यानियतचित्तस्य त्रिंशतं परिवत्सरान्।
एवं प्रतापिनः सैकान्भूभोगो भूपतेरभूत्‌ ॥ ६५७ ॥
तथा भूभृन्मत्स्या द्रविणकलिषाम्भःकृततृषः
स्थितिं स्वामुज्झमन्तो विदधति कुमार्गानुसरणम् ।
क्रियन्ते कार्तान्तानुगविकृतकैवर्तनिवहै-
र्यथाह्येतेकस्मात्स्थिरनिरयजालप्रणयिनः ॥ ६५८ ॥
कृतपापं तमुद्दिश्य विपन्नमभृतप्रभा ।
मृतोद्धाराय तन्माता व्यधत्तामृतकेशवम्॥ ६५९ ॥
ललितापीडनामाभूत्ततो वसुमतीपतिः ।
देव्यां दुर्गाभिधायां यो जयापीडादजायत ॥ ६६० ॥
बभूव रागिणो राज्ये राज्यकार्याण्यपश्यतः ।
यस्य वाराङ्गनाभोज्यं राज्यं दुर्नयदूषितम्‌ ॥ ६६१ ॥
दुष्कृतेनार्जितं वित्तं पित्रा निरयभागिणा |
यश्चारणादिषु न्यसन्ननुरूपव्ययं व्यधात्‌ ॥ ६६२ ॥
बन्धकीवन्धुभावेन प्राप्तराजगृहाश्रयाः ।
तं पाश्चालीयविद्यानामन्तरङ्गं व्यधुर्विटाः ॥ ६६३ ॥
केशान्स्त्रीदशनच्छिन्नान्वक्षस्तन्नखलाञ्छितम्।
वपुषो मण्डनां मेने किरीटकटकोज्झितः ॥ ६६४ ॥
यो यो वेश्याकथाभिज्ञो यो यो नर्मविचक्षणः ।
स स तत्प्रियतां लेभे न शूरो न च पण्डितः ॥ ६६५ ॥
अतृप्तः स्त्रीभिरल्पाभिरुग्ररागः स पाथिवः।
जडं मेने जयापीडं स्त्रीराज्यान्निर्गतं जितात्‌ ॥ ६६६ ॥
दिङ्निर्जयव्यसनिनः पूर्वभूपाञ्जहास सः ।
गणिकाभोगसुखितः स्वसामयिकमध्यगः ॥ ६६७ ॥

  

संकोचकारिणो वृद्धान्नर्मोक्त्योद्वेज्य वारयन् !
तस्माद्विटजनो लेभे संप्रीतात्पारितोषकम्‌ ॥ ६६८ ॥
अट्टचेट इव स्पष्टपरिहासविचक्षणः ।
सोलज्जयन्मन्त्त्रिवृद्धानास्थाने गणिकासखः ॥ ६६९ ॥
बन्धकीपादमुद्राङ्कं चारु प्रावरणादि सः।
गौरवार्हान्दुराचारः सचिवान्पर्यधापयत् ॥ ६७० ॥
मानी मनोरथो मन्त्री परं परिजहार तम्‌ ।
अशक्नुवन्यमयितुं मध्यपातपराङ्मुखः ॥ ६७१ ॥
कुकृत्यं योगवाहित्वं वैधुर्यं द्रोहवृत्तिता ।
दुर्वृत्तस्य प्रभोरन्यत्परिहारान्न भेषजम्‌ ॥ ६७२ ॥
सुवर्णपार्श्वं विप्रेभ्यो ददत्फलपुरं तथा ।
भूभृत्स लोचनोत्सं च द्वादशाब्दानभूद्विभुः ॥ ६७३ ॥
कल्याणदेव्यां संजातो जयापीडमहीभुजः ।
संग्रामापीडनामाथ बभूव भुवनेश्वरः ॥ ६७४ ॥
पृथिव्यापीड इत्यन्यन्नाम विभ्रत्स भूपतिः ।
समाप्तिं सप्तभिर्वर्षैः साम्राज्यस्य समासदत्‌ ॥ ६७५ ॥
श्रीचिप्पटजयापीडो बृहस्पत्यपराभिधः ।
ललितापीडजो राजा शिशुदेश्यस्ततोभवत् ॥ ६७६ ॥
रागग्रहगृहीतस्य ललितापीडभूपतेः ।
वेश्यायां कल्पपाल्यां यो जयादेव्यामजायत ॥ ६७७ ॥
उप्पाख्यस्याखुवग्रामकल्पपालस्य तां सुताम्‌ ।
रूपलुब्धोवरुद्धात्वमनैषीत्स हि भूपतिः ॥ ६७८ ॥
पद्मोत्पलककल्याणमम्मधम्मैः स मातुलैः ।
बालकैः पाल्यमानोभूत्पृथिवीभोगभागिभिः ॥ ६७९. ॥



१ बालकः इत्युचितम्‌ ।




तस्य पञ्च महाशब्दाञ्ज्यायानुत्पलकोग्रहीत।
अन्ये जगृहिरेन्यानि कर्मस्थानानि मातुलाः ॥ ६८० ॥
स्वायत्तीकृतसास्राज्यैर्भ्रातृभिर्वन्दिताज्ञया ।
भूभृज्जनन्या विदधे जयादेव्या जयेश्वरः ॥ ६८१ ॥
राज्ञां कृपणवित्तैर्यत्प्रविष्टैदूष्यते धनम्‌ ।
अचिरान्नीयते शान्तिमपूर्वेः कैश्चिदेव तत्‌ ॥ ६८२ ॥
जयापीडस्य यत्किंचित्सूनुना हि व्ययीकृतम्‌ ।
सूनुस्यालैरशेषं तत्तैः क्रमेण हृतं वसु ॥ ६८३ ॥
भगिनीभगसौभाग्यसंभवैर्विभवैः कृताः ।
तेभङ्गुरानणाणं भोगानां भोक्तारो भाग्यभागिनः ॥ ६८४ ॥
निरङ्कुशं चेष्टमानाः शनकैस्त्यक्तशैशवात्‌ ।
ते स्वस्त्रीयान्नृपान्नाशमकुलीनाः शशङ्किरे ॥ ६८५ ॥
अथाभिचारक्रियया मिथः संमन्त्र्य पापिभिः ।
राज्येच्छया तैः स्वस्रीयः स्वामी च स चृपो हतः ॥६८६॥
भुक्तक्षितौ द्वादशाब्दांस्तस्मिन्व्यापादिते तथा ।
नैच्छन्नेकस्य ते राज्यं परस्परमहंकृताः ॥ ६८७ ॥
तेषामाक्रान्तदेशानां नाममात्रमहीपतीन्‌ ।
तांस्तान्कर्तुमसांमत्याद्विरोधोन्योन्यमुद्ययौ ॥ ६८८ ॥
अथ मेघावलीदेव्यां जातो वप्पियभूपतेः ।
ज्येष्ठोप्यचाक्रिकतया योभूद्राज्यविवर्जितः ॥ ६८९ ॥
सोयं त्रिभुवनापीडो जयादेव्यामजीजनत्‌ ।
राजानमजितापीडं तं बलादुत्पलो व्यधात्‌ ॥ ६९० ॥

                               युग्मम्‌ ॥
देडादिगणनास्थानानिःष्यन्दोत्थान्नृपाय ते।

१५५
चतुर्थस्तरङ्गः


पञ्चमाद्गणनास्थादशनाच्छादने ददुः ॥ ६९१ ॥
एकसम्भाषणात्खेदं यात्स्वन्येषु दिने दिने ।
पञ्च तुल्यसुखान्नैछद्दुःस्थो राजा तदाश्रितः ॥ ६९२ ॥
ते राजन्यजितापीडे राज्योत्पत्त्यपहारिणः ।
पुरदेवगृहादीनां प्रतिष्ठाकर्म चक्रिरे ॥ ६९३ ॥
सापत्यास्ते वुभुजिरे राज्यं स्वामिविवर्जितम्‌ ।
निर्जने महिषं शान्तं मिथः सेर्ष्या वृका इव ॥ ६९४ ॥
उत्पलेनोत्पलस्वामी तथोत्पलपुरं कृतम्‌ ।
पद्मस्य पद्मस्वाभ्यास्ते कृतिः पद्मपुरं तथा ॥ ६९५ ॥
वधूर्व्यधत्त पद्मस्य गुणादेवी गुणोज्ज्वला ।
मठमेकमधिष्ठाने द्वितीयं विजयेश्वरे ॥ ६९६ ॥
धम्मो धमोद्यमी हेतुर्धम्मस्वामिविनिर्मितेः।
कल्याणवर्मा सत्कर्मा कल्याणस्वामिकेसशवे ॥ ६९७ ॥
दीन्नाराणां सहस्राणि पञ्चोपकरणं कृती ।
एकैकस्याः सुधीर्धेनोः कृत्वा मम्मो महाधनः ॥ ६९८ ॥
पञ्चाशीतिसहस्राणि गवां दत्त्वा प्रकल्पयन्‌ ।
कुम्भप्रतिष्ठासम्भारं यो मम्मस्वामिनं व्यधात्‌ ॥ ६९९ ॥
तस्यैकस्यैव सामग्र्यां कः संख्यां कर्तुमर्हति ।
भ्रातॄणां किं पुनस्तेषां सर्वेषां भूरिसम्पदाम्‌ ॥ ७०० ॥
द्रोहार्जितासु वा लक्ष्मीः सुकृतोपार्जिताथ वा ।
सर्वेषां स्पृहणीयैव तेषां दातृतया तया ॥ ७०१ ॥
कृता देवगृहास्तैर्ये तत्पार्श्वेन्यसुरास्पदैः ।
दिङ्भातङ्गसमीपस्थकलभौपम्यमाश्रितम् ॥ ७०२ ॥

राजतरङ्गिणी


एकोननवते वर्षे स्वस्रीये शान्तिमागते ।
निर्विघ्नभोगास्तेभूवन्षड्विंशाब्दात्ययावधिः ॥ ७०३ ॥
अथ मम्मोत्पलकयोरुद्दारुणो रणः ।
रुद्धप्रवाहा यत्रासीद्वितस्ता सुभटैर्हतैः ॥ ७०७ ॥
कविर्वुधमनःसिन्धुशशाङ्कः शङ्कुकाभिधः ।
यमुद्दिश्याकरोत्काव्यं भुवनाभ्युदयाभिधम् ॥ ७०५ ॥
मम्मसूनुर्यशोवर्मा संग्रामाग्रे व्यपाहरत्‌ ।
स यत्र तेजः शूराणां नक्षत्राणामिवार्यमाः ॥ ७०६ ॥
अथोत्पायाजियतापीडं संग्रामापीडसंभवः ।
अनङ्गापीडनामाभूत्कृतो मम्मादिभिर्नृपः ॥ ७०७ ॥
मम्मोत्साहासहिष्णुत्वात्सम्भृतामर्षवैकृतः ।
तस्य राज्यं द्विसन्नासीत्सुखवर्मोपलात्मजः॥ ७०८ ॥
वर्षत्रयेणोत्पलके ततः प्रमयमागते ।
स चकारोत्पलापीडमजितापीडजं नृपम्‌ ॥ ७०९. ॥
तेषामाश्वयुजीराजसदृशानां रानां महीभुजाम्‌ ।
भूत्वापि भृत्याः कठिना विभूतिं केपि लेभिरे ॥ ७१० ॥
सांधिविग्रहिकस्तस्य रल्लो नाम विभूतिभाक्‌ ।
तस्मिन्कालेपि यश्चक्रे रत्नस्वामिसुरास्पदम् ॥ ७९११९ ॥
भेजुर्दार्वाभिसारादीन्देशानुत्तुम्ब्य भूपताम्‌ ।
विमलाश्वाग्रामभुजो नराद्या व्यवहारिणः ॥ ७१२ ॥
राज्ञां कार्कोटवंश्यानां क्षीणप्रायमभूत्कुलम्‌ ।
वंशस्तूत्पलकुल्यानां भुवि वैपुल्यमाययोौ ॥ ७१२ ॥
सामर्थ्योपनतप्रायपार्थिवत्वो व्यपद्यत ।
विद्धेषात्सुखवर्माथ शुष्काख्येन स्वबन्धुना ॥ ७१४ ॥

१५७
चतुर्थस्तरङ्गः

ततः शूराभिधो मन्त्री खुखवर्मात्मजेकरोत्।
राज्ययोग्योयमित्यास्थां सगुणेवन्तिवर्मणि ॥ ७१५ ॥
एकत्रिंशे स वर्षेथ प्रजाविप्लवशान्तये ।
विनिवार्योत्पलापीडं तमेव नृपतिं व्यधात्‌ ॥ ७१६ ॥
यत्कृते विफलक्लेशाः आसन्पितृपितामहाः ।
पौत्रेण हेलया प्राप्ता सा सिद्धिः पुण्यकर्मणा ॥ ७९१७ ॥
कुम्भाः पयोनिधिपयोहरणप्रवृत्ताः
नित्यं वहन्ति किल ये विफलश्रमत्वम्‌ ।
चित्रं क्षणादिह तदेकसमुद्भवेन
संदर्शितानिखिलवरिधिपानलीलाः ॥ ७१८ ॥
अभृत तदनुमूर्ध्नि राजलक्ष्मी-
घरितकटाक्षकृतादिपट्टबन्धे ।
कनकघटमुखान्नवाभिषेकं
झटिति पतन्तमवन्तिवर्मदेवः ॥ ७१९ ॥
संप्राप्तावुपदेष्टुमिन्दुतपनावुक्तं स्ववंशोद्भवै-
र्भूपालैर्नवराज्यतन्त्रिमिव स श्रोत्रद्वये धारयन्‌ ।
राजा मण्डनकुण्डलद्वयमिषात्स्वच्छातपत्रच्छला-
लक्ष्मीविष्टरपुण्डरीकधरटितच्छायोदयो दिद्युते ॥ ७२० ॥
इति श्रीकाश्मीरिकमहामात्यचण्पकप्रभुसूनोः कल्हणस्य कृतौ
राजतरङ्गिण्यां चतुर्थस्तरङ्ः ॥

समाशतद्धये षष्टियुते मासेषु षट्सु च ।
निर्दशाहेषु कार्कोटवंशे सप्तदशाभवन् ॥