रसेन्द्रचूडामणि: (सोमदेवः)

विकिस्रोतः तः
Jump to navigation Jump to search


अध्याय ३[सम्पाद्यताम्]

रसशालां प्रकुर्वीत सर्वबाधाविवर्जिते ।
सर्वौषधमये देशे रम्ये कूपसमन्विते ॥ ३.१ ॥

यक्षराजसहस्राक्षदिग्विभागे सुशोभने ।
नानोपकरणोपेतां प्राकारेण सुशोभिताम् ॥ ३.२ ॥

{रसशाला में कहां क्या करें?}
शालायाः पूर्वदिग्भागे स्थापयेद्रसभैरवम् ।
वह्निकर्माणि चाग्नेये याम्ये पाषाणकर्म च ॥ ३.३ ॥

नैरृत्ये शस्त्रकर्माणि वारुणे क्षालनादिकम् ।
शोषणं वायुकोणे च वेधकर्मोत्तरे तथा ॥ ३.४ ॥

स्थापनं सिद्धवस्तूनां प्रकुर्याद् ईशकोणके ।
पदार्थसंग्रहः कार्यो रससाधनहेतुकः ॥ ३.५ ॥

{रसशाला में संग्रहणी उपकरण्}
सत्त्वपातनकोष्ठीं च गारकोष्ठीं सुशोभनाम् ।
भूमिकोष्ठीं चलत्कोष्ठीं जलद्रोणीस्वनेकशः ॥ ३.६ ॥

भस्त्रिकायुगलं तद्वन्नलिके वंशलौहयोः ।
स्वर्णायोघोषशुल्बाश्मकुण्ड्यश्चर्मकृतां तथा ॥ ३.७ ॥

करणानि विचित्राणि सर्वाण्यपि समाहरेत् ।
मन्थानः पेषणी खल्वा द्रोणीरूपाश्च वर्तुलाः ॥ ३.८ ॥

आयसास्तप्तखल्वाश्च मर्दकाश्च तथाविधाः ।
सूक्ष्मछिद्रसहस्राढ्या द्रव्यचालनहेतवे ॥ ३.९ ॥

चालनी च कटत्राणी शिला लौली च कण्डनी ।
मूषामृत्तुषकार्पासवनोपलपिष्टकम् ॥ ३.१० ॥

त्रिविधं भेषजं धातुजीवमूलमयं तथा ।
शिखित्रा गोवरं चैव शर्करा च सितोपला ॥ ३.११ ॥

काचायोमृद्वराटानां कूपिकाश्चषकाणि च ।
शूर्पादिवेणुपात्राणि क्षुद्रक्षिप्राश्च शङ्खकाः ॥ ३.१२ ॥

क्षुरप्राश्च तथा पाल्यो यच्चान्यत्तत्र युज्यते ।
पालिका कर्णिका चैव शाकच्छेदनशस्त्रिका ॥ ३.१३ ॥

शालासम्मार्जनार्थं हि रसपाकान्तकर्म यत् ।
तत्रोपयोगि यच्चान्यत्तत्सर्वं परविद्यया ॥ ३.१४ ॥

श्रीरसाङ्कुशया सर्वं मन्त्रयित्वा समाहरेत् ।
अन्यथा तद्गतं तेजः परिगृह्णाति भैरवः ॥ ३.१५ ॥

{चालिनी}
चालिनी त्रिविधा प्रोक्ता तत्स्वरूपं च कथ्यते ।
वैणवीभिः शलाकाभिनिर्मिता ग्रथिता गुणैः ॥ ३.१६ ॥

कीर्तिता सा सदा स्थूलद्रव्याणां गालने हिता ।
चूर्णचालनहेतोश्च चालन्यन्यापि वंशजा ॥ ३.१७ ॥

कर्णिकारस्य शाल्मल्याः पारिजातस्य कम्बया ।
चतुरङ्गुलविस्तारयुक्त्या निर्मिता शुभा ॥ ३.१८ ॥

कुण्डल्यरत्निविस्तारा छागचर्माभवेष्टिता ।
वाजिवालाम्बरानद्धतला चालनिका परा ॥ ३.१९ ॥

तया प्रचालनं कुर्याद्धर्तुं सूक्ष्मतरं रजः ।
{अङ्गार}
शिखित्राः पावकोच्छिष्टा अङ्गाराः कोकिलाः मताः ॥ ३.२० ॥

कोकिलाश्चेति तेऽङ्गाराः निर्वाणाः पयसा विना ।
{उपल}
पिष्टकं छगणं छाणमुपलं चोत्पलं तथा ॥ ३.२१ ॥

करण्डोपलसारी च संशुष्कछगणाभिधाः ।
{बोत्त्ले}
कूपिका छम्पिका सिद्धा गोला चैव करण्डिका ॥ ३.२२ ॥

{चषक}
चषका च कटोरी च वाटिका घोटिका तथा ।
कचोली ग्राहिका चेति नामान्येकार्थकानि हि ॥ ३.२३ ॥

{रसकर्म में कैसा वैद्य को रखे}
रससंहितयोर् वैद्याः निघण्टुज्ञाश्च वार्त्तिकाः ।
सर्वदेशजभाषाज्ञाः संग्राह्यास्तेऽपि साधकैः ॥ ३.२४ ॥

धर्मिष्ठः सत्यवाग् विद्वान् शिवकेशवपूजकः ।
सदयः पद्महस्तश्च संयोज्यो रसवैद्यके ॥ ३.२५ ॥

पताकाकुम्भपाथोजमत्स्यचापाङ्कपाणिकः ।
अनामाधः स्थरेस्वाङ्कः स स्यादमृतहस्तवान् ॥ ३.२६ ॥

{alchemist:: bad variant}
अदेशिकः कृपामुक्तो लुब्धो युक्तिविवर्जितः ।
कृष्णरेखाकरो वैद्यो दग्धहस्तो विवर्जितः ॥ ३.२७ ॥

रसपाकावसाने हि सदाघोरं च जापयेत् ।
{assistant}
सोद्यमाः शुचयः शूराः बलिष्ठाः परिचारकाः ॥ ३.२८ ॥

भूतविग्रहमन्त्रज्ञास्ते योज्या निधिसाधने ।
बलिष्ठाः सत्त्ववन्तश्च रक्ताक्षाः कृष्णविग्रहाः ॥ ३.२९ ॥

भूतत्रासनविद्याश्च ते योज्याः बलिसाधने ।
निर्लोभाः सत्यवक्तारो देवब्राह्मणपूजकाः ॥ ३.३० ॥

यमिनः पथ्यभोक्तारो योजनीया रसायने ।
धनवन्तो वदान्याश्च सर्वोपस्करसंयुताः ॥ ३.३१ ॥

गुरुवाक्यरता नित्यं धातुवादेषु ते शुभाः ।
{collectors of drugs}
तत्तदौषधनामज्ञाः शुचयो वञ्चनोज्झिताः ॥ ३.३२ ॥

नानाविषयभाषाज्ञास्ते मता भेषजाहृतौ ।
शुचीनां सत्यवाक्यानामास्तिकानां मनस्विनाम् ॥ ३.३३ ॥

सन्देहोज्झितचित्तानां रसः सिध्यति नान्यथा ।
दशाष्टक्रियया सिद्धे रसेऽसौ साधकोत्तमः ॥ ३.३४ ॥

महारसोऽयम् इत्युक्त्वा सेवेतान्यत्र तं रसं ।
रससिद्धो भवेन्मर्त्यो दाता भोक्ता न याचकः ।
जरामुक्तो जगत्पूज्यो दिव्यकान्तिः सदा सुखी ॥ ३.३५ ॥


अध्याय ४[सम्पाद्यताम्]

कथ्यते सोमदेवेन मुग्धवैद्यप्रबुद्धये ।
परिभाषा रसेन्द्रस्य शास्त्रैः सिद्धैश्च भाषिता ॥ ४.१ ॥

{धान्वन्तरभाग}
अर्धं सिद्धरसस्य तैलघृतयोर्लेहस्य भागोऽष्टमः संसिद्धाखिललोहचूर्णवटकादीनां तथा सप्तमः ।
यो दीयेत भिषग्वराय गदिभिर्निर्दिश्य धन्वन्तरिं सर्वारोग्यसुखाप्तये निगदितो भागः स धान्वन्तरः ॥ ४.२ ॥

{रुद्रभाग}
भैषज्यक्रीणितद्रव्यभागश्चैकादशो हि यः ।
वणिग्भ्यो गृह्यते वैद्यै रुद्रभागः स उच्यते ॥ ४.३ ॥

प्रगृह्याधिकरुद्रांशं योऽसमीचीनमौषधम् ।
दापयेल्लुब्धधीर्वैद्यः स स्याद्विश्वासघातकः ॥ ४.४ ॥

शास्त्रेषु विहिता शुद्धिर्ब्रह्महत्याकृतामपि ।
विश्वासघातिनां पुंसां न शुद्धिर्मरणं विना ॥ ४.५ ॥

{कज्जली}
धातुभिर् गन्धकाद्यैश्च निर्द्रवैर्मर्दितो रसः ।
सुश्लक्ष्णः कज्जलाभासः कज्जलीत्यभिधीयते ॥ ४.६ ॥

{रसपङ्क}
सद्रवा मर्दिता सैव रसपङ्क इति स्मृतः ॥ ४.७ ॥

{नवनीतपिष्टी}
अर्कांशतुल्याद्रसतोऽथ गन्धान्निष्कार्धतुल्यात्त्रुटिशोऽभिखल्वे ।
अर्कातपे तीव्रतरे सघर्मे पिष्टी भवेत्सा नवनीतरूपा ॥ ४.८ ॥

{पिष्टी}
खल्वे विमर्द्य गन्धेन दुग्धेन सह पारदम् ।
पेषणात् पिष्टतां याति सापि पिष्टी मता परैः ॥ ४.९ ॥

{पातनपिष्टी}
चतुर्थांशसुवर्णेन रसेन कृतपिष्टिका ।
भवेत्पातनपिष्टी सा रसस्योत्तमसिद्धिदा ॥ ४.१० ॥

{हेमतारयोः कृष्टी}
रूप्यं वा जातरूपं वा रसगन्धादिभिर्हतम् ।
समुत्थितं हि बहुशः सा कृष्टी हेमतारयोः ॥ ४.११ ॥

{स्वर्णकृष्टी}
कृष्टी क्षिप्ता सुवर्णान्तर्न वर्णो हीयते तया ।
स्वर्णकृष्ट्या कृतं बीजं रसस्य परिरञ्जनम् ॥ ४.१२ ॥

{वरलोहक}
ताम्रं तीक्ष्णसमायुक्तं द्रुतं निक्षिप्य भूरिशः ।
सगन्धे लकुचद्रावे निर्गतं वरलोहकम् ॥ ४.१३ ॥

{स्वर्णरक्ती}
तेन रक्तीकृतं स्वर्णं स्वर्णरक्तीत्युदाहृतम् ।
निक्षिप्ता सा द्रुते स्वर्णे वर्णोत्कर्षविधायिनी ।
तारस्य रञ्जनी चापि बीजरागविधायिनी ॥ ४.१४ ॥

{ताररक्ती}
एवमेव प्रकर्तव्या ताररक्ती मनोहरा ।
रञ्जनी खलु रूप्यस्य बीजानामपि रञ्जनी ॥ ४.१५ ॥

{चन्द्रानलयोर् दलम्}
मृतेन वा बद्धरसेन वान्यल्लोहेन वा साधितमन्यलोहम् ।
सितत्वपीतत्वमुपागतं तद्दलं हि चन्द्रानलयोः प्रसिद्धम् ॥ ४.१६ ॥

{सितपीतदल}
आभासकृतबद्धेन रसेन सह योजितम् ।
साधितं चान्यलोहेन सितं पीतं हि तद्दलम् ॥ ४.१७ ॥

{अयोनाग}
ताप्येन निहतं कान्तं सप्तवारं समुत्थितम् ।
शिलयाप्याहतं नागं वारं वारं समुत्थितम् ॥ ४.१८ ॥

तद् द्वयं द्विपलं चाथ ताप्यभस्म पलद्वयम् ।
सर्वं निक्षिप्य मूषायां सप्तवारं धमेद् दृढम् ॥ ४.१९ ॥

तद् अयोनागमित्युक्तं साधकं देहलोहयोः ।
रसेन सारणायन्त्रे तदीया गुटिका कृता ॥ ४.२० ॥

सा धृता वदने हन्ति मेहव्यूहमशेषतः ।
कुरुते दन्तदार्ढ्यं च दृष्टिं गृध्रदृशाविव ।
तथान्यान् नेत्रजान् रोगान् रोगान् जत्रूर्ध्वसम्भवान् ॥ ४.२१ ॥

{शुल्बनाग}
माक्षिकेण हतं ताम्रं दशवारं समुत्थितम् ।
तद्वद्विशुद्धनागं हि द्वितयं तच्चतुष्पलम् ॥ ४.२२ ॥

नीलाञ्जनहतं भूयः सप्तवारं समुत्थितम् ।
इति संसिद्धमेतद्धि शुल्बनागं प्रकीर्त्यते ॥ ४.२३ ॥

सारितस्तेन सूतेन्द्रो वदने विधृतो नृणाम् ।
निहन्ति मासमात्रेण मेहव्यूहमशेषतः ॥ ४.२४ ॥

पथ्याशनस्य वर्षेण पलितं वलिभिः सह ।
गृध्रदृष्टिर्लसत्पुष्टिः सर्वारोग्यसमन्वितः ॥ ४.२५ ॥

{पिञ्जरी}
लोहं लोहान्तरे क्षिप्तं ध्मातं निर्वापितं द्रवे ।
पाण्डुपीतप्रभं जातं पिञ्जरीत्यभिधीयते ॥ ४.२६ ॥

{चन्द्रार्क}
भागाः षोडश तारस्य तथा द्वादश भास्करः ।
एकत्रावर्तितास्तेन चन्द्रार्कमिति कथ्यते ॥ ४.२७ ॥

{निर्वाहण।निर्वापण}
साध्यलोहेऽन्यलोहं चेत् प्रक्षिप्तं वङ्कनालतः ।
निर्वापणं तु यत्प्रोक्तं वैद्यैर्निर्वाहणं खलु ॥ ४.२८ ॥

क्षेप्यं निर्वाहणं द्रव्यं निर्वाह्ये समभागिकम् ।
आवाप्यं वापनीये च भागे दिष्टे च दिष्टवत् ॥ ४.२९ ॥

{वारितर}
मृतं तरति तत्तोये लोहं वारितरं हि तत् ॥ ४.३० ॥

{रेखापूर्ण}
अङ्गुष्ठतर्जनीघृष्टं तत्तद्रेखान्तरे विशेत् ।
मृतं लोहं तदुद्दिष्टं रेखापूर्णाभिधानतः ॥ ४.३१ ॥

{अपुनर्भव}
गुडगुञ्जासुखस्पर्शमध्वाज्यैः सह योजितम् ।
नायाति प्रकृतिं ध्मानादपुनर्भवमुच्यते ॥ ४.३२ ॥

{निरुत्थ}
रूप्येण सह संयुक्तं ध्मातं रूप्येण नो लगेत् ।
तदा निरुत्थमित्युक्तं लोहं तदपुनर्भवम् ॥ ४.३३ ॥

एवं रूप्यं सनागं चेद् ध्मातं ताम्रे लगेन्न हि ।
तदा निरुत्थं मन्तव्यं रञ्जनं च भिषग्वरैः ॥ ४.३४ ॥

{बीज}
निर्वाहणविशेषेण तत्तद्वर्णं भवेद्यदा ।
मृदुलं चित्रसंस्कारं तद्बीजमिति कथ्यते ॥ ४.३५ ॥

इदमेव विनिर्दिष्टं वैद्यैरुत्तरणं खलु ।
{ताडन}
संसृष्टलोहयोर् एकलोहस्य परिनाशनम् ।
प्रध्मानाद् वङ्कनालेन तत्ताडनमुदाहृतम् ॥ ४.३६ ॥

{धान्याभ्र}
चूर्णाभ्रं शालिसंयुक्तं वस्त्रे बद्धं तु काञ्जिके ।
निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते ॥ ४.३७ ॥

{सत्त्व}
क्षाराम्लद्रावकैर्युक्तं ध्मातमाकरकोष्ठके ।
यस्ततो निर्गतः सारः सत्त्वमित्यभिधीयते ॥ ४.३८ ॥

{एककोलिशिख}
कोष्ठिका शिखरापूर्णैः कोलिशैर्ध्मानयोगतः ।
मूषाकण्ठमनुप्राप्तैर् एककोलिशिखो मतः ॥ ४.३९ ॥

{charcoal (syn.)}
शिखित्राः पावकोच्छिष्टा मृताङ्गाराश्च कोकिलाः ।
कृष्णाङ्गाः कोलिशाश्चेति पर्यायास्ते परस्परम् ॥ ४.४० ॥

द्रावणे सत्त्वपाते च माधुकाः खादिराः शुभाः ।
उद्द्रावे वंशजास्ते तु स्वेदने बादराः शुभाः ॥ ४.४१ ॥

{हिङ्गुलाकृष्ट}
विद्याधराख्ययन्त्रस्थादार्द्रकद्रावमर्दितात् ।
समाकृष्टो रसो योऽसौ हिङ्गुलाकृष्ट उच्यते ॥ ४.४२ ॥

{घोषाकृष्ट}
स्वल्पतालयुतं कांस्यं वङ्कनालेन ताडितम् ।
मुक्तवङ्गं हि तत्ताम्रं घोषाकृष्टम् उदाहृतम् ॥ ४.४३ ॥

{गुह्यनाग}
पलविंशति नागस्य शुद्धस्य कृतचक्रिकम् ।
रूपिकादुग्धसम्पिष्टशिलया परिलेपितम् ॥ ४.४४ ॥

शरावसम्पुटे रुद्ध्वा पचेत् क्रोडपुटेन तम् ।
तावद्वारं पचेद्यत्नाद्यावद्भस्म प्रजायते ॥ ४.४५ ॥

गुडगुग्गुलुगुञ्जाज्यसारघैः परिमर्द्य तत् ।
मूषामध्ये निरुध्याथ ध्मानादुत्थापितं पुनः ॥ ४.४६ ॥

चक्रान्तेन पुनः कृत्वा पलप्रमितपारदैः ।
लिप्त्वा लिम्पेत्सितार्कस्य पयसा शिलयापि च ॥ ४.४७ ॥

पचेद्गजपुटैरेनं वाराणां खलु विंशतिः ।
पुटे पुटे हि नागस्य कुर्यादुत्थानं खलु ॥ ४.४८ ॥

नीलज्योतिर्द्रवैः सम्यग् दशवाराणि ढालयेत् ।
इति सिद्धं ततः सीसं कर्षमात्रावशेषितम् ॥ ४.४९ ॥

गुह्यनागाख्यया प्रोक्तं श्रेष्ठं रसरसायनम् ।
{गुह्यनाग:: ग्रास of gold}
निष्कमात्रे तु नागेऽस्मिन् लोहखार्यां द्रुते सति ॥ ४.५० ॥

स्वतो लक्षगुणां हैमीं शलाकां ग्रसति ध्रुवम् ।
कुसुम्भतैलतप्तं तत् स्वर्णम् उद्गरिति ध्रुवम् ॥ ४.५१ ॥

गुह्यमार्गोऽयमुद्दिष्टो वक्ति स्वच्छन्दभैरवः ।
{वरनाग}
तीक्ष्णं नीलाञ्जनोपेतं ध्मातं हि बहुशो दृढम् ॥ ४.५२ ॥

मृदु कृष्णं द्रुतद्रावि वरनागं तदुच्यते ।
{उत्थापन (def.)}
मृतस्य पुनरुद्भूतिः सा चोक्तोत्थापनाख्यया ॥ ४.५३ ॥

{ढालन}
द्रुतद्रव्यस्य निक्षेपो द्रवे तड्ढालनं मतम् ।
{नागसंभूतचपल}
त्रिंशत्पलमितं नागं भानुदुग्धेन मर्दितम् ॥ ४.५४ ॥

विमर्द्य पुटयेत्तावद्यावत् कर्षावशेषितम् ।
न तत्पुटसहस्रेण क्षयमायाति सर्वदा ॥ ४.५५ ॥

चपलोऽयं समुद्दिष्टो वार्त्तिकैर्नागसम्भवः ।
{वङ्गसंभूतश् चपलः}
इत्थं च चपलः कार्यो वङ्गस्यापि न संशयः ॥ ४.५६ ॥

तत्स्पृष्टहस्तसंस्पृष्टः केवलो बध्यते रसः ।
स रसो धातुवादेषु शस्यते न रसायने ॥ ४.५७ ॥

अयं हि खर्पणाख्येन लोकनाथेन कीर्तितः ।
{चपल:: preparation}
भ्रामकाश्मरजः सूक्ष्मं पञ्चमांशरसान्वितम् ॥ ४.५८ ॥

कुमारीमूलतोयेन मर्दयेदेकवासरम् ।
चाङ्गेरीस्वरसेनापि दिनमेकमनारतम् ॥ ४.५९ ॥

एवं भूनागधौतेन मर्दयेद्दिवसत्रयम् ।
अथैकपलनागेन तावता त्रपुणापि च ॥ ४.६० ॥

दशनिष्करसेन्द्रेण श्लक्ष्णां पिष्टीं समाचरेत् ।
योजयित्वाथ कल्केन यथापूर्वं विमर्दयेत् ॥ ४.६१ ॥

ततः साररसेन्द्रेण सत्त्वेन रसकस्य च ।
पिष्टीं कृत्वा तु पूर्वेण पूर्वकल्केन योजयेत् ॥ ४.६२ ॥

अग्निं प्रज्वाल्य सोष्णेन काञ्जिकेन प्रशोषयेत् ।
पलार्धं शुद्धसस्येन भृष्टगुञ्जारसेन च ॥ ४.६३ ॥

विमर्द्य काञ्जिकैः कुर्यान्मरिचप्रमिता वटीः ।
निरुध्य वज्रमूषायां संधिबन्धं विधाय च ॥ ४.६४ ॥

शिखित्रैर्नवभिः सम्यग्भस्त्राभ्यां च धमेत्खलु ।
ततो मूषागतं सत्त्वं समादाय समन्ततः ॥ ४.६५ ॥

धमेत् प्रकटमूषायां वङ्कनालेन शुद्धये ।
दशशाणं हि तत्सत्त्वं भस्मना लवणेन च ॥ ४.६६ ॥

सकाञ्जिकेन संवेष्ट्य पुटयोगेन शोषयेत् ।
द्विनिष्कप्रमिते तस्मिन् पूर्वप्रोक्तेन भस्मना ॥ ४.६७ ॥

अशीतिगुणितं नागं ध्मात्वा निर्वाहयेत् खलु ।
इयता पूर्वसूतोऽसौ जार्यते न कथंचन ॥ ४.६८ ॥

चपलोऽयं समुद्दिष्टो लोकनाथेन शम्भुना ।
अनेनापि रसः शीघ्रं बध्यते पूर्ववत् सुखम् ॥ ४.६९ ॥

कारवल्लीजटाचूर्णैर्दशधा पुटितो हि स ।
भवेन्नागविनिर्मुक्तो ग्रासं गृह्णात्यशेषतः ॥ ४.७० ॥

मुखं प्रकटमूषायां भवेच्चातिगुणोत्तरम् ।
जीर्णग्रासो रसो ह्येष देहलोहकरो भवेत् ।
सोऽयं श्रीसोमदेवेन कथितोऽतीव निश्चितम् ॥ ४.७१ ॥

{धौत}
भूभुजंगशकृत्तोयैः प्रक्षाल्यापहृतं रजः ।
कृष्णवर्णं हि तत्प्रोक्तं धौताख्यं रसवादिभिः ॥ ४.७२ ॥

{द्वंद्वन}
द्रव्ययोर्मेलनं ध्मानाद् द्वंद्वनं परिकीर्तितम् ।
{??}
भागाद्रूप्यादिके क्षेपमनुवर्णसुवर्णके ॥ ४.७३ ॥

{भञ्जिनी}
दलैर् वा वर्णिकाह्रासो भञ्जिनी वादिभिर्मता ।
{पतङ्गी}
पतंगिकल्कतो जाता लोहे तारत्वहेमता ॥ ४.७४ ॥

{पलिका}
दिनानि कतिचित् स्थित्वा यात्यसौ पलिका मता ।
{पतङ्गीराग}
रञ्जितश्च रसाल्लोहाद् ध्मानाद्वा चिरकालतः ।
विनिर्याति स निर्दिष्टः पतङ्गीरागसंज्ञिकः ॥ ४.७५ ॥

{आवाप, प्रतीवाप, आच्छादन}
द्रुते द्रव्यान्तरे क्षेपो लोहाद्यैः क्रियते हि यः ।
स आवापः प्रतीवापः स एवाच्छादनं मतम् ॥ ४.७६ ॥

{अभिषेक}
द्रुते वह्निस्थिते लौहे विरम्याष्टनिमेषकम् ।
सलिलस्य परिक्षेपः सोऽभिषेक इतीरितः ॥ ४.७७ ॥

{निर्वाप}
तप्तस्याप्सु विनिक्षेपो निर्वापः स्नपनं च तत् ।
{Time for प्रतीवाप etc.}
प्रतीवापादिकं कार्यं द्रुतलोहे सुनिर्मले ॥ ४.७८ ॥

{शुद्धावर्त}
यदा हुताशो दीप्तार्चिः शुक्लोत्थानसमन्वितः ।
शुद्धावर्तस्तदा ज्ञेयः स कालः सत्त्वनिर्गमे ॥ ४.७९ ॥

{बीजावर्त}
द्राव्यद्रव्यनिभा ज्वाला दृश्यते धमने यदा ।
द्रावस्योन्मुखता सेयं बीजावर्तः स उच्यते ॥ ४.८० ॥

{स्वाङ्गशीतल}
वह्निस्थमेव शीतं यत् तदुक्तं स्वाङ्गशीतलम् ।
{बहिःशीतल}
अग्नेराकृष्टशीतं च तद्बहिःशीतमीरितम् ॥ ४.८१ ॥

{स्वेदन}
क्षाराम्लैरौषधैर् वापि दोलायन्त्रे स्थितस्य हि ।
पचनं स्वेदनाख्यं स्यान्मलशैथिल्यकारकम् ॥ ४.८२ ॥

{मर्दन}
उद्दिष्टैरौषधैः सार्धं सर्वाम्लैः काञ्जिकैरपि ।
पेषणं मर्दनाख्यं स्याद्बहिर्मलविनाशनम् ॥ ४.८३ ॥

{मूर्छन}
मर्दनोद्दिष्टभैषज्यैर्नष्टपिष्टत्वकारकम् ।
तन्मूर्छनं हि वङ्गाद्रिभूजकञ्चुकनाशनम् ॥ ४.८४ ॥

{नष्टपिष्ट}
स्वरूपस्य विनाशेन पिष्टतापादनं हि यत् ।
विद्वद्भिर्निर्जितः सूतो नष्टपिष्टः स उच्यते ॥ ४.८५ ॥

{उत्थापन}
स्वेदातपादियोगेन स्वरूपापादनं हि यत् ।
तदुत्थापनमित्युक्तं मूर्छाव्यापत्तिनाशनम् ॥ ४.८६ ॥

{पातन}
उक्तौषधैर्मर्दितपारदस्य यन्त्रस्थितस्योर्ध्वमधश्च तिर्यक् ।
निर्यातनं पातनसंज्ञयोक्तं वङ्गाहिसम्पर्कजकञ्चुकघ्नम् ॥ ४.८७ ॥

{रोधन}
जलसैन्धवयुक्तस्य रसस्य दिवसत्रयम् ।
स्थितिरास्थापनी कुम्भे यासौ रोधनमुच्यते ॥ ४.८८ ॥

{नियमन}
रोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये ।
क्रियते यो घटे स्वेदः प्रोक्तं नियमनं हि तत् ॥ ४.८९ ॥

{दीपन}
धातुपाषाणमूलाद्यैः संयुक्तो घटमध्यगः ।
ग्रासार्थं त्रिदिनं स्वेदो दीपनं तन्मतं बुधैः ॥ ४.९० ॥

{ग्रासमान}
इयन्मानस्य सूतस्य ग्रासद्रव्यात्मिका मितिः ।
इयतीत्युच्यते यासौ ग्रासमानमितीरितम् ॥ ४.९१ ॥

{जारणा}
ग्रासस्य चारणं गर्भे द्रावणं जारणं तथा ।
इति त्रिरूपा निर्दिष्टा जारणा वरवार्त्तिकैः ॥ ४.९२ ॥

ग्रासः पिण्डः परीणामः तिस्रश्चाख्याः पराः स्मृताः ।
समुखा निर्मुखा चेति जारणा द्विविधा पुनः ॥ ४.९३ ॥

{जारण:: निर्मुखजारणा}
निर्मुखा जारणा प्रोक्ता बीजादानेन भागतः ।
{बीज (-> जारणा)}
शुद्धं स्वर्णं च रूप्यं च बीजमित्यभिधीयते ॥ ४.९४ ॥

{मुख।समुखजारणा}
चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते ।
{समुखरस}
एवं कृते रसो ग्रासलोलुपो मुखवान्भवेत् ॥ ४.९५ ॥

कठिनान्यपि लोहानि भक्षितुं भवति क्षमः ।
इयं हि समुखा प्रोक्ता जारणा मृगचारिणा ॥ ४.९६ ॥

{राक्षसमुख}
दिव्यौषधिसमायोगात्स्थितः प्रकटकोष्ठिषु ।
भुङ्क्ते निखिललोहाद्यं योऽसौ राक्षसवक्त्रवान् ॥ ४.९७ ॥

{चारणा}
रसस्य वदने ग्रासक्षेपणं चारणा मता ।
{गर्भद्रुति}
ग्रस्तस्य द्रावणं गर्भे गर्भद्रुतिरुदाहृता ॥ ४.९८ ॥

{बाह्यद्रुति}
बहिरेव द्रुतीकृत्य घनसत्त्वादिकं खलु ।
जारणाय रसेन्द्रस्य सा बाह्या द्रुतिरुच्यते ॥ ४.९९ ॥

{द्रुति (सुब्स्तन्चे)}
निर्लेपत्वं द्रवत्वं च तेजस्त्वं लघुता तथा ।
द्रुतं योगश्च सूतेन पञ्चधा द्रुतिलक्षणम् ॥ ४.१०० ॥

{द्रुति (प्रोचेस्स्)}
तुषधान्यादियोगेन लोहधात्वादिकं सदा ।
संतिष्ठते द्रवाकारं सा द्रुतिः परिकीर्तिता ॥ ४.१०१ ॥

{जारणा}
द्रुतग्रासपरीणामो विडयन्त्रादियोगतः ।
जारणेत्युच्यते तस्याः प्रकाराः सन्ति कोटिशः ॥ ४.१०२ ॥

{विड (def.)}
क्षारैरम्लैश्च गन्धाद्यैर्मूत्रैश्च पटुभिस्तथा ।
रसग्रासस्य जीर्णार्थं तद्विडं परिकीर्तितम् ॥ ४.१०३ ॥

{रञ्जन}
सुसिद्धबीजधात्वादिजारणेन रसस्य हि ।
पीतादिरागजननं रञ्जनं परिकीर्तितम् ॥ ४.१०४ ॥

{सारणा}
सूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं हि यत् ।
वेधाधिक्यकरं लोहे सारणा सा प्रकीर्तिता ॥ ४.१०५ ॥

{वेध}
व्यवायिभेषजोपेतो द्रव्ये क्षिप्तो रसः खलु ।
वेध इत्युच्यते तज्ज्ञैः स चानेकविधः स्मृतः ॥ ४.१०६ ॥

{वेधभेदाः}
लेपः क्षेपश्च कुन्तश्च धूमाख्यः शब्दसंज्ञकः ।
{लेपवेध}
लेपेन कुरुते लोहं स्वर्णं वा रजतं तथा ॥ ४.१०७ ॥

लेपवेधः स विज्ञेयः पुटमत्र च सौकरम् ।
{क्षेपवेध}
प्रक्षेपणं द्रुते लोहे वेधः स्यात् क्षेपसंज्ञितः ॥ ४.१०८ ॥

{कुन्तवेध}
संदंशधृतसूतेन द्रुतद्रव्याहृतिश्च या ।
सुवर्णत्वादिकरणी कुन्तवेधः स कथ्यते ॥ ४.१०९ ॥

{धूमवेध}
वह्नौ धूमायमानेऽन्तः प्रक्षिप्तरसधूमतः ।
स्वर्णाद्यापादनं लोहे धूमवेधः स उच्यते ॥ ४.११० ॥

{शब्दवेध}
मुखस्थितरसेनाल्पलोहस्य धमनात्खलु ।
स्वर्णरूप्यत्वजननं शब्दवेधः प्रकीर्तितः ॥ ४.१११ ॥

{उद्घाटन}
विद्धद्रव्यस्य सूतेन कालुष्यादिनिवारणम् ।
प्रकाशनं च वर्णस्य तदुद्घाटनमीरितम् ॥ ४.११२ ॥

{स्वेदन}
क्षाराम्लैरौषधैः सार्धं भाण्डे रुद्ध्वातियत्नतः ।
भूमौ निखन्यते यत्तत्स्वेदनं संप्रकीर्तितम् ॥ ४.११३ ॥

{संन्यास}
रसस्यौषधयुक्तस्य भाण्डं रुद्ध्वातियत्नतः ।
सदाग्नियुतचुल्ल्यन्तः क्षेपः संन्यास उच्यते ॥ ४.११४ ॥

{स्वेदनसंन्यासगुणाः}
द्वावेतौ स्वेदसंन्यासौ रसराजस्य निश्चितम् ।
गुणप्रभावजननौ शीघ्रव्याप्तिकरौ तथा ॥ ४.११५ ॥

रसनिगममहाब्धेः सोमदेवः समन्तात्स्फुटतरपरिभाषा नाम रत्नानि हृत्वा ।
व्यरचयदतियत्नात्तैर् इमां कण्ठमालां कलयति भिषगग्र्यो मण्डनार्थं सभायाम् ॥ ४.११६ ॥

पठेत् पठितपाठोऽयमध्यायो रसवादिनः ।
रसकर्माणि कुर्वाणो न स मुह्यति कुत्रचित् ॥ ४.११७ ॥


अध्याय ५[सम्पाद्यताम्]

अथ यन्त्राणि वक्ष्यन्ते रसतन्त्राण्यनेकशः ।
समालोक्य समासेन सोमदेवेन साम्प्रतम् ॥ ५.१ ॥

स्वेदादिकर्म निर्मातुं वार्त्तिकेन्द्रैः प्रयत्नतः ।
यन्त्र्यते पारदो यस्मात्तस्माद्यन्त्रमितीरितम् ॥ ५.२ ॥

{दोलायन्त्र}
विबन्ध्य सौषधं सूतं सभूर्जे त्रिगुणाम्बरे ।
रसपोट्टलिकां काष्ठे दृढं बद्ध्वा गुणेन हि ॥ ५.३ ॥

संधानपूर्णकुम्भान्तः प्रलम्बनगतिस्थिताम् ।
अधस्ताज्ज्वालयेदग्निं तत्तदुक्तक्रमेण हि ।
दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि ॥ ५.४ ॥

{खल्वयन्त्र}
खल्वयन्त्रं त्रिधा प्रोक्तं मर्दनादिककर्मणि ।
निरुद्गाराश्मजश् चैकस्तदन्यो लोहसम्भवः ॥ ५.५ ॥

{अर्धचन्द्राकृतिखल्व}
उत्सेधेन दशाङ्गुलः खलु कलातुल्याङ्गुलायामवान् ।
विस्तारेण नवाङ्गुलो रसमितैर्निम्नस्तथैवाङ्गुलैः ॥ ५.६ ॥

कण्ठो द्व्यङ्गुलविस्तृतोऽतिमसृणो द्रोण्यर्धचन्द्राकृतिः ।
घर्षश्चैव दशाङ्गुलस्तु यदिदं खल्वाख्ययन्त्रं स्मृतम् ॥ ५.७ ॥

अस्मिन्पञ्चपलः सूतो मर्दनीयो विशुद्धये ।
तत्तदौचित्ययोगेन खल्वेष्वन्येषु शोधयेत् ॥ ५.८ ॥

{वर्तुलखल्व}
द्वादशाङ्गुलिविस्तारः खल्वो भवति वर्तुलः ।
चतुरङ्गुलनिम्नश्च मध्येऽतिमसृणीकृतः ॥ ५.९ ॥

मर्दकश्चिपिटोऽधस्तात् सुग्रहश्च शिखोपरि ।
{तप्तखल्व}
लौहो नवाङ्गुलः खल्वो निम्नत्वेन षडङ्गुलः ॥ ५.१० ॥

मर्दकोऽष्टाङ्गुलश्चैव तप्तखल्वाभिधो ह्य् अयम् ।
कृत्वा खल्वाकृतिं चुल्लीमङ्गारैः परिपूर्यताम् ॥ ५.११ ॥

तस्यां निवेशितं खल्वं पार्श्वे भस्त्रिकया धमेत् ।
तस्मिन्विमर्दिता पिष्टी क्षारैरम्लैश्च संयुता ॥ ५.१२ ॥

प्रद्रवत्यतिवेगेन स्वेदतो नात्र संशयः ।
कृतः कान्तायसा सोऽयं भवेत्कोटिगुणोत्तरः ॥ ५.१३ ॥

{वलभीयन्त्र}
यत्र लोहमये पात्रे पार्श्वयोर्वलयद्वयम् ।
तादृक्स्वल्पतरं पात्रं वलयप्रोतकोष्ठकम् ॥ ५.१४ ॥

पूर्वपात्रोपरि न्यस्य स्वल्पपात्रे परिक्षिपेत् ।
रसं संमूर्छितं स्थूलपात्रमापूर्य काञ्जिकैः ॥ ५.१५ ॥

द्वियामं स्वेदयेदेवं रसोत्थापनहेतवे ।
एतत्स्याद्वलभीयन्त्रं रससाद्गुण्यकारणम् ॥ ५.१६ ॥

सूक्ष्मकान्तमये पात्रे रसः स्याद्गुणवत्तरः ।
{ऊर्ध्वपातनयन्त्र}
अष्टाङ्गुलमिता सम्यक् वर्तुला चिपटी तले ॥ ५.१७ ॥

चतुरङ्गुलतः कण्ठादधो द्रोण्या समन्विता ।
चतुरङ्गुलविस्तारनिम्नया दृढबद्धया ॥ ५.१८ ॥

तत्पिधानघटी मूले षोडशाङ्गुलविस्तरा ।
नवाङ्गुलकविस्तारकण्ठेन च समन्विता ॥ ५.१९ ॥

पूर्वघट्यां रसं क्षिप्त्वा न्युब्जां दद्यात् परां घटीम् ।
सोर्ध्वं निम्नं च परितो दृढपालिकयान्विताम् ॥ ५.२० ॥

पाल्यां द्रोण्यां क्षिपेत्तोयं पावकं ज्वालयेदधः ।
ऊर्ध्वपातनयन्त्रं हि नन्दिना परिकीर्तितम् ॥ ५.२१ ॥

{अधःपातनयन्त्र}
उपर्यधस्तनस्थाल्यां क्षिपेदन्यामधोमुखीम् ।
स्थालिकां चिपटीभूततलान्तर्लिप्तपारदाम् ॥ ५.२२ ॥

क्षिप्त्वा तां पङ्किले गर्ते ज्वालयेन्मूर्ध्नि पावकम् ।
अधःपातनयन्त्रं हि तदैतत् परिकीर्तितम् ॥ ५.२३ ॥

{तिर्यक्पातनयन्त्र}
क्षिपेद्रसं घटे दीर्घनताधोनालसंयुते ।
तन्नालं निक्षिपेदन्यत् घटकुक्ष्यन्तरे खलु ॥ ५.२४ ॥

तत्र रुद्ध्वा मृदा सम्यग्वदने घटयोरथ ।
अधस्ताद्रसकुम्भस्य ज्वालयेत्तीव्रपावकम् ॥ ५.२५ ॥

इतरस्मिन् घटे तोयं प्रक्षिपेत् स्वादु शीतलम् ।
तिर्यक्पातनयन्त्रं हि वार्त्तिकैर् अभिधीयते ॥ ५.२६ ॥

{पातनायन्त्रस्:: use}
पातनात्रितयं प्रोक्तं यन्त्राणां त्रितयं खलु ।
पातनैश्च विना सूतो न तरां दोषमुझति ॥ ५.२७ ॥

त्रिभिरेवोर्ध्वपातैश्च कस्माद्दोषान्न मुच्यते ।
विभागेन विपाके तु द्रव्येणान्येन योगतः ॥ ५.२८ ॥

पात्रान्तरपरिक्षेपात् गुणाः स्युर् विविधाः खलु ।
खण्डन्युलूखलाम्भोभिस् तण्डुलाः स्युर् मलोझिताः ॥ ५.२९ ॥

पातेनैव महाशुद्धिर्नन्दिना परिकीर्तिता ।
{कच्छपयन्त्र}
विशालवदने भाण्डे तोयपूर्णे निवेशयेत् ॥ ५.३० ॥

खर्परं पृथुकं सम्यक् प्रसरे तस्य मध्यमे ।
आलवालं विडैः कृत्वा तन्मध्ये पारदं क्षिपेत् ॥ ५.३१ ॥

ऊर्ध्वाधश्च विडं दत्त्वा मल्लेनारुध्य यत्नतः ।
पुटमौचित्ययोगेन दीयते तन्निगद्यते ॥ ५.३२ ॥

यन्त्रं कच्छपसंज्ञं हि तदुक्तं रसजारणे ।
{अन्तरालिकयन्त्र}
कृत्वा लोहमयीं मूषां वृन्ताकाकारधारिणीम् ॥ ५.३३ ॥

वितस्त्या संमितां कान्तलोहेन परिनिर्मिताम् ।
मुण्डलोहोद्भवां वापि कण्ठाधो द्व्यङ्गुलादधः ॥ ५.३४ ॥

द्व्यङ्गुलं वलयं दद्यात् मध्यदेशेन कण्ठतः ।
पिधानधारकं चिञ्चापत्त्रविस्तीर्णकङ्कणम् ॥ ५.३५ ॥

पिधानम् अन्तराविष्टं सशिखं श्लिष्टसंधिकम् ।
तले प्रविहितच्छिद्रं भाण्डं कृत्वा ह्य् अधोमुखम् ॥ ५.३६ ॥

तत्रैनां लम्बयेन्मूर्ध्नि निरुध्य च विशोष्य च ।
स्थालीकण्ठं ततो दद्यात् पुटमग्निविधायकम् ॥ ५.३७ ॥

एवंरूपं भवेद्यन्त्रमन्तरालिकसंज्ञकम् ।
अनेन कारयेद्गन्धद्रुतिं गर्भद्रुतिं तथा ॥ ५.३८ ॥

{तापिकायन्त्र}
तापीं मूषां मृदा कृत्वा दृढां चारत्निमात्रिकाम् ।
सुदृढां मध्यदेशे च द्व्यङ्गुलच्छिद्रसंयुताम् ॥ ५.३९ ॥

कान्तलोहमयीं खारीं दद्याद् गन्धस्य चोपरि ।
तापिकां पूरयेच्छुद्धसिकताभिः समन्ततः ॥ ५.४० ॥

तां च चुल्ल्यां समारोप्य क्षेपं क्षेपं विडद्रवम् ।
पादाङ्गुष्ठमितज्वालं ज्वालयेदनलं ततः ॥ ५.४१ ॥

लोहाभ्रकादिकं सर्वं रसस्य परिजारयेत् ।
तापिकायन्त्रमित्युक्तं सुकरं रसजारणे ॥ ५.४२ ॥

{प्रतिगर्भयन्त्र}
स्थाल्यां विनिक्षिप्य रसादि वस्तु स्वर्णादि खार्या प्रपिधाय भूयः ।
अम्लेन चोर्ध्वे लवणादि वस्तु चुल्ल्यां पचेत्तत् प्रतिगर्भयन्त्रम् ॥ ५.४३ ॥

{गर्भयन्त्र}
खारीं मल्लान्तरस्थालीं निरुन्ध्यादतियत्नतः ।
स्थाल्यां मृदोऽथवा खार्यां क्षिप्त्वा वस्तु निरुध्य च ॥ ५.४४ ॥

क्षिप्त्वा चाम्लादिकं रुद्ध्वा पाकः स्याद्गर्भयन्त्रके ।
{पालिकायन्त्र}
चषकं वर्तुलं लौहं विनताग्रोर्ध्वदण्डकम् ॥ ५.४५ ॥

एतद्धि पालिकायन्त्रं बलिजारणहेतवे ।
{घटयन्त्र}
चतुःप्रस्थजलाधारं चतुरङ्गुलकाननम् ॥ ५.४६ ॥

घटयन्त्रमिति प्रोक्तं तदाप्यायनके मतम् ।
{इष्टिकायन्त्र}
विधाय वर्तुलं गर्तं मल्लमत्र निधाय च ॥ ५.४७ ॥

विनिधायेष्टिकां तत्र मध्ये गर्तवतीं शुभाम् ।
गर्तस्य परितः कुर्यात् पालिकामङ्गुलोच्छ्रयाम् ॥ ५.४८ ॥

गर्ते सूतं विनिक्षिप्य गर्तास्ये वसनं क्षिपेत् ।
निक्षिप्य गन्धकं तत्र मल्लेनास्यं निरुध्य च ॥ ५.४९ ॥

मल्लपालिकयोर्मध्ये मृदा सम्यङ्निरुध्य च ।
वनोपलैः पुटं देयं कपोताख्यं न चाधिकम् ॥ ५.५० ॥

इष्टिकायन्त्रमेतद्धि गन्धकं तेन जारयेत् ।
{विद्याधरयन्त्र}
स्थालिकोपरि विन्यस्य स्थालीं सम्यङ्निरुध्य च ॥ ५.५१ ॥

ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा वह्निं प्रज्वालयेदधः ।
एतद्विद्याधरं यन्त्रं हिङ्गुलाकृष्टिहेतवे ॥ ५.५२ ॥

{डमरुयन्त्र}
यत्र स्थाल्युपरि स्थालीं न्युब्जां दत्त्वा निरुध्य च ।
यन्त्रं डमरुकाख्यं तद्रसभस्मकृते हितम् ॥ ५.५३ ॥

{नाभियन्त्र}
मल्लमध्ये चरेद्गर्तं तत्र सूतं सगन्धकम् ।
गर्तस्य परितः कुड्यं प्रकुर्याद् द्व्यङ्गुलोच्छ्रयम् ॥ ५.५४ ॥

ततश्चाच्छादयेत्सम्यग्गोस्तनाकारमूषया ।
सम्यक् तोयमृदा रुद्ध्वा सम्यग्गर्तोच्चमानया ॥ ५.५५ ॥

ततो जलं विनिक्षिप्य वह्निं प्रज्वालयेदधः ।
नाभियन्त्रमिदं प्रोक्तं नन्दिना सर्ववेदिना ॥ ५.५६ ॥

अनेन जीर्यते सूतो निर्धूमः शुद्धगन्धकः ।
{तोयमृत्तिका}
लेहवत् कृतबर्बूरक्वाथेन परिमर्दितम् ॥ ५.५७ ॥

जीर्णकिट्टरजः सूक्ष्मं गुडचूर्णसमन्वितम् ।
इयं हि जलमृत्प्रोक्ता दुर्भेद्या सलिलैः खलु ॥ ५.५८ ॥

{वह्निमृत्स्ना}
खटिकापटुकिट्टैश्च महिषीदुग्धमर्दितैः ।
वह्निमृत्स्ना भवेद्घोरवह्नितापसहा खलु ॥ ५.५९ ॥

एतया मृत्स्नया रुद्धो न गन्तुं क्षमते रसः ।
विदग्धवनिताप्रौढप्रेम्णा बद्धः पुमानिव ॥ ५.६० ॥

नन्दी नागार्जुनश्चैव ब्रह्मज्योतिर्मुनीश्वरः ।
वेत्ति श्रीसोमदेवश्च नापरः पृथिवीतले ॥ ५.६१ ॥

{ग्रस्तयन्त्र}
मूषां मूषोदराविष्टाम् आद्यन्तसमवर्तुलाम् ।
चिपिटां च तले प्रोक्तं ग्रस्तयन्त्रं मनीषिभिः ॥ ५.६२ ॥

सूतेन्द्रबन्धनार्थं हि रसविद्भिरुदीरितम् ।
{तुलायन्त्र}
वृन्ताकाकारमूषे द्वे तयोः कण्ठादधः खलु ॥ ५.६३ ॥

प्रादेशमात्रनलिका मृदालिप्तसुसंधिका ।
तत्रैकस्यां क्षिपेत् सूतम् अन्यस्यां गन्धचूर्णकम् ॥ ५.६४ ॥

निरुध्य मूषयोर् वक्त्रं वालुकायन्त्रके क्षिपेत् ।
अधोऽग्निं ज्वालयेदेतत्तुलायन्त्रमुदाहृतम् ॥ ५.६५ ॥

शिलातालकगन्धाश्मजारणाय प्रकीर्तितम् ।
{स्थालीयन्त्र}
स्थाल्यां ताम्रादि निक्षिप्य मल्लेनास्यं निरुध्य च ॥ ५.६६ ॥

पच्यते स्थालिकासंस्थं स्थालीयन्त्रमितीरितम् ।
{कोष्ठिकायन्त्र}
स्थूलभाण्डोदरस्यान्तर् वालुकां निक्षिपेच्छुभाम् ॥ ५.६७ ॥

वितस्तिप्रमितोत्सेधां ततस्तत्र निवेशयेत् ।
अपक्वां मृन्मयीं कोष्ठीं द्वादशाङ्गुलकोच्छ्रयाम् ॥ ५.६८ ॥

षडङ्गुलकविस्तीर्णां मध्येऽतिमसृणीकृताम् ।
पञ्चाङ्गुलपिधानं च तीक्ष्णाग्रं मुकुटाकृतिम् ॥ ५.६९ ॥

न न्यूना नाधिका कोष्ठी कण्ठतो मसृणा बहिः ।
कोष्ठ्यां च निक्षिपेद्गन्धं षट्पलं श्लक्ष्णचूर्णितम् ॥ ५.७० ॥

ततस्त्रिपादिकां लौहीं विनिवेश्य स्थिरीकृताम् ।
तस्यां च विन्यसेत् खारीं लौहीं वा कान्तलोहजाम् ॥ ५.७१ ॥

तस्यां सूतं क्षिपेच्छुद्धं पलविंशतिमानतः ।
जीर्णगन्धकसूतं च भावयेल्लशुनद्रवैः ॥ ५.७२ ॥

अधःशिखेन पूर्वोक्तपिधानेन पिधाय च ।
संधिबन्धं प्रकुर्वीत सुधामृत्स्नागुडादिभिः ॥ ५.७३ ॥

संधिबन्धे विशुष्के च क्षिपेदुपरि वालुकाः ।
भाण्डवक्त्रं निरुध्याथ ज्वालयेत्तदधोऽनलम् ॥ ५.७४ ॥

खरं यामत्रयं यावत्ततो गन्धकसम्भवः ।
पिधानलग्नधूमोऽसौ गलित्वा निपतेद्रसे ॥ ५.७५ ॥

एवं हि षड्गुणं गन्धं भुक्त्वा सूतो गुणी भवेत् ।
करोति कल्पनिर्दिष्टान्विशिष्टान् सकलान् गुणान् ॥ ५.७६ ॥

कोष्ठिकायन्त्रमेतद्धि नन्दिना परिकीर्तितम् ।
{वालुकायन्त्र}
पञ्चाढवालुकापूर्णे भाण्डे निक्षिप्य यत्नतः ॥ ५.७७ ॥

पच्यते रसगोलाद्यं वालुकायन्त्रमीरितम् ।
{लवणयन्त्र}
एवं लवणनिक्षेपात् प्रोक्तं लवणयन्त्रकम् ॥ ५.७८ ॥

{धूपयन्त्र}
विधायाष्टाङ्गुलं पात्रं लौहमष्टाङ्गुलोच्छ्रयम् ।
कण्ठाधो द्व्यङ्गुले देशे जलाधारं हि तत्र च ॥ ५.७९ ॥

तिर्यग्लोहशलाकाश्च तन्वीस्तिर्यग् विनिक्षिपेत् ।
तनूनि स्वर्णपत्त्राणि तासामुपरि विन्यसेत् ॥ ५.८० ॥

पात्राधो निक्षिपेद् धूमं वक्ष्यमाणमिहैव हि ।
तत्पात्रं न्युब्जपात्रेण छादयेदपरेण हि ॥ ५.८१ ॥

मृदा विलिप्य संधिं च वह्निं प्रज्वालयेदधः ।
तेन कृष्णानि पत्त्राणि हतान्युक्तविधानतः ॥ ५.८२ ॥

रसश्चरति वेगेन द्रुतिं गर्भद्रुतिं तथा ।
गन्धालकशिलानां हि कज्जल्या वा मृताहिना ॥ ५.८३ ॥

धूपनं स्वर्णपत्त्राणां परमं परिकीर्तितम् ।
तारार्थं तारपत्त्राणि मृतवङ्गेन धूपयेत् ॥ ५.८४ ॥

धूपयेच्च यथायोग्यै रसैरुपरसैरपि ।
धूपयन्त्रमिति प्रोक्तं जारणाद्रव्यवाहने ॥ ५.८५ ॥

{कुण्डकयन्त्र = कन्दुकयन्त्र}
स्थूलस्थाल्यां द्रवं क्षिप्त्वा वासो बद्ध्वा मुखे दृढम् ।
तत्र स्वेद्यं विनिक्षिप्य पिधान्या प्रपिधाय च ॥ ५.८६ ॥

अधोऽग्निं ज्वालयेत्तत्र तत्स्यात्कुण्डकयन्त्रकम् ।
स्वेदनं यन्त्रमित्येतत्प्राहुरन्ये मनीषिणः ॥ ५.८७ ॥

{कुण्डयन्त्र (२)}
यद्वा स्थाल्यां जलं क्षिप्त्वा तृणं दत्त्वा मुखोपरि ।
स्वेद्यद्रव्यं विनिक्षिप्य पिधान्या प्रपिधाय च ॥ ५.८८ ॥

अधस्ताज्ज्वालयेद् अग्निमेतद्वा कुण्डयन्त्रकम् ।
{डेकीयन्त्र}
भाण्डकण्ठादधश्छिद्रे वेणुनालं विनिक्षिपेत् ॥ ५.८९ ॥

कांस्यपात्रद्वयं क्षिप्त्वा सम्पुटं जलगर्भितम् ।
नालास्यं तत्र संयोज्य दृढं तच्चापि कारयेत् ॥ ५.९० ॥

उक्तद्रव्यैर्विनिक्षिप्तः पूर्वं तत्र घटे रसः ।
अग्निना तापितो नालात् तोये तस्मिन् पतत्यधः ॥ ५.९१ ॥

यावदुष्णं भवेत्सर्वं भाजनं किंचिदेव हि ।
जायते रससंधानं ढेकीयन्त्रम् इदं भवेत् ॥ ५.९२ ॥

{सोमानलयन्त्र}
ऊर्ध्वं वह्निर् अधश्चापो मध्ये तु रससंग्रहः ।
सोमानलम् इदं प्रोक्तं जारयेद् गगनादिकम् ॥ ५.९३ ॥

{नालिकायन्त्र}
लोहनालगतं सूतं भाण्डे लवणपूरिते ।
निरुद्धं विपचेत्प्राज्ञो नालिकायन्त्रमीरितम् ॥ ५.९४ ॥

{मूषा}
अथ मूषाभिधा मृत्स्ना संस्थानं विविधाकृतिः ।
विधिना विनियोगश्च सोमदेवेन कीर्त्यते ॥ ५.९५ ॥

{crucible:: synonyms}
मूषा हि कोष्ठिका प्रोक्ता कुमुदी करहारिका ।
पातनी वह्निमित्रा च रसवादिभिर् ईर्यते ॥ ५.९६ ॥

{च्रुचिब्ले:: निरुक्ति}
मुष्णाति दोषान्मूषेयान्सा मूषेति निगद्यते ।
उपादानं भवेत्तस्या मृत्तिका लोहमेव च ॥ ५.९७ ॥

मूषामुखविनिष्क्रान्ता वरमेकापि काकिणी ।
दुर्जनप्रणिपातेन धिग् लक्षमपि मानिनाम् ॥ ५.९८ ॥

{संधिलेप}
मूषापिधानयोर् बन्धे बन्धनं संधिलेपनम् ।
अन्ध्रणं रन्ध्रणं चैव संश्लिष्टं संधिबन्धनम् ॥ ५.९९ ॥

{clay:: शर्करा}
मृत्तिका पाण्डुरस्थूला शर्करा शोणपाण्डुरा ।
चिराध्मानसहा सा हि मूषार्थमति शस्यते ।
तदभावे च वाल्मीकी कौलाली समुदीर्यते ॥ ५.१०० ॥

या मृत्तिका दग्धतुषैः शणेन शिखित्रकैर्वा हयलद्दिना च ।
लौहेन दण्डेन च कुट्टिता सा साधारणा स्यात्खलु मूषिकार्थे ॥ ५.१०१ ॥

श्वेताश्मानस्तुषा दग्धाः शिखित्राः शणकर्पटे ।
लद्दिः किट्टं यथायोग्यं संयोज्या मूषिकामृदि ॥ ५.१०२ ॥

{वज्रमूषा}
मृदस्त्रिभागं शणलद्दिभागौ भागश्च निर्दग्धतुषोपलादेः ।
किट्टार्धभागं परिखण्ड्य वज्रमूषां विदध्यात्खलु सत्त्वपाते ॥ ५.१०३ ॥

{योगमूषा}
दग्धाङ्गारतुषोपेता मृत्स्ना वल्मीकसम्भवा ।
तत्तद्विडसमायुक्ता तत्तद्विडविलेपिता ॥ ५.१०४ ॥

तया या विहिता मूषा योगमूषेति कथ्यते ।
अनया साधितः सूतो जायते गुणवत्तरः ॥ ५.१०५ ॥

{वज्रद्रावणमूषा}
गारभूनागधौताभ्यां शणैर्दग्धतुषैरपि ।
समैः समा च मूषा मृन्महिषीदुग्धमर्दिता ॥ ५.१०६ ॥

कोथिता पक्षमात्रं हि बहुधा परिवर्तिता ।
तया विरचिता मूषा वज्रद्रावणिकेरिता ॥ ५.१०७ ॥

{गारमूषा}
दग्धषड्गुणगाराढ्या किट्टाङ्गारशणान्विता ।
कृष्णमृद्भिः कृता मूषा गारमूषेत्युदाहृता ॥ ५.१०८ ॥

यामयुग्मम् अतिध्मानान्नासौ द्रवति वह्निना ।
{वरमूषा}
वस्त्राङ्गारतुषास्तुल्यास्तच्चतुर्गुणमृत्तिका ॥ ५.१०९ ॥

गारश्च मृत्तिकातुल्यः सर्वैरेतैर् विमर्दिता ।
वरमूषेति निर्दिष्टा यामं वह्निं सहेत च ॥ ५.११० ॥

{वर्णमूषा}
रक्तवर्गरजोयुक्ता रक्तवर्गाम्बुभाविता ।
मृत् तया लेपिता मूषा क्षितिखेचरलेपिता ॥ ५.१११ ॥

वर्णमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते ।
{रूप्यमूषा}
एवं हि श्वेतवर्गेण रूप्यमूषा प्रकीर्तिता ॥ ५.११२ ॥

{विडमूषा}
तत्तद्विडमृदोद्भूता तत्तद्विडविलेपिता ।
देहलोहार्थयोगार्थं विडमूषेत्युदाहृता ॥ ५.११३ ॥

{वज्रद्रावनामुषा (II)}
गारभूनागधौताभ्यां तुषमष्या शणेन च ।
समैः समा च मूषा मृन्महिषीदुग्धमर्दिता ॥ ५.११४ ॥

कोथिता पक्षमात्रं हि बहुधा परिकीर्तिता ।
तया विरचिता मूषा लिप्ता मत्कुणशोणितैः ॥ ५.११५ ॥

बलाब्दधावनीमूलैर् वज्रद्रावणक्रौञ्चिका ।
सहतेऽग्निं चतुर्यामं द्रावणे व्ययिता सती ॥ ५.११६ ॥

{मूषाप्यायन}
द्रवीभावमुपेयुः स्यान्मूषाया ध्मानयोगतः ।
क्षणमुद्धरणं यत् तन्मूषाप्यायनम् उच्यते ॥ ५.११७ ॥

{वृन्ताकमूषा}
वृन्ताकारमूषायां नालं दत्त्वा दशाङ्गुलम् ।
धत्तूरपुष्पवच्चोर्ध्वं सुदृढं श्लिष्टपुष्पवत् ॥ ५.११८ ॥

अष्टाङ्गुलं च सच्छिद्रं सा स्याद्वृन्ताकमूषिका ।
अनया खर्परादीनां मृदूनां सत्त्वमाहरेत् ॥ ५.११९ ॥

{गोस्तनीमूषा}
मूषा या गोस्तनाकारा शिखायुक्तपिधानका ।
सत्त्वानां द्रावणे शुद्धौ सा मूषा गोस्तनी भवेत् ॥ ५.१२० ॥

{मल्लमूषा}
निर्दिष्टा मल्लमूषा या मल्लद्वितयसम्पुटात् ।
पर्पट्यादिरसादीनां स्वेदनाय प्रकीर्तिता ॥ ५.१२१ ॥

{पक्वमूषा}
कुलालभाण्डरूपा या दृढा च परिपाचिता ।
पक्वमूषेति सा प्रोक्ता पोटल्यादिविपाचने ॥ ५.१२२ ॥

{गोलमूषा}
निर्वक्त्रगोलकाकारा पुटनद्रव्यगर्भिणी ।
गोलमूषेति सा प्रोक्ता सत्वरं द्रव्यरोधिनी ॥ ५.१२३ ॥

{महामूषा}
तले या कूर्पराकारा क्रमाद् उपरि विस्तृता ।
स्थूलवृन्ताकवत्स्थूला महामूषेत्यसौ मता ।
सा चायोऽभ्रकसत्त्वादेः पुटाय द्रावणाय च ॥ ५.१२४ ॥

{मञ्जूषमूषा}
मञ्जूषाकारमूषा या निम्नतायामविस्तरा ।
षडङ्गुलप्रमाणेन मूषा मञ्जूषसंज्ञिता ।
भूमौ निखन्य तां मूषां दद्यात्पुटमथोपरि ॥ ५.१२५ ॥

{मूशलमूषा}
मूषा या चिपिटा मूले वर्तुलाष्टाङ्गुलोच्छ्रया ।
मूषा सा मुशलाख्या स्याच्चक्रीबद्धरसे हिता ॥ ५.१२६ ॥

{कोष्ठी (intr.)}
सत्त्वानां पातनार्थाय पातितानां विशुद्धये ।
कोष्ठिका विविधाकारास्तासां लक्षणमुच्यते ॥ ५.१२७ ॥

{अङ्गारकोष्ठिका}
राजहस्तसमुत्सेधा तदर्धायामविस्तरा ।
चतुरस्रा च कुड्येन वेष्टिता मृन्मयेन हि ॥ ५.१२८ ॥

एकभित्तौ चरेद्गर्तं वितस्त्याभोगसंमितम् ।
द्वारं सार्धवितस्त्या च संमितं सुदृढं शुभम् ॥ ५.१२९ ॥

देहल्यधो विधातव्यं धमनाय यथोचितम् ।
प्रादेशप्रमिता भित्तिरुत्तरङ्गस्य चोर्ध्वतः ॥ ५.१३० ॥

द्वारं चोपरि कर्तव्यं प्रादेशप्रमितं खलु ।
ततश्चेष्टिकया रुद्ध्वा द्वारसंधिं विलिप्य च ॥ ५.१३१ ॥

शिखित्रैस्तां समापूर्य धमेद्भस्त्राद्वयेन तु ।
शिखित्रान् धमनद्रव्यम् ऊर्ध्वद्वारेण निक्षिपेत् ॥ ५.१३२ ॥

सत्त्वपातनगोलांश्च पञ्च पञ्च पुनः पुनः ।
भवेदङ्गारकोष्ठीयं खराणां सत्त्वपातिनी ॥ ५.१३३ ॥

{पातालकोष्ठिका}
दृढभूमौ चरेद्गर्तं वितस्त्या संमितं शुभम् ।
वर्तुलं चाथ तन्मध्ये गर्तमन्यं प्रकल्पयेत् ॥ ५.१३४ ॥

चतुरङ्गुलविस्तारनिम्नत्वेन समन्वितम् ।
गर्ताद्धरणिपर्यन्तं तिर्यङ्नालसमन्वितम् ॥ ५.१३५ ॥

किंचित्समुन्नतं बाह्ये गर्ताभिमुखनिम्नकम् ।
मृच्चक्रं पञ्चरन्ध्राढ्यं गर्भगर्तोपरि क्षिपेत् ॥ ५.१३६ ॥

आपूर्य कोकिलैः कोष्ठीं प्रधमेद् एकभस्त्रया ।
पातालकोष्ठिका ह्य् एषा धातूनां सत्त्वपातिनी ॥ ५.१३७ ॥

ध्मानसाध्यपदार्थानां नन्दिना परिकीर्तिता ।
{गारकोष्ठी}
द्वादशाङ्गुलनिम्ना या प्रादेशप्रमिता तथा ॥ ५.१३८ ॥

चतुरङ्गुलतश्चोर्ध्वं वलयेन समन्विता ।
भूरिछिद्रवतीं चक्रीं वलयोपरि निक्षिपेत् ॥ ५.१३९ ॥

शिखित्रांस्तत्र निक्षिप्य प्रधमेद्वङ्कनालतः ।
गारकोष्ठीयमुद्दिष्टा मृष्टलोहविनाशिनी ॥ ५.१४० ॥

{वङ्कनाल}
कूपीमृद्भिर् विधातव्यम् अरत्निप्रमितं दृढम् ।
अधोमुखं च तद्वक्त्रे नालं पञ्चाङ्गुलं तथा ॥ ५.१४१ ॥

वङ्कनालमिति प्रोक्तं दृढध्मानाय कीर्तितम् ।
{तिर्यक्प्रधमकोष्ठी}
कोष्ठी तद्वद्रसादीनां विधानाय विधीयते ॥ ५.१४२ ॥

द्वादशाङ्गुलकोत्सेधा सा बुध्ने चतुरङ्गुला ।
तिर्यक्प्रधमनाख्या च मृदुद्रव्यविशोधिनी ॥ ५.१४३ ॥

{पुट (def.)}
रसादिद्रव्यपाकानां मारणज्ञापनं पुटम् ।
नेष्टो न्यूनाधिकः पाकः सुपाकं हितमौषधम् ॥ ५.१४४ ॥

लोहादेरपुनर्भावो गुणाधिक्यं ततोऽग्रता ।
अनप्सुमज्जनं रेखापूर्णता पुटतो भवेत् ॥ ५.१४५ ॥

पुटाद्रागो लघुत्वं च शीघ्रव्याप्तिश्च दीपनम् ।
जारितादपि सूतेन्द्राल्लोहानाम् अधिको गुणः ॥ ५.१४६ ॥

यथाश्मनि विशेद्वह्निर् बहिःस्थः पुटयोगतः ।
चूर्णत्वादिगुणावाप्तिस्तथा लोहेषु निश्चितम् ॥ ५.१४७ ॥

{महापुट}
निम्ने विस्तरतः कुण्डे द्विहस्ते चतुरस्रके ।
वनोपलसहस्रेण पूरिते पुटनौषधम् ॥ ५.१४८ ॥

क्रौञ्च्यां रुद्धं प्रयत्नेन पिष्टकोपरि निक्षिपेत् ।
वनोपलसहस्रार्धं क्रौञ्चिकोपरि विन्यसेत् ॥ ५.१४९ ॥

वह्निं प्रज्वालयेत्तत्र महापुटमिदं स्मृतम् ।
{गजपुट}
राजहस्तप्रमाणेन चतुरस्रं च निम्नकम् ॥ ५.१५० ॥

पूर्णं चोपलसाहस्रैः कण्ठावध्यथ निक्षिपेत् ।
विन्यसेत् कुमुदीं तत्र पुटनद्रव्यपूरिताम् ॥ ५.१५१ ॥

पूर्वच्छगणतोऽर्धानि गिरिण्डानि विनिक्षिपेत् ।
एतद्गजपुटं प्रोक्तं महागुणविधायकम् ॥ ५.१५२ ॥

{वाराहपुट}
इत्थं चारत्निके कुण्डे पुटं वाराहमुच्यते ॥ ५.१५३ ॥

{कुक्कुटपुट}
पुटं भूमितले यत्तद्वितस्तिद्वितयोच्छ्रयम् ।
तावच्च तलविस्तीर्णं तत्स्यात्कुक्कुटकं पुटम् ॥ ५.१५४ ॥

{कपोतपुट}
यत्पुटं दीयते भूमावष्टसंख्यैर्वनोपलैः ।
तद् बालसूतभस्मार्थं कपोतपुटमुच्यते ॥ ५.१५५ ॥

{गोवर (def. a kind of cowdung)}
गोष्ठान्तर्गोखुरक्षुण्णं शुष्कं चूर्णितगोमयम् ।
गोवरं तत्समादिष्टं वरिष्ठं रससाधने ॥ ५.१५६ ॥

{गोवरपुट}
गोवरैर्वा तुषैर्वापि पुटं यत्र प्रदीयते ।
तद्गोवरपुटं प्रोक्तं रसभस्मप्रसिद्धये ॥ ५.१५७ ॥

{भाण्डपुट}
स्थूलभाण्डे तुषापूर्णे मध्ये मूषासमन्विते ।
वह्निना विहिते पाके तद्भाण्डपुटमुच्यते ॥ ५.१५८ ॥

{वालुकापुट}
अधस्तादुपरिष्टाच्च क्रौञ्चिकाच्छाद्यते खलु ।
वालुकाभिः प्रतप्ताभिर्यत्र तद्वालुकापुटम् ॥ ५.१५९ ॥

{भूधरपुट}
वह्निमित्रां क्षितौ सम्यङ् निखन्याद् द्व्यङ्गुलादधः ।
उपरिष्टात्पुटं यत्र पुटं तद्भूधराह्वयम् ॥ ५.१६० ॥

{लावकपुट}
ऊर्ध्वं षोडशिकामात्रैस्तुषैर्वा गोवरैः पुटम् ।
यत्र तल्लावकाख्यं स्यात् सुमृदुद्रव्यसाधने ॥ ५.१६१ ॥

{अनुक्तपुट}
अनुक्तपुटमाने तु साध्यद्रव्यबलाबलात् ।
पुटं विज्ञाय दातव्यमूहापोहविचक्षणैः ॥ ५.१६२ ॥

{synonyms for dried cowdung}
पिष्टकं छगणं छाणमुपलं चोत्पलं तथा ।
गिरिण्डोपलसाठी च नवारी छगणाभिधः ॥ ५.१६३ ॥

{उपसंहार}
यः सोमदेवैर्विहितं प्रकीर्णमध्यायम् एनं प्रकरोति पाठे ।
नासौ समीहेत गुरूपदेशं रसेन्द्रवैद्येऽपि च धातुवादे ॥ ५.१६४ ॥


अध्याय ७[सम्पाद्यताम्]

कथ्यन्ते सोमदेवेन साम्प्रतं दर्शिनो रसाः ।
श्रीकण्ठागमनिर्दिष्टा विशिष्टा रससाधने ॥ ७.१ ॥

{६८ प्रकार् की रसौषधियां}
जलोत्पलसमङ्गा च रसा च जलपिप्पली ।
स्थलप्रसारिणी चिञ्ची जालिनी जलमूलका ॥ ७.२ ॥

चन्द्रोदकार्धचन्द्रा च जलापामार्गतिक्तका ।
तुषाम्बु काकमाची च जलकुम्भी तथा शटी ॥ ७.३ ॥

उत्तमा हेमपुष्पी च दुर्गन्धा सितगन्धिनी ।
माण्डूकी मोहिनी मांसी पाषाणी चाथ शीशिका ॥ ७.४ ॥

सारिवालम्बुषा मेघनादी च शुकनासिका ।
पोतकी हीरिणी वज्रकन्दिका चापराजिता ॥ ७.५ ॥

वनमाला विदारी च कुक्कुटा हलिनीश्वरी ।
वाराही बृहती मूर्वा सर्पाक्षी सदचित्रिका ॥ ७.६ ॥

मालार्जुनश्च गोजिह्वा गरुडी हंसपादिका ।
नन्दिनी शिखिपादी च काश्मरी तुलसी तथा ॥ ७.७ ॥

वनकूष्माण्डवल्ली च वृश्चिकाली च वेणुका ।
मुशली चित्रपादी च कर्मस्फोटी तथा विषा ॥ ७.८ ॥

अजमारी पाटला च पटोली धन्वयासकः ।
भार्ङ्गी विषघ्नी गुडूची वासा भृङ्गी च पागवः ॥ ७.९ ॥

अष्टषष्टिरिति प्रोक्ता रसौषध्यो महाबलाः ।
बन्धने मारणे तद्वज्जारणे च नियामने ।
बन्धादाने च सूतस्य सर्वदोषापकर्मणि ॥ ७.१० ॥

विन्ध्याद्रौ हिमपर्वते च मलये गोमन्तके श्रीगिरौ सह्याद्रावथ पारियात्रकगिरौ किष्किन्धनामालये ।
माहेन्द्रेऽप्यथ माल्यवत्क्षितिधरे तद्रूपनामाधिकं गोपाभीरकसिद्धवैद्यमुखतो वैद्यैः समावेद्यताम् ॥ ७.११ ॥


अध्याय ८[सम्पाद्यताम्]

{सर्पाक्ष्यादिगणः}
सर्पाक्षी वन्ध्यकर्कोटी जलबिम्बी च जम्बुकी ।
पुनर्नवा च मत्स्याक्षी भृङ्गराजः शतावरी ॥ ८.१ ॥

शरपुङ्खा च मण्डूकपर्णिका ब्रह्मदण्डिका ।
अनन्ता कुक्कुटी जङ्घा काकमाची शिखण्डिनी ॥ ८.२ ॥

सहदेवी कपोती च विष्णुक्रान्ता कुरण्टकः ।
महाबला नागबला मूर्वा रास्ना कुरिङ्गिनी ॥ ८.३ ॥

फणिर्नीली प्रपुन्नाटः समङ्गामलकी तथा ।
ज्वालिनी मेघनादश्च गोजिह्वा पद्मचारिणी ॥ ८.४ ॥

पाठा च कोकिलाक्षश्च त्रिपत्त्रा चाखुकर्णिका ।
एकपर्णी द्विपर्णी च त्रिपर्णी क्षीरिणी तथा ॥ ८.५ ॥

तित्तिडी मेषशृङ्गी च तुलसी श्यामपर्णिका ।
श्वेताद्रिपर्णिका चेति सर्पाक्ष्यादिगणो मतः ॥ ८.६ ॥

षट्चत्वारिंशको नाम पारदस्य नियामकः ।
इहौषधीनां पञ्चाङ्गी गृहीतव्या विधानतः ॥ ८.७ ॥

रसादिस्वेदने मूषानयने शोधने तथा ।
अष्टोपरि यथालाभं ग्राह्या प्रोक्तेषु कर्मसु ॥ ८.८ ॥

अष्टकाधिकमाधिक्यं गुणानां कुरुते ध्रुवम् ।
{व्याघ्रिकादिगणः}
व्याघ्रिका राक्षसी वह्निश्चाण्डाली गजकर्णिका ॥ ८.९ ॥

षट्कारी शङ्खपुष्पी च बृहती हिलमोचकः ।
शृगालजिह्विका वह्निर्मदनी लाङ्गली तथा ॥ ८.१० ॥

चक्रिका वज्रिणी व्याघ्री कङ्कती पुत्रजीविका ।
कञ्चुकी चैव कर्कोटी कुमारी पद्मचारिणी ॥ ८.११ ॥

एकवीरा रुदन्ती च लक्ष्मी नरकसा तथा ।
उच्चटा रक्तचित्रा च नागिनी नागवल्लिका ॥ ८.१२ ॥

सक्तुका सक्तुशृङ्गी च रक्तस्नुग् यज्ञवल्लिका ।
शाखोटो मेषशृङ्गी च हेमली व्याघ्रपादिका ॥ ८.१३ ॥

शमी व्याघ्रनखी सोमवल्लरी चार्कपुष्पिका ।
केशिनी कासमारी च वृक्षराजोऽजमारिका ॥ ८.१४ ॥

कोटराक्षी हनूमन्ती नरजीवाङ्गनायकी ।
मालिका काकतुण्डी च मेघपुष्पी च कङ्गुणी ॥ ८.१५ ॥

अन्या तुवरवल्ली च जगती हंसपादिका ।
कुम्भिनी वह्निमारी च सूर्यभक्ता च वाकुची ॥ ८.१६ ॥

रसनिर्जीवकारी च भूशुण्डी कटुतुम्बिका ।
देवदाली विशाला च कार्पासी ब्रह्मरञ्जकम् ॥ ८.१७ ॥

कृष्णाक्षीवं तथा कृष्णधत्तूरो वनपीलुकम् ।
श्वेतार्को यवचिञ्चा च कारवेल्ली च दन्तिका ॥ ८.१८ ॥

गोजिह्वा काकजङ्घा च श्वेतगुञ्जा च शम्बरा ।
महाकाली सिताङ्कोलो मायूरश्च पटोलिका ॥ ८.१९ ॥

व्याघ्रिकादिगणः सोऽयं रसभस्मकरः परः ।
अत्रोक्तौषधिबीजेषु जीर्यते पारदः पृथक् ॥ ८.२० ॥

{रक्तस्नुह्यादिगणः}
रक्तस्नुही रुदन्ती च रक्ताग्निः सोमवल्लिका ।
वृद्धदारु च शाखोटी मोहिन्यङ्गारवल्लिका ॥ ८.२१ ॥

बर्हिका क्षीरमार्जारी त्रिशूला क्षीरकुक्कुटी ।
जीमूतः काकमाची च नीलिका शङ्खपुष्पिका ॥ ८.२२ ॥

नागवल्लीदलाकारपत्रयुक्ताल्पकन्दिनी ।
श्रीशैलोत्था च वज्रघ्नी नागकर्णीति सा स्मृता ॥ ८.२३ ॥

ज्योतिष्मती द्रुमज्योतिस्तृणज्योतिरथोच्चटा ।
उदुम्बरी त्रिदण्डी च नीलज्योतिस्तथापरा ॥ ८.२४ ॥

हेमवल्लरिका ताम्रवल्लरी चुक्र एव च ।
त्रिदण्डी ब्रह्मदण्डी च क्रौञ्चिका स्थलपद्मिनी ॥ ८.२५ ॥

वरा वर्तुलपर्णा च नागकण्ठी च लाङ्गली ।
नागजिह्वार्कपत्री च काष्ठोदुम्बरिका तथा ॥ ८.२६ ॥

कालदण्डी त्रिपर्णी च रक्तस्नुह्यादिको गणः ।
रसबन्धे वधे शुद्धौ विहितः शम्भुना स्वयम् ॥ ८.२७ ॥

द्रव्यैश्च स्थावरैर् उपस्पर्शगन्धरसान्वितैः ।
शोधितो मर्दितः सूतो म्रियते बध्यते सुखम् ॥ ८.२८ ॥

{कदल्यादिगणः}
कदली सूर्यभक्तश्च कटुकोषातकी तथा ।
द्राविणी काकमाची च शिग्रुका क्षीरकञ्चुकी ॥ ८.२९ ॥

नीरपिप्पलिका चेति कदल्यादिगणस् त्वयम् ।
द्रावणः सर्वलोहानां रसादीनां च निश्चितम् ॥ ८.३० ॥

{काकमाच्यादिगणः}
काकमाच्यर्कपत्री च कासमर्दः कृताञ्जलिः ।
लक्ष्मणा हंसपादी च नागिनी क्षीरनालिका ॥ ८.३१ ॥

ताम्बूली व्यालिका ब्राह्मी कारवल्ल्यर्जुनी चरा ।
वाराहकर्णिका मेघध्वनिश्च सहदेविका ॥ ८.३२ ॥

तथा कुरुवकश्चेति काकमाच्यादिको गणः ।
क्रामणाय विनिर्दिष्टा देहे लोहे रसस्य हि ॥ ८.३३ ॥

एकवीरा महावीरा प्रयोगो हेमदण्डिका ।
चतुर्भेदमिदं प्रोक्तं निश्चितं रसबन्धने ॥ ८.३४ ॥

देहलोहकरं सर्वं महारोगापकर्षणम् ।
धन्यं पुत्रप्रदं वृष्यं दर्शनस्पर्शनादिभिः ॥ ८.३५ ॥

{एकवीरा}
शवपत्त्रा भवेद्वल्ली पाते चैकफलान्विता ।
एकवीरेति सा प्रोक्ता रसबन्धकरी परम् ॥ ८.३६ ॥

{महावीरा}
एकमेकं फलं यस्याः परे पत्रे प्रजायते ।
प्रवालसदृशीच्छाया महावीरेति सा मता ॥ ८.३७ ॥

{प्रयोगकन्द}
त्रिकन्दस्त्रिशिखश्चैव वृन्तलग्नफलद्वयः ।
वेणुपर्णसदृक्पर्णैः गजविन्ध्याचलोद्भवः ॥ ८.३८ ॥

तस्य मध्यमकन्दो हि प्रयोगो नाम राक्षसः ।
तेन संमर्दितः सूतो म्रियते बध्यते सुखम् ॥ ८.३९ ॥

{हेमवल्ली}
ताम्बूलीपत्त्रवत्पत्रा स्वर्णवर्णपयस्विनी ।
फलपुष्पादिहीना च हेमवल्लीति सा मता ॥ ८.४० ॥

सम्बन्धसेविता येन तन्मूत्रैर्बद्धपारदः ।
संवत्सरधृतो वक्त्रे प्रधत्ते खेचरां गतिम् ॥ ८.४१ ॥

{वज्रदण्डादिवर्ग}
वज्रलशुनदण्डश्च लोहदण्डश्च ते त्रयः ।
ब्रह्मविष्णुशिवात्मानो जगत्त्रितयरक्षकाः ॥ ८.४२ ॥

पथ्या शुण्ठी शिला मुण्डी निर्गुण्डी च विडङ्गकम् ।
चित्रकस्त्रिकटुर्हेम माक्षिकं विमलं तथा ॥ ८.४३ ॥

वज्रदण्डादिवर्गोऽयं श्रेष्ठोऽतीव रसायने ।
सर्वव्याधिहरः श्रेष्ठो जरामृत्युविनाशनः ॥ ८.४४ ॥

{भूपाटल्यादिवर्गः}
भूपाटली पटोली च योगारी सिंहवल्लिका ।
शूकरी हेमवल्ली च नागधारी च मार्कवः ॥ ८.४५ ॥

भूपाटल्यादिवर्गोऽयं रसबन्धविधायकः ।
{पञ्चरत्नकगणः}
पाटलेन्दीवरी चैव मन्त्रसिंहासनी तथा ॥ ८.४६ ॥

निशाचरी च कङ्कालखेचरी पञ्चरत्नकम् ।
देहलोहकरं सूतवधबन्धविधायकम् ।
वलीपलितविध्वंसि सर्वव्याधिहरं परम् ॥ ८.४७ ॥


अध्याय ९[सम्पाद्यताम्]

{मधुरत्रय}
घृतं खण्डो माक्षिकं च विज्ञेयं मधुरत्रयम् ।
{मूत्रवर्गः}
मूत्राणि हस्तिकरभमहिषीखरवाजिनाम् ॥ ९.१ ॥

गोऽजावीनां स्त्रियः पुंसां पुष्पं बीजं च योजयेत् ।
{पञ्चमृत्तिका}
इष्टिका गैरिकं लोणं भस्म वल्मीकमृत्तिका ॥ ९.२ ॥

रसप्रयोगकुशलैः कीर्तिताः पञ्चमृत्तिकाः ।
{क्षारत्रय}
टङ्कणं च यवक्षारः सर्जिक्षारस्तृतीयकः ॥ ९.३ ॥

{क्षारवर्गः}
पलाशकदलीशिग्रुतिलापामार्गमोक्षकाः ।
मूलकस् तिन्तिडीबोधिरक्तराजगिरिस् तथा ॥ ९.४ ॥

कम्बलोऽपरकुड्यानि क्षारश्चैषां पृथग्विधः ।
क्षारवर्ग इति प्रोक्तः दीपनश्च महाबलः ॥ ९.५ ॥

रत्नादिजारणश्चापि सर्वलोहादिजारणः ।
{अम्लवर्गः}
अम्लवेतसजम्बीरनिम्बुकं राजनिम्बुकम् ॥ ९.६ ॥

बदरं बीजपूरं च तिन्तिडी चुक्रिका तथा ।
चणाम्लं काञ्जिकं तद्वदम्लिका चाम्लदाडिमम् ॥ ९.७ ॥

करमर्दं च कोलाम्लमम्लवर्गोऽयमुच्यते ।
रसादीनां विशुद्ध्यर्थं द्रावणे जारणे हितः ॥ ९.८ ॥

{लवणवर्गः}
सामुद्रं सिन्धुसंजातं काचोत्थं विडसंज्ञितम् ।
सौवर्चलमथो रौमं चुल्लिकं च गडादि च ॥ ९.९ ॥

लवणानामयं वर्गो रुच्यः पाचनदीपनः ।
द्रावणः शोधनः सर्वलोहानां भस्मनामपि ॥ ९.१० ॥

{विषवर्गः}
शृङ्गिकं कालकूटं च वत्सनाभं च सक्तुकम् ।
पीतं च विषवर्गोऽयं स वरः परिकीर्तितः ॥ ९.११ ॥

{विषवर्ग:: medic. properties}
रसकर्मणि शस्तोऽयं तद्बन्धनवधेऽपि च ।
अयुक्त्या सेवितश्चायं मारयत्येव निश्चितम् ॥ ९.१२ ॥

{उपविषवर्गः}
लाङ्गली विषमुष्टिश्च करवीरश् च जया तथा ।
नीलकः कनकोऽर्कश्च वर्गो ह्युपविषात्मकः ॥ ९.१३ ॥

{उपविष:: medic. properties}
दीपनः पाचनो भेदी रसे क्वापि च युज्यते ।
विषेषु जङ्गमाद्येषु विषं सर्पस्य नापरम् ॥ ९.१४ ॥

{तैलवर्गः}
तिलातसीकुसुम्भानां निम्बस्य करजस्य च ।
राज्याः सिद्धार्थकस्यापि गुञ्जाकङ्गुणिबीजयोः ॥ ९.१५ ॥

मधूकस्य च तैलैश्च तैलवर्गो रसे हितः ।
{दुग्धवर्गः}
हस्त्यश्ववनिताधेनुगर्दभीछागिकाविकाः ॥ ९.१६ ॥

उष्ट्रिकोदुम्बराश्वत्थभानुन्यग्रोधतिल्वकः ।
दुग्धिका स्नुग्गणं चैतत्तथैवोत्तमकर्णिका ॥ ९.१७ ॥

एषां दुग्धैर् विनिर्दिष्टो दुग्धवर्गो रसादिषु ।
{पित्तवर्गः}
महिषक्रोडमत्स्यानां छागस्य च शिखण्डिनः ॥ ९.१८ ॥

कृष्णाहिरोहितानां च मार्जारस्य च मायुभिः ।
प्रोक्तः पित्तगणः सूतवधबन्धनभावने ॥ ९.१९ ॥

{वसावर्गः}
भेककूर्मवराहाहिनरमांससमुत्थया ।
वसया च वसावर्गो रसकर्मणि शस्यते ॥ ९.२० ॥

{विड्गणः}
पारावतस्य चाषस्य कपोतस्य कलापिनः ।
गृध्रस्य कुक्कुटस्यापि विनिर्दिष्टो हि विड्गणः ॥ ९.२१ ॥

शोधनः सर्वलोहानां पुटनाल्लेपनात् खलु ।
{रक्तवर्गः}
कुसुम्भखदिरो लाक्षा मञ्जिष्ठा रक्तचन्दनम् ॥ ९.२२ ॥

अद्री च बन्धुजीवं च तथा कर्पूरगन्धिनी ।
माक्षिकं चेति विज्ञेयो रक्तवर्गोऽतिरञ्जनः ॥ ९.२३ ॥

{पीतवर्गः}
किंशुकः कर्णिकारश्च हरिद्राद्वितयं तथा ।
पीतवर्गोऽयमुद्दिष्टो रसराजस्य कर्मणि ॥ ९.२४ ॥

{श्वेतवर्गः}
तगरः कुटजं कुन्दो गुञ्जा जीवन्तिका तथा ।
सितोऽम्भोरुहकन्दश्च श्वेतवर्ग उदाहृतः ॥ ९.२५ ॥

{कृष्णवर्गः}
कदली क्रूरवल्ली च त्रिफला नीलिका नलः ।
पङ्कः कासीसबालाम्रं कृष्णवर्ग उदाहृतः ॥ ९.२६ ॥

रक्तवर्गादिवर्गैश्च द्रव्यं यज्जारणात्मकम् ।
भावनीयं प्रयत्नेन तादृग्रागाप्तये खलु ॥ ९.२७ ॥

{शोधनीयगणः}
काचटङ्कणशिप्राभिः शोधनीयो गणो मतः ।
सत्त्वानां बद्धसूतस्य लोहानां मलनाशनः ।
कापालिकागणध्वंसी रसवादिभिरुच्यते ॥ ९.२८ ॥

{मृदुकरवर्गः}
महिषीमेषशृङ्गोऽत्र कलिङ्गोद्भवबीजयुक् ।
शशास्थीनि च योगोऽयं लोहकाठिन्यनाशनः ॥ ९.२९ ॥

{द्रावकवर्गः}
गुडगुग्गुलुगुञ्जाज्यसारघैष्टङ्कणान्वितैः ।
दुर्द्रावाखिललोहादेर् द्रावणेऽयं गणो मतः ॥ ९.३० ॥

क्षाराः सर्वे मलं हन्युरम्लं शोधनजारणम् ।
मान्द्यं विषाणि निघ्नन्ति स्नैग्ध्यं स्नेहाः प्रकुर्वते ॥ ९.३१ ॥


अध्याय १०[सम्पाद्यताम्]

{महारसाः}
महारसाः स्युर् घनराजावर्तवैक्रान्तसस्याः विमलाद्रिजाते ।
तुत्थं च ताप्यं च रसायनास्ते सत्त्वानि तेषाम् अमृतोपमानि ॥ १०.१ ॥

{अभ्रक:: medic. properties}
गौरीतेजः परमम् अमृतं वातपित्तक्षयघ्नं प्रज्ञोद्बोधि प्रशमितरुजं वृष्यम् आयुष्यम् अग्र्यम् ।
बल्यं स्निग्धं रुचिदम् अकफं दीपनं शीतवीर्यं तत्तद्योगैः सकलगदहृद् व्योम सूतेन्द्रबन्धि ॥ १०.२ ॥

राजहस्ताद् अधस्ताद्यत्समानीतं घनं खनेः ।
भवेत्तदुक्तफलदं निःसत्त्वं निष्फलं परम् ॥ १०.३ ॥

{अभ्रकभेदाः}
पिनाकनागमण्डूकवज्रम् इत्यभ्रकं मतम् ।
श्वेतादिवर्णभेदेन प्रत्येकं तच्चतुर्विधम् ॥ १०.४ ॥

{अभ्र:: पिनाक}
पिनाकं पावकोत्तप्तं विमुञ्चति दलोच्चयम् ।
तत्सेवितं मलं बद्ध्वा मारयत्येव मानवम् ॥ १०.५ ॥

{अभ्र:: नाग}
नागाभ्रं नागवत्कुर्यात् ध्वनिं पावकसंस्थितम् ।
तद्भुक्तं कुरुते कुष्ठं मण्डलाख्यं न संशयः ॥ १०.६ ॥

{अभ्र:: मण्डूक}
उत्प्लुत्योत्प्लुत्य मण्डूकं ध्मातं पतति चाभ्रकम् ।
तत्कुर्यादश्मरीरोगमसाध्यं शस्त्रतोऽन्यथा ॥ १०.७ ॥

{अभ्र:: वज्र}
वज्राभ्रं वह्निसंतप्तं निर्मुक्ताशेषवैकृतम् ।
देहलोहकरं तत्तु सर्वरोगहरं परम् ॥ १०.८ ॥

{अभ्र:: subtypes:: colour}
श्वेतं रक्तं च पीतं च कृष्णमेवं चतुर्विधम् ।
श्वेतं श्वेतक्रियासूक्तं रक्ताद्यं पीतकर्मणि ॥ १०.९ ॥

चतुर्विधं वरं व्योम यद्यप्युक्तं रसायने ।
तथापि कृष्णवर्णाभं कोटिकोटिगुणाधिकम् ॥ १०.१० ॥

{अभ्र:: phys. properties}
स्निग्धं पृथुदलं वह्निसहं स्याद्भारतोऽधिकम् ।
सुखनिर्मोच्यपत्रं च तदभ्रं शस्तम् ईरितम् ॥ १०.११ ॥

{अभ्र:: bad types}
सचन्द्रं काचकिट्टाभं व्योम न ग्रासयेद्रसम् ।
ग्रासितश्चेन्न योज्योऽसौ लोहे चैव रसायने ॥ १०.१२ ॥

निश्चन्द्रिकं मृतं व्योम सेव्यं सर्वगदेषु च ।
सेवितं चन्द्रिकायुक्तं मेहं मन्दानलं चरेत् ॥ १०.१३ ॥

यैरुक्तं युक्तिनिर्मुक्तैः पत्राभ्रकरसायनम् ।
तैर्दिष्टं कालकूटाख्यं विषं जीवनहेतवे ॥ १०.१४ ॥

सत्त्वार्थं सेवनार्थं च योजयेच्छोधिताभ्रकम् ।
अन्यथा त्वगुणं कृत्वा विकरोत्येव निश्चितम् ॥ १०.१५ ॥

{अभ्र:: शोधन}
प्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जिकेऽभ्रकम् ।
निर्दोषं जायते नूनं निक्षिप्तं वापि गोजले ॥ १०.१६ ॥

त्रिफलाक्वथिते वापि गवां दुग्धे विशेषतः ।
{अभ्र:: मारण}
ततो धान्याभ्रकं कृत्वा पिष्ट्वा मत्स्याक्षिकारसैः ॥ १०.१७ ॥

चक्रीं कृत्वा विशोष्याथ पुटेदर्धेभके पुटे ।
पुटेदेवं हि षड्वारं पौनर्नवरसैः सह ॥ १०.१८ ॥

अभ्रांशटङ्कणेनापि संमर्द्य कृतचक्रिकम् ।
अर्धेभाख्यैः पुटैस्तद्वत्सप्तवारं पुटेत् खलु ॥ १०.१९ ॥

एवं वासारसेनापि तण्डुलीयरसेन च ।
प्रपुटेत्सप्तवाराणि पूर्वप्रोक्तविधानतः ॥ १०.२० ॥

एवं सिद्धं घनं सर्वयोगेषु विनियोजयेत् ।
{अभ्र:: मारण}
पादांशटङ्कणोपेतं मत्स्याक्षीरसमर्दितम् ॥ १०.२१ ॥

रुन्ध्यात् कोष्ठ्यां दृढं ध्मातं सत्त्वरूपं भवेद् घनम् ।
पटचूर्णं विधायाथ गोघृतेन परिप्लुतम् ॥ १०.२२ ॥

भर्जयेत्सप्तवाराणि चुल्लीसंस्थितखर्परे ।
अग्निवर्णं भवेद्यावद् वारं वारं च चूर्णयेत् ॥ १०.२३ ॥

तृणं क्षिप्तं दहेद्यावत्तावद्वा भर्जनं चरेत् ।
ततः सगन्धकं पिष्ट्वा वटमूलकषायतः ॥ १०.२४ ॥

पुटेद्विंशतिवाराणि वाराहेन पुटेन हि ।
पुनर्विंशतिवाराणि त्रिफलोत्थकषायतः ॥ १०.२५ ॥

त्रिफलामुण्डिकाभृङ्गपथ्यानीलीसुमूलकैः ।
भावयित्वा प्रयोक्तव्यं सर्वरोगेषु मात्रया ॥ १०.२६ ॥

सत्त्वाभ्रात् किंचिद् अवरं निर्विकारं गुणाधिकम् ।
एवं चेच्छतवाराणि पुटपाकेन साधितम् ॥ १०.२७ ॥

गुणवज्जायतेऽत्यर्थं परं पाचनदीपनम् ।
क्षुधं करोति चात्यर्थं गुञ्जार्धमिति सेवया ।
तत्तद्रोगहरैर् योगैः सर्वरोगनिकृन्तनम् ॥ १०.२८ ॥

{अभ्र:: मारण}
धान्याभ्रं कासमर्दस्य रसेन परिमर्दितम् ।
पुटेत्तच्छतवाराणि म्रियते नात्र संशयः ॥ १०.२९ ॥

{अभ्र:: मारण}
तद्वन्मुस्तारसेनापि तण्डुलीयरसेन च ।
शिवामलकसौभाग्यपिष्टं चक्रीकृताभ्रकम् ॥ १०.३० ॥

पुटेत्तत् षष्टिवाराणि सिन्दूराभं प्रजायते ।
क्षयाद्यनन्तरोगघ्नं भवेद्योगानुपानतः ॥ १०.३१ ॥

{अभ्र:: मारण}
वटमूलत्वचः क्वाथे ताम्बूलपत्रसारतः ।
वासामत्स्याक्षिकीभ्यां वा मत्स्याक्ष्या सकठिल्लया ॥ १०.३२ ॥

पयसा वटवृक्षस्य मर्दितं पुटितं घनम् ।
भवेद् विंशतिवारेण सिन्दूरसदृशं घनम् ॥ १०.३३ ॥

{अभ्रकभस्मन् (६)}
सटङ्कणं गवां दुग्धैः पिष्टं प्रपुटितं घनम् ।
निश्चन्द्रिकं भवेद् वारैस् त्रिंशद्भिर्गुणवत्तरम् ॥ १०.३४ ॥

एवं सिद्धानि चाभ्राणि तालेन पुटितानि चेत् ।
भवन्त्यतीव तीव्राणि रसादप्यधिकानि च ॥ १०.३५ ॥

{अभ्र:: भस्मन्:: phys. properties}
रौक्ष्यं सौक्ष्म्यं जलप्लावः शोणवर्णसमुद्भवः ।
विचित्रगुणदीप्तिश्च जायते बहुभिः पुटैः ॥ १०.३६ ॥

{अभ्र:: सत्त्व:: पातन}
कासमर्दघनध्वनिवासानां च पुनर्भुवः ।
मत्स्याक्ष्याः कारवेल्ल्याश्च हंसपाद्या रसैः पृथक् ॥ १०.३७ ॥

पिष्ट्वा पिष्ट्वा प्रयत्नेन शोषयेद्घर्मयोगतः ।
खलिं गोधूमचूर्णं च क्षुद्रमत्स्यांश्च टङ्कणम् ॥ १०.३८ ॥

प्रत्येकमभ्रकांशेन दत्त्वा चैव विमर्दयेत् ।
मर्दने मर्दने सम्यक् शोषयेद्रविरश्मिभिः ॥ १०.३९ ॥

पञ्चाजं पञ्चगव्यं च पञ्चमाहिषमेव च ।
क्षिप्त्वा गोलान् प्रकुर्वीत किंचित् तिन्दुकसंमितान् ॥ १०.४० ॥

{पञ्चाङ्ग}
पयो दधि घृतं मूत्रं विट् च पञ्चाङ्गम् उच्यते ।
अधःपातनकोष्ठ्यां हि ध्मात्वा सत्त्वं निपातयेत् ॥ १०.४१ ॥

{अभ्र:: सत्त्व:: पातन:: सेपरतिन्ग् किट्ट and सत्त्व}
कोष्ठ्याः किट्टं समाहृत्य विचूर्ण्य रवकान् हरेत् ।
तत्किट्टं स्वल्पटङ्केन गोमयेन विमर्दयेत् ॥ १०.४२ ॥

गोलान्विधाय संशोष्य धमेद् भूयोऽपि पूर्ववत् ।
भूयः किट्टं समाहृत्य मृदित्वा सत्त्वमाहरेत् ॥ १०.४३ ॥

एवमेव पुनः किट्टं ध्मात्वा सत्त्वं समाहरेत् ।
{अभ्रकसत्त्वशोधनम्}
अथ सत्त्वकणांस्तांस्तु क्वाथयित्वाम्लकाञ्जिकैः ॥ १०.४४ ॥

शोधनीयगणोपेतं मूषामध्ये निरुध्य च ।
सम्यग् द्रुतं समाहृत्य द्विवारं प्रधमेत् पुनः ॥ १०.४५ ॥

इति सिद्धं भवेत्सत्त्वं योज्यं रसरसायने ।
{अभ्रकसत्त्वमृदुकरणम्}
मधुतैलवसाज्येषु द्रावितं परिवापितम् ॥ १०.४६ ॥

मृदु स्याद्दशवारेण सत्त्वं लोहादिकं खरम् ।
{अभ्र:: सत्त्व:: forमुलतिओन्}
सत्त्वस्य गोलकं तप्तं सस्यसंयुक्तकाञ्जिके ॥ १०.४७ ॥

निर्वाप्य तत्क्षणेनैव कण्डयेल्लोहपारया ।
सम्प्रताप्य घनस्थूलान् कणान्क्षिप्त्वा च काञ्जिके ॥ १०.४८ ॥

तत्क्षणेन समाहृत्य खण्डयित्वा रजश्चरेत् ।
गोघृतेन च तच्चूर्णं भर्जयेत् पूर्ववत्त्रिधा ॥ १०.४९ ॥

धात्रीफलरसैस् तद्वद्धात्रीपत्ररसेन वा ।
भर्जने भर्जने कार्यं शिलापट्टेन पेषणम् ॥ १०.५० ॥

ततः पुनर्नवावासारसैः काञ्जिकमिश्रितैः ।
प्रपुटेद्दशवाराणि दशवाराणि गन्धकैः ॥ १०.५१ ॥

एवं संसाधितं व्योमसत्त्वं सर्वगुणोत्तरम् ।
यथेष्टं विनियोक्तव्यं जारणे च रसायने ॥ १०.५२ ॥

वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुरुग्ग्रहणिकाः शूलामकोष्ठामयम् ।
जूर्तिं श्वासगदं प्रमेहमरुचिं कासामयं दुर्धरं मन्दाग्निं जठरव्यथां विजयते योगैरशेषामयान् ॥ १०.५३ ॥

{अभ्रकद्रुतिः}
द्रुतयो नैव निर्दिष्टाः शास्त्रे दृष्टा अपि ध्रुवम् ।
विना शम्भोः प्रसादेन न सिध्यन्ति कथञ्चन ॥ १०.५४ ॥

{राजावर्तः:: परीक्षा}
राजावर्त्तोऽल्परक्तोऽरुनीलिमामिश्रितप्रभः ।
गुरुश्च मसृणः श्रेष्ठस्तदन्यो मध्यमः स्मृतः ॥ १०.५५ ॥

{राजावर्त:: medic. properties}
प्रमेहक्षयदुर्नामपाण्डुश्लेष्मानिलापहः ।
दीपनः पाचनो वृष्यो राजावर्त्तो रसायनः ॥ १०.५६ ॥

{राजावर्त:: शोधनम्}
निम्बुद्रवैः सगोमूत्रैः सक्षारैः स्वेदिताः खलु ।
द्वित्रिवारेण शुध्यन्ति राजावर्त्तादिधातवः ॥ १०.५७ ॥

{राजावर्त:: मारण}
भृङ्गाम्भो गन्धकोपेतो राजावर्त्तो विचूर्णितः ।
पुटनात्सप्तरात्रेण राजावर्त्तो मृतो भवेत् ॥ १०.५८ ॥

{धातु (गेन्.):: शोधन}
सूर्यावर्त्तकवज्रकन्दकदलीकोषातकीशिग्रुकाः ।
वन्ध्या नीरकणा घना नृपशमी ध्वांक्षी कुमारी वरा ।
आसाम् एकरसेन साम्लपुटनाच्छुध्यन्ति धात्वादयः ।
स्वेदक्लेदवधान्व्रजन्ति च पुनर्ध्माताश्च सत्त्वानि ते ॥ १०.५९ ॥

अयं योगो हि निःशेषधातुमलविशोधनः ।
{राजावर्त (?):: सत्त्वपातनम्}
क्षारैश्च लवणैर् गेहधूमगुञ्जानिशाफलैः ।
एतैर्युक्ताः शिलाश्मानः सत्त्वं मुञ्चन्त्यशेषतः ॥ १०.६० ॥

{वैक्रान्त:: phys. properties}
अष्टास्रश् चाष्टफलकः षट्कोणो मसृणो गुरुः ।
शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ॥ १०.६१ ॥

{वैक्रान्त:: subtypes:: चोलोउर्}
श्वेतो रक्तश्च पीतश्च नीलः पारावतच्छविः ।
श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि सः ॥ १०.६२ ॥

{वैक्रान्त:: medic. properties}
आयुःप्रदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोषगदापहारी ।
दीप्ताग्निकृत् पविसमानगुणस् तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी ॥ १०.६३ ॥

रसायनेषु सर्वेषु पूर्वगण्यः प्रतापवान् ।
वज्रस्थाने नियोक्तव्यो वैक्रान्तः सर्वरोगहा ॥ १०.६४ ॥

{वैक्रान्त:: शोधन}
कुलत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति ।
{वैक्रान्त:: मारण}
म्रियतेऽष्टपुटैर् गन्धनिम्बूकद्रवसंयुतः ॥ १०.६५ ॥

{वैक्रान्त:: सत्त्वपातन}
सत्त्वपातनयोगेन मर्दितश्च वटीकृतः ।
मूषास्थो घटिकाध्मातो वैक्रान्तः सत्त्वमुत्सृजेत् ॥ १०.६६ ॥

{वैक्रान्त:: forमुलतिओन्}
भस्मत्वं समुपागतो विकृतको हेम्ना मृतेनान्वितः पादांशेन कणाज्यवेल्लसहितो वल्लोन्मितः सेवितः ।
यक्ष्माणं क्षरणं च पाण्डुगुदजं श्वासं च कासामयं दुष्टां च ग्रहणीम् उरःक्षतमुखान् रोगाञ्जयेद्देहकृत् ॥ १०.६७ ॥

{वैक्रान्त:: forमुलतिओन्}
सूतभस्मार्धसंयुक्तं नीलवैक्रान्तभस्मकम् ।
मृताभ्रसत्त्वमुभयोस्तुलितं परिमर्दितम् ॥ १०.६८ ॥

क्षौद्राज्यसंसृतं प्रातः गुञ्जामात्रं निषेवितम् ।
रसायनविधानेन जीवेच्चन्द्रार्कतारकम् ॥ १०.६९ ॥

तत्तद्रोगानुपानेन यवमात्रं निषेवितम् ।
निहन्ति सकलान्रोगान्दुस्तरानन्यभेषजैः ॥ १०.७० ॥

त्रिसप्तदिवसैर् न्ःणां गङ्गाम्भ इव पातकम् ।
{सस्यक:: myth origin}
पीत्वा हालाहलं वान्तं पीतामृतगरुत्मता ॥ १०.७१ ॥

विषेणामृतयुक्तेन गिरौ च मरुताह्वये ।
तद्वान्तं हि घनीभूतं संजातं सस्यकं खलु ॥ १०.७२ ॥

{सस्य:: परीक्षा:: good quality}
मयूरकण्ठसच्छायं भाराढ्यमतिशस्यते ।
विषं द्रव्ययुतं यद्वद् द्रव्याधिकगुणं भवेत् ।
हालाहलं सुधायुक्तं सुधाधिकगुणं तथा ॥ १०.७३ ॥

{सस्यक:: medic. properties}
निःशेषदोषविषहृद् गुदशूलशूलदुष्टाम्लपित्तकविबन्धहरं हितं च ।
रासायनं वमनरेककरं गरघ्नं श्वित्रापहं गदितमत्र मयूरतुत्थम् ॥ १०.७४ ॥

{सस्यक।तुत्थ:: शोधन}
दोलायन्त्रेण सुस्विन्नं सस्यकं प्रहरत्रयम् ।
नृमहिष्यजगोमूत्रैः शुध्यत्येवं च सस्यकम् ॥ १०.७५ ॥

{सस्यक:: मारण}
लकुचद्रवगन्धाश्मटङ्कणेन समन्वितम् ।
निरुध्य मूषिकामध्ये म्रियते कौक्कुटैः पुटैः ॥ १०.७६ ॥

{सस्यक:: सत्त्वपातन}
निम्बुद्रवाल्पटङ्काभ्यां मूषामध्ये निरुध्य च ।
ताम्ररूपं परिध्मातं सत्त्वं मुञ्चति सस्यकम् ॥ १०.७७ ॥

{सस्यक:: सत्त्वपातन}
शुद्धं सस्यं शिखिक्रान्तं पूर्वभेषजसंयुतम् ।
नलिकाध्मानयोगेन सत्त्वं मुञ्चति निश्चितम् ॥ १०.७८ ॥

{सस्यक:: सत्त्व:: रिन्ग्}
सत्त्वमेतत्समादाय वरभूनागसत्त्वयुक् ।
तन्मुद्रिका कृतस्पर्शा शूलघ्नी तत्क्षणाद्भवेत् ॥ १०.७९ ॥

चराचरं विषं भूतं डाकिनीं दृग्गतं जयेत् ।
रामवत् सोमसेनानी मुद्रिकेति तथाक्षरम् ॥ १०.८० ॥

मुद्रिकेयं विधातव्या दृष्टप्रत्ययकारिका ।
हिमालयोत्तरे पार्श्वे अश्वकर्णो महाद्रुमः ॥ १०.८१ ॥

तत्र शूलं समुत्पन्नं तत्रैव निधनं गतः ।
मन्त्रेणानेन मुद्राम्भो निपीतं सप्तमन्त्रितम् ॥ १०.८२ ॥

सद्यः शूलहरं प्रोक्तम् इति भालुकिभाषितम् ।
अनया मुद्रया तप्तं तैलमग्नौ सुनिश्चितम् ॥ १०.८३ ॥

लेपितं हन्ति वेगेन शूलं यत्र क्वचिद्भवम् ।
सद्यः सूतिकरं नार्याः सद्यो नेत्ररुजापहम् ॥ १०.८४ ॥

{विमल:: subtypes}
विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्वकः ।
तृतीयः कांस्यविमलस्तत्तत्कान्त्या स लक्ष्यते ॥ १०.८५ ॥

{विमल:: phys. properties}
वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः ।
{विमल:: medic. properties}
मरुत्पित्तहरो वृष्यो विमलोऽतिरसायनः ॥ १०.८६ ॥

{विमल:: subtypes:: use}
पूर्वो हेमक्रियासूक्तो द्वितीयो रूप्यकृन्मतः ।
तृतीयो भेषजे तेषु पूर्वः पूर्वगुणोत्तरः ॥ १०.८७ ॥

{विमल:: शोधन}
आटरूषजलस्विन्नो विमलो विमलो भवेत् ।
{विमल:: मारण}
गन्धाश्मलकुचाभ्यां स म्रियते दशभिः पुटैः ॥ १०.८८ ॥

{विमल:: सत्त्व:: पातन}
सटङ्कलकुचद्रावैर् मेषशृङ्गस्य भस्मना ।
पिष्टो मूषोदरे लिप्तः संशोष्य च निरुध्य च ॥ १०.८९ ॥

षट्प्रस्थकोकिलैर् ध्मातो विमलः सीससन्निभम् ।
सत्त्वं मुञ्चति तद्युक्तो रसः स्यात्तु रसायनः ॥ १०.९० ॥

{विमल:: सत्त्व:: medic. use}
एतत्सत्त्वं सूतसंयुक्तं पिष्टीकृत्वा सुमर्दितम् ।
विलीने गन्धके क्षिप्त्वा जारयेत् त्रिगुणालकम् ॥ १०.९१ ॥

शिलां पञ्चगुणां चापि नालिकायन्त्रके खलु ।
तारभस्म दशांशेन तावद्वैक्रान्तकं मृतम् ॥ १०.९२ ॥

सर्वमेकत्र संचूर्ण्य पटेन परिगाल्य च ।
निक्षिप्य कूपिकामध्ये परिपूर्य प्रयत्नतः ॥ १०.९३ ॥

लीढो व्योषवरान्वितो विमलको युक्तो घृतैः सेवितो हन्याद् दुर्भगकृज्ज्वरान् श्वयथुकं पाण्डुप्रमेहारुचिम् ।
मूलार्तिं ग्रहणीं च शूलमतुलं यक्ष्मामयान् कामलां सर्वान्पित्तमरुद्गदान् किमपरं योगैरशेषान् गदान् ॥ १०.९४ ॥

{शिलाजतु:: subtypes}
शिलाधातुर्द्विधा प्रोक्तो गोमूत्राद्यो रसायनः ।
कर्पूरपूर्वकश्चान्यस्तत्राद्यो द्विविधः पुनः ॥ १०.९५ ॥

ससत्त्वश्चैव निःसत्त्वस्तयोः पूर्वो गुणाधिकः ।
{शिलाजतु:: origin origin heated rocks}
ग्रीष्मे तीव्रार्कतप्तेभ्यः पादेभ्यो हिमभूभृतः ॥ १०.९६ ॥

स्वर्णरूप्यार्कगर्भेभ्यः शिलाधातुर् विनिःसरेत् ।
{शिलाजतु:: origin gold}
स्वर्णगर्भगिरेर्जातं जपापुष्पनिभं गुरु ॥ १०.९७ ॥

स स्वल्पतिक्तं सुस्वादु परमं तद्रसायनम् ।
{शिलाजतु:: origin silver}
रूप्यगर्भगिरेर्जातं मधुरं पाण्डुरं गुरु ॥ १०.९८ ॥

शिलाजं पित्तरोगघ्नं विशेषात् पाण्डुरोगहृत् ।
{शिलाजतु:: origin copper}
ताम्रगर्भगिरेर्जातं नीलवर्णं घनं गुरु ॥ १०.९९ ॥

शिलाजं कफवातघ्नं तिक्तोष्णं क्षयरोगनुत् ।
{शिलाजतु:: तेस्तिन्ग् for पुरित्य्}
वह्नौ क्षिप्तं भवेद्यत्तु लिङ्गाकारं ह्यधूमकम् ।
सलिलेऽथ विलीनं च तच्छुद्धं हि शिलाजतु ॥ १०.१०० ॥

{शिलाजतु:: medic. properties}
नूनं सज्वरपाण्डुशोफशमनं मेहाग्निमान्द्यापहं मेदश्छेदकरं च यक्ष्मशमनं मूत्रामयोन्मूलनम् ।
गुल्मप्लीहविनाशनं जठरहृच्छूलघ्नम् आमापहं सर्वत्वग्गदनाशनं किमपरं देहे च लोहे हितम् ॥ १०.१०१ ॥

{शिलाजतु:: पोस्सेस्सेस् properties of ओथेर् सुब्स्तन्चेस्}
रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः ।
वसन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥ १०.१०२ ॥

{शिलाजतु:: शोधन}
क्षाराम्लैर्गुग्गुलूपेतैः स्वेदनीयन्त्रमध्यगैः ।
स्वेदितं घटिकामानाच्छिलाधातुर् विशुध्यति ॥ १०.१०३ ॥

{शिलाजतु:: मारण}
शिलया गन्धतालाभ्यां मातुलुङ्गरसेन च ।
पुटितं हि शिलाधातुर् म्रियतेऽष्टगिरिण्डकैः ॥ १०.१०४ ॥

{शिलाजतु:: मृत:: medic. use}
भस्मीभूतशिलोद्भवं समतुलं कान्तं च वैक्रान्तकं युक्तश्च त्रिफलाकटुत्रयघृतैर्वल्लेन तुल्यं भजेत् ।
पाण्डौ यक्ष्मगुदे तथाग्निसदने महेषु मूत्रामये गुल्मप्लीहमहोदरे बहुविधे शूले च योन्यामये ॥ १०.१०५ ॥

सेवेत यदि षण्मासं रसायनविधानतः ।
वलीपलितनिर्मुक्तो जीवेद्वर्षशतं सुखी ॥ १०.१०६ ॥

{शिलाजतु:: सत्त्व:: पातन}
पिष्टं द्रावणवर्गेण साम्लेन गिरिसम्भवम् ।
लिप्त्वा मूषोदरे रुद्ध्वा गाढैर्ध्मातं हि कोकिलैः ॥ १०.१०७ ॥

सत्त्वं मुञ्चेच्छिलाधातुः स्वखनेर्लोहसन्निभम् ।
{कर्पूरशिलाजतु:: phys. properties}
पाण्डुरं सिकताकारं कर्पूराद्यं शिलाजतु ॥ १०.१०८ ॥

{कर्पूरशिलाजतु:: medic. properties}
मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् ।
{कर्पूरशिलाजतु:: शोधन}
एलातोयेन संस्विन्नं शुष्कं शुद्धिमुपैति तत् ॥ १०.१०९ ॥

नैतस्य मारणं सत्त्वपातनं विहितं बुधैः ।
{रसक:: subtypes}
रसको द्विविधः प्रोक्तो दर्दुरः कारवेल्लकः ॥ १०.११० ॥

सदलो दर्दुरः प्रोक्तो निर्दलः कारवेल्लकः ।
सत्त्वपाते शुभः पूर्वो द्वितीयश्चौषधादिषु ॥ १०.१११ ॥

{रसक:: medic. properties}
रसकः सर्वमेहघ्नः कफपित्तविनाशनः ।
नेत्ररोगक्षयघ्नश्च लोहपारदरञ्जनः ॥ १०.११२ ॥

{रसक:: high quality}
नागार्जुनेन निर्दिष्टौ रसश्च रसकावुभौ ।
श्रेष्ठौ सिद्धरसौ स्यातां देहलोहकरौ परौ ॥ १०.११३ ॥

रसश्च रसकश्चोभौ येनाग्निसहनौ कृतौ ।
देहलोहमयी सिद्धिर्दासी तस्य न संशयः ॥ १०.११४ ॥

{रसक:: शोधन}
खर्परः परिसंतप्तः सप्तवारं निमज्जितः ।
बीजपूररसस्यान्तर्निर्मलत्वं समश्नुते ॥ १०.११५ ॥

{रसक:: शोधन}
नृमूत्रे मेषमूत्रे वा तक्रे वा काञ्जिके तथा ।
प्रताप्य मज्जितं सम्यक् खर्परं परिशुध्यति ॥ १०.११६ ॥

{रसक:: रञ्जन with ~}
नरमूत्रे स्थितो मासं रसको रञ्जयेद् ध्रुवम् ।
शुद्धं ताम्रं रसं तारं शुद्धं स्वर्णप्रभं तथा ॥ १०.११७ ॥

{रसकसत्त्वपातन (१)}
हरिद्रात्रिफलारालसिन्धुधूमैः सटङ्कणैः ।
सारुष्करैश्च पादांशैः साम्लैः संमर्द्य खर्परम् ॥ १०.११८ ॥

लिप्तं वृन्ताकमूषायां शोषयित्वा निरुध्य च ।
मूषामुखोपरि न्यस्य खर्परं प्रधमेत्ततः ॥ १०.११९ ॥

खर्परेऽपहृते ज्वाला भवेन्नीला सिता यदि ।
तदा सन्दंशतो मूषां धृत्वा कृत्वा ह्यधोमुखीम् ॥ १०.१२० ॥

शनैरास्फालयेद् भूमौ यथा नालं न भज्यते ।
वङ्गाभं पतितं सत्त्वं तदादाय नियोजयेत् ॥ १०.१२१ ॥

एवं हि त्रिचतुर्वारैः सर्वं सत्त्वं विनिःसरेत् ।
{रसकसत्त्वपातन (२)}
यद्वा जलयुतां स्थालीं निखनेत् कोष्ठिकोदरे ॥ १०.१२२ ॥

सच्छिद्रं तन्मुखे मल्लं तन्मुखेऽधोमुखीं क्षिपेत् ।
मूषोपरि शिखित्रांश्च प्रक्षिप्य प्रधमेद् दृढम् ॥ १०.१२३ ॥

पतितं स्थालिकानीरे सत्त्वमादाय योजयेत् ।
{रसक:: सत्त्व:: मारणम्}
तत्सत्त्वं तालकोपेतं निक्षिप्य खलु खर्परे ॥ १०.१२४ ॥

भर्जयेल्लोहदण्डेन भस्मीभवति निश्चितम् ।
{रसक:: सत्त्व:: मृत:: medic. use}
तद्भस्म मृतकान्तेन समेन सह योजितम् ॥ १०.१२५ ॥

अष्टगुञ्जामितं चूर्णं त्रिफलाक्वाथसंयुतम् ।
कान्तपात्रस्थितं रात्रौ तिलजप्रतिवापकम् ॥ १०.१२६ ॥

निषेवितं निहन्त्याशु मधुमेहमपि ध्रुवम् ।
पैत्तं क्षयं च पाण्डुं च श्वयथुं गुल्ममेव च ॥ १०.१२७ ॥

रक्तगुल्मं च नारीणां प्रदरं सोमरोगकम् ।
योनिरोगानशेषांश्च विषमांश्च ज्वरानपि ।
रजःशूलं च नारीणां कासं श्वासं च हिध्मिकाम् ॥ १०.१२८ ॥

{माक्षिक}
माक्षिको द्विविधो हेममाक्षिकस्तारमाक्षिकः ।
{स्वर्णमाक्षिक:: origin}
तत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसन्निभम् ॥ १०.१२९ ॥

{तारमाक्षिक:: origin}
तपतीतीरसम्भूतं पञ्चवर्णसुवर्णवत् ।
पाषाणबहुलः प्रोक्तस्ताप्याख्योऽसौ गुणाल्पकः ॥ १०.१३० ॥

{माक्षिक:: medic. properties}
माक्षीकधातुः सकलामयघ्नः प्राणो रसेन्द्रस्य परं हि वृष्यः ।
दुर्मेललोहद्वयमेलकश्च गुणोत्तरः सर्वरसायनाग्र्यः ॥ १०.१३१ ॥

{माक्षिक:: शोधनम्}
एरण्डतैललुङ्गाम्बुसिद्धे शुध्यति माक्षिकम् ।
{माक्षिक:: शोधन}
सिद्धं च कदलीकन्दतोये च घटिकाद्वयम् ॥ १०.१३२ ॥

{माक्षिक:: शोधन}
तप्तं क्षिप्तं वराक्वाथे शुद्धिमायाति माक्षिकम् ।
{माक्षिक:: मारण}
मातुलुङ्गाम्बुगन्धाभ्यां पिष्टं मूषोदरे स्थितम् ॥ १०.१३३ ॥

पञ्चक्रोडपुटैर्दग्धं म्रियते माक्षिकं खलु ।
{माक्षिक:: मारण}
एरण्डतैलगव्याज्यैर्मातुलुङ्गरसेन च ॥ १०.१३४ ॥

खर्परस्थं दृढं पक्वं जायते धातुसन्निभम् ।
एवं मृतं रसे योज्यं रसायनविधावपि ॥ १०.१३५ ॥

{माक्षिक:: सत्त्वपातन}
त्रिंशांशनागसंयुक्तं क्षारैरम्लैश्च वर्तितम् ।
ध्मातं प्रकटमूषायां सत्त्वं मुञ्चति माक्षिकम् ॥ १०.१३६ ॥

{माक्षिक:: सत्त्व:: शोधन}
सप्तवारं परिद्राव्य क्षिप्तं निर्गुण्डिकारसे ।
माक्षीकसत्त्वसम्मिश्रं नागं नश्यति निश्चितम् ॥ १०.१३७ ॥

गुञ्जाबीजसमच्छायं द्रुतद्रावं च सीसवत् ।
ताप्यसत्त्वं विशुद्धं तु देहलोहकरं परम् ॥ १०.१३८ ॥

{माक्षिकरसायन (१)}
माक्षीकसत्त्वेन रसस्य पिष्टीं कृत्वा विलीने च बलिं निधाय ।
संमिश्र्य संमर्द्य च खल्वमध्ये निक्षिप्य सत्त्वं द्रुतमभ्रकस्य च ॥ १०.१३९ ॥

विधाय गोलं लवणाख्ययन्त्रे पचेद्दिनार्धं मृदुवह्निना च ।
स्वतः सुशीतं परिचूर्ण्य सम्यग् वल्लोन्मितं खण्डविडङ्गयुक्तम् ॥ १०.१४० ॥

संसेवितं क्षौद्रयुतं निहन्ति जरां सरोगाम् अपमृत्युमेव ।
दुःसाध्यरोगानपि सप्तवारैर्नैतेन तुल्योऽस्ति सुधारसोऽपि ॥ १०.१४१ ॥

{माक्षिकरसायन (२)}
मृतमाक्षीकपाषाणस् तदर्धं मृतमभ्रकम् ।
तदर्धं कान्तलोहं च तदर्धं ताम्रभस्मकम् ॥ १०.१४२ ॥

सर्वमेकत्र संमेल्य समगन्धेन योजयेत् ।
निम्बुद्रवेण संमर्द्य प्रपुटेद्दशवारकम् ॥ १०.१४३ ॥

वनोत्पलशतेनैव भावयेत् परिचूर्ण्य तत् ।
व्योषबाह्लीकतोयेन वाराणामेकविंशतिम् ॥ १०.१४४ ॥

भवेद्धि मृतमाक्षीकं सर्वव्याधिविनाशनम् ।
क्षयं पाण्डुं च कुष्ठानि ग्रहणीं गुदजां रुजः ॥ १०.१४५ ॥

मन्दाग्निं कामलां शोषं स्वरभङ्गमरोचकम् ।
नानारूपान् ज्वरान् उग्रान् आमदोषं विसूचिकाम् ॥ १०.१४६ ॥

वातपित्तकफोद्भूतांस्तत्तद्रोगान् अशेषतः ।
तत्तदौचित्ययोगेन प्रयुक्तैरनुपानकैः ।
महारसेषु सर्वेषु ताप्यमेव वरं मतम् ॥ १०.१४७ ॥


अध्याय ११[सम्पाद्यताम्]

{उपरसाः}
गन्धाश्मतालतुवरीकुनटीसौवीरकङ्कुष्ठखेचरगैरिकनामधेयाः ।
उक्ता बुधैरुपरसाश्च रसायनास्ते तैर्बद्धपारदवरो न रसायनः स्यात् ॥ ११.१ ॥

{sulfur:: subtypes}
चतुर्धा गन्धको ज्ञेयो वर्णैः श्वेतादिभिः खलु ।
{sulfur:: white}
श्वेतोऽत्र खटिका प्रोक्तो लेपने लोहमारणे ॥ ११.२ ॥

{sulfur:: yellow}
तथा चामलसारः स्याद् यो भवेत्पीतवर्णवान् ।
शुकपिच्छः स एव स्याच्छ्रेष्ठो रसरसायने ॥ ११.३ ॥

{sulfur:: red}
रक्तश्च शुकतुण्डाख्यो धातुवादविधौ वरः ।
{sulfur:: black}
दुर्लभः कृष्णवर्णश्च स जरामृत्युनाशनः ॥ ११.४ ॥

{sulfur:: medic. properties}
गन्धाश्मातिरसायनः समधुरः पाके कटूष्णान्वितः कण्डूकुष्ठविसर्पदद्रुदमनो दीप्तानलः पाचनः ।
आमोन्मोचनशोषणो विषहरः सूतेन्द्रवीर्यप्रदो गौरीपुष्पभवस्तथा क्रिमिहरः सत्त्वात्मकः सूतजित् ॥ ११.५ ॥

{sulfur:: myth origin}
बलिना सेवितः पूर्वं प्रभूतबलहेतवे ।
वासुकिं कर्षतस्तस्य तन्मुखज्वालया द्रुता ॥ ११.६ ॥

वसा गन्धकगन्धाढ्या सर्वतो निःसृता तनोः ।
गन्धकत्वं च सा प्राप्ता गन्धोऽभूत्सविषस्ततः ॥ ११.७ ॥

तस्माद् बलिवसेत्युक्तो गन्धकोऽतिमनोहरः ।
{sulfur:: शोधन}
पयःस्विन्नो घटीमात्रं वारिधौतो हि गन्धकः ॥ ११.८ ॥

गव्याज्यैर्विद्रुतो वस्त्रगालितः शुद्धिमृच्छति ।
एवं संशोधितः सोऽयं पाषाणानम्बरे त्यजेत् ॥ ११.९ ॥

घृते विषं तुषाकारं स्वयं पिण्डत्वमेति च ।
इति शुद्धो हि गन्धाश्मा नागजां विकृतिं त्यजेत् ॥ ११.१० ॥

अपथ्यादन्यथा हन्यात् पीतं हालाहलं यथा ।
{sulfur:: शोधन}
गन्धको द्रावितो भृङ्गरसे क्षिप्तो विशुध्यति ॥ ११.११ ॥

तद्रसैः सप्तधा स्विन्नो गन्धकः परिशुध्यति ।
{गन्धकशोधनम् (३)}
स्थाल्यां दुग्धं विनिक्षिप्य मुखे वस्त्रं निबध्य च ॥ ११.१२ ॥

गन्धकं तत्र निक्षिप्य चूर्णितं सिकताकृतिम् ।
छादयेत् पृथुदीर्घेण खर्परेणैव गन्धकम् ॥ ११.१३ ॥

ज्वालयेत् खर्परस्योर्ध्वं वनच्छाणैस्तथोपलैः ।
दुग्धे निपतितो गन्धो गलित्वा परिशुध्यति ॥ ११.१४ ॥

इत्थं विशुद्धस् त्रिफलाज्यभृङ्गमध्वन्वितः शाणमितो हि लीढः ।
गृध्राक्षितुल्यं कुरुतेऽक्षियुग्मं करोति रोगोज्झितदीर्घमायुः ॥ ११.१५ ॥

{sulfur:: द्रुति}
कलांशव्योषसंयुक्तं गन्धकं श्लक्ष्णचूर्णितम् ।
अरत्निमात्रे वस्त्रे तद्विप्रकीर्य विवेष्ट्य तत् ॥ ११.१६ ॥

सूत्रेण वेष्टयित्वाथ यामं तैले निमज्जयेत् ।
धृत्वा संदंशतो वर्तिं सर्वां प्रज्वालयेत्ततः ॥ ११.१७ ॥

द्रुतो विनिपतेद्गन्धो बिन्दुशः काचभाजने ।
तां द्रुतिं प्रक्षिपेत्पत्रे नागवल्ल्यास्त्रिबिन्दुकाम् ॥ ११.१८ ॥

वल्लेन प्रमितं शुद्धं रसेन्द्रं च प्रमर्दयेत् ।
अङ्गुल्याथ सपत्रां तां द्रुतिं सूतं च भक्षयेत् ॥ ११.१९ ॥

करोति दीपनं तीव्रं क्षयं पाण्डुं च नाशयेत् ।
कासं श्वासं च शूलार्तिं ग्रहणीमतिदुस्तराम् ॥ ११.२० ॥

आमं विनाशयत्याशु लघुत्वं प्रकरोति च ।
{sulfur:: शुद्ध:: medic. use}
घृताक्ते लोहपात्रे तु विद्रुतं शुद्धगन्धकम् ॥ ११.२१ ॥

घृताक्तदर्विकाक्षिप्तं द्विनिष्कप्रमितं भजेत् ।
हन्ति क्षयमुखान्रोगान्कुष्ठरोगं विशेषतः ॥ ११.२२ ॥

क्षाराम्लतैलसौवीरविदाहिद्विदलं तथा ।
शुद्धगन्धकसेवायां त्यजेद्रोगहितेन हि ॥ ११.२३ ॥

{sulfur:: medic. use (कुष्ठ)}
गन्धकस्तुल्यमरिचः षड्गुणस्त्रिफलान्वितः ।
घृष्टः शम्पाकमूलेन पीतश्चाखिलकुष्ठहा ॥ ११.२४ ॥

तन्मूलं सलिले पिष्टं लेपयेत्प्रत्यहं तनौ ।
दृष्टप्रत्यययोगोऽयं सर्वत्राप्रतिवीर्यवान् ॥ ११.२५ ॥

श्रीमता सोमदेवेन सम्यगत्र प्रकीर्तितः ।
{sulfur:: medic. use (skin disorders)}
द्विनिष्कप्रमितं गन्धं पीत्वा तैलेन संयुतम् ॥ ११.२६ ॥

अथापामार्गतोयेन सतैलमरिचेन च ।
विलिप्य सकलं देहं तिष्ठेद् घर्मे ततः परम् ॥ ११.२७ ॥

तक्रभक्तं च भुञ्जीत तृतीये प्रहरे खलु ।
भजेद्रात्रौ तथा वह्निं समुत्थाय ततः प्रगे ॥ ११.२८ ॥

महिषीछगणैर्लिप्त्वा स्नायाच्छीतेन वारिणा ।
ततोऽभ्यज्य घृतैर्देहं स्नायात् पथ्योष्णवारिणा ॥ ११.२९ ॥

अमुना क्रमयोगेन विनश्यत्यतिवेगतः ।
दुर्जया बहुकालीना पामा कण्डूः सुनिश्चितम् ॥ ११.३० ॥

गन्धकस्य प्रयोगाणां सहस्रं तन्न कीर्तितम् ।
ग्रन्थविस्तरभीतेन सोमदेवमहीभुजा ॥ ११.३१ ॥

{हरितालम्:: subtypes}
हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञितम् ।
{पत्त्रतालक:: phys. properties}
स्वर्णवर्णं गुरु स्निग्धं तनुपत्रं च भासुरम् ॥ ११.३२ ॥

तत्पत्रतालकं प्रोक्तं बहुपत्रं रसायनम् ।
{पिण्डतालक:: phys. properties}
निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु ।
स्त्रीपुष्पहरणं तत्तु गुणाल्पं पिण्डतालकम् ॥ ११.३३ ॥

{हरिताल:: medic. properties}
श्लेष्मवातविषरक्तभूतनुत् केवलं च खलु पुष्पहृत्स्त्रियः ।
स्निग्धम् उष्णकटुकं च दीपनं कुष्ठहारि हरितालमुच्यते ॥ ११.३४ ॥

{हरिताल:: शोधनम्}
स्विन्नं कूष्माण्डतोये वा तिलक्षारजलेऽपि वा ।
तोये वा चूर्णसंयुक्ते दोलायन्त्रेण शुध्यति ॥ ११.३५ ॥

{हरिताल:: सत्त्व:: पातन}
कुलत्थक्वाथसौभाग्यमहिष्याज्यदधिप्लुतम् ।
स्थाल्यां क्षिप्त्वा पिदध्याच्च मल्लेन छिद्रयोगिना ॥ ११.३६ ॥

सम्यङ्निरुध्य शिखिनं ज्वालयेत् क्रमवर्धितम् ।
एकप्रहरमात्रं हि रन्ध्रमाच्छाद्य गोमयैः ॥ ११.३७ ॥

यामान्ते छिद्रमुद्घाट्य दृष्टे धूमे च पाण्डुरे ।
शीतां स्थालीं समुत्तार्य सत्त्वमुत्कृष्य चाहरेत् ॥ ११.३८ ॥

सर्वपाषाणसत्त्वानां प्रकाराः सन्ति कोटिशः ।
ग्रन्थविस्तारभीत्या ते लिखिता न मया खलु ॥ ११.३९ ॥

सर्वत्र सुकरं यच्च सुलभं फलदायकम् ।
रसोपरसलोहेषु तदेवात्र निगद्यते ॥ ११.४० ॥

{पत्त्रताल:: सत्त्व:: पातन}
पत्त्रालकं रवेर्दुग्धैर्दिनमेकं विमर्दयेत् ।
क्षिप्त्वा षोडशिकां तैले मिश्रयित्वा ततः पचेत् ॥ ११.४१ ॥

अनावृते प्रदेशे च सप्तयामावधि ध्रुवम् ।
स्वाङ्गशीतमधःस्थं च सत्त्वं श्वेतं समाहरेत् ॥ ११.४२ ॥

{हरिताल:: सत्त्व:: पातन}
छागलस्याथ बालस्य मलेन च समन्वितम् ।
तालकं दिवसद्वन्द्वं मर्दयित्वा प्रयत्नतः ॥ ११.४३ ॥

युक्तं द्रावणवर्गेण काचकूप्यां विनिक्षिपेत् ।
त्रिधा तां च मृदा लिप्त्वा परिशोष्य खरातपे ॥ ११.४४ ॥

ततः खर्परकच्छिद्रे तामर्धां चैव कूपिकाम् ।
प्रवेश्य ज्वालयेदग्निं द्वादशप्रहरावधिम् ॥ ११.४५ ॥

कूपीकण्ठे स्थितं सत्त्वं शुभ्रं शीते समाहरेत् ।
{हरिताल:: सत्त्व:: पातन}
पलार्धप्रमितं तालं बद्ध्वा वस्त्रे सिते दृढे ॥ ११.४६ ॥

बलिनालिप्य यत्नेन त्रिवारं परिशोषयेत् ।
द्राविते त्रिपले ताम्रे क्षिपेत्तालकपोट्टलीम् ॥ ११.४७ ॥

भस्मनाच्छादयेच्छीघ्रं ताम्रेणावेष्टितं सितम् ।
मृदुलं सत्त्वमादद्यात् प्रोक्तं रसरसायने ॥ ११.४८ ॥

{तुवरी:: origin}
सौराष्ट्रखनिसम्भूता मृत्स्ना या तुवरी मता ।
वस्त्रेषु लिप्यते यासौ मञ्जिष्ठारागबन्धिनी ॥ ११.४९ ॥

{तुवरी:: subtypes}
फटिका फुल्लिका चेति द्विविधा परिकीर्तिता ।
{फटिका:: phys., medic. properties}
ईषत्पीता गुरुस्निग्धा पीतिका विषनाशिनी ॥ ११.५० ॥

व्रणकुष्ठहरा सर्वकुष्ठघ्नी च विशेषतः ।
{फुल्लिका:: phys., medic. properties}
निर्भारा शुभ्रवर्णा च स्निग्धा साम्ला परा मता ।
सा फुल्लतुवरी प्रोक्ता लेपाच्छीघ्रं चरेदयः ॥ ११.५१ ॥

{तुवरी:: medic. properties}
काङ्क्षी कषाया कटुकाम्लकण्ठ्या केश्या व्रणघ्नी विषनाशिनी च ।
श्वित्रापहा नेत्रहिता त्रिदोषशान्तिप्रदा पारदजारिणी च ॥ ११.५२ ॥

{तुवरीशोधन}
तुवरी काञ्जिके क्षिप्ता त्रिदिनाच्छुद्धिम् ऋच्छति ।
{तुवरी:: सत्त्व:: पातन}
क्षाराम्लैर्मर्दिता ध्माता सत्त्वं मुञ्चति निश्चितम् ॥ ११.५३ ॥

{मनःशिला:: subtypes}
मनःशिला त्रिधा प्रोक्ता श्यामाङ्गी कणवीरिका ।
खण्डाख्या चेति तद्रूपं विविच्य परिकथ्यते ॥ ११.५४ ॥

{श्यामाङ्गी:: phys. properties}
श्यामा रक्ता सगौरा च भाराढ्या श्यामिका मता ।
{कणवीरिका:: phys. properties}
तेजस्विनी च निर्गौरा ताम्राभा कणवीरिका ॥ ११.५५ ॥

{खण्ड:: phys. properties}
चूर्णीभूतातिरक्ताङ्गी सभारा खण्डपूर्विका ।
उत्तरोत्तरतः श्रेष्ठा भूरिसत्त्वा प्रकीर्तिता ॥ ११.५६ ॥

{मनःशिला:: medic. properties}
मनःशिला सर्वरसायनाग्र्या तिक्ता कटूष्णा कफवातहन्त्री ।
सत्त्वात्मिका भूतविषाग्निमान्द्यकण्डूतिकोठक्षयहारिणी च ॥ ११.५७ ॥

{मनःशिला:: शोधन}
अगस्त्यपत्रतोयेन भाविता सप्तवारकम् ।
शृङ्गवेररसैर्वापि विशुध्यति मनःशिला ॥ ११.५८ ॥

{मनःशिला:: सत्त्व:: पातन}
अष्टमांशेन किट्टेन गुडगुग्गुलुसर्पिषा ।
कोष्ठ्यां रुद्ध्वा दृढं ध्माता सत्त्वं मुञ्चेन्मनःशिला ॥ ११.५९ ॥

{मनःशिला:: सत्त्व:: पातन}
भूनागधौतसौभाग्यमदनैश्च विमर्दितैः ।
कारवेल्लीदलाम्भोभिर्मूषां कृत्वात्र निक्षिपेत् ॥ ११.६० ॥

शिलां क्षाराम्लनिष्पिष्टां प्रधमेत् तदनन्तरम् ।
घटिकाद्वयमात्रं हि ध्माता सत्त्वं त्यजत्यसौ ॥ ११.६१ ॥

{अञ्जन:: subtypes}
सौवीरम् अञ्जनं प्रोक्तं रसाञ्जनमतः परम् ।
स्रोतोऽञ्जनं तदन्यच्च पुष्पाञ्जनकमेव च ।
नीलाञ्जनं हि तेषां च स्वरूपमिह वर्ण्यते ॥ ११.६२ ॥

{सौवीर:: phys. properties}
सौवीरमञ्जनं धूम्रं रक्तपित्तहरं हिमम् ।
वमिहिध्माक्षिरोगघ्नं व्रणशोधनरोपणम् ॥ ११.६३ ॥

{रसाञ्जन:: phys., medic. properties}
रसाञ्जनं च पीताभं विषरक्तगदापहम् ।
श्वासहिध्मापहं वर्ण्यं वातपित्तास्रनाशनम् ॥ ११.६४ ॥

{स्रोतोञ्जन:: medic. properties}
स्रोतोऽञ्जनं हिमं स्निग्धं कषायं स्वादु लेखनम् ।
नेत्र्यं हिध्माविषच्छर्दिकफपित्तास्रकोपनुत् ॥ ११.६५ ॥

{पुष्पाञ्जन:: medic. properties}
पुष्पाञ्जनं सितं स्निग्धं हिमं सर्वाक्षिरोगनुत् ।
अतिदुर्धरहिध्माघ्नं विषज्वरगदापहम् ॥ ११.६६ ॥

{नीलाञ्जन:: medic. properties}
नीलाञ्जनं गुरु स्निग्धं नेत्र्यं दोषत्रयापहम् ।
रसायनं सुवर्णघ्नं लोहमार्दवकारकम् ॥ ११.६७ ॥

{अञ्जन:: शोधन}
अञ्जनानि विशुध्यन्ति भृङ्गराजदलद्रवैः ।
{अञ्जन:: सत्त्व:: पातन}
मनोह्वासत्त्ववत् सत्त्वमञ्जनानां समाहरेत् ॥ ११.६८ ॥

{कङ्कुष्ठ:: प्लचे of दिस्चोवेर्य्}
हिमवत्पादशिखरे कङ्कुष्ठमुपजायते ।
{कङ्कुष्ठ:: subtypes}
तत्रैकं नलिकाख्यं हि तदन्यद्रेणुकं मतम् ॥ ११.६९ ॥

{नलिका:: phys. properties}
पीतप्रभं गुरु स्निग्धं श्रेष्ठं कङ्कुष्ठमादिमम् ।
{रेणुक:: phys. properties}
श्यामं पीतं लघु त्यक्तसत्त्वं नेष्टं हि रेणुकम् ॥ ११.७० ॥

{कङ्कुष्ठ:: origin origin fएचेस्}
केचिद्वदन्ति कङ्कुष्ठं सद्यो जातस्य दन्तिनः ।
वर्चः स श्यामपीताभं रेचनं परिकथ्यते ॥ ११.७१ ॥

कतिचित् तेजिवाहानां नालं कङ्कुष्ठसंज्ञकम् ।
वदन्ति श्वेतपीताभं तदतीव विरेचनम् ॥ ११.७२ ॥

{कङ्कुष्ठ:: medic. properties}
रसे रसायने श्रेष्ठं निःसत्त्वं बहुवैकृतम् ।
कङ्कुष्ठं तिक्तकटुकं वीर्योष्णं चातिरेचनम् ॥ ११.७३ ॥

व्रणोदावर्त्तशूलार्त्तिगुल्मप्लीहगुदार्त्तिहृत् ।
{कङ्कुष्ठ:: शोधन}
कङ्कुष्ठं शुद्धिमायाति त्रिधा श्रेष्ठाम्बुभावितम् ॥ ११.७४ ॥

{कङ्कुष्ठ:: सत्त्व:: पातन}
सत्त्वाकर्षोऽस्य न प्रोक्तो यस्मात्सत्त्वमयं हि तत् ।
{कङ्कुष्ठ:: medic. use}
भजेदेनं विरेकार्थं ग्राहिभिर्यवमात्रया ॥ ११.७५ ॥

नाशयेदामपूर्तिं च विरिच्य क्षणमात्रतः ।
भक्षितः सह ताम्बूलैर्विरेच्याशु विनाशयेत् ॥ ११.७६ ॥

बर्बूरीमूलिकाक्वाथजीरसौभाग्यकं समम् ।
कङ्कुष्ठविषनाशाय भूयो भूयः पिबेन्नरः ॥ ११.७७ ॥

{कासीस:: subtypes}
कासीसं वालुकाद्येकं पुष्पपूर्वमथापरम् ।
{वालुकाकासीस:: medic. properties}
क्षाराम्लं गुरु धूमाभं सोष्णवीर्यं विषापहम् ।
वालुकापूर्वकासीसं श्वित्रघ्नं केशरञ्जनम् ॥ ११.७८ ॥

{पुष्पकासीस:: medic. properties}
पुष्पादिकासीसम् अतिप्रसिद्धं सोष्णं कषायाम्लमतीव नेत्र्यम् ।
विषानिलश्लेष्मगदव्रणघ्नं श्वित्रक्षयघ्नं कचरञ्जनं च ॥ ११.७९ ॥

{कासीस:: शोधन}
सकृद् भृङ्गाम्बुना क्लिन्नं कासीसं निर्मलं भवेत् ।
{कासीस:: सत्त्व:: पातनम्}
तुवरीसत्त्ववत् सत्त्वमेतस्यापि समाहरेत् ॥ ११.८० ॥

{कासीससेवनम्}
बलिना हतकासीसं कान्तं कासीसमारितम् ।
उभयं समभागं हि त्रिफलावेल्लसंयुतम् ॥ ११.८१ ॥

विषमांशघृतक्षौद्रप्लुतं शाणमितं प्रगे ।
सेवितं हन्ति वेगेन श्वित्रपाण्डुक्षयामयान् ॥ ११.८२ ॥

गुल्मप्लीहगदं शूलं मूत्ररोगमशेषतः ।
रसायनविधानेन सेवितं वत्सरावधि ॥ ११.८३ ॥

आमसंशोषणं श्रेष्ठं मन्दाग्निपरिदीपनम् ।
पलितं वलिभिः सार्धं विनाशयति निश्चितम् ॥ ११.८४ ॥

{गैरिक:: subtypes}
पाषाणगैरिकं चैकं द्वितीयं स्वर्णगैरिकम् ।
{पाषाणगैरिक:: phys. properties}
पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकम् ॥ ११.८५ ॥

{पाषाणगैरिक:: medic. properties}
स्वादु स्निग्धं हिमं नेत्र्यं कषायं रक्तपित्तनुत् ॥ ११.८६ ॥

{स्वर्णगैरिक:: medic. properties}
हिध्मावमिविषघ्नं च रक्तघ्नं स्वर्णगैरिकम् ।
पाषाणगैरिकं चान्यत् पूर्वस्मादल्पकं गुणैः ॥ ११.८७ ॥

{गैरिक:: शोधन}
गैरिकं हि गवां दुग्धैर्भावितं शुद्धिम् ऋच्छति ।
{गैरिक:: सत्त्व:: पातन}
गैरिकं सत्त्वरूपं हि नन्दिना परिकीर्तितम् ॥ ११.८८ ॥

कैरप्युक्तं पतेत्सत्त्वं क्षाराम्लस्विन्नगैरिकात् ।
उपतिष्ठति सूतेन्द्रम् एकत्वं गुणवत्तरम् ॥ ११.८९ ॥

{साधारणरसाः}
कम्पिल्लश्चापरो गौरीपाषाणो नवसारकः ।
कपर्दो वह्निजारश्च गिरिसिन्दूरहिङ्गुलौ ॥ ११.९० ॥

बोद्दारशृङ्गमित्यष्टौ साधारणरसा मताः ।
रससिद्धिकराः प्रोक्ता नागार्जुनपुरःसरैः ॥ ११.९१ ॥

{कम्पिल्ल:: phys. properties, place of discovery}
इष्टिकाचूर्णसंकाशश्चन्द्रिकाढ्योऽतिरेचनः ।
सौराष्ट्रदेशसम्भूतः स हि कम्पिल्लको मतः ॥ ११.९२ ॥

{कम्पिल्ल:: medic. properties}
पित्तव्रणाध्मानविबन्धनिघ्नः श्लेष्मोदरार्त्तिकृमिगुल्मवैरी ।
मूलामशूलज्वरशोफहारी कम्पिल्लको रेच्यगदापहारी ॥ ११.९३ ॥

{गौरीपाषाण:: phys. properties}
गौरीपाषाणकः पीतो विकटो हतचूर्णकः ।
{गौरीपाषाण:: medic. properties}
रसबन्धकरः स्निग्धो दोषघ्नो रसवीर्यकृत् ॥ ११.९४ ॥

{नवसार:: production}
करीरपीलुकाष्ठेषु पच्यमानेषु चोद्भवः ।
क्षारोऽसौ नवसारः स्याच्चूलिकालवणाभिधः ॥ ११.९५ ॥

इष्टिकादहने जातं पाण्डुरं लवणं लघु ।
तदुक्तं नवसाराख्यं चूलिकालवणं च तत् ॥ ११.९६ ॥

{नवसार:: medic. properties}
रसेन्द्रजारणं लोहद्रावणं जठराग्निकृत् ।
गुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणम् ।
विडाख्यं च त्रिदोषघ्नं चूलिकालवणं मतम् ॥ ११.९७ ॥

{money cowrie:: phys. properties}
पीताभा ग्रन्थिला पृष्ठे दीर्घवृन्ता वराटिका ।
रसवैद्यैर्विनिर्दिष्टा सा चराचरसंज्ञिका ॥ ११.९८ ॥

{money cowrie:: परीक्षा}
सार्धनिष्कमिता श्रेष्ठा निष्कभारा च मध्यमा ।
पादोननिष्कभारा च कनिष्ठा परिकीर्तिता ॥ ११.९९ ॥

{money cowrie:: medic. properties}
परिणामादिशूलघ्नी ग्रहणीक्षयनाशिनी ।
कटूष्णा दीपनी वृष्या नेत्र्या वातकफापहा ॥ ११.१०० ॥

रसेन्द्रजारणे प्रोक्ता बिडद्रव्येषु शस्यते ।
{cowrie (gen.):: medic. properties}
तदन्ये तु वराटाः स्युर् गुरवः श्लेष्मपित्तलाः ॥ ११.१०१ ॥

हत्वा हत्वा गुणान् भूयो विकारान् कुर्वते न हि ।
{money cowrie:: शोधन}
वराटाः काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयुः ॥ ११.१०२ ॥

{अग्निजार:: origin}
समुद्रेणाग्निनक्रस्य जरायुर् बहिरुज्झितः ।
संशुष्को भानुतापेन सोऽग्निजार इति स्मृतः ॥ ११.१०३ ॥

{अग्निजार:: शोधन}
तदब्धिक्षारसंशुद्धं तस्माच्छुद्धिर्न हीष्यते ।
{अग्निजार:: medic. properties}
अग्निजारस् त्रिदोषघ्नो धनुर्वातादिवातनुत् ।
वर्धनो रसवीर्यस्य दीपनो जारणस्तथा ॥ ११.१०४ ॥

{गिरिसिन्दूर:: origin}
महगिरिषु चाल्पीयः पाषाणान्तः स्थितो रसः ।
शुष्कः शोणः स निर्दिष्टो रससिन्दूरसंज्ञया ॥ ११.१०५ ॥

{गिरिसिन्दूर:: medic. properties}
त्रिदोषशमनं भेदि रसबन्धनमग्रिमम् ।
देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम् ॥ ११.१०६ ॥

{हिङ्गुल:: subtypes}
हिङ्गुलः शुकतुण्डाख्यो हंसपाकस्तथापरः ।
{शुकतुण्ड:: properties}
प्रथमोऽल्पगुणस्तत्र चर्मारः स निगद्यते ॥ ११.१०७ ॥

{हंसपाक:: phys. properties}
श्वेतरेखः प्रवालाभो हंसपाकः स ईरितः ।
{दरद:: medic. properties}
हिङ्गुलः सर्वदोषघ्नो दीपनोऽतिरसायनः ॥ ११.१०८ ॥

सर्वरोगहरो वृष्यो जारणायातिशस्यते ।
{हिङ्गुलाकृष्ट}
एतस्मादाहृतः सूतो जीर्णगन्धसमो गुणैः ॥ ११.१०९ ॥

{दरद:: शोधन}
सप्तकृत्वार्द्रकद्रावैर्लकुचस्याम्बुनापि वा ।
शोषितो भावयित्वा च निर्दोषो जायते खलु ॥ ११.११० ॥

{बोद्दारशृङ्ग:: प्लचे of दिस्चोवेर्य्}
सदलं पीतवर्णं च भवेद्गुर्जरमण्डले ।
अर्बुदस्य गिरेः पार्श्वे जातं बोद्दारशृङ्गकम् ॥ ११.१११ ॥

{उदारशृङ्ग:: medic. properties}
सीससत्त्वं मरुच्छ्लेष्मशमनं पुंगदापहम् ।
रसबन्धनमुत्कृष्टं केशरञ्जनमुत्तमम् ॥ ११.११२ ॥

{साधारणरस:: शोधन}
साधारणरसाः सर्वे मातुलुङ्गद्रवाम्बुना ।
त्रिवारं भाविताः शुष्का भवेयुर्दोषवर्जिताः ॥ ११.११३ ॥

{साधारणरस:: सत्त्व:: शोधन}
यानि कानि च सत्त्वानि तानि शुध्यन्त्यशेषतः ।
ध्मातानि शुद्धिवर्गेण मिलन्ति च परस्परम् ॥ ११.११४ ॥


अध्याय १२[सम्पाद्यताम्]

{jewels}
माणिक्यमुक्ताफलविद्रुमाणि तार्क्ष्यं च पुष्पं भिदुरं च नीलम् ।
गोमेदकं चाथ विदूरकं च क्रमेण रत्नानि नवग्रहाणाम् ॥ १२.१ ॥

ग्रहानुमैत्र्या कुरुविन्दपुष्पप्रवालमुक्ताफलतार्क्ष्यवज्रम् ।
नीलाख्यगोमेदविदूरकं च क्रमेण मुद्राधृतमिष्टसिद्ध्यै ॥ १२.२ ॥

रसे रसायने दाने धारणे च देवतार्चने ।
सुलक्ष्माणि सुजातीनि रत्नान्युक्तानि सिद्धये ॥ १२.३ ॥

{ruby:: subtypes}
माणिक्यं पद्मरागाख्यं द्वितीयं नीलगन्धि च ।
{ruby:: परीक्षा:: good Quality}
शीतं कुशेशयच्छायं स्वच्छं स्निग्धं गुरु स्फुटम् ॥ १२.४ ॥

वृत्तायत्तं समगात्रं माणिक्यं श्रेष्ठमुच्यते ।
{नीलगन्धि:: परीक्षा}
नीलं गङ्गाम्बुसम्भूतं नीलगर्भारुणच्छवि ।
पूर्वमाणिक्यवच्छ्रेष्ठं माणिक्यं नीलगन्धि तत् ॥ १२.५ ॥

{ruby:: परीक्षा:: bad quality}
रन्ध्रकार्कश्यमालिन्यरौक्ष्यवैशद्यसंयुतम् ।
चिपिटं लघु वक्रं च माणिक्यं दुष्टम् अष्टधा ॥ १२.६ ॥

{ruby:: medic. properties}
माणिक्यं दीपनं वृष्यं कफवातक्षयार्तिहृत् ।
भूतवैतालपापघ्नं कर्मजव्याधिनाशनम् ॥ १२.७ ॥

{मौक्तिक:: परीक्षा:: good quality}
ह्लादि श्वेतं लघु स्निग्धं रश्मिवन्निर्मलं महत् ।
ख्यातं तोयप्रभं वृत्तं मौक्तिकं नवधा शुभम् ॥ १२.८ ॥

{मौक्तिक:: परीक्षा:: bad quality}
रूक्षाङ्गं निर्जलं श्यामं ताम्राभं लवणोपमम् ।
अर्धशुभ्रं च विकटं ग्रन्थिलं मौक्तिकं त्यजेत् ॥ १२.९ ॥

{पेअर्ल्:: medic. properties}
कफपित्तक्षयध्वंसि कासश्वासाग्निमान्द्यनुत् ।
पुष्टिदं वृष्यमायुष्यं दाहघ्नं मौक्तिकं मतम् ॥ १२.१० ॥

{चोरल्:: परीक्षा:: good quality}
पक्वबिम्बफलच्छायं वृत्तायत्तम् अवक्रकम् ।
स्निग्धम् अव्रणकं स्थूलं प्रवालं सप्तधा मतम् ॥ १२.११ ॥

{चोरल्:: परीक्षा:: bad quality}
पाण्डुरं धूसरं रूक्षं सव्रणं कोटरान्वितम् ।
निर्भारं शुभ्रवर्णं च प्रवालं नेष्यतेऽष्टधा ॥ १२.१२ ॥

{चोरल्:: medic. properties}
क्षयपित्तास्रकासघ्नं दीपनं पाचनं लघु ।
विषभूतादिशमनं विद्रुमं नेत्ररोगनुत् ॥ १२.१३ ॥

{एमेरल्द्:: परीक्षा:: good quality}
हरिद्वर्णं गुरु स्निग्धं स्फुरद्रश्मिचयं शुभम् ।
मसृणं भासुरं तार्क्ष्यं गात्रं सप्तगुणं मतम् ॥ १२.१४ ॥

{एमेरल्द्:: परीक्षा:: bad quality}
कपिशं कर्कशं नीलं पाण्डु कृष्णं सलाघवम् ।
चिपिटं विकटं कृष्णं रूक्षं तार्क्ष्यं न शस्यते ॥ १२.१५ ॥

{एमेरल्द्:: medic. properties}
ज्वरछर्दिविषश्वाससन्निपाताग्निमान्द्यनुत् ।
दुर्नामपाण्डुशोफघ्नं तार्क्ष्यमोजोविवर्धनम् ॥ १२.१६ ॥

{पुष्पराग:: परीक्षा:: good quality}
पुष्परागं गुरु स्निग्धं स्वच्छं स्थूलं समं मृदु ।
कर्णिकारप्रसूनाभं मसृणं शुभमष्टधा ॥ १२.१७ ॥

{पुष्पराग:: परीक्षा:: bad quality}
निष्प्रभं कर्कशं रूक्षं पीतं श्यामं नतोन्नतम् ।
कपिलं कपिशं पाण्डु पुष्परागं परित्यजेत् ॥ १२.१८ ॥

{पुष्पराग:: medic. properties}
पुष्परागं विषछर्दिकफवाताग्निमान्द्यनुत् ।
दाहकुष्ठप्रशमनं दीपनं लघु पाचनम् ॥ १२.१९ ॥

{वज्र:: subtypes:: गेन्देर्}
वज्रं च त्रिविधं प्रोक्तं नरो नारी नपुंसकम् ।
पूर्वं पूर्वं महाश्रेष्ठं रसवीर्यविपाकतः ॥ १२.२० ॥

{वज्र:: पुंवज्र}
अष्टास्रं चाष्टफलकं षट्कोणम् अतिभासुरम् ।
अम्बुदेन्द्रधनुर्वारि नरं पुंवज्रमुच्यते ॥ १२.२१ ॥

{स्त्रीवज्र}
तदेव चिपिटाकारं स्त्रीवज्रं वर्त्तुलायतम् ।
{नपुंसक}
वर्त्तुलं कुण्ठकोणाग्रं किंचिद्गुरु नपुंसकम् ॥ १२.२२ ॥

स्त्रीपुंनपुंसकं वज्रं योज्यं स्त्रीपुंनपुंसके ।
व्यत्यासान्नैव फलदं पुंवज्रेण विना क्वचित् ॥ १२.२३ ॥

{वज्र:: subtypes:: चोलोउर्}
श्वेतादिवर्णभेदेन तदेकैकं चतुर्विधम् ।
ब्रह्मक्षत्रियविट्शूद्रं स्वस्ववर्णफलप्रदम् ॥ १२.२४ ॥

उत्तमोत्तमवर्णं हि नीचवर्णे फलप्रदम् ।
न्यायोऽयं भैरवेणोक्तं पदार्थेष्वखिलेष्वपि ॥ १२.२५ ॥

{वज्र:: medic. properties}
आयुष्प्रदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनं सकलामयघ्नम् ।
सूतेन्द्रबन्धवधसद्गुणकृत् प्रदीपि मृत्युं जयेद् अमृतोपमयेव वज्रम् ॥ १२.२६ ॥

{जेwएल्स्:: पञ्चदोष}
ग्रासस्त्रासश्च बिन्दुश्च रेखा च जलगर्भता ।
सर्वरत्नेष्वमी पञ्च दोषाः साधारणा मताः ॥ १२.२७ ॥

क्षेत्रतोयभवा दोषा रत्नेषु न लगन्ति च ।
भैरवस्तु पुनः प्राह दोषो दोषेऽस्ति सर्वथा ॥ १२.२८ ॥

{वज्र:: शोधन}
कुलत्थक्वाथके स्विन्नं कोद्रवक्वथितेन वा ।
एकयामावधि स्विन्नं वज्रं शुध्यति निश्चितम् ॥ १२.२९ ॥

{वज्र:: मारण}
वज्रं मत्कुणरक्तेण चतुर्वारं विभावितम् ।
सुगन्धमूषिकामांसैर् वर्तितैः परिवेष्ट्य च ॥ १२.३० ॥

पुटेत् पुटैर्वराहाख्यैस्त्रिंशद्वारं ततः परम् ।
ध्मात्वा ध्मात्वा शतं वारान् कुलत्थक्वाथके क्षिपेत् ॥ १२.३१ ॥

अन्यैरुक्तं शतं वारान् कर्तव्योऽयं विधिक्रमः ।
{वज्र:: मारण:: वारितर}
कुलत्थक्वाथसंयुक्तलकुचद्रवपिष्टया ॥ १२.३२ ॥

शिलया लिप्तमूषायां वज्रं क्षिप्त्वा निरुध्य च ।
अष्टवारं पुटेत् सम्यग्विशुष्कैर् वनकोत्पलैः ॥ १२.३३ ॥

शतवारं ततो ध्मात्वा निक्षिप्तं शुद्धपारदे ।
निश्चितं म्रियते वज्रं भस्म वारितरं भवेत् ॥ १२.३४ ॥

सत्यवाक् सोमसेनानीर् एतद्वज्रस्य मारणम् ।
दृष्टप्रत्ययसंयुक्तमुक्तवान् रसकौतुकी ॥ १२.३५ ॥

{वज्र:: मारण}
विलिप्तं मत्कुणस्यास्रैः सप्तवारं विशोषितम् ।
कासमर्दरसापूर्णलोहपात्रे निवेशितम् ॥ १२.३६ ॥

सप्तवारं परिध्मातं वज्रभस्म भवेत् खलु ।
ब्रह्मज्योतिर्मुनीन्द्रेण क्रमोऽयं परिकीर्तितः ॥ १२.३७ ॥

{वज्र:: मारण}
नीलज्योतिर्लताकन्दे घृष्टं घर्मे विशोषितम् ।
वज्रं भस्मत्वमायाति कर्मवज्ज्ञानवह्निना ॥ १२.३८ ॥

{वज्र:: मारण}
मदनस्य फलोद्भूतरसेन क्षोणिनागकैः ।
कृतकल्केन संलिप्य पुटेद् विंशतिवारकम् ॥ १२.३९ ॥

तद्वज्रं चूर्णयित्वाथ किंचिट् टङ्कणसंयुतम् ॥ १२.४० ॥

खरभूनागसत्त्वेन विंशेनावर्तयेद् ध्रुवम् ।
तुल्यस्वर्णेन तद्ध्मातं योजनीयं रसादिषु ॥ १२.४१ ॥

त्रिगुणेन रसेनैव विमर्द्य गुटिकीकृतम् ।
मुखे धृतं करोत्याशु चलदन्तविबन्धनम् ॥ १२.४२ ॥

{वज्र:: मृत:: medic. use}
त्रिंशद्भागमितं हि वज्रभसितं स्वर्णं कलाभागिकं तारं चाष्टगुणं शिवामृतवरं रुद्रांशकं चाभ्रकम् ।
पादांशं खलु ताप्यकं वसुगुणं वैक्रान्तकं षड्गुणं भागोऽप्युक्तरसाद्रसोऽयमुदितः षाड्गुण्यसंसिद्धये ॥ १२.४३ ॥

{सप्फिरे:: सुब्त्प्येस्}
जलनीलेन्द्रनीलं च शक्रनीलं तयोर्वरम् ।
{जलनील:: परीक्षा}
श्वैत्यगर्भितनीलाभं लघु तज्जलनीलकम् ।
{इन्द्रनील:: परीक्षा}
कार्ष्ण्यगर्भितनीलाभं सभारं शक्रनीलकम् ॥ १२.४४ ॥

{सप्फिरे:: परीक्षा:: good quality}
एकच्छायं गुरु स्निग्धं स्वच्छं पिण्डितविग्रहम् ।
मृदु मध्योल्लसज्ज्योतिः सप्तधा नीलमुत्तमम् ॥ १२.४५ ॥

{जलनील:: परीक्षा}
कोमलं विहितं वर्णं निर्भारं रक्तगन्धि च ।
चिपिटाभं सरूक्षं च जलनीलं च सप्तधा ॥ १२.४६ ॥

{सप्फिरे:: medic. properties}
कासश्वासहरं वृष्यं त्रिदोषघ्नं सुदीपनम् ।
विषमज्वरदुर्नामपापघ्नं नीलमीरितम् ॥ १२.४७ ॥

{गोमेद:: निरुक्ति}
गोमेदःसमरागत्वाद् गोमेदं रत्नमुच्यते ।
{गोमेद:: परीक्षा:: good quality}
सुस्वच्छगोजलच्छायं स्वच्छं स्निग्धं समं गुरु ।
निर्दलं मसृणं दीप्तं शस्तं गोमेदमष्टधा ॥ १२.४८ ॥

{गोमेद:: परीक्षा:: bad quality}
विच्छायं लघु रूक्षाङ्गं चिपिटं पटलान्वितम् ।
निष्प्रभं पीतकाचाभं गोमेदं न शुभावहम् ॥ १२.४९ ॥

{गोमेद:: medic. properties}
गोमेदं कफपित्तघ्नं क्षयपाण्डुक्षयंकरम् ।
दीपनं पाचनं रुच्यं त्वच्यं बुद्धिप्रबोधनम् ॥ १२.५० ॥

{वैडूर्य:: परीक्षा:: good quality}
वैडूर्यं श्यामशुभ्राभं समं स्वच्छं गुरु स्फुटम् ।
भ्रमच्छुभ्रोत्तरीयेण गर्भितं शुभमीरितम् ॥ १२.५१ ॥

{वैडूर्य:: परीक्षा:: bad quality}
श्यामं तोयसमच्छायं चिपिटं लघु कर्कशम् ।
रक्तगर्भोत्तरीयं च वैडूर्यं नैव शस्यते ॥ १२.५२ ॥

{वैडूर्य:: medic. properties}
वैडूर्यं रक्तपित्तघ्नं प्रज्ञायुर्बलवर्धनम् ।
पित्तप्रधानरोगघ्नं दीपनं मलमोचनम् ॥ १२.५३ ॥

{जेwएल्स्:: शोधन}
शुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा ।
विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धतस्तथा ॥ १२.५४ ॥

पुष्परागं च धान्याम्लैः कुलत्थक्वाथसंयुतैः ।
तण्डुलीयजलैर्वज्रं नीलं नीलीरसेन च ।
रोचनाभिश्च गोमेदं वैडूर्यं त्रिफलाजलैः ॥ १२.५५ ॥

{जेwएल्स्:: मारण}
लकुचद्रावसम्पिष्टैः शिलागन्धकतालकैः ।
वज्रं विनान्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ॥ १२.५६ ॥

{जेwएल्स्:: द्रुति}
रामठं पञ्चलवणं क्षाराणां त्रितयं तथा ।
मांसद्राव्यम्लवेतश्च चूलिकालवणं तथा ॥ १२.५७ ॥

स्थलकुम्भीफलं पक्वं तथा ज्वालामुखी शुभा ।
द्रवन्ती च रुदन्ती च पयस्या चित्रमूलकम् ॥ १२.५८ ॥

दुग्धं स्नुह्यास्तथार्कस्य सर्वं संमर्द्यं यत्नतः ।
गोलं विधाय तन्मध्ये प्रक्षिपेत्तदनन्तरम् ॥ १२.५९ ॥

गुणवन्त्येव रत्नानि जातिमन्ति शुभानि च ।
भूर्जे तं गोलकं कृत्वा सूत्रेणावेष्ट्य यत्नतः ॥ १२.६० ॥

पुनर्वस्त्रेण संवेष्ट्य दोलायन्त्रे निधाय च ।
सर्वाम्लयुक्तसंधानपरिपूर्णघटोदरे ॥ १२.६१ ॥

अहोरात्रत्रयं यावत्स्वेदयेत्तीव्रवह्निना ।
तस्मादाहृत्य संक्षाल्य रत्नजां द्रुतिमाहरेत् ॥ १२.६२ ॥

रत्नतुल्यप्रभा लघ्वी देहलोहकरी शुभा ।
दुर्मेला रसराजेन नैकत्वं याति तेन सा ॥ १२.६३ ॥

रामठादिकवर्गेण प्रमिलति न संशयः ।
सुप्रसन्ने महादेवे द्रुतिः कस्य न सिध्यति ॥ १२.६४ ॥

दुर्लभा वैष्णवी भक्तिर्दुर्लभं रसबन्धनम् ।
दुर्लभात्र द्रुतिर्लोके स्वल्पभाग्यवतां नृणाम् ॥ १२.६५ ॥

सूर्यादिग्रहनिग्रहापहरणं दीर्घायुरारोग्यदं सौभाग्योदयभाग्यवश्यविभवोत्साहप्रदं धैर्यकृत् ।
दुःछायांचलधूलिसङ्गतिभवालक्ष्मीहरं सर्वदा रत्नानां परिधारणं निगदितं भूतादिनिर्णाशनम् ॥ १२.६६ ॥

रत्नानाम् गुणग्रामं समग्रं चाग्रणीः सताम् ।
सुरत्नमब्रवीत् सोमो नेति यद्गुणितं गुणी ॥ १२.६७ ॥

वर्णलक्षसंजातियुक्तं रत्नं फलप्रदम् ।
रसे रसायने दाने धारणे चान्यथान्यथा ॥ १२.६८ ॥


अध्याय १३[सम्पाद्यताम्]

{माणिक्यरसायन}
सुजातिगुणमाणिक्यभस्म कर्षमितं शुभम् ।
कनकाभ्रकताम्राणां कान्तस्य भसितं पृथक् ॥ १३.१ ॥

त्रिगुणत्वेन संवृद्धं मर्दयेत् समगन्धकैः ।
पुटेद्वनगिरिण्डैश्च पञ्चवाराणि यत्नतः ॥ १३.२ ॥

एवं शिलालकाभ्यां च पुटेन्नीलाञ्जनेन च ।
तुल्यगन्धाश्मसूताभ्यां विहितां कज्जलीं शुभाम् ॥ १३.३ ॥

ततस्तां कज्जलीं यत्नाद् गृहीत्वा तदनन्तरम् ।
लोहपात्रे परिद्राव्य बादरेणाल्पवह्निना ॥ १३.४ ॥

माणिक्यादीनि भस्मानि क्षिप्त्वा तत्र विमिश्रयेत् ।
अथार्द्रकरसैस्तां तु मर्दयित्वाथ कज्जलीम् ॥ १३.५ ॥

सम्यक् शुष्कं विचूर्ण्याथ क्षिपेद्रम्यकरण्डके ।
व्योषाज्यसम्मितं ह्येतन्माणिक्याद्यं रसायनम् ॥ १३.६ ॥

व्योषाज्यसहितं लीढं षण्मासं पथ्यभोजिना ।
निहन्ति सकलान् रोगान् जरापलितसंयुतान् ॥ १३.७ ॥

जीवेद्वर्षशतं चैव त्रिवारकृतभोजनः ।
क्षयादिजान् गदान् सर्वांस्तत्तद्रोगानुपानतः ॥ १३.८ ॥

{मौक्तिकरसायनम्}
जयन्तीरसनिष्पिष्टं शुकपिच्छेन मारितम् ।
मौक्तिकं रसमात्रं हि द्विगुणं स्वर्णभस्मकम् ॥ १३.९ ॥

त्रिगुणं कान्तजं भस्म व्योमसत्त्वं चतुर्गुणम् ।
दत्त्वा च गन्धसौभाग्यं शृङ्गवेरेण भावितम् ॥ १३.१० ॥

पुटेद् विंशतिवाराणि विद्राव्य पटगालितम् ।
सर्वतुल्येन बलिना रसेन कृतकज्जलीम् ॥ १३.११ ॥

विद्राव्य पूर्ववद् भस्म मुक्तादीनां परिक्षिपेत् ।
विमिश्र्य निक्षिपेत्तत्र क्षीरं छागीसमुद्भवम् ॥ १३.१२ ॥

संशोषितं विचूर्ण्याथ काचकूप्यां विनिक्षिपेत् ।
पिप्पलीमधुना सार्धं सेवितं वल्लमात्रया ॥ १३.१३ ॥

रसायनविधानेन कुरुते वत्सरेण हि ।
वलीपलितनिर्मुक्तं वार्धक्येन विवर्जितम् ॥ १३.१४ ॥

श्रोत्रदन्तादिसम्पन्नं शतायुष्कं सचक्षुषम् ।
मत्तदन्तिबलोपेतं विवादे विजयान्वितम् ॥ १३.१५ ॥

लीढं मध्वाज्यतैलैश्च कणोपेताश्वगन्धया ।
क्षयरोगं निहन्त्येव मण्डलार्धेन निश्चितम् ॥ १३.१६ ॥

तत्तद्रोगानुपानैश्च निहन्ति सकलामयान् ।
वन्ध्यापुत्रप्रदं ह्येतत् सूतिकामयनाशनम् ॥ १३.१७ ॥

बालानां परमं पथ्यं वृष्यमायुष्यमुत्तमम् ।
नागोदरोपविष्टं च हन्ति स्त्रीणां च वेगतः ॥ १३.१८ ॥

हैयङ्गवीनसंयुक्तं तवराजेन संयुतम् ।
गर्भिणीसर्वरोगेषु प्रशस्तं परिकीर्तितम् ॥ १३.१९ ॥

{प्रवालरसयन}
चतुष्पलं प्रवालस्य भस्मनो मृततारकम् ।
तत्समं द्विगुणं ताम्रं प्रवालादर्धमाक्षिकम् ॥ १३.२० ॥

त्रिंशद्विभागिकं वज्रं षोडशांशं च नीलकम् ।
व्योमसत्त्वं समं सर्वैस्तालकं सर्वतः समम् ॥ १३.२१ ॥

विमर्द्य लुङ्गतोयेन यावद्दिनचतुष्टयम् ।
सर्वार्धशुद्धसूतेन तस्माद् द्विगुणगन्धकैः ॥ १३.२२ ॥

विहितां कज्जलीं सम्यक् द्रावयित्वा यथा पुरा ।
प्रवालादीनि भस्मानि विनिक्षिप्य विमिश्र्य च ॥ १३.२३ ॥

निर्वाप्य गोघृते सम्यग् द्वादशाब्दपुरातने ।
शरावसम्पुटे रुद्ध्वा घृताक्तं स्वेदयेच्छनैः ॥ १३.२४ ॥

विचूर्ण्य भावयेद्भृङ्गरसैर्वाराणि सप्त च ।
व्योषाज्यसहितं हन्ति जूर्तिरोगं दिनैस्त्रिभिः ॥ १३.२५ ॥

क्षयं च मण्डलार्धेन ग्रहणीं पाण्डुकामले ।
कुम्भकामलिकारोगम् उदावर्तं महोदरम् ॥ १३.२६ ॥

प्रमेहं मेदसो वृद्धिं वातव्याधिं कफामयम् ।
गुदरोगं च मन्दाग्निं मूत्रवातमशेषतः ॥ १३.२७ ॥

स्मरमन्दिरजव्याधिं वन्ध्यारोगांस् त्वगामयान् ।
व्योषाज्यचित्रतोयैश्च ह्यनुपानमशेषतः ॥ १३.२८ ॥

भूयो भूयो विसूच्यर्तिर् देहिनो यस्य जायते ।
रसोऽयं तस्य दातव्यो मण्डलानां त्रयं खलु ।
आमरोगे च दातव्यो भिषग्भिर्वत्सरावधि ॥ १३.२९ ॥

{तार्क्ष्यरसायन}
तार्क्ष्यभस्म तु शाणैकं वज्रभस्म तदर्धकम् ।
मृतस्वर्णार्ककान्तानां निष्कद्वयमितं पृथक् ॥ १३.३० ॥

लोहभस्म मृतं सूतं सर्वमेकत्र मर्दयेत् ।
पुटेद्विंशतिवाराणि पुटैः कुक्कुटसंज्ञकैः ॥ १३.३१ ॥

अमृताम्बुसमायुक्तैः शिलागन्धकतालकैः ।
सप्तवारं द्रवैः सार्धं दशभिः पिष्टकैः पुटेत् ॥ १३.३२ ॥

एवं सिद्धं प्रभावाढ्यं तार्क्ष्यं नाम रसायनम् ।
चित्रकार्द्रकरसोपेतं पीतं राजिकया मितम् ॥ १३.३३ ॥

त्रिदोषजान् गदान्सर्वान् कफवातोद्भवानपि ।
असाध्यान् सर्ववैद्यानां भेषजानां च कोटिभिः ।
करोति क्षुधमत्यर्थं भुक्तं जरयति क्षणात् ॥ १३.३४ ॥

{पुष्परागरसायन}
पुष्परागोद्भवं भस्म पलार्धप्रमितं शुभम् ।
तदर्धं पीतकाचं च तदर्धं ताम्रभस्मकम् ॥ १३.३५ ॥

ताम्रस्यार्धं च रजतं जातरूपं तदर्धकम् ।
वज्रभस्म तदर्धं च सर्वतुल्यं मृताभ्रकम् ॥ १३.३६ ॥

तत्समं सूर्यकान्तं च मारितं बलिना सह ।
तुल्येन बलिना सार्धं दशवारं पुटेत् खलु ॥ १३.३७ ॥

नीलाञ्जनालताप्यानां पृथक् तानि पुटानि च ।
इति सिद्धमिदं प्रोक्तं पुष्परागरसायनम् ॥ १३.३८ ॥

क्षयादिसर्वरोगघ्नं कुष्ठव्याधिहरं परम् ।
गुदगुल्मार्त्तिशमनं पुत्रीयं वृष्यमुत्तमम् ॥ १३.३९ ॥

रसायनं तथा चैतत् क्षिप्रं गुल्महरं स्त्रियाः ।
दीपनं परमं प्रोक्तं कामलापाण्डुनाशनम् ।
बहुनात्र किमुक्तेन सर्वरोगविनाशनम् ॥ १३.४० ॥

{वज्ररसायन}
एककर्षं मृतं वज्रं तावद्भूनागसत्त्वकम् ।
ततश्च द्विगुणं स्वर्णं स्वर्णतुल्यं खसत्त्वकम् ॥ १३.४१ ॥

तावन्मात्रं च कान्तायः सर्वं वारितरं कृतम् ।
अष्टमांशश्च सूतस्य सर्वेभ्यः परिकीर्तितः ॥ १३.४२ ॥

शुकपिच्छः समः सर्वैर् मर्दयेच्चणकाम्लकैः ।
विधाय गोलकं रम्यं छायाशुष्कं समाचरेत् ॥ १३.४३ ॥

ततो भूनागसत्त्वं हि गन्धकेन समं क्षिपेत् ।
पुटितं शतवाराणि शतं वाराणि ताप्यकैः ॥ १३.४४ ॥

सूर्यपर्णैश्च दुग्धैर्वा वाराणां विंशतिं ततः ।
गुञ्जाटङ्कणसिक्थैश्च भूनागस्य रजोवृतम् ॥ १३.४५ ॥

वर्तयित्वा तु तं गोलं कल्केनानेन लेपयेत् ।
अर्धाङ्गुलदलेनाथ परिशोष्य खरातपे ॥ १३.४६ ॥

निक्षिपेद् वालुकायन्त्रे प्रपचेद्दिनपञ्चकम् ।
ततस्त्रिकोणगण्डीरदुग्धैर्गन्धकसंयुतैः ॥ १३.४७ ॥

मर्दयित्वा तु तं गोलं पुटेद्वाराणि विंशतिम् ।
पटचूर्णं ततः कृत्वा क्षिपेदन्तःकरण्डके ॥ १३.४८ ॥

गुञ्जामितं भजेदेनं रम्यं वज्ररसायनम् ।
ज्ञाताज्ञातेषु सर्वेषु गदेषु विविधेषु च ॥ १३.४९ ॥

तत्तद्रोगानुपानेन दातव्यं भिषजा खलु ।
न सोऽस्ति रोगो लोकेऽस्मिन्यो ह्यनेन न शाम्यति ॥ १३.५० ॥

रसायनप्रकारेण सेवितो मण्डलत्रयम् ।
देहसिद्धिं करोत्येव विश्वविस्मयकारिणीम् ।
बिल्वमेकं विना सर्वं पथ्यमत्र प्रकीर्तितम् ॥ १३.५१ ॥

{नीलरसायन}
नीलरत्नकृतं भस्म पलमात्रं च हीरकम् ।
स्वर्णं रौप्यं च कान्तं च ताप्यकं नृपवर्तकम् ॥ १३.५२ ॥

समांशं सर्वमेतत् स्यात् सर्वतुल्यं च शुल्वकम् ।
सर्वमेतन्मृतं ग्राह्यं समगन्धकसंयुतम् ॥ १३.५३ ॥

मर्दयेत् कङ्गुणीतैलैर्यावत्स्याद्दिवसाष्टकम् ।
ऊर्ध्वाधो गन्धकं दत्त्वा पुटेद्वाराणि विंशतिम् ॥ १३.५४ ॥

श्वेतमुण्डीरसैः पश्चाद्भावयेत् सप्तवारकम् ।
इति सिद्धं प्रभावाढ्यं रम्यं नीलरसायनम् ॥ १३.५५ ॥

निहन्ति सकलान्रोगान्गुञ्जामात्रं निषेवितम् ।
ज्वरं पाण्डुं क्षयं कासं शूलमर्शश्च गुल्मकम् ॥ १३.५६ ॥

उदरं कुष्ठरोगं च श्वासं पञ्चविधं तथा ।
तत्तद्भैषज्ययोगेन तत्तद्रोगनिबर्हणम् ॥ १३.५७ ॥

{गोमेदरसायन}
गोमेदं गन्धयोगेन लकुचद्रवयोगिना ।
पुटित्वा दशवारैश्च जातं भस्म पलोन्मितम् ॥ १३.५८ ॥

सुवर्णं रजतं कान्तं सर्वमौषधमारितम् ।
क्रामणं पादपादेन प्रसितं चूलिकाम्बुना ॥ १३.५९ ॥

ताप्यं गन्धर्वतैलेन पुटितं दशवारकम् ।
निरुत्थं जायते भस्म सर्वथैव गुणाधिकम् ॥ १३.६० ॥

तदर्धसूतगन्धाभ्यां कृतकज्जलिकाद्रुतौ ।
पूर्वभस्मत्रयं क्षिप्त्वा विमिश्र्य च समाहरेत् ॥ १३.६१ ॥

विचूर्ण्य मुण्डिकाद्रावैर्भावयेत् सप्तवारकम् ।
पटचूर्णं विधायाथ क्षिपेदन्तःकरण्डके ॥ १३.६२ ॥

इदं हि परमं श्रेष्ठं गोमेदकरसायनम् ।
योज्यं सर्वेषु रोगेषु तत्तद्रोगानुपानतः ॥ १३.६३ ॥

करोति दीपनं तीव्रं सर्वार्हं च प्रियंकरम् ।
ददाति परमां पुष्टिं बलं भीमबलोपमम् ।
परमं वृष्यमायुष्यं नेत्र्यं मुखगदापहम् ॥ १३.६४ ॥

{वैदूर्यरसायन}
कान्तकल्केन वैदूर्यं सह गन्धेन मारितम् ।
तद्भस्मनाष्टशाणेन तदर्धं मृतहेम च ॥ १३.६५ ॥

तयोः समं तीक्ष्णरजो मृतं रूप्यं च तत्समम् ।
मृतं च विमलं सर्वैः समं सर्वं विमर्दितम् ॥ १३.६६ ॥

मिलितं मोचसारेण गोलीकृत्य विशोषयेत् ।
अङ्गुलार्धदलेनैव शिलाजेन विमर्दयेत् ॥ १३.६७ ॥

वालुकायन्त्रमध्यस्थं पक्षार्धं शनकैः पचेत् ।
स्वतः शीतं समाहृत्य कुमारीमूलसारतः ॥ १३.६८ ॥

मर्दयित्वा विशोष्याथ पीलुमूलजलैस्तथा ।
तथैव चित्रमूलाद्भिः कन्थारीमूलसारतः ॥ १३.६९ ॥

चिरबिल्वभवैस्तोयैर् विशोष्य च विचूर्ण्य च ।
मृतसंजीवनं ह्येतद् वैदूर्यकरसायनम् ॥ १३.७० ॥

आर्द्रकद्रवसंयुक्तं गुञ्जामात्रं रसायनम् ।
दातव्यं चित्रतोयैर्वा सन्निपाते विसंज्ञके ॥ १३.७१ ॥

दन्तबन्धे तु संजाते वल्लमात्रममुं रसम् ।
पादयोर्घर्षयेद्यत्नात् ततश्चेष्टामवाप्नुयात् ॥ १३.७२ ॥

जातचेष्टस्य सलिलं मूर्ध्नि शीतं विनिक्षिपेत् ।
शतकुम्भमितं स्वादु तीव्रा क्षुज्जायते ततः ॥ १३.७३ ॥

यत् किंचिद् याचते तस्मै तत्तद्देयमभीप्सितम् ।
आयुष्ये विद्यमाने स सुखी जीवति मानवः ॥ १३.७४ ॥

त्रिदोषजातरोगेषु दातव्यं तण्डुलोन्मितम् ।
पलार्धसितया युक्तमन्यथा हन्ति रोगिणम् ॥ १३.७५ ॥

एकदोषोद्भवे रोगे संसर्गजनिते तथा ।
न दातव्यं हि भिषजा वैदूर्यकरसायनम् ॥ १३.७६ ॥

धृतानि वा तानि समर्चितानि सुजातियुक्तानि च संस्तुतानि ।
हरन्ति रत्नान्यखिलं दुरिष्टं कुर्वन्त्यभीष्टं सततं यथेष्टम् ॥ १३.७७ ॥

हरन्त्यलक्ष्मीं सततं समस्तान् दुष्कर्मजातान् इह सर्वरोगान् ।
आयुष्यकारीणि हितानि सर्वरत्नप्रसूतानि रसायनानि ॥ १३.७८ ॥


अध्याय १४[सम्पाद्यताम्]

{वर्गस् of metals}
शुद्धं लोहं कनकरजतं भानुलोहाश्मसारं पूतीलोहं द्वितयमुदितं नागवङ्गाभिधानम् ।
मिश्रं लोहं त्रितयमुदितं पित्तलं कांस्यवर्तं धातुर् लोहे लुह इति मतः सोऽपि कषार्थवाची ॥ १४.१ ॥

{gold:: subtypes}
प्राकृतं सहजं वह्निसम्भूतं खनिसम्भवम् ।
रसेन्द्रवेधसंजातं स्वर्णं पञ्चविधं स्मृतम् ॥ १४.२ ॥

{प्राकृत}
ब्रह्माण्डं संवृतं येन रजोगुणभुवा खलु ।
तत्प्राकृतमिति प्रोक्तं देवानामपि दुर्लभम् ॥ १४.३ ॥

{सहज}
ब्रह्मा येनावृतो जातः सुवर्णेन जरायुणा ।
तन्मेरुरूपतां जातं सुवर्णं सहजं हि तत् ॥ १४.४ ॥

{वह्निसम्भव}
विसृष्टमग्निना शैवं तेजः पीतं सुदुःसहम् ।
अभूत्स्वर्णं तदुद्दिष्टं सुवर्णं वह्निसंभवम् ॥ १४.५ ॥

एतत् स्वर्णत्रयं दिव्यं वर्णैः षोडशभिर्युतम् ।
धारणादेव तत् कुर्याच्छरीरम् अजरामरम् ॥ १४.६ ॥

{खनिज}
तत्र तत्र गिरीणां हि जातं खनिषु यद्भवेत् ।
तच्चतुर्दशवर्णाढ्यं भक्षितं सर्वरोगहृत् ॥ १४.७ ॥

{वेधज}
रसेन्द्रवेधसम्भूतं तद्वेधजमुदाहृतम् ।
रसायनं महाश्रेष्ठं पापघ्नं वेधजं हि तत् ॥ १४.८ ॥

तारार्करीतीतरलोहकुञ्जरं वङ्गाभ्रकं माक्षिकवङ्गपारदम् ।
यत्तारजं हि प्रवदन्ति रागतः स्वर्णं कलावर्णचतुर्गुणं हि ॥ १४.९ ॥

{gold:: परीक्षा:: good quality}
घृष्टं वर्णे घुसृणसदृशं रक्तवर्णं च दाहे छेदे किंचित् सितम् अकपिलं निर्दलं भूरिभारम् ।
स्निग्धं स्वर्णं रविविरहितं स्त्यानरक्तप्रभाढ्यं श्रेष्ठं दिष्टम् अतुलितलसच्चारुवर्णं च स्वर्णम् ॥ १४.१० ॥

{gold:: परीक्षा:: bad quality}
रूक्षं विवर्णं मलिनं कठोरं कृष्णं च दाहे निकषे च पाण्डु ।
स्थूलाङ्गकं निर्भरकं कडारं स्फुटत्सुवर्णं दशधा न शस्तम् ॥ १४.११ ॥

{मिश्रलोह:: production}
स्वर्णरूप्यादिसंयोगान्मिश्रलोहं प्रजायते ।
{शोधन:: use of ~}
स्वर्णकार्यं न तेन स्यात्तस्मात् शुद्धिर् विधीयते ।
शोध्यं न केवलं स्वर्णं लोहान्यन्यानि शोधयेत् ॥ १४.१२ ॥

{gold:: रेfरेस्हिन्ग् इत्स् चोलोउर् (?)}
कर्षप्रमाणं तु सुवर्णपत्रं शरावरुद्धं पटुधातुयुक्तम् ।
अङ्गारसंस्थं प्रहरार्धमानं ध्मातेन तत्स्यान्ननु पूर्णवर्णम् ॥ १४.१३ ॥

{metals:: मारण:: types}
लोहानां मारणं श्रेष्ठं सर्वेषां रसभस्मना ।
मूलीभिर्मध्यमं प्राहुर्निकृष्टं गन्धकादिभिः ॥ १४.१४ ॥

अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम् ।
{gold:: मारण}
कृत्वा कण्टकवेध्यानि स्वर्णपत्राणि लेपयेत् ॥ १४.१५ ॥

लुङ्गाम्बुभस्मसूतेन म्रियन्ते दशभिः पुटैः ।
{gold:: मारण}
द्रुते विनिक्षिपेत् स्वर्णे लोहमानं मृतं रसम् ॥ १४.१६ ॥

विचूर्ण्य लुङ्गतोयेन दरदेन समन्वितम् ।
जायते कुङ्कुमच्छायं स्वर्णं द्वादशभिः पुटैः ॥ १४.१७ ॥

{gold:: मारण:: अपुनर्भव}
श्लेष्मान्तकाण्डेन सकाञ्चनारजटापुटैः कुक्कुटनामधेयैः ।
त्रिंशत्प्रमाणैर् अपुनर्भवं स्यान्निःशेषयोगेषु च योजनीयम् ॥ १४.१८ ॥

{gold:: मारण}
सूतेन पिष्टिकां कृत्वा स्वर्णं रुद्ध्वा शरावके ।
स्वल्पनीलाञ्जनोपेतं दग्धं स्वल्पैर्वनोत्पलैः ॥ १४.१९ ॥

कुङ्कुमाभं भवेद्भस्म योज्यं रसरसायने ।
{gold:: मारण}
स्नुग्दुग्धहिङ्गुहिङ्गूलशिलासिन्दूरकाम्लकैः ॥ १४.२० ॥

पुटितं दशवारेण निर्जीवं हेम जायते ।
रसे रसायने लोहरञ्जने चातिशस्यते ॥ १४.२१ ॥

{gold:: मृत:: medic. properties}
स्निग्धं मेध्यं विषगरहरं बृंहणं वृष्यमग्र्यं यक्ष्मोन्मादप्रशमनपरं देहरोगप्रमाथि ।
मेधाबुद्धिस्मृतिसुखकरं सर्वदोषामयघ्नं रुच्यं दीपि प्रशमितजरं स्वादुपाकं सुवर्णम् ॥ १४.२२ ॥

{gold:: मृत:: medic. use}
एतद्भस्म सुवर्णजं कटुघृतोपेतं द्विगुञ्जोन्मितं लीढं हन्ति नृणां क्षयाग्निसदनं श्वासं सकासारुचिम् ।
ओजोधातुविवर्धनं बलकरं पाण्ड्वामयध्वंसनं वृष्यं सर्वविषापहं गरहरं दुष्टग्रहण्यादिनुत् ॥ १४.२३ ॥

निःशेषरोगविध्वंसि भूतप्रेतभयापहम् ।
बन्धनं भाविरोगाणां विषत्रयभयापहम् ॥ १४.२४ ॥

विना बिल्वफलं चात्र सर्वमन्यत् प्रशस्यते ।
दशाब्दसेवितं स्वर्णं स्वेच्छाहारविहारिणम् ।
न कश्चिद्बाधते व्याधिर्यावदायुर्न संशयः ॥ १४.२५ ॥

{silver:: subtypes}
सहजं खनिसंजातं कृत्रिमं च त्रिधा मतम् ।
रजतं पूर्वपूर्वं हि स्वगुणैरुत्तमोत्तमम् ॥ १४.२६ ॥

{silver:: सहज}
कैलासाद्यद्रिसम्भूतं रजतं सहजं भवेत् ।
तत्स्पृष्टं हि महाव्याधिनाशनं देहिनां भवेत् ॥ १४.२७ ॥

{silver:: खनिज}
हिमाचलाद्रिकूटेषु यद् रूप्यं जायते हि तत् ।
खनिजं कथ्यते तज्ज्ञैः परमं हि रसायनम् ॥ १४.२८ ॥

{silver:: पादरूप्य}
श्रीरामपादुकान्यस्तं वङ्गं यद्रूप्यतां गतम् ।
तत् पादरूप्यम् इत्युक्तं कृत्रिमं सर्वरोगनुत् ॥ १४.२९ ॥

{silver:: परीक्षा:: good quality}
घनं स्निग्धं मृदु स्वच्छं दाहे छेदे सितं गुरु ।
शङ्खाभं मसृणं स्फोटरहितं रजतं शुभम् ॥ १४.३० ॥

{silver:: परीक्षा:: bad quality}
दाहे रक्तं च पीतं च कृष्णं रूक्षं स्फुटं लघु ।
स्थूलाङ्गं कर्कशाङ्गं च रजतं त्याज्यम् अष्टधा ॥ १४.३१ ॥

{silver:: शोधन}
खर्परे भस्मचूर्णाभ्यां परितः पालिकां चरेत् ।
तत्र रूप्यं विनिक्षिप्य समसीससमन्वितम् ॥ १४.३२ ॥

जातसीसक्षयं यावद्धमेत्तावत् पुनः पुनः ।
स्वच्छं संशोधितं रूप्यं योजनीयं रसादिषु ॥ १४.३३ ॥

{silver:: मारण}
लकुचद्रवसूताभ्यां तारपिष्टीं प्रकल्पयेत् ।
ऊर्ध्वाधो गन्धकं दत्त्वा मूषागर्भे निरुध्य च ॥ १४.३४ ॥

स्वेदयेद् वालुकायन्त्रे दिनमेकं दृढाग्निना ।
स्वाङ्गशीतां च तां पिष्टीं साम्लतालेन मर्दिताम् ॥ १४.३५ ॥

पुटेद् द्वादशवाराणि भस्मीभवति रूप्यकम् ।
{silver:: मारण}
माक्षीकचूर्णलुङ्गाम्लमर्दितं पुटितं शनैः ॥ १४.३६ ॥

त्रिंशद्वारेण तत्तारं भस्म संजायतेतराम् ।
{effect of मारण of a भस्मन्}
रागः स्यात् सर्वलोहानां पुटाधिक्ये न संशयः ।
रञ्जयन्ति च रक्तानि देहलोहोभयार्थकृत् ॥ १४.३७ ॥

{silver:: मृत:: medic. properties}
रूप्यं विपाकमधुरं तुवराम्लसारं शीतं सरं परमलेखनकं च रुच्यम् ।
स्निग्धं च वातकफजिज्जठराग्निदीपि बल्यप्रदं स्थिरवयस्करणं च वृष्यम् ॥ १४.३८ ॥

{silver:: मृत:: medic. use}
भस्मीभूतं रजतममलं तत्समौ व्योमभानू सर्वैस्तुल्यं त्रिकटुकलितं सारघाज्येन युक्तम् ।
लीढं प्रातः क्षपयतितरां यक्ष्मपाण्डूदरार्शः कासं श्वासं नयनजरुजः पित्तरोगानशेषान् ॥ १४.३९ ॥

{copper:: subtypes}
म्लेच्छं नेपालकं चेति तयोर्नेपालमुत्तमम् ।
नेपालादन्यखन्युत्थं म्लेच्छमित्यभिधीयते ॥ १४.४० ॥

{म्लेच्छताम्र:: phys. properties}
सितकृष्णारुणच्छायं वामि भेदि कठोरकम् ।
क्षालितं च पुनः कृष्णमेतन्म्लेच्छकताम्रकम् ॥ १४.४१ ॥

{नेपालताम्र:: phys. properties}
सुस्निग्धं मृदुलं शोणं घनाघातक्षमं गुरु ।
निर्विकारं गुणैः श्रेष्ठं ताम्रं नेपालमुच्यते ॥ १४.४२ ॥

{copper:: परीक्षा:: bad quality}
पाण्डुरं कृष्णशोणं च लघुस्फुटनसंयुतम् ।
रूक्षाङ्गं सदलं ताम्रं नेष्यते रसकर्मणि ॥ १४.४३ ॥

{copper:: अशुद्ध:: दोष}
उत्क्लेदमोहभ्रमदाहभेदास्ताम्रस्य दोषाः खलु दुर्धरास्ते ।
विशोधनात् तद् विगतस्वदोषं सुधामयं स्याद्रसवीर्यपाके ॥ १४.४४ ॥

{copper:: शोधन}
ताम्रं क्षाराम्लसंयुक्तं द्रावितं दत्तगैरिकम् ।
निक्षिप्तं महिषीतक्रे छगणे सप्तवारकम् ॥ १४.४५ ॥

पञ्चदोषविनिर्मुक्तं भस्मयोग्यं च जायते ।
{ताम्रशोधनम्}
ताम्रनिर्दलपत्राणि विलिप्तानि तु सिन्धुना ॥ १४.४६ ॥

ध्मात्वा सौवीरके क्षेपाद् विशुध्यन्त्यष्टवारतः ।
{copper:: शोधन}
निम्बाम्बुपटुलिप्तानि तापितान्यष्टवारकम् ॥ १४.४७ ॥

विशुध्यन्त्यर्कपत्राणि निर्गुण्ड्या रसमज्जनात् ।
{copper:: शोधन}
तालपत्रसमाभानि ताम्रपत्राणि कारयेत् ॥ १४.४८ ॥

निष्क्वाथ्य काञ्जिके यामं भस्मना परिशोध्य च ।
यामं क्षीरेण निष्क्वाथ्य तत्रैव स्थापयेद्दिनम् ॥ १४.४९ ॥

दिनैकं लवणोपेतं तिन्तिडीफलकर्दमे ।
जम्बीरनीरनिष्पिष्टपटुना परिवेष्ट्य च ॥ १४.५० ॥

ध्मात्वाजामूत्रमध्ये तु सकृदेव निमज्जयेत् ।
ताम्रस्यार्धं ससिन्धूत्थैः पक्वनिम्बुकवारिभिः ॥ १४.५१ ॥

लिप्त्वा ध्मात्वा क्षिपेत्तक्रे महिषीछगणान्विते ।
तत्ताम्रं तुल्यभागेन हेममाक्षिकसंयुतम् ॥ १४.५२ ॥

धमेद् अतिदृढाङ्गारैश् चैकवारमतः परम् ।
विना ताप्यैस्त्रिवारं च चक्रिकां कल्पयेत्ततः ॥ १४.५३ ॥

ततस्त्रिकटुकक्वाथे त्रिदिनं स्थापयेत्ततः ।
उत्क्वाथ्य भस्मना मृज्य जलैः प्रक्षाल्य सारघैः ॥ १४.५४ ॥

विलिप्य सारघोपेतसितया च त्रिवारकम् ।
पुटेद् वनोत्पलैस्ताम्रं भवेत् स्वर्णसमं गुणैः ॥ १४.५५ ॥

कुमारीपत्रमध्ये तु शुल्बपत्रं निवेशितम् ।
पुटितं दोषनिर्मुक्तं पाण्डुरं च प्रजायते ॥ १४.५६ ॥

इत्थं विशोधितं ताम्रं सर्वदोषविवर्जितम् ।
भवेद्रसायने योग्यं देहलोहकरं परम् ॥ १४.५७ ॥

इमां शुद्धिं विजानाति शिवो वा नन्दिकेश्वरः ।
सर्वलोकाश्रयः श्रीमान् सोमदेवो न चापरः ॥ १४.५८ ॥

{copper:: मारण}
बलिना निहतं ताम्रं सप्तवारं समुत्थितम् ।
सर्वदोषविनिर्मुक्तं भवेदमृतसन्निभम् ॥ १४.५९ ॥

विलिप्य लकुचद्रावपिष्टगन्धाश्मपङ्कतः ।
ताम्रपत्राणि संस्थाप्य स्थालीमध्ये निरुध्य च ॥ १४.६० ॥

याममात्रं पचेत् सम्यक् मृतान्याकृष्य चूर्णयेत् ।
{copper:: मृत:: medic. use}
तद्भस्म वल्लमात्रं हि ताम्बूलीदलवेष्टितम् ॥ १४.६१ ॥

भक्षितं वामयित्वाथ रेचयित्वा द्वियामतः ।
ज्वरं विनाशयेन्न्ःणां शूलाध्मानसमन्वितम् ॥ १४.६२ ॥

विषं गरं च वेगेन वामयत्येव निश्चितम् ।
पथ्यमत्र प्रदातव्यं गोतक्रं भक्तसंयुतम् ॥ १४.६३ ॥

अतिरेकेऽतिवान्तौ च सन्तापे चातिमात्रके ।
तत्तदौचित्ययोगेन कुर्याच्छीतां प्रतिक्रियाम् ॥ १४.६४ ॥

अतिवान्तौ भजेद्भृष्टमिक्षुखण्डं तु शीतलम् ।
यद्वा बिल्वभवं क्वाथं सितया सह पाययेत् ॥ १४.६५ ॥

बर्बूरत्वग्रसः पेयो विरेके तक्रसंयुतम् ।
{copper:: मारण}
शुल्बतुल्येन सूतेन बलिना तत्समेन च ॥ १४.६६ ॥

तदर्धांशेन तालेन शिलया च तदर्धया ।
विधाय कज्जलीं श्लक्ष्णां भिन्नकज्जलसन्निभाम् ॥ १४.६७ ॥

यन्त्राध्यायविनिर्दिष्टगर्भयन्त्रोदरान्तरे ।
कज्जलीं ताम्रपत्राणि पर्यायेण विनिक्षिपेत् ।
प्रपचेद्यामपर्यन्तं स्वाङ्गशीतं प्रचूर्णयेत् ॥ १४.६८ ॥

{copper:: मृत:: medic. properties}
ताम्रं तिक्तकषायकं च मधुरं पाके च वीर्योष्णकं साम्लं पित्तकफापहं जठररुक्कुष्ठामजूर्त्त्यन्तकृत् ।
ऊर्ध्वाधः परिशोधनं विषयकृत्स्थौल्यापहं क्षुत्करं दुर्नामक्षयपाण्डुरोगशमनं नेत्र्यं परं लेखनम् ॥ १४.६९ ॥

तत्तद्रोगहरानुपानसहितं ताम्रं द्विवल्लोन्मितं संलीढं परिणामशूलमुदरं शूलं च पाण्डुं ज्वरम् ।
गुल्मप्लीहयकृत्क्षयाग्निसदनं मेहं च मूलामयं दुष्टां च ग्रहणीं हरेद् ध्रुवमिदं तत्सोमनाथाभिधम् ॥ १४.७० ॥

एतत्ताम्रसमं नान्यन्मधुरं दोषवर्जितम् ।
नान्यन्निःशेषदोषघ्नं वृष्यं स्वस्थोचितं न्ःणाम् ॥ १४.७१ ॥

{copper:: मारण}
बलिना पलमात्रेण तद्द्रव्ये रजसंमितैः ।
विषतिन्द्वग्निशम्याकवत्सनाभपटूत्तमैः ॥ १४.७२ ॥

कलिहारिशिलाव्योषतालपूगकरञ्जकैः ।
कृत्वा चूर्णं हि जम्बीरद्रवेणातिद्रवीकृतम् ॥ १४.७३ ॥

तत्सर्वं खल्वके भाण्डे विनिक्षिप्य ततः परम् ।
कृतकण्टकवेध्यानि पलताम्रदलान्यथ ।
लिप्तपादांशसूतानि तस्मिन् कल्के निगूहयेत् ॥ १४.७४ ॥

एतत् सर्वगुणाढ्यताप्रभवितं श्रीसोमदेवोदितं गुञ्जायुग्ममितं कणाज्यसहितं संसेवितं हन्ति वै ।
गुल्मप्लीहयकृद्विबन्धजठरं शूलाग्निमान्द्यामयं वातश्लेष्मसशोषपाण्डुनिवहं जूर्त्त्यामयं भक्षितम् ॥ १४.७५ ॥

पथ्यं रोगोचितं देयं रसमम्लं विवर्जयेत् ।
एतत्सात्म्यीकृतं येन तेन मृत्युर् विनिर्जितः ॥ १४.७६ ॥

{iron:: subtypes}
मुण्डं तीक्ष्णं च कान्तं च त्रिःप्रकारमयः स्मृतम् ।
{मुण्ड:: subtypes}
मृदु कुण्ठं कडारं च त्रिविधं मुण्डमुच्यते ॥ १४.७७ ॥

{मृदु:: phys. properties}
द्रुतद्रावम् अविस्फोटं चिक्कणं मृदुलं शुभम् ।
{कुण्ठ:: phys. properties}
हतं यत्प्रसरेद्दुःखं तन्मुण्डं मध्यमं स्मृतम् ।
{कडार:: phys. properties}
यन्मुण्डं भज्यते भङ्गे कृष्णं स्यात्तत्कडारकम् ॥ १४.७८ ॥

{मुण्ड:: मृदु:: medic. properties}
मुण्डं परं मृदुलकं कफवातशूलमूलाममेहगदकामलपाण्डुहारि ।
गुल्मामवातजठरार्त्तिहरं प्रदीपि शोफापहं रुधिरकृत् खलु कोष्ठशोधि ॥ १४.७९ ॥

{तीक्ष्णलोह:: subtypes}
खरं सारं च होन्नालं तारापट्टं च भाजरम् ।
काललोहाभिधानं च षड्विधं तीक्ष्णमुच्यते ॥ १४.८० ॥

{खरलोह:: phys. properties}
परुषं पोगरोन्मुक्तं भङ्गे पारदसच्छविः ।
नमते भङ्गुरं यत्तत् खरलोहम् उदाहृतम् ॥ १४.८१ ॥

{सार:: phys. properties}
वेगभङ्गुरधारं यत्सारलोहं तदीरितम् ।
योगराभासकं पाण्डु भूमिकं सारमीरितम् ॥ १४.८२ ॥

{होन्नाल:: phys. properties}
कृष्णपाण्डुवपुश्चञ्चुबीजतुल्योरुयोगरम् ।
छेदने चातिपरुषं होन्नालम् इति कथ्यते ॥ १४.८३ ॥

{भाजर:: phys. properties}
योगरैर् वज्रसङ्काशैः सूक्ष्मरेखैश्च सान्द्रकैः ।
निचितं श्यामलाङ्गं च भाजरं तत् प्रकीर्तितम् ॥ १४.८४ ॥

{काललोह:: phys. properties}
नीलकृष्णप्रभं सान्द्रं मसृणं गुरु भासुरम् ।
लोहाघातेऽप्यभग्नात्मधारं कालायसं मतम् ॥ १४.८५ ॥

खरलोहात् परं सर्वमेकैकस्माच्छतोत्तरम् ॥ १४.८६ ॥

{खरलोह:: medic. properties}
रूक्षं स्यात् खरलोहकं सुमधुरं पाके च वीर्ये हिमं तिक्तोष्णं कफपित्तकुष्ठजठरप्लीहामपाण्ड्वर्तिनुत् ।
सद्यः शूलयकृद्गदक्षयजरामेहामवातापहं दीप्तं चातिरसायनं बलकरं दुर्नाममेदोऽपहम् ॥ १४.८७ ॥

{कान्तलोह:: subtypes}
कान्तलोहं चतुर्धोक्तं रोमकं भ्रामकं तथा ।
चुम्बकं द्रावकं चेति तेषु श्रेष्ठं परं परम् ॥ १४.८८ ॥

{रोमक:: origin}
खन्यमानाद् यतः कान्तपाषाणान्निःसरन्ति हि ।
सतेजांसि हि रोमाणि कान्तं तद्रोमकं मतम् ॥ १४.८९ ॥

{भ्रामक:: origin}
क्वापि क्वापि गिरिश्रेष्ठे सुलभो भ्रामकोपलः ।
तन्मुखे क्षेपणाल्लोहं चक्रवद् भ्रमति ध्रुवम् ॥ १४.९० ॥

{चुम्बक:: origin}
विन्ध्याद्रौ चुम्बकाश्मानश्चुम्बन्त्यायसकीलकम् ।
क्षिप्रं समाहरत्येव यूनां चित्तमिवाङ्गना ॥ १४.९१ ॥

{द्रावक:: origin}
यत्स्पृष्ट्वा द्रावयेल्लोहं सुवर्णाद्यमशेषतः ।
लभ्यते तन्महादुःखात्तुषारधरपर्वते ॥ १४.९२ ॥

{कान्तलोह:: परीक्षा}
पात्रे यस्य प्रसरति जले तैलबिन्दुर्न लिप्तो हिङ्गुर्गन्धं विसृजति निजं तिक्ततां निम्बकल्कः ।
पाच्यं दुग्धं भवति शिखराकारकं नैति भूमौ कान्तं लोहं तदिदमुदितं लक्षणोक्तं न चान्यत् ॥ १४.९३ ॥

{कान्तलोह:: medic. properties}
कान्तायोऽतिरसायनोत्तरतरं स्वस्थे चिरायुःप्रदं स्निग्धं मेहहरं त्रिदोषशमनं शूलाममूलापहम् ।
गुल्मप्लीहयकृत्क्षयामयहरं पाण्डूदरव्याधिनुत् तिक्तोष्णं हिमवीर्यकं किमपरं योगेन सर्वार्तिनुत् ॥ १४.९४ ॥

लक्षोत्तरगुणं सर्वं लोहं स्याद् उत्तरोत्तरम् ।
कान्तं कोटिगुणं तत्र तदप्येवं गुणोत्तरम् ॥ १४.९५ ॥

{iron:: शोधन}
शशक्षतजसंलिप्तं त्रिवारं परितापितम् ।
मुण्डादिसकलं लोहं सर्वदोषान् विमुञ्चति ॥ १४.९६ ॥

{लोहशोधन (२)}
सामुद्रलवणोपेतं तप्तं निर्वापितं खलु ।
त्रिफलाक्वथिते नूनं गिरिदोषम् अयस्त्यजेत् ॥ १४.९७ ॥

{लोहशोधन (३)}
चिञ्चाफलदलक्वाथादयो दोषमुदस्यति ।
{लोहशोधन (४)}
यद्वा फलत्रयोपेतं गोमूत्रे क्वथितं क्षणम् ॥ १४.९८ ॥

{iron:: मारण:: वारितर}
रेतितं घृतसंसिक्तं क्षिप्त्वायः खर्परे पचेत् ।
चालयन् लोहदण्डेन यावत् क्षिप्तं तृणं दहेत् ॥ १४.९९ ॥

पिष्ट्वा पिष्ट्वा पचेदेवं पञ्चवारमतः परम् ।
धात्रीपत्ररसैर्यद्वा त्रिफलाक्वथितोदकैः ॥ १४.१०० ॥

पुटेल्लोहं चतुर्वारं भवेद्वारितरं खलु ।
{तीक्ष्णलोह:: मारण}
तीक्ष्णलोहस्य पत्राणि निर्दलानि दृढानले ॥ १४.१०१ ॥

ध्मात्वा क्षिप्त्वा जले सद्यः पाषाणोलूखलोदरे ।
कण्डयेदतिनिर्घातैः स्थूलया लोहपारया ॥ १४.१०२ ॥

तन्मध्यात् स्थूलखण्डानि रुद्ध्वा मल्लद्वयान्तरे ।
ध्मात्वा सिक्त्वा जलैः सम्यक् पूर्ववत् कण्डयेत् खलु ॥ १४.१०३ ॥

तच्चूर्णं गुडगन्धाभ्यां पुटेद् विंशतिवारकम् ।
पुटे पुटे विधातव्यं पेषणं दृढवत्तरम् ॥ १४.१०४ ॥

एवं भस्मीकृतं लोहं तत्तद्रोगेषु योजयेत् ।
{तीक्ष्णलोह:: मारण}
अथ पूर्वोदितं तीक्ष्णं वसुभल्लकवासयोः ॥ १४.१०५ ॥

पुटितं पत्रतोयेन त्रिंशद्वाराणि यत्नतः ।
शोणितं जायते भस्म कृतसिन्दूरविभ्रमम् ॥ १४.१०६ ॥

{लोहभस्म}
यद्वा तीक्ष्णदलोद्भूतं रजस् तत् त्रिफलाजलैः ।
पिष्ट्वा दत्त्वौदनं किंचिच्चक्रिकां प्रविधाय च ॥ १४.१०७ ॥

शोषयित्वातियत्नेन प्रपचेत् पञ्चभिः पुटैः ।
रक्तवर्णं हि तद्भस्म योजनीयं यथायथम् ॥ १४.१०८ ॥

{iron:: मारण:: निरुत्थ}
मत्स्याक्षीगन्धवाह्लीकैर् लकुचद्रवपेषितैः ।
विलिप्य सकलं लोहं मत्स्याक्षीकल्कगोपितम् ॥ १४.१०९ ॥

भस्त्राभ्यां सुदृढं ध्मात्वा त्रिशूलीनिर्गमावधि ।
अथोद्धृत्य क्षिपेत्क्वाथे त्रिफलागोजलात्मके ॥ १४.११० ॥

तस्मादाहृत्य संताड्य मृतमादाय लोहकम् ।
पुनश्च पूर्ववद् ध्मात्वा मारयेदखिलायसम् ॥ १४.१११ ॥

कण्डयित्वा ततो गन्धगुडत्रिफलया सह ।
पुटेद् विंशतिवारेण निरुत्थं जायते ध्रुवम् ॥ १४.११२ ॥

{लोहभस्म}
समगन्धम् अयश्चूर्णं कुमारीवारिमर्दितम् ।
पुञ्जीकृतं कियत्कालं छायास्थं म्रियते ह्ययः ॥ १४.११३ ॥

{iron:: मृत:: medic. use}
एतत्स्यादपुनर्भवं हि भसितं लोहस्य दिव्यामृतं सम्यक् सिद्धरसायनं त्रिकटुकीवेल्लाज्यमध्वन्वितम् ।
हन्यान्निष्कमितं जरां च मरणं व्याधींश्च सत्पुत्रदं दिष्टं श्रीगिरिशेन कालयवनोद्भूत्यै पुरा तत्पितुः ॥ १४.११४ ॥

एतत्संसेवमानानां न भवन्त्यामयोच्चयाः ।
जायते च सुतः श्रीमान् धीधैर्य्यबलसंयुतः ॥ १४.११५ ॥

{काललोह, कान्तलोह:: high quality of भस्मन्}
काललोहेन कान्तेन भस्मैतत्परिकल्पयेत् ।
अन्यलोहकृतं भस्म नैतादृशगुणात्मकम् ॥ १४.११६ ॥

{iron:: मारण}
मत्स्याक्षीक्षीरगन्धाश्मपिष्टं वेति तदायसम् ।
विंशतिः पुटितं वारान्निरुत्थं भस्म जायते ॥ १४.११७ ॥

{iron:: मृत:: medic. use}
तदष्टपलिकं भस्म मूत्रैर् अष्टगुणैर् गवाम् ।
पचेल्लोहमये पात्रे लोहदर्व्या विघट्टयेत् ॥ १४.११८ ॥

इत्थं सिद्धमिदं लोहं वल्लद्वितयसंमितम् ।
निहन्ति सकलान्रोगांस्तत्तद्दोषसमुद्भवान् ॥ १४.११९ ॥

क्षयं पाण्डुगदं गुल्मं शूलं मूलामयं तथा ।
मेहं मेदोऽग्निमान्द्यं च यकृत्प्लीहं च कामलाम् ॥ १४.१२० ॥

श्वासं कासं च कुष्ठं च ज्वरं शूलान्वितं तथा ॥ १४.१२१ ॥

{कान्तलोह:: medic. use}
कान्तं तुल्याभ्रसत्त्वं चरणपरिमितं हेम तत्तुल्यमर्कं वैक्रान्तं ताप्यरूप्यं क्रिमिरिपुकटुकैस् तुल्यभागैः समेतम् ।
लीढं देवद्रुतैलैः प्रवितरति नृणां देहसिद्धिं समृद्धां पथ्यं पूर्वोक्तवत् तद्धरति च सकलं रोगपूगं जवेन ॥ १४.१२२ ॥

तदेतत्सर्वरोगघ्नं रम्यं कान्तरसायनम् ।
बल्यं वृष्यं सुपुत्रीयं मङ्गल्यं दीपनं परम् ॥ १४.१२३ ॥

{iron:: मारण}
पलार्धं रेतितं लोहं बालबिल्वफलाम्बुना ।
पिष्ट्वा पिष्ट्वा पचेत्क्षिप्रं भस्मसाज्जायते खलु ॥ १४.१२४ ॥

तथा लिङ्गीफलाम्भोभिर् धात्रीफलरसेन च ।
पूर्ववन्मारयेल्लोहं जायते गुणवत्तरम् ॥ १४.१२५ ॥

{iron:: मृत:: medic. use}
पुनर्भूसिन्ध्वपामार्गवज्रिणीतिन्तिडीत्वचाम् ।
क्षारैः सर्वायसां भस्म सेवितं शाणमात्रतः ॥ १४.१२६ ॥

क्वाथं त्रिफलासंयुक्तं प्रतिमासं पिबेन्नरः ।
{मण्डूर}
लोहकिट्टविशुद्ध्यर्थं जायते चान्यथाश्मरी ॥ १४.१२७ ॥

अविशोधितलोहानां विषवद्वमनं मतम् ।
नन्दिना तु विशुद्ध्यर्थं लोहं प्रोक्तं सुधासमम् ॥ १४.१२८ ॥

{iron(?):: medic. use}
रात्रौ कान्तशरावके स्थितवरामित्राजलैः स्वादुभिः प्रातर्मुष्टिमितं खलु प्रतिदिनं षण्मासम् आसेवितम् ।
हन्यात्पित्तकफामयान् बहुविधान्कुष्ठप्रमेहांस्तथा पाण्डुं यक्ष्मगदं च कामलगदं मूलामयं वातजान् ॥ १४.१२९ ॥

{iron:: अशुद्ध:: medic. properties}
अशोधितायः सपुनर्भवं तद्गुणं प्रदर्श्याल्पमथ प्रकुर्यात् ।
आमाग्निमान्द्यारुचिगुल्मशोफविड्भेदम् आलस्यम् उरोविबन्धम् ॥ १४.१३० ॥

{tin:: subtypes}
खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते ।
खुरं तत्र गुणैः श्रेष्ठं मिश्रकं न हितं मतम् ॥ १४.१३१ ॥

{खुरक:: phys. properties}
धवलं च मृदु स्निग्धं द्रुतद्रावं सगौरवम् ।
{मिश्रक:: phys. properties}
निःशब्दं खुरवङ्गं स्यान् मिश्रकं श्यामशुभ्रकम् ॥ १४.१३२ ॥

{tin:: medic. properties}
वङ्गं तिक्तोष्णकं रूक्षमीषद्वातप्रकोपणम् ।
मेदःश्लेष्मामयघ्नं च क्रिमिघ्नं मेहनाशनम् ॥ १४.१३३ ॥

{खुर:: शोधन}
द्रावयित्वा निशायुक्ते क्षिप्तं निर्गुण्डिकारसे ।
विशुध्यति त्रिवारेण खुरवङ्गं न संशयः ॥ १४.१३४ ॥

{मिश्रक:: शोधन}
अम्लतक्रविनिष्पिष्टवर्षाभूविषसिन्धुभिः ।
कट्वलाबुगतं वङ्गं द्वितीयं परिशुध्यति ॥ १४.१३५ ॥

{वङ्गमारणम्}
सतालेनार्कदुग्धेन लिप्त्वा वङ्गदलान्यथ ।
बोधिचिञ्चात्वचां क्षारैर्दद्याल्लघुपुटानि च ॥ १४.१३६ ॥

मर्दयित्वा चरेद्भस्म तद्रसादिषु शस्यते ।
{वङ्गमारणम् (२)}
प्रद्राव्य खर्परे वङ्गं षोडशांशं रसं क्षिपेत् ॥ १४.१३७ ॥

स्वल्पस्वल्पालकं दत्त्वा भारद्वाजस्य काष्ठतः ।
मर्दयित्वा चरेद्भस्म तद्रसादिषु कीर्तितम् ॥ १४.१३८ ॥

{tin:: मृत:: medic. use}
वङ्गभस्मसमं कान्तं व्योमभस्म च तत्समम् ।
मर्दयेत्कन्यकाम्भोभिर् निम्बपत्ररसैर् अपि ॥ १४.१३९ ॥

भूपालावर्तभस्माथ विनिक्षिप्य समांशकम् ।
गोमूत्रकशिलाधातुजलैः सम्यग्विमर्दयेत् ॥ १४.१४० ॥

ततो गुग्गुलुतोयेन मर्दयित्वा दिनाष्टकम् ।
विशोष्य परिचूर्ण्याथ समभागेन योजयेत् ॥ १४.१४१ ॥

भृष्टबर्बूरनिर्यासैर् वाकुचीबीजचूर्णकैः ।
ततः क्षिपेत्करण्डान्तर्विधाय पटगालितम् ॥ १४.१४२ ॥

गोतक्रपिष्टरजनीसारेण सह पाययेत् ।
चतुर्भिर्वल्लकैस्तुल्यं रम्यं वङ्गरसायनम् ॥ १४.१४३ ॥

निश्चितं तेन नश्यन्ति मेहा विंशतिभेदकाः ।
शालयो मुद्गसूपं च नवनीतं तिलोद्भवम् ।
पटोलं तिक्ततुण्डीरं तक्रं पथ्यं प्रशस्यते ॥ १४.१४४ ॥

{lead:: शुद्ध:: परीक्षा}
द्रुतद्रावं महाभारं छेदे कृष्णं समुज्ज्वलम् ।
पूतिगन्धं बहिःकृष्णं शुद्धं सीसमतोऽन्यथा ॥ १४.१४५ ॥

{lead:: medic. properties}
अत्युष्णं सीसकं स्निग्धं तिक्तं वातापहम् ।
प्रमेहतोयदोषघ्नं दीपनं चामवातनुत् ॥ १४.१४६ ॥

{सीषशोधन}
सिन्दुवारजटाक्वाथे हरिद्राचूर्णकं क्षिपेत् ।
द्रुतं नागं च निर्गुण्ड्यास्त्रिवारं निक्षिपेद्रसे ॥ १४.१४७ ॥

नागः शुद्धो भवेदेवं मूर्च्छास्फोटादि नाचरेत् ।
{भ्राष्ट्रयन्त्र}
तिर्यगाकारचुल्ल्यां तु तिर्यग्वक्त्रं घटं क्षिपेत् ।
तं च वक्त्रं विना सर्वं गोपयेद्यत्नतो मृदा ।
भ्राष्ट्रयन्त्राभिधं चैतन्नागमारणम् उत्तमम् ॥ १४.१४८ ॥

{सीसमारणम्}
भ्राष्ट्रयन्त्राभिधे तस्मिन्यन्त्रे सीसं विनिक्षिपेत् ।
पलविंशतिकं नागमधस्तीव्रानलं क्षिपेत् ॥ १४.१४९ ॥

द्रुते नागे क्षिपेत्सूतं शुद्धं कर्षमितं शुभम् ।
विघट्ट्य निक्षिपेत् क्षारमेकैकं हि पलं पलम् ॥ १४.१५० ॥

अर्जुनाख्यस्य वृक्षस्य महाराजगिरेरपि ।
दाडिमस्य मयूरस्य क्षिप्त्वा क्षारं पृथक् पृथक् ॥ १४.१५१ ॥

एवं विंशतिरात्राणि पचेत्तीव्रेण वह्निना ।
विघट्टयन् दृढं दोर्भ्यां दर्व्या चाथ प्रयत्नतः ॥ १४.१५२ ॥

रक्तं तज्जायते भस्म कपोतच्छायमेव च ।
नागं दोषविनिर्मुक्तं जायते तु रसायनम् ॥ १४.१५३ ॥

{lead:: मारण:: निरुत्थ (?)}
हतमुत्थापितं सीसं दशवारेण सिध्यति ।
तन्मृतं सीसकं सर्वदोषमुक्तं रसायनम् ॥ १४.१५४ ॥

{lead:: मृत:: medic. use}
एवं नागोद्भवं भस्म ताप्यभस्मार्धभागिकम् ।
पादं पादं क्षिपेद्भस्म शुल्बस्य रजतस्य च ॥ १४.१५५ ॥

कान्ताभ्रसत्त्वयोश् चापि स्फटिकस्य पृथक् पृथक् ।
सर्वमेकत्र संचूर्ण्य पुटेत् त्रिफलवारिणा ॥ १४.१५६ ॥

त्रिंशद्वनगिरिण्डैश्च त्रिंशद्वारं विचूर्ण्य तत् ।
व्योषवेल्लकचूर्णैश्च समांशैः सह योजयेत् ॥ १४.१५७ ॥

मध्वाज्यसहितं हन्ति प्रलीढं वल्लमात्रया ।
अशीतिं वातजान् रोगान् धनुर्वातान् विशेषतः ॥ १४.१५८ ॥

कफरोगानशेषांश्च मूत्ररोगांश्च सर्वशः ।
श्वासं कासं क्षयं पाण्डुं श्वयथुं शीतकं ज्वरम् ॥ १४.१५९ ॥

ग्रहणीमामदोषं च वह्निमान्द्यं च दुर्जयम् ।
सर्वान् गुदजदोषांश्च तत्तद्रोगानुपानतः ॥ १४.१६० ॥

{पित्तल}
रीतिका काकतुण्डीति द्विविधं पित्तलं भवेत् ।
{रीतिका:: परीक्षा}
संतप्ता काञ्जिके क्षिप्ता ताम्राभा रीतिका मता ।
{राजरीति:: परीक्षा}
एवं प्रजायते कृष्णा काकतुण्डीति सा मता ॥ १४.१६१ ॥

{रीतिका:: परीक्षा:: good quality}
गुर्वी मृद्वी च पीताभा साराङ्गी ताडनक्षमा ।
सुस्निग्धा मसृणाङ्गी च रीतिका तादृशी शुभा ॥ १४.१६२ ॥

{रीतिका:: परीक्षा:: bad quality}
पाण्डुराभा खरा रूक्षा बर्बरा घट्टनाक्षमा ।
पूतिगन्धा तथा लघ्वी रीतिर्नेष्टा रसादिषु ॥ १४.१६३ ॥

{रीतिका:: medic. properties}
रीतिस्तिक्तरसा रूक्षा जन्तुघ्नी सास्रपित्तनुत् ।
क्रिमिकुष्ठहरा योगात् सोष्णवीर्या च शीतला ॥ १४.१६४ ॥

{राजरीति:: medic. properties}
काकतुण्डी गतस्नेहा तिक्तोष्णा कफपित्तनुत् ।
यकृत्प्लीहहरा शीतवीर्या च परिकीर्तिता ॥ १४.१६५ ॥

{रीतिका:: शोधन}
तप्ता क्षिप्ता च निर्गुण्डीरसे श्यामारजोऽन्विते ।
पञ्चवारेण संशुद्धिं रीतिरायाति निश्चितम् ॥ १४.१६६ ॥

{रीतिमारणम्}
निम्बूरसशिलागन्धवेष्टिता पुटिताष्टधा ।
रीतिरायाति भस्मत्वं ततो योज्या यथायथम् ॥ १४.१६७ ॥

{रीतिका:: production of द्रुति}
सुवर्णरीतिकाचूर्णं भक्षितं विष्ठितं पुनः ।
छागेन कृष्णवर्णेन मत्तेन तरुणेन च ॥ १४.१६८ ॥

तल्लिप्तं खर्परे दग्धं द्रुतिं मुञ्चति शोभनाम् ।
चतुर्दशलसद्वर्णसुवर्णसदृशच्छविः ॥ १४.१६९ ॥

देहलोहकरी प्रोक्ता युक्ता रसरसायने ।
{brass:: मृत:: medic. use}
मृतारकूटकं कान्तं व्योमसत्त्वं च मारितम् ॥ १४.१७० ॥

त्रयं समांशकं तुल्यव्योषजन्तुघ्नसंयुतम् ।
ब्रह्मबीजाजमोदाग्निभल्लाततिलसंयुतम् ॥ १४.१७१ ॥

सेवितं निष्कमात्रं हि जन्तुघ्नं कुष्ठनाशनम् ।
विशेषाच्छ्वेतकुष्ठघ्नं दीपनं पाचनं हितम् ॥ १४.१७२ ॥

{bronze:: production}
अष्टभागेन ताम्रेण द्विभागकुटिलेन च ।
विद्रुतेन भवेत् कांस्यं तत् सौराष्ट्रभवं शुभम् ॥ १४.१७३ ॥

{bronze:: परीक्षा:: good quality}
तीक्ष्णशब्दं मृदु स्निग्धमीषच्छ्यामलशुभ्रकम् ।
निर्मलं दाहरक्तं च षोढा कांस्यं प्रशस्यते ॥ १४.१७४ ॥

{bronze:: परीक्षा:: bad quality}
यत्पीतं दहने ताम्रं खरं रूक्षं घनासहम् ।
मन्दनादं गतज्योतिः सप्तधा कांस्यमुत्सृजेत् ॥ १४.१७५ ॥

{bronze:: medic. properties}
कांस्यं लघु च तिक्तोष्णं लेखनं दृक्प्रसादनम् ।
क्रिमिकोटिहरं वातपित्तघ्नं भाजने हितम् ॥ १४.१७६ ॥

{bronze:: suitable for vessels}
घृतमेकं विना चान्यत्सर्वं कांस्यगतं नृणाम् ।
भुक्तम् आरोग्यसुखदं हितं सात्म्यकरं तथा ॥ १४.१७७ ॥

{कांस्यशोधनम्}
तप्तं कांस्यं गवां मूत्रे वापितं परिशुध्यति ।
{bronze:: मारण:: निरुत्थ}
म्रियते गन्धतालाभ्यां निरुत्थं पञ्चभिः पुटैः ॥ १४.१७८ ॥

{वर्तलोह:: production}
कांस्यार्करीतिलोहाहिजातं तद्वर्त्तलोहकम् ।
तदेव पञ्चलोहाख्यं लोहविद्भिरुदाहृतम् ॥ १४.१७९ ॥

{वर्तलोह:: medic. properties}
हिमाम्लकटुकं रूक्षं कफपित्तविनाशनम् ।
रुच्यं त्वच्यं क्रिमिघ्नं च नेत्र्यं मलविशोधनम् ॥ १४.१८० ॥

{वर्तलोह:: vessels made of ~}
तद्भाण्डसाधितं सर्वम् अन्नव्यञ्जनसूपकम् ।
अम्लेन वर्जितं चापि दीपनं पाचनं शुभम् ॥ १४.१८१ ॥

{वर्तलोहशोधनम्}
द्रुतमश्वजले क्षिप्तं वर्त्तलोहं विशुध्यति ।
{वर्तलोहमारणम्}
म्रियते गन्धतालाभ्यां पुटितं वर्त्तलोहकम् ॥ १४.१८२ ॥

तेषु तेष्विह योगेषु योजनीयं यथाविधि ।
जातिमद्भिर्विशुद्धैश्च विधिना परिसाधितैः ।
रसोपरसलोहाद्यैः सूतः सिध्यति नान्यथा ॥ १४.१८३ ॥

{??}
रत्नानि लोहानि वराटशुक्तिपाषाणजातं खुरशृङ्गशल्यम् ।
महारसाद्येषु कठोरदेहं भस्मीकृतं तत्खलु सूतयोग्यम् ॥ १४.१८४ ॥

{भूनाग:: सत्त्व:: used for द्रावण}
वज्राणां द्रावणार्थाय सत्त्वं भूनागजं ब्रुवे ।
सदेव परमं तेजः सूतराजेन्द्रवज्रयोः ॥ १४.१८५ ॥

{भूनाग:: सत्त्व:: पातन}
धौतं भूनागसम्भूतं मर्दयेद् भृङ्गजै रसैः ।
निम्बुद्रवैश्च निर्गुण्ड्याः स्वरसैस्त्रिदिनं पृथक् ॥ १४.१८६ ॥

तद् द्रावणगणोपेतं संमर्द्य वटकीकृतम् ।
निरुध्य दृढमूषायां द्विदण्डं प्रधमेद् दृढम् ॥ १४.१८७ ॥

स्वतः शीतं समाहृत्य पट्टके विनिवेश्य यत् ।
रवकान् राजिकातुल्यान् रेणूनपि भरान्वितान् ॥ १४.१८८ ॥

द्वादशांशार्कसंयुक्तान् धमित्वा रवकांश्चरेत् ।
वज्रादिद्रावणं तेन प्रकुर्वीत यथेप्सितम् ॥ १४.१८९ ॥

खरसत्त्वमिदं प्रोक्तं रसायनमनुत्तमम् ।
द्वित्रिमूषासु चैकस्यां सत्त्वं भवति निश्चितम् ॥ १४.१९० ॥

{भूनाग:: सत्त्व:: पातन}
सुवर्णरूप्यताम्रायःकान्तसम्भूतभूमिजान् ।
भुजङ्गमान् उपादाय चतुःप्रस्थसमन्वितान् ॥ १४.१९१ ॥

प्रक्षाल्य रजनीतोयैः शीतलैश्च जलैरपि ।
उपोषितं मयूरं वा शूरं वा चरणायुधम् ॥ १४.१९२ ॥

क्रमेण चारयित्वाथ तद्विष्ठां समुपाहरेत् ।
क्षाराम्लैः सह संपेष्य विशोष्य च खरातपे ॥ १४.१९३ ॥

ततः खर्परके क्षिप्त्वा भर्जयित्वा मषीं चरेत् ।
मषीं द्रावणवर्गेण संयुक्तां संप्रमर्दिताम् ॥ १४.१९४ ॥

निरुध्य कोष्ठिकामध्ये प्रधमेद् घटिकाद्वयम् ।
शीतलीभूतमूषायाः खोटमुद्धृत्य पेषयेत् ॥ १४.१९५ ॥

प्रक्षाल्य रवकानाशु समादाय प्रयत्नतः ।
सुवर्णमानवद् ध्मात्वा रवं कृत्वा नियोजयेत् ॥ १४.१९६ ॥

{भूनाग:: सत्त्व:: रिन्ग् of ~}
भूनागोद्भवसत्त्वम् उत्तमतमं श्रीसोमदेवोदितं दत्तं पादमितं द्विशाणकनके कुर्वीत तेनोर्मिकाम् ।
तद्धौताम्बुविलेपनं स्थिरचरोद्भूतं विषं नेत्ररुक् शूलं मूलगदं च कर्णजरुजो हन्यात् प्रसूतिग्रहम् ॥ १४.१९७ ॥

{अङ्कोलतैलपातनम् (१)}
कथ्यतेऽङ्कोलतैलं च रसभस्मादिनिर्मितौ ।
पुण्यश्लोकमहामात्यैः श्रीमद्भिर्देवसूनुभिः ॥ १४.१९८ ॥

पुराणाङ्कोलबीजानां पेषं कृत्वा तु दुर्घनम् ।
आढकप्रमितं कुम्भे विनिधाय निरुध्य च ॥ १४.१९९ ॥

कुम्भस्य च तलच्छिद्रे शलाकामायसीं क्षिपेत् ।
सार्धहस्तप्रविस्तारे निम्ने गर्ते सुगर्त्तके ॥ १४.२०० ॥

तत्र प्रादेशिके गर्त्ते सीसपात्रं निधाय च ।
पटं च परिबद्ध्वा तु सन्धिबन्धं समाचरेत् ॥ १४.२०१ ॥

लद्दिभिः पूरयेद् गर्तं कण्ठावधि ततः परम् ।
षण्मासात् सीसपात्रस्थं तत्तैलं समुपाहरेत् ॥ १४.२०२ ॥

{अङ्कोल:: ओइल्:: (medic.) use}
तेन तैलेन संक्लिन्नाः पाषाणा ये भुवर्तिकाः ।
कूपे प्रक्षालिताः क्षिप्ता ज्वलन्ति निशि ते चिरम् ॥ १४.२०३ ॥

तेन लिप्तं तथैवोक्तं बीजमुद्भवति ध्रुवम् ।
वध्यते म्रियते सूतस्तैलेनानेन निश्चितम् ॥ १४.२०४ ॥

तत्तैले मासमात्रं हि स्थिता दालिश्चणोद्भवा ।
भक्षितास्याच्चतुर्थांशा षष्टिवारं विरेचयेत् ॥ १४.२०५ ॥

तक्रं भक्तं ततः पथ्यं दातव्यं रेकशान्तये ।
पक्षान्ते दालिकार्धेन पूर्ववद्रेचयेत् खलु ॥ १४.२०६ ॥

ततो दाली त्रिपादेन चूर्णार्धेन ततः परम् ।
पक्षे पक्षे विरेकेण सर्वं कुष्ठं विनश्यति ॥ १४.२०७ ॥

रेकसाध्यगदाः सर्वे विनश्यन्ति न संशयः ।
रेकसाध्यगदाः सर्वे श्वेतकुष्ठं विशेषतः ॥ १४.२०८ ॥

{अङ्कोल:: ओइल्:: medic. use}
बिन्दुमात्रेण तैलेन शुद्धो गुञ्जामितो रसः ।
मर्दितोऽहिलतापत्रे पत्रेण सह भक्षितः ॥ १४.२०९ ॥

तत्क्षणाद् एव कुरुते ह्यनलं दीप्तमुद्धतम् ।
संसेविनं नरं चापि वृकस्येवाति भोजिनम् ॥ १४.२१० ॥

अङ्कोलतैलमेतद्धि देहलोहविधायकम् ।
एतत्तैलविलेपेन श्वेतकुष्ठं विनश्यति ॥ १४.२११ ॥

एतदङ्कोलकं तैलं महत्सत्त्वमुदाहृतम् ।
घृतवज्जायते स्त्यानं तत्सर्वमिति कथ्यते ॥ १४.२१२ ॥

{अङ्कोलतैलपातनविधिः (२)}
निस्त्वचाङ्कोलबीजानि किंचिज्जर्जरितानि च ।
रुद्ध्वा विद्याधरे यन्त्रे दण्डार्धं प्रपचेच्छनैः ॥ १४.२१३ ॥

ऊर्ध्वस्थालीगतं तैलं नागवल्लीदले क्षिपेत् ।
{अङ्कोल:: ओइल्:: medic. use}
तस्मिन्गुञ्जामितं सूतं विमर्द्य सदलं ग्रसेत् ॥ १४.२१४ ॥

कुर्याद् दीपनम् उद्धतं गुरुतरद्रव्यादिसंचूर्णनं हन्यादष्टविधं च गुल्मम् अरुचिं प्लीहामयं स्वामयम् ।
श्वित्राद्यं सकलं च कुष्ठमचिरात्पाण्ड्वामयं च ज्वरं शूलं मूलगदं तथा श्वयथुकं श्वासं च कासं नृणाम् ॥ १४.२१५ ॥

{अङ्कोलतैलपातनविधिः (३)}
निरस्थ्यङ्कोलबीजानि सूक्ष्माण्युष्णेन वारिणा ।
गोण्यां निक्षिप्य निस्त्वञ्चि विधाय तदनन्तरम् ॥ १४.२१६ ॥

भाण्डस्थिते ततः क्षारे प्रक्षिपेत्सलिले खलु ।
तिलपर्णीजटां क्षुण्णां निक्षिपेत्तत्र मात्रया ॥ १४.२१७ ॥

द्विरात्रमुषितं तत्र भाजनेऽन्ये विनिक्षिपेत् ।
शुष्के तु निर्गतं तैलं क्षिपेन्नागकरण्डके ॥ १४.२१८ ॥

चणानां दालयस्तत्र स्थिता मासत्रयं ततः ।
तत्राद्ये पादमात्रं हि प्रदद्यात्कुष्ठरोगिणे ॥ १४.२१९ ॥

तेनाशु रेचितस्त्रिंशद्वाराणि तदनन्तरम् ।
ससंभक्तं तथा पथ्यं दातव्यं शाकवर्जितम् ॥ १४.२२० ॥

एवं विरेचितो नूनं सततं दशभिर्दिनैः ।
सर्वकुष्ठैर् विमुच्येत वारैः षट्सप्तभिः खलु ॥ १४.२२१ ॥

पूर्वप्रोक्तेन तैलेन गुणैस्तुल्यं प्रकीर्तितम् ।
{अङ्कोलतैलपातनविधिः (४)}
मूलान्युत्तरवारुण्या जर्जरीकृत्य काञ्जिकैः ॥ १४.२२२ ॥

क्षिपेदङ्कोलबीजानां पेषिकां जर्जरीकृताम् ।
तत्तैलं घृतवत्स्त्यानं परं ग्राह्यं यथाविधि ॥ १४.२२३ ॥

{अङ्कोलतैलपातनविधिः (५)}
सम्पिष्योत्तरवारुण्या पेटकार्या दलान्यथ ।
काञ्जिकेन ततस्तेन कल्केन परिमर्दयेत् ॥ १४.२२४ ॥

रजश्चाङ्कोलबीजानां तद्बद्ध्वा विरलाम्बरे ।
तद्विलम्ब्यातपे तीव्रे तस्याधश्चषकं न्यसेत् ॥ १४.२२५ ॥

तत्र निपतितं तैलमादेयं श्वित्रनाशनम् ।
{अङ्कोलतैलपातनविधिः (६)}
अङ्कोलबीजसम्भूतं चूर्णं संमर्द्य काञ्जिकैः ॥ १४.२२६ ॥

एकरात्रोषितं तत्तु पिण्डीकृत्य ततः परम् ।
स्वेदयेत् कन्दुके यन्त्रे घटिकाद्वितयं ततः ॥ १४.२२७ ॥

तां च पिण्डीं दृढे वस्त्रे बद्ध्वा निष्पीड्य काष्ठतः ।
अधः पात्रस्थितं तैलं समाहृत्य नियोजयेत् ।
एवं कन्दुकयन्त्रेण सर्वतैलान्युपाहरेत् ॥ १४.२२८ ॥


अध्याय १५[सम्पाद्यताम्]

रसपाथोधिभिः किंचिन्निःशेषं न प्रकाशितम् ।
दशाष्टभिः क्रियां वक्ष्ये रसराजस्य साम्प्रतम् ॥ १५.१ ॥

सुधादिसर्वभैषज्यसारः सूते प्रतिष्ठितः ।
अमर्त्या भवितुं मर्त्या निषेवध्वं मिथो युतम् ॥ १५.२ ॥

{mercury:: properties}
आयुर्वज्रं वितरति नृणाम् अङ्गवर्णं सुवर्णं सत्त्वं व्योम्नो मदकरिबलं ताम्रम् उग्रां क्षुधां च ।
मायोः शान्तिं रजतममलं कान्तमेतत्समस्तं श्रीमान् सूतः सकलगदहृद् देहलोहे तु सिद्धः ॥ १५.३ ॥

{mercury:: myth origin}
कल्पादौ शिवयोः प्रीत्या परस्परजिगीषया ।
सम्प्रवृत्ते तु सम्भोगे त्रिलोकीक्षोभकारिणि ॥ १५.४ ॥

देवैः संप्रेषितो वह्निः सुरतं विनिवारितुम् ।
काङ्क्षया तत्सुतोद्भूतेर् निहन्तुं तारकासुरम् ॥ १५.५ ॥

कपोतरूपिणं प्राप्तं हिमवत्कन्दरेऽनलम् ।
अपक्षिभावसंक्षुब्धं स्मरस्मेरावलोकितम् ॥ १५.६ ॥

तं वीक्ष्य लज्जितः शम्भुर्विरम्य सुरतात्तदा ।
स्रुतमात्मगतं तेजः सोऽग्रहीदेकपाणिना ॥ १५.७ ॥

निक्षिप्तं वदने वह्नेर् गङ्गायाम् अपतच्च तत् ।
गङ्गया च बहिःक्षिप्तं नितरां दह्यमानया ॥ १५.८ ॥

अतोऽधिकगुणा जाता धातवो हि सुधासमाः ।
शिवहस्तच्युतं यत्तत् समभूत् खलु पारदः ॥ १५.९ ॥

अमर्त्या निर्जरास्तेन संजातास् त्रिदशोत्तमाः ।
तत्तन्मलेन संजाता धातवश्चाष्टसंख्यया ॥ १५.१० ॥

पावकास्याच्च्युतं यत्तु रसस्तत्समभूत् खलु ।
सेवितः स हि नागेन्द्रैर् जरामृत्युजिगीषया ॥ १५.११ ॥

पीयमानं तु नागास्यात्पतितं गौरवेण यत् ।
शतयोजननिम्नेऽसौ न्यपतत्कूपके खलु ॥ १५.१२ ॥

ईषत् पीतान्तरो रूक्षः स सूतो देहलोहकृत् ।
{ङेwइन्नुन्ग् वोन् ःग् मित् नच्क्तेन् Fरौएन्}
स्नातामाद्यरजस्वलां हयगतां प्राप्तां जिघृक्षुश्च तां सोऽप्यागच्छति योजनं हि परितः प्रत्येति कूपं पुनः ।
तन्मार्गे कृतगर्त्तके च बहुशः संतिष्ठते सूतराट् सोऽयं तत्र निवासिभिः खलु जनैरेवं समानीयते ॥ १५.१३ ॥

{mercury:: extraction origin earth}
नीयमानस्तु गङ्गाया वायुना गौरवेन यत् ।
अपतद् दूरदेशे वै स देशः पारदः स्मृतः ॥ १५.१४ ॥

तत्ततो मृद्गतः सूतः पातनाविधिना खलु ।
आनीयते स विज्ञेयः पारदो गदपारदः ॥ १५.१५ ॥

एवं चतुर्विधं जातं शंकरं शाङ्करं महः ।
इत्थं सूतोद्भवं ज्ञात्वा न रोगैर् बाध्यते नरः ॥ १५.१६ ॥

रसेन्द्रश्च रसश्चैव स्यातां सिद्धरसावुभौ ।
साध्यावन्यौ चिराज्जातौ भूम्यादेर् देशयोगतः ॥ १५.१७ ॥

{mercury:: निरुक्ति}
जरापमृत्युदौर्गत्यव्याधीनां रसनाद्रसः ।
रसास्वादन इत्यस्य धातोरर्थतया खलु ॥ १५.१८ ॥

देहलोहमयीं सिद्धिं सूते सूतस्ततो मतः ।
रोगाब्धिं पारयेद्यस्मात्तस्मात् पारद उच्यते ॥ १५.१९ ॥

पातनैः शोध्यमानस्य यस्य पादोऽवशिष्यते ।
त्रिपादी च क्षयं याति तेन पादरसः स्मृतः ॥ १५.२० ॥

{mercury:: दोष:: myth origin}
इत्थं भूतस्य सूतस्य मर्त्यमृत्युगदच्छिदः ।
प्रभावान्मानुषान् दृष्ट्वा देवतुल्यबलायुषः ॥ १५.२१ ॥

इन्द्रेणाभ्यर्थितो रुद्रो रसं द्वादशदूषणैः ।
योजयामास तं पूर्वं विना शुद्ध्यापि सिद्धिदम् ॥ १५.२२ ॥

{पारददोषाः}
दोषो मलो विषं वह्निर् मदो दर्पश्च तत्फलम् ।
मूर्च्छा मृत्युः सदादाहो विस्फोटश्च शिरोभ्रमः ॥ १५.२३ ॥

{mercury:: कञ्चुकाः}
भूशैलजलताम्रायोनागवङ्गसमुद्भवाः ।
कञ्चुकाः सप्त सूतस्य ताभिः सूतो विषोपमः ॥ १५.२४ ॥

कुष्ठं जाड्यं च वातार्तिं दाहं चावृतकण्ठताम् ।
उन्मादं च महाशूलं क्रमात्कुर्वन्ति कञ्चुकाः ॥ १५.२५ ॥

एतान् सूतगतान् दोषान् पञ्च सप्त च कञ्चुकाः ।
अनपाकृत्य यो दद्यात् स वैद्यो ब्रह्महा भवेत् ॥ १५.२६ ॥

द्वादशैतान् महादोषान् अपनीय रसं ददेत् ।
स लभेत महत्पुण्यम् अगण्यं च महद्यशः ॥ १५.२७ ॥

{१८ संस्कारस्}
सूतेऽष्टादशसंस्क्रिया निगदिताः स्युः स्वेदनं मर्दनं मूर्च्छोत्थापनपातरोधनियमाः प्रोद्दीपनं ग्रासजम् ।
मानं चारणगर्भबाह्यजनितद्रुतिश्च तज्जारणा रागः सारणकं परिक्रमविधिर् वेधस्ततः सेवनम् ॥ १५.२८ ॥

अथ नन्दिप्रदिष्टेन विधानेन प्रकाश्यते ।
दोषाणां कञ्चुकानां च यथावत्परिशोधनम् ॥ १५.२९ ॥

सूतः पञ्चपलान्न्यूनः शोधितोऽल्पफलो भवेत् ।
ऊर्ध्वं दशपलांशेन शुद्धिमाप्नोत्यशेषतः ॥ १५.३० ॥

{mercury:: शोधन}
स्वेदमर्दनमूर्च्छाभिः सप्तवारोर्ध्वपातनैः ।
सर्वदोषविनिर्मुक्तो रसराजः प्रजायते ॥ १५.३१ ॥

स्वेदनं मर्दनं तद्वत्सप्तवारान् विमूर्च्छनम् ।
स हि सिद्धिकरं प्राह गुणकारि च भास्करः ॥ १५.३२ ॥

मर्दनस्वेदसंन्यासैः शुध्यतीति दिनेश्वरः ।
ऊर्ध्वाधःपातनाभ्यां हि विशुद्धिर्भालुकेर्मता ॥ १५.३३ ॥

स्वेदनं मर्दनं मूर्च्छा प्रत्युत्थानं च पातनम् ।
निरोधो नियमश्चेति शुचिः सप्तविधा मता ।
गोविन्दभगवान् पूज्यैः सूतराजस्य निश्चिता ॥ १५.३४ ॥

अथ श्रीनन्दिना प्रोक्तप्रकारेण विशोधनम् ।
रसराजस्य निःशेषदोषघ्नं परिकीर्त्यते ॥ १५.३५ ॥

{१. स्वेदनसंस्कार}
मूलकाग्निपटुराजिकार्द्रकैः व्योषकैश्च रसषोडशांशकैः ।
स्वेदितस्त्रिदिवसं हि दोलया काञ्जिकेन मलमुक्तये रसः ॥ १५.३६ ॥

{२. मर्दनसंस्कार}
दग्धोर्णागृहधूमाब्जसर्षपैः सगुडेष्टकैः ।
मर्द्यो रसः षोडशांशैस् त्र्यहं तद्वह्निशान्तये ॥ १५.३७ ॥

जीर्णे जीर्णे सदाग्रासे मर्दनीयो रसः खलु ।
एतैरेवौषधैर्यस्माद्रागान् गृह्णाति निर्मलः ॥ १५.३८ ॥

{३. मूर्छन}
व्योषसौभाग्यसंयुक्तलकुचद्रावमर्दनात् ।
मूर्छितस्त्रिदिनं सूतो मदं मुञ्चति दुर्धरम् ॥ १५.३९ ॥

{removal of विषदोष}
सौभाग्यत्रिफलाश्यामाटङ्कणैः सह काञ्जिकैः ।
त्रिदिनं संस्थितः सूतो विषं संत्यजति स्वकम् ॥ १५.४० ॥

{removal of दर्पदोष}
सर्पाक्षिकाकमाव्योषरसैर् उत्क्वथितोत्थितः ।
दर्पं मुञ्चति च क्षिप्रमिति दोषविशोधनम् ॥ १५.४१ ॥

क्षाराम्लैः सोष्णतोयेन निवातस्थानसंस्थितः ।
रसस्य कुरुते वीर्यशैत्यं तद्वीर्यनाशनम् ॥ १५.४२ ॥

{removal of भूकञ्चुक}
कांक्षीकासीसलुङ्गाम्बुमर्दितः पारदो दिनम् ।
क्षालितः काञ्जिकैः पिष्टस्त्यजति क्षोणिकञ्चुकम् ॥ १५.४३ ॥

{अद्रिकञ्चुक}
गिरिकर्ण्या जयन्त्याश्च स्वरसैर्भावितो रसः ।
त्रिभिर्वारैस्त्यजत्येव गिरिजाम् आत्मकञ्चुकाम् ॥ १५.४४ ॥

{जलकञ्चुक}
गुडगुग्गुलुनिम्बानां क्वाथेन क्वथितस्त्र्यहम् ।
त्यजत्यम्बुभवां सूतः कञ्चुकां बहुदोषदाम् ॥ १५.४५ ॥

{ताम्रकञ्चुक}
सितासार्द्रकतक्रैश्च मर्दयित्वा तथोत्थितः ।
धौतश्चोष्णैर् गवां मूत्रैस्त्यजेत्ताम्रजकञ्चुकम् ॥ १५.४६ ॥

{अयःकञ्चुक}
कारवेल्ल्याश्च कर्कोट्या रसैः संमर्दितो रसः ।
कञ्चुकामायसीं मुञ्चेच्चपलः सौहृदं यथा ॥ १५.४७ ॥

{नाग-, वङ्गकञ्चुक}
ताम्रपिष्टीकृतः सूतः पातनायन्त्रपातितः ।
मुञ्चेत् कञ्चुलिकां शीघ्रं नागवङ्गसमुद्भवाम् ॥ १५.४८ ॥

{वङ्गकञ्चुक}
सूतं वराग्निपटुशिग्रुकराजिकाञ्जनैः पिष्टैर्विलिप्य परिपातनकोर्ध्वभागे ।
भाण्डोदरे भृतजले परितो विमुञ्चेन्मृद्वग्निना त्यजति कञ्चुलिकां हि वाङ्गीम् ॥ १५.४९ ॥

इत्थं निपातितः सूतश् चलद्विद्युल्लताप्रभः ।
नागवङ्गविनिर्मुक्तः ततश्चैतत् प्रजायते ॥ १५.५० ॥

यदा यदा भवेत्सूतो ग्रासाजीर्णेन बाधितः ।
अनेनैव प्रकारेण पातनीयस्तदा तदा ॥ १५.५१ ॥

{mercury:: आप्यायन}
स्वेदनाद्यैः पातनान्ते शोधनैः स कदर्थितः ।
मन्दवीर्यो भवेत्सूतस्तस्मादाप्यायनं चरेत् ॥ १५.५२ ॥

सोदके सैन्धवे सूतः स्थितस् त्रिदिवसावधिः ।
पुनर् आप्यायनं प्राप्य न स्यात् षण्ढो भवेद्बली ॥ १५.५३ ॥

{स्वेदनविधि}
भालुकिः स्वेदसंन्यासौ दिष्टवान्नियमात् परम् ।
भक्षितुं सर्वलोहानि मुखं कर्तुं विनिश्चितम् ॥ १५.५४ ॥

अङ्गारस्थापिते पात्रे रसं क्षिप्त्वा प्रजारयेत् ।
षोडशांशेन चित्रां तु तदत्र स्वेदनं मतम् ॥ १५.५५ ॥

सर्वरोगान् हरेदेव शक्तियुक्तो गुणाधिकः ।
वेगेन फलदायित्वं जायते नात्र संशयः ॥ १५.५६ ॥

{संन्यासविधि}
क्षाराम्ललवणैः सार्द्धं संन्यासाज्जायते तथा ।
चतुर्थाध्यायनिर्दिष्टप्रकारेण रसे खलु ॥ १५.५७ ॥

बुभुक्षा व्यापकत्वं च तीव्रता वेगकारिता ।
सर्वव्याधिहरत्वं च त्यक्तदोषत्वमेव च ॥ १५.५८ ॥

{दीपनसंस्कार}
मरिचाब्जासुरी चैव शिग्रुभूखगटङ्कणैः ।
ससंधानैस् त्र्यहं स्वेदाद् भवेत्सूतस्य दीपनम् ॥ १५.५९ ॥

नवमाध्यायनिर्दिष्टदीपनीयगणेन च ।
रसस्य दीपनं कुर्यात् तद् अत्यन्तगुणावहम् ॥ १५.६० ॥

{मुखकरण}
स्वेदितोऽष्टादशांशेन हेमयुक्तो हि पारदः ।
क्षारैरम्लैरदोषैश्च भोक्तुमास्यं प्रजायते ॥ १५.६१ ॥

{राक्षसवक्त्र}
कलांशताप्यसत्त्वेन स्वर्णेन द्विगुणेन च ।
युक्तं युक्तं हि चुक्रेण चूलिकालवणेन च ॥ १५.६२ ॥

चणकक्षारतोयेन राजनिम्बुकवारिणा ।
मर्दयेत् तप्तखल्वान्तर्बलेन महता खलु ॥ १५.६३ ॥

एकविंशत्यहो यावद्यामं यामं दिने दिने ।
एवं राक्षसवक्त्रः स्यात्सर्वाशी च न संशयः ॥ १५.६४ ॥

अष्टादशक्रिया नृणां न सिध्यन्ति रसस्य हि ।
विना भाग्येन तपसा प्रसादेनेश्वरस्य च ॥ १५.६५ ॥

सर्वैर्युक्ता विविधविधिभिः संस्कृतीभिः सुरम्यैः सूतो मुञ्चत्यखिलविकृतीन् श्वित्ररोगप्रमाथी ।
तावच्छुद्धिं कृतबहुगुणां नन्दिनोक्तां सुसाध्यां पथ्यायुक्तां पुरवरपतिः सोमदेवोऽभिधत्ते ॥ १५.६६ ॥

{रेमोविन्ग् दोषस्}
त्रिक्षारैः पटुपञ्चकाम्लसहितैः संखल्वसूतस्त्र्यहं बाह्लीकासुरिविश्वपिण्डजठरे रुद्ध्वाथ संवेशयेत् ।
सन्धाने त्रिदिनं हि मन्दशिखिना दोलाख्ययन्त्रे पचेद्दोषोन्मुक्तरसः सुधारससमः पथ्यैर् विना सिद्धिदः ॥ १५.६७ ॥

किंत्वत्र राजिका विश्वहिङ्गूनां मानसंस्थितिः ।
गुरूपदेशतो नेया नान्यथा फलवाहिनी ॥ १५.६८ ॥

{नाग, वङ्ग:: removal}
नागवङ्गौ महादोषौ दुर्जयौ शुद्धकोटिभिः ।
पातना शोधयेद्यस्मान्महाशुद्धरसो मतः ॥ १५.६९ ॥

दशभिः पातनाभिश्च नागवङ्गसमुद्भवः ।
गन्धो विनाशमायाति रसः स्यान्नैव दुर्गुणः ॥ १५.७० ॥

दशवारात् परं नार्वाक् शतवारं च पातनाः ।
महागुणकराः प्रोक्ताः यथाविधि कृता रसे ॥ १५.७१ ॥

महागुणत्वं शिखिनः सखित्वं स्वल्पेषु रोगेषु च तुल्यवीर्यम् ।
रसायनत्वं च महाप्रभावो भवेद्रसेन्द्रस्य च पातनाभिः ॥ १५.७२ ॥


अध्याय १६[सम्पाद्यताम्]

अथातो जारणा पुण्या रससिद्धिविधायिनी ।
सुकरा सुलभद्रव्या कृतपूर्वा निगद्यते ॥ १६.१ ॥

{अभ्र:: जारणा}
इह निष्पत्त्रकग्रासं यो रसाय प्रयच्छति ।
तोषितस्तेन गौरीशो जगत्त्रितयदानतः ॥ १६.२ ॥

{पक्षच्छेद => बन्धन}
पक्षच्छेदमकृत्वा यो रसबन्धं समीहते ।
बीजैः स विषयासक्त्या मुक्तिमिच्छति दुष्टधीः ॥ १६.३ ॥

{अभ्र:: सत्त्व:: for पक्षच्छेद}
घनसत्त्वं विना नान्यत्सूतपक्षनिकृन्तनम् ।
कृत्तपक्षो निरुद्धाध्वा रज्यते बध्यते रसः ॥ १६.४ ॥

निश्चन्द्रमपि पत्राभ्रं जारितं खलु पारदे ।
तच्चरेत्सप्तधा भिन्नं चीर्णं चापि समुद्गिरेत् ॥ १६.५ ॥

जीर्णपादांशसत्त्वोऽपि तत्तद्योगेषु योजितः ।
तत्तद्रोगे फलं शीघ्रं रसो धत्तेऽधिकं यतः ॥ १६.६ ॥

यत्र सत्त्वं द्रुतं बीजं रसजारणकर्मणि ।
उत्कृष्टं चापि तद्दिष्टं गुणैरष्टगुणं तथा ॥ १६.७ ॥

शिवयोश्चरमो धातुरभ्रकं पारदस्तथा ।
एतयोर् मेलनान् न्ःणां क्व मृत्युः क्व दरिद्रता ॥ १६.८ ॥

{mercury:: वेर्शेह्र्त् केइन् रेइनेस् अभ्रसत्त्व}
केवलाभ्रकसत्त्वं हि ग्रसत्येव न पारदः ।
ग्रस्तमप्यतिदुःखेन सर्वाङ्गव्यापि नो भवेत् ॥ १६.९ ॥

तस्माल्लोहान्तरोपेतं युक्तं च धातुसत्त्वकैः ।
अभ्रकक्षारयोः सिद्धः केवलं वपुःसिद्धिदः ॥ १६.१० ॥

अभ्रेणैकत्वकरणं लोहानां परिकथ्यते ॥ १६.११ ॥

{द्वन्द्वमेलापक for metals}
कान्तस्य लाक्षागुडसर्जरसैः सधातकीगुग्गुलुटङ्कणैश्च ।
स्त्रीस्तन्यपिष्टैः समभागिकैश्च दुर्मेललोहान्यपि मेलयन्ति ॥ १६.१२ ॥

{द्वन्द्वमेलापक for metals}
ताप्यचूर्णसमायुक्तं लोहद्वन्द्वं मिलेद्ध्रुवम् ।
द्वित्रिवारं परिध्मानात्क्षीरेऽक्षीरमिव ध्रुवम् ॥ १६.१३ ॥

{preparation of अभ्रसत्त्व for जारण}
अभ्रसत्त्वं हि तुल्यांशताप्यसत्त्वसमन्वितम् ।
अभ्रशेषं कृतं ध्मानाद्भवेत्सुकरजारणम् ॥ १६.१४ ॥

{preparation of अभ्रसत्त्व for जारण}
यद्वा द्विगुणितं ताप्यं निर्व्यूढं घनसत्त्वके ।
तदन्तर्जारितं शीघ्रं रससिद्धिविधायकम् ॥ १६.१५ ॥

{preparation of अभ्रसत्त्व for चारण with lead and tin}
एवं वङ्गेन नागेन घनसत्त्वं चरेद्रसः ।
तत्सत्त्वं धातुवादार्यं देहसिद्धौ विनिन्दितम् ॥ १६.१६ ॥

एतौ पूती महादोषौ नागवङ्गौ निरुत्तमौ ।
रोगांश्च तनुतः शीघ्रं सेव्यमानौ परं खलु ॥ १६.१७ ॥

{गर्भद्रुति}
तत्सत्त्वं गालयित्वा च वाससा रवकान्वितम् ।
दशांशताम्रपात्रस्थरसेश्वरविमर्दितम् ॥ १६.१८ ॥

तच्चतुःषष्टिभागेन समेतं शुद्धपारदम् ।
क्षाराम्ललवणोपेतं तप्तं खल्वे दिनत्रयम् ॥ १६.१९ ॥

क्षालयित्वोष्णसन्धानैः क्षिप्त्वा काचकरण्डके ।
तदूर्ध्वाधो विडं दत्त्वा रसस्याष्टमभागतः ॥ १६.२० ॥

तन्मुखे भूर्जमाधाय वेष्टयेदेकसूत्रतः ।
करण्डं वाससावेष्ट्य दोलायन्त्रविधानतः ॥ १६.२१ ॥

सर्वाम्लगोजलोपेतकाञ्जिकैः स्वेदयेत्त्र्यहम् ।
ततो निक्षिप्य लोहाश्मकम्बूनामेव भाजने ॥ १६.२२ ॥

क्षालयित्वोष्णसन्धानैर्वस्त्रेणोद्धृत्य तं द्रवम् ।
विशोष्य लग्नं हस्तेन मर्दयित्वा क्षणं रसम् ॥ १६.२३ ॥

वस्त्रे चतुर्गुणे क्षिप्त्वा गाढनिष्पीडनाद्रसः ।
सर्वोऽपि यदि निर्गच्छेद् गर्भे ग्रासस्तथा द्रुतः ॥ १६.२४ ॥

{गर्भद्रुति:: failure:: repetition}
सावशेषे पुनर्ग्रासे सविडं स्वेदयेत्पुनः ।
एवं ग्रासत्रयं भूयः सम्प्रदाय प्रयत्नतः ॥ १६.२५ ॥

षष्टिग्रासेषु शेषेषु गर्भद्रावणतः परम् ।
पञ्चमाध्यायनिर्दिष्टे यन्त्रे कच्छपसंज्ञके ॥ १६.२६ ॥

विडेन संयुतं सूतं पुटेन्मृद्वग्निनोपलैः ।
यन्त्रादुद्धृत्य भूयोऽपि क्षालयित्वोष्णकाञ्जिकैः ॥ १६.२७ ॥

मर्दनोक्तविधानेन याममात्रं विमर्दयेत् ।
निर्मलत्वविधानाय रागान् गृह्णाति निर्मलः ॥ १६.२८ ॥

तस्मान्मर्द्यो रसो यत्नाद् ग्रासं ग्रासे पुटे पुटे ।
संमर्दितो भवेद्वापि रोगनाशनशक्तिमान् ॥ १६.२९ ॥

{mercury:: चारण}
भूसर्जिकालवणवर्गसमेतकाञ्चीसंयुक्तकाञ्जिकयुतं परिचार्यवस्तु ।
{mercury:: चारण}
सत्त्वोपलादिसकलं वरताम्रपत्रैर्जुष्टं च ह्यम्लमुदितं रसचारणाय ॥ १६.३० ॥

{जारण}
रम्भापटुत्रिफललाङ्गलिकानिशार्धशोभाञ्जनाङ्घ्रिखरमञ्जरिकाङ्घ्रिसंख्यैः ।
सप्ताहकं परिविभावितकाञ्जिकोऽसौ क्लिन्नं हि लोहनिवहं ग्रसतीह सूतः ॥ १६.३१ ॥

{बिड for गर्भद्रुति}
क्षारैश्चतुर्भिर् लवणैश्च षड्भिर् द्रवाम्लमिश्रैर् दशधा विभावितैः ।
स्वर्णादिलोहाभ्रकसत्त्वगर्भद्रुतिप्रहीत्यै बिड एष दिष्टः ॥ १६.३२ ॥

{दण्डधारी}
वीथीतुल्ये गतमलरसः पञ्चशाणप्रमाणं भुक्त्वा सत्त्वं गगनजनितं षष्टिकाक्षारवह्नौ ।
तत्त्वं ह्येतद् व्रजति स जवात्सारधूमायनानि तत्तुल्योऽसौ मुनिभिरुदितो दण्डधारी च नाम्ना ॥ १६.३३ ॥

{दण्डधारिन्:: test for ~}
गर्भद्रुतियुते सूते तृणं क्षिप्तं प्रतिष्ठते ।
ऊर्ध्वदण्डधरः सोऽयं दण्डधारी रसो मतः ॥ १६.३४ ॥

{mercury:: अभ्रजीर्ण:: medic. use}
यदि भजति हि मर्त्यस्तुल्यजीर्णाभ्रसूतं प्रतिदिनमिह गुञ्जामात्रया मासमात्रम् ।
शशधरपरिपाट्या ग्रासयोगेन स स्यात् ससुखहितशतायुर्मुक्तवार्धक्यदोषः ॥ १६.३५ ॥

वलिपलितविहीनः सोऽपि रोगाद्विहीनः ॥ १६.३६ ॥

तेन तेन हि योगेन योजनीयो महारसः ।
{अभ्र:: सत्त्व:: medic. properties}
खसत्त्वः कुरुते तीव्रां क्षुधं रोगगणं हरेत् ॥ १६.३७ ॥

{द्वितीयो ग्रासः = mercury:: द्विगुणाभ्रजीर्णँ}
अष्टमांशप्रकारेण देयं ग्रासं द्वितीयकम् ।
चारणं द्रावणं चैवं यथापूर्वं प्रकल्प्यते ॥ १६.३८ ॥

जारणं चापि कर्तव्यं कूर्मनामनि यन्त्रके ।
पञ्चमाध्यायमध्ये च निर्दिष्टं कूर्मयन्त्रकम् ॥ १६.३९ ॥

{??}
घनोद्भूतं सत्त्वं पलपरिमितं विंशतिपुटे रसे चत्वारिंशत् परिकलितचारं च जरितम् ।
पयःपङ्कप्रायं द्विगुणजरिताभ्रे वररसे यदा तद्विक्षिप्तं रसितरसरूपं सनिनदम् ॥ १६.४० ॥

{mercury:: द्विगुणाभ्रजीर्ण:: medic. properties}
द्विगुणगगनजीर्णः सेवितः सूतराजः प्रतिदिनमिह गुञ्जामात्रया वर्षमात्रम् ।
विदधति वरकल्पं सिन्धुकन्दर्पतुल्यं दशशतमितवर्षप्राप्तदीर्घायुषं च ॥ १६.४१ ॥

गुञ्जामात्रो रसेन्द्रोऽयम् अर्कवारिनिषेवितम् ।
क्षयाद्यान् अखिलान् रोगान् दुःसाध्यानपि साधयेत् ॥ १६.४२ ॥

{mercury:: त्रिगुणाभ्रजीर्णँ}
अमुना क्रमयोगेन ग्रासो देयस्तृतीयकः ।
पञ्चमाध्यायनिर्दिष्टे यन्त्रे चैवान्तरालिके ।
निरुध्य जारणां कुर्यात् द्रव्यस्य वार्त्तिकः ॥ १६.४३ ॥

{३. ग्रास => जलौका(बन्ध?) => ऊर्ध्वपातन => पक्षच्छेद}
परिफलघनयुक्तस् त्रिंशता तुल्यवारैर् ग्रसति यदि रसेन्द्रो यो जलौकाकृतिः सः ।
निखिलनिहितमूर्तिः निष्पतेदुद्गतोऽसौ पुनरपि निजपात्रे छिन्नपक्षः स सूतः ॥ १६.४४ ॥

{mercury:: त्रिगुणाभ्रजीर्णँ:: medic. use}
जातः सूतस् त्रिगुणगगनग्राससंपुष्टमूर्तिर् भस्मीभूतं यवपरिमितं वज्रभस्मादियुक्तम् ।
तं चेन्मर्त्यो भजति हि सदा जायते दिव्यदेहो जीवेत् कल्पत्रिदशशतिकान् वत्सराणां प्रकामम् ॥ १६.४५ ॥

सिद्धार्थद्वयमानेन मूर्छितस् ताप्यभस्मना ।
हिनस्ति सकलान् रोगान् सप्तवारेण रोगिणम् ॥ १६.४६ ॥

{चतुर्थो ग्रासः}
बद्धो वा भस्मतां नीतः सिद्धार्थप्रमितो नरैः ।
व्योषवेल्लमधूपेतः चतुर्मासनिषेवितः ॥ १६.४७ ॥

वलीपलितनिर्मुक्तं मनुष्यं कुरुते ध्रुवम् ।
प्रमत्तद्विपदर्पाढ्यं कन्दर्प इव रूपिणम् ॥ १६.४८ ॥

कन्दर्पदर्पजिद्रूपे पापसन्तापवर्जितः ।
जीवेत् त्रिंशच्छतान्यष्टानीह वर्षाणि मानवः ।
सेवनाद्रमते चासावङ्गनानां शतं तथा ॥ १६.४९ ॥

वरां लोहसमां स्थूलां स्पर्शमात्रेण लीलया ।
रसोऽसौ बन्धमायातो मोदयत्येव निश्चितम् ॥ १६.५० ॥

मृतमुत्थापयेन्मर्त्यश्चक्षुषोः क्षेपमात्रतः ।
निहन्ति सकलान्रोगान्घ्रातः शीघ्रं न संशयः ॥ १६.५१ ॥

{पञ्चमो ग्रासः}
एवं च पञ्चमो ग्रासः प्रदातव्योऽष्टमांशतः ।
स पात्रस्थोऽग्निसंतप्तो न गच्छति कथञ्चन ॥ १६.५२ ॥

स पक्षच्छिन्न इत्युक्तः स मुक्तोऽखिलदुर्गुणैः ।
सोऽयं निषेवितः सूतस्त्रिमासं राजिकामितः ॥ १६.५३ ॥

विडङ्गत्रिफलाक्षौद्रैः खे देवैः सह सङ्गमम् ।
घ्राणमात्रेण सूतेन्द्रः सर्वरोगनिकृन्तनः ॥ १६.५४ ॥

गुणा एते विनिर्दिष्टा रसस्य रसवादिभिः ।
सकलास्ते गुणाः सत्या भैरवेण प्रकीर्तिताः ॥ १६.५५ ॥

{षष्ठो ग्रासः}
पलैश्चतुर्भिर्दातव्यो ग्रासः षष्ठोऽपि पूर्ववत् ।
षड्गुणाभ्रकजीर्णोऽसौ सुधातुल्यो गुणोदयः ॥ १६.५६ ॥

सर्षपप्रमितो मासं खण्डोपलकसंयुक्तः ।
मासेन कुरुते देहं तच्छतायुषजीविनम् ॥ १६.५७ ॥

बद्धोऽयं कुरुते चैव मुखस्थः खेचरीं गतिम् ।
वारयत्यपि शस्त्राणि दिव्यान्यपि सहस्रशः ॥ १६.५८ ॥

दशदन्तिबलः श्रीमान् सर्वलोकेषु पूजितः ।
रञ्जितः सारितः सम्यक् क्रामणेन समन्वितः ।
कोटिवेधी भवत्येव अबद्धः कुन्तवेधकः ॥ १६.५९ ॥

समर्थो न रसस्यास्य गुणान् वक्तुं महीतले ।
कोऽपि श्रीसोमदेवो वा प्रभावं वेत्ति शङ्करः ॥ १६.६० ॥

{सप्तमो ग्रासः}
ग्रासस्तु सप्तमो देयो वारद्वितययोगतः ।
द्रावणं जारणं तस्य यथापूर्वं प्रकल्पयेत् ॥ १६.६१ ॥

अयं भस्मीकृतः सूतो लिक्षामात्रेण सेवितः ।
त्रिफलामल्लखण्डाभ्यां मासस्यार्धेन मानवम् ॥ १६.६२ ॥

कोटिकन्दर्परूपाढ्यं शक्रतुल्यपराक्रमम् ।
पूजितं सर्वदेवैश्च वेदकल्पयुगायुषम् ॥ १६.६३ ॥

विज्ञानवन्तं कालं च त्रिकालज्ञानसंयुतम् ।
शापानुग्रहणे शक्तं दिव्यस्त्रीशतरञ्जनम् ।
कुरुते नात्र सन्देहो नन्दिनो वचनं यतः ॥ १६.६४ ॥

रञ्जितः सारितः सोऽयं क्रामणेन समन्वितः ।
धूमवेधी भवेन्नूनं नात्र कार्या विचारणा ॥ १६.६५ ॥

{अष्टमो ग्रासः}
ततश्चैवाष्टमो ग्रासो दातव्यः समभागतः ।
जीर्णाष्टगुणसत्त्वाभ्रो रसेन्द्रो भस्त्रिकाशतैः ॥ १६.६६ ॥

प्रध्मातोऽपि न यात्येव नैव किंचित्प्रहीयते ।
सोऽयमग्निसहो नाम्ना संख्यातीतगुणोदयः ॥ १६.६७ ॥

संख्यातीतप्रभाढ्यश्च चित्रवीर्यो महाबलः ।
लिक्षामात्रो रसेन्द्रोऽयं सेवितः सितया सह ॥ १६.६८ ॥

प्रकरोत्येकवारेण नरं सर्वाङ्गसुन्दरम् ।
रुद्रतुल्यं महैश्वर्यं विष्णुतुल्यं पराक्रमम् ॥ १६.६९ ॥

शशाङ्कतुल्यं सत्कान्तिं सूर्यतुल्यप्रतापिनम् ।
चतुर्मुखसमायुष्यं नेत्रे तार्क्ष्यदृशाविव ॥ १६.७० ॥

रञ्जितः सारितः सम्यक् क्रामणेन समन्वितः ।
शब्दवेधी भवेत्सोऽयं शिववत् सर्वतोमुखः ॥ १६.७१ ॥

मन्थानभैरवाद्यैश्च शतकोटिप्रविस्तरैः ।
कोटिभिश्चापि कार्त्स्न्येन रसस्यास्य महागुणैः ।
शक्यं तेनैव संस्तोतुं तरङ्गा इव सागरे ॥ १६.७२ ॥

साधकस्याल्पभावेन शङ्करस्याप्रसादतः ।
यथावदौषधाज्ञानाद् अयथाहृतभैषजैः ॥ १६.७३ ॥

गन्धवत्यपरिज्ञानादयथावच्च साधनात् ।
न सिध्यति कलौ सूतः संशयेन प्रकुर्वताम् ॥ १६.७४ ॥

{छिन्नपक्षलक्षण}
ऊर्ध्वाधःपतनेऽशक्तो निरुद्धाध्वा न कुछविः ।
जीर्णाभ्रको भवेत्सूतः छिन्नपक्षः स उच्यते ॥ १६.७५ ॥

{mercury:: "अगे" अच्चोर्दिन्ग् तो अभ्र}
समाभ्रजीर्णे बालः स्यात् किशोरो द्विगुणाभ्रकः ।
युवा चतुर्गुणाभ्राशी षड्गुणाभ्रकजीर्णवान् ॥ १६.७६ ॥

वृद्धश्चैवातिवृद्धश्च भवेदष्टगुणाभ्रकः ।
बालस्तु कल्पनीयेन देहलोहविधायकः ॥ १६.७७ ॥

कुमारः पिष्टतां प्राप्तो देहलोहकरो भवेत् ।
स्वर्णेन सारितसूतो युवा सिद्धिविधायकः ॥ १६.७८ ॥

देहलोहकरो वृद्धो भवेद्भस्मत्वमागतः ।
अतिवृद्धो रसो वृद्धो वक्त्रस्थः सर्वसिद्धिदः ॥ १६.७९ ॥

तत्र बालः कुमारश्च नेष्यते तु रसायने ।
तरुणो रोगनाशार्थं देहरक्षाकरस्तथा ॥ १६.८० ॥

वृद्धश्चैवातिवृद्धश्च देहलोहकरावुभौ ।
{mercury:: influence of जीर्णाभ्र on phys. properties}
किंचिद् अग्निसहसाभो भवेत्तुल्याभ्रजारितः ॥ १६.८१ ॥

द्विगुणाभ्रकजीर्णस्तु धूमत्वं नैव गच्छति ।
दधिवद्बन्धमायाति सूतेन्द्रः त्रिगुणाभ्रकः ॥ १६.८२ ॥

देहसिद्धिकरः सूतो व्योम्नि जीर्णे चतुर्गुणे ।
जीर्णषष्ठगुणाभ्रस्तु ब्रह्मायुष्यप्रदो रसः ॥ १६.८३ ॥

जीर्णसप्तगुणाभ्रस्तु दद्यादायुः सविक्रमः ।
प्रदत्ते शङ्करायुष्यं जारितेऽष्टगुणेऽभ्रके ।
{मेअसुरेस् अगैन्स्त् ग्रासाजीर्ण}
ग्रासाजीर्णरसं पात्य पुनः संदीप्य जारयेत् ॥ १६.८४ ॥

ततः शुल्बस्य तीक्ष्णस्य कान्तस्य रजतस्य च ।
सुवर्णस्य च बीजानि विधाय परिजारयेत् ॥ १६.८५ ॥

{mercury:: जारण:: with copper}
अभ्रकोक्तप्रकारेण द्रावणं जारणं तथा ।
रसस्य रञ्जनी प्रोक्ता तीक्ष्णकान्तार्कजारणा ॥ १६.८६ ॥

तत्तत्क्षाराम्लकस्वेदैर् यत्नतो विहितश्चरेत् ।
शतधा दरदव्यूढं ताम्रं हि त्रिगुणं रसे ॥ १६.८७ ॥

जारणाज्जायते तेन द्रुतमाणिक्यसन्निभः ।
ताम्रेण बलवान्सूतः सूर्यतुल्यपराक्रमः ॥ १६.८८ ॥

त्रिदोषैः कृतनिःशेषं रसोऽयं जीवयत्यलम् ।
सेवितोऽयं रसो मासं गुञ्जया तुलितोऽन्वहम् ।
कुर्याद्भीमसमं मर्त्यं मुक्ते च भुजि विक्रमम् ॥ १६.८९ ॥

{mercury:: जारण:: with तीक्ष्णलोह}
क्रामणं जारणं वेधो रञ्जनं वेगकारिता ।
हिङ्गुलशतनिर्व्यूढात् तीक्ष्णग्रासाद् रसे भवेत् ॥ १६.९० ॥

समांशतो जारिततीक्ष्णसूतो निषेवितः पादमितो द्विमासम् ।
करोति मर्त्यं गतमृत्युभीतिं महाबलं ध्वस्तरुजं सुपुत्रम् ॥ १६.९१ ॥

सूतो द्वित्रिचतुःपञ्चगुणस्तीक्ष्णेन जारितः ।
उत्तरोत्तरतस्तस्य गुणः केनेह वर्ण्यते ।
{mercury:: जारण:: with कान्तलोह}
कान्तजीर्णरसश् चैवं गुणैः कोटिगुणं भवेत् ॥ १६.९२ ॥

द्विगुणजरितकान्तो व्याधिबाधां हिनस्ति हरति च रस उच्चैर्व्याधिवक्रं क्षणेन ।
वलिपलितविकारं दुःखदारिद्र्यमृत्युं जनयति वरपुत्रं सच्चरित्रं रसेन्द्रः ॥ १६.९३ ॥

{mercury:: जारण:: with gold}
पादांशेनार्धभागेन त्रिपादेन समांशतः ।
द्विगुणत्रिगुणांशाभ्यां तथा पञ्चगुणांशतः ॥ १६.९४ ॥

शतनिर्व्यूढमाक्षीकस्वर्णजीर्णो महारसः ।
जायते त्रिजगत्पूज्यश् चिन्तामणिसमोदयः ॥ १६.९५ ॥

{विड:: for जारण of mercury with gold}
पञ्चाङ्गमूलकक्षारक्षिप्तक्षालितगोजलैः ।
शतभावितगन्धाश्म बिडं हेमादिजारणम् ॥ १६.९६ ॥

{mercury:: समस्वर्णजीर्ण:: medic. properties}
समजरितसुवर्णं सर्वशक्त्यातिपूज्या दिनकरदिनमात्रं सेवितो माषमात्रम् ।
बहुविधगदमुक्तं हन्ति वार्धक्यमुच्चैः वृकजठरदृढाशौद्दामम् अग्निं च कुर्यात् ॥ १६.९७ ॥

वन्ध्यरोगम् असाध्यत्वं पुरुषस्य समन्ततः ।
विनिहन्ति न सन्देहः कुर्याच्छतधनं नरम् ॥ १६.९८ ॥

इदमपि पश्यन्तु[सम्पाद्यताम्]

स्रोतम्[सम्पाद्यताम्]

यह सामग्री यहाँ से लेकर इस परिवर्तक द्वारा यूनिकोड देवनागरी में बदलकर तथा कुछ और संशोधनों के बाद यहाँ रखी गयी है।

वाह्यसूत्राणि[सम्पाद्यताम्]