रसेन्द्रचूडामणि

विकिस्रोतः तः
Jump to navigation Jump to search
रचयिता - ढुण्ढुकनाथः

रसेन्द्रचूडामणि १[सम्पाद्यताम्]

हे भस्माङ्गविरक्तिरूपगुणदं तं प्रेरणादं शिवं गङ्गाभूषितशेखरं स्मरहरं शक्तिस्वरूपं प्रभो ।
त्वामीशं करुणार्णवं शरणदं विद्यानिधिं निर्गुणं भूतेशं गिरिजापतिं शशिधरं माङ्गल्यदेवं नमः ।
नमामि देवं सुरवृन्दपूजितं गणाधिपं विघ्नविनाशकारकम् ।
स्मरन्ति ये नित्यम् उदारचेतसः कष्टानि ते नानुभवन्ति सत्यम् ।
सिद्धिनन्दनमिश्रेण शुद्धां च सारगर्भिताम् ।
रसेन्द्रचिन्तामणेश्च टीकां कुर्वे शिवाज्ञया ।
इदानीं कालनाथशिष्यः श्रीढुण्ढुकनाथाह्वयो रसेन्द्रचिन्तामणिग्रन्थम् आरभमाणस् तन्मूलदेवते श्रीमदम्बिकामहेश्वरौ सकलजगदुत्पत्तिस्थितिप्रलयनिदानं विशेषसिद्धान्तगर्भवाचा वरीवस्यति ॥ र॰चू॰१.१ ॥
अर्थप्रकाशकासारविमर्शाम्बुजिनीमयम् ।
सच्चिदानन्दविभवं शिवयोर्वपुराश्रये ॥ र॰चू॰१.२ ॥
लघीयः परिमाणतया निखिलरसज्ञानदायित्वाच्चिन्तामणिरिव चिन्तामणिः ॥ र॰चू॰१.३ ॥
अश्रौषं बहुविदुषां मुखाद् अपश्यं शास्त्रेषु स्थितम् अकृतं न तल्लिखामि ।
यत्कर्म व्यरचयमग्रतो गुरूणां प्रौढानां तदिह वदामि वीतशङ्कः ॥ र॰चू॰१.४ ॥
अध्यापयन्ति यद् दर्शयितुं क्षमन्ते सूतेन्द्रकर्म गुरवो गुरवस्त एव ।
शिष्यास्त एव रचयन्ति गुरोःपुरो ये शेषाः पुनस्तदुभयाभिनयं भजन्ते ॥ र॰चू॰१.५ ॥
संस्काराः परतन्त्रेषु ये गूढाः सिद्धिसूचिताः ।
तानेव प्रकटीकर्तुम् उद्यमं किल कुर्महे ॥ र॰चू॰१.६ ॥
ग्रन्थाद् अस्मादाहरन्ति प्रयोगान् स्वीयं वास्मिन्नाम ये निक्षिपन्ति ।
गोत्राण्येषाम् अस्मदीयश्रमोष्मा भस्मीकुर्वन्नायुगं बोभवीतु ॥ र॰चू॰१.७ ॥
संस्काराः शिवजनुषो बहुप्रकारास् तुल्या ये लघुबहुलप्रयासंसाध्याः ।
यद्येकं सुकरम् उदाहरामि तेषां व्याहारैः किमिहफलं ततः परेषाम् ॥ र॰चू॰१.८ ॥
इह खलु पुरुषेण दुःखस्य निरुपाधिद्वेषविषयत्वात् तदभावश्चिकीर्षितव्यो भवति सुखमपि निरुपाधिप्रेमास्पदतया गवेषणीयम् तदेतत्पुरुषार्थद्वयम् ।
अभावस्यान्यत्वात् ॥ र॰चू॰१.९ ॥
किंच स्रक्चन्दनवनितादिविषयाणां सत्यपि तत्कारणत्वे नान्तरीयकदुःखसम्भेदाद् अनर्थपरम्परापरिचितत्वान् मूर्खाणां कोशाण्डकवद् आभासमानत्वाद् अनैकान्तिकत्वाद् विरोधिनां युगपददृश्यमानत्वाद् अत्यन्तताविरहितत्वाच्च परिहरणीयत्वम् ॥ र॰चू॰१.१० ॥
एकान्तात्यन्ततश्च पुनस्ते ह्युपायाः खलु हरिहरब्रह्माण इव तुल्या एव सम्भवन्ति ।
ज्ञानयोगः पवनयोगो रसयोगश्चेति ॥ र॰चू॰१.११ ॥
ननु कथमेषां तुल्यतेत्यपेक्षायां ब्रूमः मोक्षोपाये बृहद्वासिष्ठादौ भुशुण्डोपाख्याने वसिष्ठवाक्यम् ।
असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः ।
द्वौ प्रकारौ ततो देवो जगाद परमः शिवः ।
प्राणानां वा निरोधेन वासनानोदनेन वा ।
नो चेत्संविदम् उच्छाणां करोषि तदयोगवान् ।
द्वावेव हि समौ राम ज्ञानयोगाविमौ स्मृतौ ॥ र॰चू॰१.१२ ॥
तत्राद्ययोः केवलं पक्वकषायाणामपि कथञ्चन साध्यत्वाच्चरमे तु पुनर्भोगलोलुपानाम् अप्यधिकारित्वात्ताभ्यां समीचीनोऽयमिति कस्य न प्रतिभाति ॥ र॰चू॰१.१३ ॥
किंच अस्य भगवन्निर्यासतया सेवकानां स्वसम्भूतसकलधातुत्वापादकस्य भगवतो रसराजस्य गुणसिन्धोः कियन्तः पृषताः प्रसङ्गाल्लिख्यन्ते ॥ र॰चू॰१.१४ ॥
अचिराज्जायते देवि शरीरमजरामरम् ।
मनसश्च समाधानं रसयोगादवाप्यते ॥ र॰चू॰१.१५ ॥
सत्त्वं च लभते देवि विज्ञानं ज्ञानपूर्वकम् ।
सत्यं मन्त्राश्च सिध्यन्ति योऽश्नाति मृतसूतकम् ॥ र॰चू॰१.१६ ॥
यावन्न शक्तिपातस्तु न यावत्पाशकृन्तनम् ।
तावत्तस्य कुतः शुद्धिर्जायते मृतसूतके ॥ र॰चू॰१.१७ ॥
यावन्न हरबीजं तु भक्षयेत्पारदं रसम् ।
तावत्तस्य कुतो मुक्तिः कुतः पिण्डस्य धारणम् ॥ र॰चू॰१.१८ ॥
स्वदेहे खेचरत्वं वै शिवत्वं येन लभ्यते ।
तादृशे तु रसज्ञाने नित्याभ्यासं कुरु प्रिये ॥ र॰चू॰१.१९ ॥
त्वं माता सर्वभूतानां पिता चाहं सनातनः ।
द्वयोश्च यो रसो देवि महामैथुनसम्भवः ॥ र॰चू॰१.२० ॥
दर्शनात् स्पर्शनात् तस्य भक्षणात् मरणात्प्रिये ।
पूजनाद्रसदानाच्च दृश्यते षड्विधं फलम् ॥ र॰चू॰१.२१ ॥
केदारादीनि लिङ्गानि पृथिव्यां यानि कानिचित् ।
तानि दृष्ट्वा च यत्पुण्यं तत्पुण्यं रसदर्शनात् ॥ र॰चू॰१.२२ ॥
चन्दनागुरुकर्पूरकुङ्कुमान्तर्गतो रसः ।
मूर्छितः शिवपूजा सा शिवसांनिध्यसिद्धये ॥ र॰चू॰१.२३ ॥
भक्षणात्परमेशानि हन्ति तापत्रयं रसः ।
दुर्लभं ब्रह्मविष्ण्वाद्यैः प्राप्यते परमं पदम् ॥ र॰चू॰१.२४ ॥
हृत्पद्मकर्णिकान्तःस्थं रसेन्द्रं परमेश्वरि ।
स्मरन्विमुच्यते पापैः सद्यो जन्मान्तरार्जितैः ॥ र॰चू॰१.२५ ॥
स्वयम्भूलिङ्गसाहस्रैर्यत्फलं सम्यगर्चनात् ।
तत्फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत् ॥ र॰चू॰१.२६ ॥
रोगिभ्यो यो रसं दत्ते शुद्धिपाकसमन्वितम् ।
तुलादानाश्वमेधानां फलं प्राप्नोति शाश्वतम् ॥ र॰चू॰१.२७ ॥
रसविद्या परा विद्या त्रैलोक्येऽपि च दुर्लभा ।
भुक्तिमुक्तिकरी यस्मात्तस्माज्ज्ञेया गुणान्विता ॥ र॰चू॰१.२८ ॥
ब्रह्मज्ञानेन सोऽयुक्तो यः पापी रसनिन्दकः ।
नाहं त्राता भवे तस्य जन्मकोटिशतैरपि ॥ र॰चू॰१.२९ ॥
आलापं गात्रसंस्पर्शं यः कुर्याद्रसनिन्दकैः ।
यावज्जन्मसहस्राणि स भवेत्पापपीडितः ॥ र॰चू॰१.३० ॥
हेमजीर्णो भस्मसूतो रुद्रत्वं भक्षितो दिशेत् ।
विष्णुत्वं तारजीर्णस्तु ब्रह्मत्वं भास्करेण तु ॥ र॰चू॰१.३१ ॥
तीक्ष्णजीर्णो धनेशत्वं सूर्यत्वं चापि तालके ।
राजरे तु शशाङ्कत्वममरत्वं च रोहणे ॥ र॰चू॰१.३२ ॥
सामान्येन तु तीक्ष्णेन नरः शक्रत्वमाप्नुयात् ॥ र॰चू॰१.३३ ॥
दोषहीनो रसो ब्रह्मा मूर्छितस्तु जनार्दनः ।
मारितो रुद्ररूपी स्याद् बद्धः साक्षात् सदाशिवः ॥ र॰चू॰१.३४ ॥
ईदृशस्य गुणानां पर्यवसानमम्बुजसम्भवोऽपि महाकल्पैरपि वचोभिर्नासादयितुमलमित्यलं बहुना ॥ र॰चू॰१.३५ ॥
यद्यन्मयाक्रियत कारयितुं च शक्यं सूतेन्द्रकर्म तदिह प्रथयांबभूवे ।
अध्यापयन्ति य इदं नतु कारयन्ति कुर्वन्ति नेदमधियन्त्युभये मृषार्थाः ॥ र॰चू॰१.३६ ॥


रसेन्द्रचूडामणि २[सम्पाद्यताम्]

अथ मूर्च्छनाध्यायं व्याचक्ष्महे ॥ र॰चू॰२.१ ॥
<मूर्च्छना:: (medic.) definition>
अव्यभिचरितव्याधिघातकत्वं मूर्च्छना ॥ र॰चू॰२.२ ॥
तत्तत्तन्त्रनिगदितदेवतापरिचरणस्मरणानन्तरं तत्तच्छोधनप्रक्रियाभिर् बह्वीभिः परिशुद्धानां रसेन्द्राणां तृणारणिमणिजन्यवह्णिन्यायेन तारतम्यम् अवलोकमानैः सूक्ष्ममतिभिः पलार्धेनापि कर्तव्यः संस्कारः सूतकस्य चेति रसार्णववचनाद् व्यावहारिकतोलकद्वयपरिमाणेनापि परिशुद्धो रसो मूर्छयितव्यः ॥ र॰चू॰२.३ ॥
मूर्च्छनाप्रकारस्तु बहुविधः ॥ र॰चू॰२.४ ॥
<जारण:: central for medic. activation of mercury>
रसगुणबलिजारणं विनायं न खलु रुजाहरणक्षमो रसेन्द्रः ।
न जलदकलधौतपाकहीनः स्पृशति रसायनतामिति प्रसिद्धिः ॥ र॰चू॰२.५ ॥
<वालुकायन्त्र>
तन्निमित्तकं सिकतायन्त्रद्वयं कथ्यते ॥ र॰चू॰२.६ ॥
यथा निरवधिनिष्पीडितमृदम्बरादिपरिलिप्ताम् अतिकठिनकाचघटीम् अग्रे वक्ष्यमाणप्रकारां रसगर्भिणीम् अधस्तर्जन्यङ्गुलिप्रमाणितच्छिद्रायाम् अनुरूपस्थालिकायाम् आरोप्य परितस्तां द्वित्र्यङ्गुलिमितेन लवणेन निरन्तरालीकरणपुरःसरं सिकताभिर् आ गलम् आपूर्य वर्धमानकम् आपूरणीयं क्रमतश्च त्रिचतुराणि पञ्चषाणि वा वासराणि ज्वलनज्वालया पाचनीयम् इत्येकं यन्त्रम् ॥ र॰चू॰२.७ ॥
<वालुकायन्त्र>
हस्तैकमात्रप्रमाणवसुधान्तर्निखातां प्राग्वत्काचघटीं नातिचिपिटमुखीं नात्युच्चमुखीं मषीभाजनप्रायां खर्परचक्रिकया काचचक्रिकया वा निरुद्धवदनविवरां मृण्मयीं वा घटीं विधाय करीषैरुपरि पुटो देय इत्यन्यद्यन्त्रम् ॥ र॰चू॰२.८ ॥
<जारण:: further apparatus>
असमशकलद्वयात्मकलोहसम्पुटकेन सिकतायन्त्रमध्ये भूधरे वेति त्रिलोचनः ॥ र॰चू॰२.९ ॥
<mercury:: जारण>
कूर्मयन्त्रे रसे गन्धं षड्गुणं जारयेद्बुधः इत्यन्ये ॥ र॰चू॰२.१० ॥
<जारण:: producing colour>
अत्र पक्षे रागस्तथा न स्यात् तेनादौ पञ्चगुणान् जारयित्वा शेषैकः कूपिकादौ जारणीयस्तदा रागः साधुः स्यात् ॥ र॰चू॰२.११ ॥
अत्र कज्जलिम् अन्तरेण केवलगन्धकमपि सात्म्येन जारयन्ति ॥ र॰चू॰२.१२ ॥
<mercury:: जारण:: सिन्दूर colour>
कूपीकोटरमागतं रसगुणैर्गन्धैस्तुलायां विभुं विज्ञाय ज्वलनक्रमेण सिकतायन्त्रे शनैः पाचयेत् ।
वारंवारमनेन वह्णिविधिना गन्धक्षयं साधयेत् सिन्दूरद्युतितोऽनुभूय भणितः कर्मक्रमोऽयं मया ॥ र॰चू॰२.१३ ॥
<रससिन्दूर:: production>
आरोटकम् अन्तरेण हिङ्गुलगन्धकाभ्यां पिष्टाभ्यामपि रससिन्दूरः संपाद्यः ॥ र॰चू॰२.१४ ॥
<पिष्टी/कज्जली (?)>
त्रिगुणम् इह रसेन्द्रमेकमंशं कनकपयोधरतारपङ्कजानाम् ।
रसगुणबलिभिर् विधाय पिष्टिं रचय निरन्तरम्बुभिः कुमार्याः ॥ र॰चू॰२.१५ ॥
आ षड्गुणम् अधरोत्तरसमादिबलिजारणेन योज्येयम् ।
योगे पिष्टिः पाच्या कज्जलिकार्थं जारणार्थं च ॥ र॰चू॰२.१६ ॥
प्रकारोऽयम् अधोयन्त्रेणैव सिध्यति न पुनरूर्ध्वयन्त्रेण ॥ र॰चू॰२.१७ ॥
<bottle:: appr. material>
काचमृत्तिकयोः कूपी हेम्नोऽयस्तारयोः क्वचित् ।
<bottle:: appr. चोअतिन्ग्>
कीलालायःकृतो लेपः खटिकालवणाधिकः ॥ र॰चू॰२.१८ ॥
अनेन यन्त्रद्वितयेन भूरि हेमाभ्रसत्त्वाद्यपि जारयन्ति ।
यथेच्छमच्छैः सुमनोविचारैर् विचक्षणाः पल्लवयन्तु भूयः ॥ र॰चू॰२.१९ ॥
<mercury:: रञ्जन:: अन्तर्धूम>
अन्तर्धूमविपाचितशतगुणगन्धेन रञ्जितः सूतः ।
स भवेत्सहस्रवेधी तारे ताम्रे भुजङ्गे च ॥ र॰चू॰२.२० ॥
<mercury:: जारण>
सूतप्रमाणं सिकताख्ययन्त्रे दत्त्वा बलिं मृद्घटिते ऽल्पभाण्डे ।
तैलाविशेषे ऽत्र रसं निदध्यान्मग्नार्धकायं प्रविलोक्य भूयः ॥ र॰चू॰२.२१ ॥
आ षड्गुणं गन्धकम् अल्पम् अल्पं क्षिपेदसौ जीर्णबलिर्बली स्यात् ।
रसेषु सर्वेषु नियोजितोऽयमसंशयं हन्ति गदं जवेन ॥ र॰चू॰२.२२ ॥
नागादिशुल्वादिभिर् अत्र पिष्टिं वादेषु योगेषु च निक्षिपन्ति ॥ र॰चू॰२.२३ ॥
<mercury:: निगड>
स्नुह्यर्कसम्भवं क्षीरं ब्रह्मबीजानि गुग्गुलुः ।
सैन्धवं द्विगुणं मर्द्यं निगडोऽयं महोत्तमः ॥ र॰चू॰२.२४ ॥
<mercury:: रससिन्दूर? निगड?>
मारकाम्बुसितसैन्धवमिश्रः कूपिकोदरगतः सिकतायाम् ।
पाचितो यदि मुहुर्मुहुरित्थं बन्धमृच्छति तदैष रसेन्द्रः ॥ र॰चू॰२.२५ ॥
स्थाल्यां दृढघटितायाम् अर्धं परिपूर्य तूर्यलवणांशैः ।
रक्तेष्टिकारजोभिस्तदुपरि सूतस्य तुर्यांशम् ॥ र॰चू॰२.२६ ॥
सितसैन्धवं निधाय स्फटिकारीं तत्समां च तस्योर्ध्वे ।
स्फटिकारिधवलसैन्धवशुद्धरसैः कन्यकाम्बुपरिघृष्टैः ॥ र॰चू॰२.२७ ॥
कृत्वा पर्पटमुचितं तदुपर्याधाय तद्वदेव पुनः ।
स्फटिकारिसैन्धवरसौ दद्यादितः स्खलतो रसस्य ॥ र॰चू॰२.२८ ॥
लाभाय तदुपरि खर्परखण्डकान् धृत्वापरया दृढस्थाल्या ।
आच्छाद्य मुद्रयित्वा दिवसत्रितयं पचेद्विधिना ॥ र॰चू॰२.२९ ॥
अत्रानुक्तमपि भल्लातकं ददति वृद्धाः पारदतुल्यम् ॥ र॰चू॰२.३० ॥


रसेन्द्रचूडामणि ३[सम्पाद्यताम्]

अथातो बन्धनाध्यायं व्याचक्ष्महे ।
स्वाभाविकद्रवत्वे सति वह्निनानुच्छिद्यमानत्वं मूर्तिबद्धत्वम् ॥ र॰चू॰३.१ ॥
विपिनौषधिपाकसिद्धम् एतद्घृततैलाद्यपि दुर्निवारवीर्यम् ।
किमयं पुनर् ईश्वराङ्गजन्मा घनजाम्बूनदचन्द्रभानुजीर्णः ॥ र॰चू॰३.२ ॥
<१९ संस्कारस्>
एतत्साधकान्यूनविंशतिकर्माणि भवन्ति ।
मर्दनमूर्छनोत्थापनस्वेदनपातनबोधननियमनसंदीपनानुवासनगगनादिग्रासप्रमाणचारणगर्भद्रुतिबाह्यद्रुतियोगजारणरञ्जनसारणक्रामणवेधनभक्षणानि ॥ र॰चू॰३.३ ॥
<रेल्. रितेस् बेfओरे स्तर्तिन्ग् थे संस्कारस्>
सम्पूज्य श्रीगुरुं कन्यां बटुकं च गणाधिपम् ।
योगिनीं क्षेत्रपालांश्च चतुर्धाबलिपूर्वकम् ॥ र॰चू॰३.४ ॥
सूतं रहस्यनिलये सुमुहूर्ते विधोर्बले ।
खल्वे पाषाणजे लोहे सुदृढे सारसम्भवे ॥ र॰चू॰३.५ ॥
तादृशस्वच्छमसृणचतुरङ्गुलमर्दके ।
निक्षिप्य सिद्धमन्त्रेण रक्षितं द्वित्रिसेवकैः ॥ र॰चू॰३.६ ॥
भिषग् विमर्दयेच्चूर्णैर् मिलितैः षोडशांशतः ।
सूतस्य गालितैर् वस्त्रैर्वक्ष्यमाणद्रवादिभिः ॥ र॰चू॰३.७ ॥
मर्दयेन्मूर्छयेत्सूतं पुनरुत्थाप्य सप्तशः ।
<mercury:: दोष:: रेमोवल्>
रक्तेष्टकानिशाधूमसारोर्णाभस्मतुम्बिकैः ।
जम्बीरद्रवसंयुक्तैर् नागदोषापनुत्तये ॥ र॰चू॰३.८ ॥
विशालाङ्कोलचूर्णेन वङ्गदोषं विमुञ्चति ।
राजवृक्षस्य मूलस्य चूर्णेन सह कन्यया ॥ र॰चू॰३.९ ॥
मलदोषापनुत्त्यर्थं मर्दनोत्थापने शुभे ।
कृष्णधत्तूरकद्रावैश् चाञ्चल्यविनिवृत्तये ॥ र॰चू॰३.१० ॥
त्रिफलाकन्यकातोयैर् विषदोषोपशान्तये ।
गिरिदोषं त्रिकटुना कन्यातोयेन यत्नतः ॥ र॰चू॰३.११ ॥
चित्रकस्य च चूर्णेन सकन्येनाग्निनाशनम् ।
आरनालेन चोष्णेन प्रतिदोषं विशोधयेत् ।
एवं संशोधितः सूतः सप्तदोषविवर्जितः ।
जायते कार्यकर्ता च ह्य् अन्यथा कार्यनाशनः ॥ र॰चू॰३.१२ ॥
<mercury:: उत्थापन>
उत्थापनावशिष्टं तु चूर्णं पातनयन्त्रके ।
धृत्वोर्ध्वभाण्डे संलग्नं संहरेत्पारदं भिषक् ॥ र॰चू॰३.१३ ॥
<स्वेदन>
रसं चतुर्गुणे वस्त्रे बद्ध्वा दोलाकृतं पचेत् ।
दिनं व्योषवरावह्निकन्याकल्केषु काञ्जिके ।
दोषशेषापनुत्त्यर्थमिदं स्वेदनमुच्यते ॥ र॰चू॰३.१४ ॥
<काञ्जिक:: production>
नानाधान्यैर् यथाप्राप्तैस् तुषवर्जैर् जलान्वितैः ।
मृद्भाण्डं पूरितं रक्षेद् यावदम्लत्वमाप्नुयात् ॥ र॰चू॰३.१५ ॥
तन्मध्ये घनवाङ्मुण्डी विष्णुक्रान्तापुनर्नवा ।
मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी ॥ र॰चू॰३.१६ ॥
त्रिफला गिरिकर्णी च हंसपादी च चित्रकः ।
समूलकाण्डं पिष्ट्वा तु यथालाभं विनिक्षिपेत् ॥ र॰चू॰३.१७ ॥
पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं भवेत् ।
स्वेदनादिषु सर्वत्र रसराजस्य योजयेत् ॥ र॰चू॰३.१८ ॥
अत्यम्लमारनालं वा तदभावे प्रयोजयेत् ।
<ऊर्ध्वपातन>
भागास् त्रयो रसस्यार्कचूर्णस्यैकोऽथ निम्बुकैः ।
एतत्संमर्दयेत्तावद्यावदायाति पिण्डताम् ॥ र॰चू॰३.१९ ॥
तत्पिण्डं तलभाण्डस्थमूर्ध्वभाण्डे जलं क्षिपेत् ।
कृत्वालवालं केनापि दत्त्वा वार्द्रं हि प्लोतकम् ॥ र॰चू॰३.२० ॥
संमुद्र्याग्निम् अधस्तस्य चतुर्यामं प्रबोधयेत् ।
युक्त्योर्ध्वभाण्डसंलग्नं गृह्णीयात्पारदं ततः ॥ र॰चू॰३.२१ ॥
ऊर्ध्वपातनमित्युक्तं भिषग्भिः सूतशोधने ।
<संधिरोध:: इम्पोर्तन्चे>
ससूतभाण्डवदनम् अन्यद् गिलति भाण्डकम् ।
तथा संधिर् द्वयोः कार्यः पातनात्रययन्त्रके ॥ र॰चू॰३.२२ ॥
<सिशेस्, मेअसुरेस्:: तौघ्त् ब्य् थे ङुरु>
यन्त्रप्रमाणं वदनाद्गुरोर्ज्ञेयं विचक्षणैः ।
रसस्य मानानियमात् कथितुं नैव शक्यते ॥ र॰चू॰३.२३ ॥
<अधःपातन>
नवनीताह्वयं सूतं घृष्ट्वा जम्भाम्भसा दिनम् ।
वानरीशिग्रुशिखिभिर् लवणासुरिसंयुतैः ॥ र॰चू॰३.२४ ॥
नष्टपिष्टं रसं ज्ञात्वा लेपयेदूर्ध्वभाण्डके ।
ऊर्ध्वभाण्डोदरं लिप्त्वा त्व् अधोगं जलसंभृतम् ॥ र॰चू॰३.२५ ॥
संधिलेपं द्वयोः कृत्वा तद्यन्त्रं भुवि पूरयेत् ।
उपरिष्टात्पुटे दत्ते जले पतति पारदः ॥ र॰चू॰३.२६ ॥
अधःपातनम् इत्युक्तं सिद्धाद्यैः सूतकर्मणि ।
<तिर्यक्पातन>
घटे रसं विनिक्षिप्य सजलं घटम् अन्यकम् ।
तिर्यङ्मुखं द्वयोः कृत्वा तन्मुखं रोधयेत् सुधीः ॥ र॰चू॰३.२७ ॥
रसाधो ज्वालयेदग्निं यावत्सूतो जलं विशेत् ।
तिर्यक्पातनमित्युक्तं सिद्धैर् नागार्जुनादिभिः ॥ र॰चू॰३.२८ ॥
<३ पातनस्:: रेमोवल् of वङ्ग अन्द् नाग>
मिश्रितौ चेद्रसे नागवङ्गौ विक्रयहेतुना ।
ताभ्यां स्यात्कृत्रिमो दोषस् तन्मुक्तिः पातनत्रयात् ॥ र॰चू॰३.२९ ॥
<बोधन:: रेमोवल् of इम्पोतेन्च्य्>
एवं कपर्दितः सूतः षण्ढत्वम् अधिगच्छति ।
तन्मुक्तयेऽस्य क्रियते बोधनं कथ्यते हि तत् ॥ र॰चू॰३.३० ॥
विश्वामित्रकपाले वा काचकूप्याम् अथापि वा ।
सृष्ट्यम्बुजं विनिक्षिप्य तत्र तन्मज्जनावधि ॥ र॰चू॰३.३१ ॥
पूरयेत्त्रिदिनं भूम्यां राजहस्तप्रमाणतः ।
अनेन सूतराजोऽयं षण्ढभावं विमुञ्चति ॥ र॰चू॰३.३२ ॥
<दीपन? बोधन?>
लवणेनाम्लपिष्टेन हण्डिकान्तर्गतं रसम् ।
आच्छाद्याम्लजलं किंचित् क्षिप्त्वा शरावेण रोधयेत् ॥ र॰चू॰३.३३ ॥
ऊर्ध्वं लघुपुटं देयं लब्धाश्वासो भवेद्रसः ।
<स्वेदन शुर् ॡइएदेर्हेर्स्तेल्लुन्ग् वोन् ःग्>
कदर्थनेनैव नपुंसकत्वम् एवं भवेदस्य रसस्य पश्चात् ।
वीर्यप्रकर्षाय च भूर्जपत्त्रे स्वेद्यो जले सैन्धवचूर्णगर्भे ॥ र॰चू॰३.३४ ॥
<नियमन>
सर्पाक्षीचिञ्चिकावन्ध्याभृङ्गाब्दकनकाम्बुभिः ।
दिनं संस्वेदितः सूतो नियमात् स्थिरतां व्रजेत् ॥ र॰चू॰३.३५ ॥
<दीपन>
कासीसं पञ्चलवणं राजिकामरिचानि च ।
द्विशिग्रुबीजमेकत्र टङ्कणेन समन्वितम् ॥ र॰चू॰३.३६ ॥
आलोड्य काञ्जिके दोलायन्त्रे पाकाद् दिनैस् त्रिभिः ।
दीपनं जायते सम्यक् सूतराजस्य जारणे ॥ र॰चू॰३.३७ ॥
<दीपन>
अथवा चित्रकद्रावैः काञ्जिके त्रिदिनं पचेत् ।
दीपनं जायते तस्य रसराजस्य चोत्तमम् ॥ र॰चू॰३.३८ ॥
<अनुवासन>
दीपितं रसराजस्तु जम्बीररससंयुतम् ।
दिनैकं धारयेद् घर्मे मृत्पात्रे वा शिलोद्भवे ॥ र॰चू॰३.३९ ॥
<जारण:: definition>
जारणा हि नाम पातनगालनव्यतिरेकेण घनहेमादिग्रासपूर्वकपूर्वावस्थाप्रतिपन्नत्वम् ॥ र॰चू॰३.४० ॥
किंच घनहेमादिजीर्णस्य कृतक्षेत्रीकरणानाम् एव शरीरिणां भक्षणे ऽधिकार इत्यभिहितम् ॥ र॰चू॰३.४१ ॥
<जारण:: रेल्. मेअनिन्ग्>
फलं चास्य स्वयमीश्वरेणोक्तम् ।
सर्वपापक्षये जाते प्राप्यते रसजारणा ।
तत्प्राप्तौ प्राप्तमेव स्याद्विज्ञानं मुक्तिलक्षणम् ॥ र॰चू॰३.४२ ॥
मोक्षाभिव्यञ्जकं देवि जारणं साधकस्य तु ।
खल्वस्तु पिण्डिका देवि रसेन्द्रो लिङ्गमुच्यते ॥ र॰चू॰३.४३ ॥
मर्दनं वन्दनं चैव ग्रासः पूजा विधीयते ।
यावद्दिनानि वह्निस्थो जारणे धार्यते रसः ॥ र॰चू॰३.४४ ॥
तावद् वर्षसहस्राणि शिवलोके महीयते ।
दिनमेकं रसेन्द्रस्य यो ददाति हुताशनम् ॥ र॰चू॰३.४५ ॥
द्रवन्ति तस्य पापानि कुर्वन्नपि न लिप्यते ।
अजारयन्तः पविहेमगन्धं वाञ्छन्ति सूतात्फलम् अप्युदारम् ।
क्षेत्रादनुप्तादपि सस्यजातं कृषीवलास्ते भिषजश्च मन्दाः ॥ र॰चू॰३.४६ ॥
<जारण:: medic. प्रोपेर्तिएस् अच्चोर्दिन्ग् तो थे wएइघ्त् of सुल्fउर्>
तुल्ये तु गन्धके जीर्णे शुद्धाच्छतगुणो रसः ।
द्विगुणे गन्धके जीर्णे सर्वकुष्ठहरः परः ॥ र॰चू॰३.४७ ॥
त्रिगुणे गन्धके जीर्णे सर्वजाड्यविनाशनः ।
चतुर्गुणे तत्र जीर्णे वलीपलितनाशनः ॥ र॰चू॰३.४८ ॥
गन्धे पञ्चगुणे जीर्णे क्षयक्षयकरो रसः ।
षड्गुणे गन्धके जीर्णे सर्वरोगहरो रसः ।
अवश्यमित्युवाचेदं देवीं श्रीभैरवः स्वयम् ॥ र॰चू॰३.४९ ॥
<जारण>
गन्धपिष्टिकया तत्र गोलः स्याद्गन्धजारणे ॥ र॰चू॰३.५० ॥
तस्माच्छतगुणो व्योमसत्त्वे जीर्णे तु तत्समे ।
ताप्यखर्परतालादिसत्त्वे जीर्णे गुणावहः ॥ र॰चू॰३.५१ ॥
हेम्नि जीर्णे सहस्रैकगुणसंघप्रदायकः ।
वज्रादिजीर्णसूतस्य गुणान् वेत्ति शिवः स्वयम् ॥ र॰चू॰३.५२ ॥
देव्या रजो भवेद्गन्धो धातुः शुक्रं तथाभ्रकम् ।
आलिङ्गने समथौ द्वौ प्रियत्वाच्छिवरेतसः ॥ र॰चू॰३.५३ ॥
शिवशक्तिसमायोगात्प्राप्यते परमं पदम् ।
यथा स्याज्जारणा बह्वी तथा स्याद्गुणदो रसः ॥ र॰चू॰३.५४ ॥
<mercury:: ग्रासार्थिन्>
वज्रकण्टकवज्राग्रं विद्धमष्टाङ्गुलं मृदा ।
विलिप्य गोमयाल्पाग्नौ पुटितं तत्र शोषितम् ॥ र॰चू॰३.५५ ॥
त्र्यहं वज्रिबिले क्षिप्तो ग्रासार्थी जायते रसः ।
ग्रसते गन्धहेमादि वज्रसत्त्वादिकं क्षणात् ॥ र॰चू॰३.५६ ॥
<mercury:: ग्रासार्थिन्>
मूर्छाध्यायोक्तषड्गुणबलिजीर्णः पिष्टिकोत्थितरसः खल्वेऽत्यन्तं बुभुक्षितो घनहेमवज्रसत्त्वादि त्वरितमेव ग्रसतीत्यन्यः प्रकारः ।
एतत्प्रक्रियाद्वयमपि कृत्वा व्यवहरन्त्यन्ये ॥ र॰चू॰३.५७ ॥
<mercury:: ग्रासार्थिन्>
सतुत्थटङ्कणस्वर्जिपटुताम्रे त्र्यहोषितम् ।
काञ्जिकं भावितं तेन गन्धाद्यं क्षरति क्षणात् ॥ र॰चू॰३.५८ ॥
विडे सकाञ्जिके क्षिप्तो रसः स्याद् ग्रासलालसः ।
ग्रसते सर्वलोहानि सर्वसत्त्वानि वज्रकम् ॥ र॰चू॰३.५९ ॥
<विड:: वडवानल>
शङ्खचूर्णं रविक्षीरैरातपे भावयेद्दिनम् ।
तद्वज्जम्बीरजद्रावैर् दिनैकं धूमसारकम् ॥ र॰चू॰३.६० ॥
सौवर्चलमजामूत्रैर् भाव्यं यामचतुष्टयम् ।
कण्टकारीं च संक्वाथ्य दिनैकं नरमूत्रकैः ॥ र॰चू॰३.६१ ॥
स्वर्जिक्षारं तिन्तिडीकं कासीसं तु शिलाजतु ।
जम्बीरोत्थद्रवैर् भाव्यं पृथग्यामचतुष्टयम् ॥ र॰चू॰३.६२ ॥
निस्तुषं जयपालं च मूलकानां द्रवैर्दिनम् ।
सैन्धवं टङ्कणं गुञ्जां दिनं शिग्रुजटाम्भसा ॥ र॰चू॰३.६३ ॥
एतत्सर्वं समांशं तु मर्द्यं जम्बीरजद्रवैः ।
तद्गोलं रक्षयेद्यत्नाद् विडोऽयं वडवानलः ॥ र॰चू॰३.६४ ॥
अनेन मर्दितः सूतः संस्थितस् तप्तखल्वके ।
स्वर्णादिसर्वलोहानि सत्त्वानि ग्रसते क्षणात् ॥ र॰चू॰३.६५ ॥
<विड:: अनोन्य्मोउस्:: production>
मूलकार्द्रकवह्नीनां क्षारं गोमूत्रगालितम् ।
वस्त्रपूतो द्रवो ग्राह्यो गन्धकं तेन भावयेत् ।
शतवारं खरे घर्मे विडोऽयं हेमजारणे ॥ र॰चू॰३.६६ ॥
<विड:: अनोन्य्मोउस्:: production>
मूलकार्द्रकचित्राणां क्षारैर् गोमूत्रगालितैः ।
गन्धकः शतशो भाव्यो विडोऽयं जारणे मतः ॥ र॰चू॰३.६७ ॥
<विड:: अनोन्य्मोउस्:: production>
वास्तूकैरण्डकदलीदेवदालीपुनर्नवाः ।
वासापलाशनिचुलतिलकाञ्चनमोक्षकाः ॥ र॰चू॰३.६८ ॥
सर्वाङ्गं खण्डशश्छिन्नं नातिशुष्कं शिलातले ।
दग्धं काण्डं तिलानां च पञ्चाङ्गं मूलकस्य च ॥ र॰चू॰३.६९ ॥
प्लावयेन्मूत्रवर्गेण जलं तस्मात्परिस्रुतम् ।
लोहपात्रे पचेद्यन्त्रे हंसपाकाग्निमानवित् ॥ र॰चू॰३.७० ॥
बाष्पाणां बुद्बुदानां च बहूनामुद्गमो यदा ।
तदा कासीससौराष्ट्रीक्षारत्रयकटुत्रयम् ॥ र॰चू॰३.७१ ॥
गन्धकश्च सितो हिङ्गु लवणानि च षट् तथा ।
एषां चूर्णं क्षिपेद्देवि लोहसम्पुटमध्यतः ॥ र॰चू॰३.७२ ॥
सप्ताहं भूगतं पश्चाद्धार्यस् तु प्रचुरो विडः ।
अत्र सकलक्षारैश् च साम्यं तिलकाण्डानां नित्यनाथपादा लिखन्ति ।
<हंसपाकयन्त्र>
खर्परं सिकतापूर्णं कृत्वा तस्योपरि क्षिपेत् ।
तुल्यं च खर्परं तत्र शनैर्मृद्वग्निना पचेत् ॥ र॰चू॰३.७३ ॥
पञ्चक्षारैस् तथा मूत्रैर् लवणं च विडं तथा ।
हंसपाकं समाख्यातं यन्त्रं तद्वार्त्तिकोत्तमैः ॥ र॰चू॰३.७४ ॥
<विड:: अनोन्य्मोउस्:: production>
गोमूत्रैर्गन्धकं घर्मे शतवारं विभावयेत् ।
शिग्रुमूलद्रवैस् तद्वद्दग्धं शङ्खं विभावयेत् ॥ र॰चू॰३.७५ ॥
एतद्गन्धकशङ्खाभ्यां समांशैर् विडसैन्धवैः ।
एतैर् विमर्दितः सूतो ग्रसते सर्वलोहकम् ॥ र॰चू॰३.७६ ॥
<विड:: अनोन्य्मोउस्:: production>
भावयेन्निम्बुकक्षारं देवदालीफलद्रवैः ।
एकविंशतिवारं तु विडोऽयं सत्त्वजारणे ॥ र॰चू॰३.७७ ॥
एवं विडान्तराण्यपि ग्रन्थान्तराद् अनुसर्तव्यानि ॥ र॰चू॰३.७८ ॥
<जारण:: परिणाम>
चतुःषष्ट्यंशकं हेमपत्त्रं मायूरमायुना ।
विलिप्तं तप्तखल्वस्थे रसे दत्त्वा विमर्दयेत् ।
दिनं जम्बीरतोयेन ग्रासे ग्रासे त्व् अयं विधिः ॥ र॰चू॰३.७९ ॥
शनैः संस्वेदयेद्भूर्जे बद्ध्वा सपटुकाञ्जिके ।
भाण्डके त्रिदिनं सूतं जीर्णस्वर्णं समुद्धरेत् ॥ र॰चू॰३.८० ॥
अधिकस्तोलितश्चेत्स्यात्पुनः स्वेद्यः समावधि ।
द्वात्रिंशत्षोडशाष्टांशक्रमेण वसु जारयेत् ॥ र॰चू॰३.८१ ॥
रूप्यादिषु च सत्त्वेषु विधिरेवंविधः स्मृतः ।
चुल्लिकालवणं गन्धमभावे शिखिपित्ततः ॥ र॰चू॰३.८२ ॥
<तप्तखल्व>
अजाशकृत्तुषाग्निं च खानयित्वा भुवि क्षिपेत् ।
तस्योपरि स्थितं खल्वं तप्तखल्वमिति स्मृतम् ॥ र॰चू॰३.८३ ॥
<दोलायन्त्र>
सग्रासं पञ्चषड्भागैर्यवक्षारैर्विमर्दयेत् ।
सूतकात् षोडशांशेन गन्धेनाष्टांशकेन वा ॥ र॰चू॰३.८४ ॥
ततो विमर्द्य जम्बीररसे वा काञ्जिकेऽथवा ।
दोलापाको विधातव्यो दोलायन्त्रमिदं स्मृतम् ॥ र॰चू॰३.८५ ॥
<कच्छपयन्त्रे जारणम् आह>
शश्वद्भृताम्बुपात्रस्थशरावच्छिद्रसंस्थिता ।
पक्वमूषा जले तस्यां रसोऽष्टांशविडावृतः ॥ र॰चू॰३.८६ ॥
संरुद्धो लोहपात्र्याथ ध्मातो ग्रसति काञ्चनम् ।
वालुकोपरि पुटो युक्त्या महामुद्रया च निर्वाहः ॥ र॰चू॰३.८७ ॥
अतिचिपिटपात्र्या पिधाय संलिप्य वह्निना योज्यः ।
<जारण>
कुण्डाम्भसि लोहमये सविडं सग्रासम् ईशजं पात्रे ।
अतिचिपिटलोहपात्र्या पिधाय संलिप्य वह्निना योज्यः ॥ र॰चू॰३.८८ ॥
<जारण:: इम्पोर्तन्चे for अल्छेम्य् अन्द् रसायन>
इयतैव रसायनत्वं पर्यवसिति किंतु वादस्य न प्राधान्यम् ।
सम्प्रत्युभयोरेव प्राधान्येन जारणोच्यते ॥ र॰चू॰३.८९ ॥
<पक्षछेद:: ऐम्>
घनरहितबीजजारणसम्प्राप्तदलादिसिद्धिकृतकृत्याः ।
कृपणाः प्राप्य समुद्रं वराटिकालाभसंतुष्टाः ॥ र॰चू॰३.९० ॥
विनैकम् अभ्रसत्त्वं नान्यो रसपक्षकर्तनसमर्थः ।
तेन निरुद्धप्रसरो नियम्यते बध्यते च सुखम् ॥ र॰चू॰३.९१ ॥
<अभ्र:: सुब्त्य्पेस्:: colour>
रक्तं पीतं च हेमार्थे कृष्णं हेमशरीरयोः ।
तारकर्मणि तच्छुक्लं काचकिट्टं सदा त्यजेत् ॥ र॰चू॰३.९२ ॥
<जारण:: समुख (?)>
त्रुटिशो दत्त्वा मृदितं सोष्णे खल्वेऽभ्रसत्त्वहेमादि ।
चरति रसेन्द्रः क्षितिखगवेतसजम्बीरबीजपूराम्लैः ।
पूर्वसाधितकाञ्जिकेनापि ॥ र॰चू॰३.९६ ॥
अभ्रकजारणम् आदौ गर्भद्रुतिजारणं च हेम्नोऽन्ते ।
यो जानाति न वादी वृथैव सो ऽर्थक्षयं कुरुते ॥ र॰चू॰३.९७ ॥
<गर्भद्रुति>
व्योमसत्त्वं समांशेन ताप्यसत्त्वेन संयुतम् ।
साकल्येन चरेद्देवि गर्भद्रावी भवेद्रसः ॥ र॰चू॰३.९८ ॥
एवं ताराभ्रादयः स्वस्वरिपुणा निर्व्यूढाः प्रयोजनमवलोक्य प्रयोज्याः ।
<गर्भद्रुति (२)॑ शुल्वाभ्र>
कमलघनमाक्षिकाणां चूर्णं समभागयोजितं मिलति ।
तच्छुल्वाभ्रं शीघ्रं चरति रसेन्द्रो द्रवति गर्भे ॥ र॰चू॰३.९९ ॥
<गर्भद्रुति:: definition>
गर्भद्रुतिम् अन्तरेण जारणैव न स्यादतस्तल्लक्षणमाह ।
वह्निव्यतिरेके ऽपि रसग्रासीकृतानां लोहानां द्रवत्वं गर्भद्रुतिः ॥ र॰चू॰३.१०० ॥
<बीज:: production>
बीजानां संस्कारः कर्तव्यस्ताप्यसत्त्वसंयोगात् ।
तेन द्रवन्ति गर्भा रसराजस्याम्लवर्गयोगेन ॥ र॰चू॰३.१०१ ॥
<बीज:: अनोन्य्मोउस्:: production>
शिलया निहतो नागस्ताप्यं वा सिन्धुना हतम् ।
ताभ्यां तु मारितं बीजं सूतके द्रवति क्षणात् ॥ र॰चू॰३.१०२ ॥
<??>
पट्वम्लक्षारगोमूत्रस्नुहीक्षीरप्रलेपिते ।
बहिश्च बद्धं वस्त्रेण भूर्जे ग्रासनिवेशितम् ।
क्षारारनालमूत्रेषु स्वेदयेत्त्रिदिनं भिषक् ॥ र॰चू॰३.१०३ ॥
<mercury:: पुरिfइचतिओन् अfतेर् जारण>
उष्णेनैवारनालेन क्षालयेज्जारितं रसम् ।
तं च किंचिन्मलेऽनष्टे घर्षयेदुत्थिते रसे ॥ र॰चू॰३.१०४ ॥
मलप्रविष्टं रसमल्पेनैव जम्भरसेन सिक्तं यावदुत्थानं घर्षयेदित्यर्थः ।
तदा न त्रुटिरिति गुरुसंकेतः ॥ र॰चू॰३.१०५ ॥
<जारण:: wइथ् कच्छपयन्त्र>
क्रमेणानेन दोलायां जार्यं ग्रासचतुष्टयम् ।
ततः कच्छपयन्त्रेण ज्वलने जारयेद्रसम् ॥ र॰चू॰३.१०६ ॥
<जारण>
नान्दीपयसि शरावोदरकुहरनिविष्टलोहसम्पुटगः ।
हरयोनिर् अन्तरा संजरति पुटैर्गगनगन्धादि ॥ र॰चू॰३.१०७ ॥
अङ्गारेण करीषेण वा पुटदानम् ॥ र॰चू॰३.१०८ ॥
<जारण:: wएइघ्त् of अद्देद् सुब्स्तन्चेस्, दण्डधारिन् एत्च्.>
चतुःषष्ट्यंशकः पूर्वो द्वात्रिंशांशो द्वितीयकः ।
तृतीयः षोडशांशस्तु चतुर्थो ऽष्टांश एव च ॥ र॰चू॰३.१०९ ॥
चतुःषष्ट्यंशकग्रासाद्दण्डधारी भवेद्रसः ।
जलौकावद् द्वितीये तु ग्रासयोगे सुरेश्वरि ॥ र॰चू॰३.११० ॥
ग्रासेन तु तृतीयेन काकविष्ठासमो भवेत् ।
ग्रासेन तु चतुर्थेन दधिमण्डसमो भवेत् ॥ र॰चू॰३.१११ ॥
अन्यद् दुर्जरत्वान्न लिखितम् ॥ र॰चू॰३.११२ ॥
<जारण:: wएइघ्त् of अद्देद् सुब्स्तन्चेस्>
भगवद्गोविन्दपादास्तु कलांशमेव ग्रासं लिखन्ति ।
यथा पञ्चभिरेवं ग्रासैर् घनसत्त्वं जारयित्वादौ ।
गर्भद्रावे निपुणो जारयति बीजं कलांशेन ॥ र॰चू॰३.११३ ॥
तन्मते चतुःषष्टिचत्वारिंशत्त्रिंशद्विंशतिषोडशांशाः पञ्च ग्रासाः ॥ र॰चू॰३.११४ ॥
<गर्भद्रुति:: सुइतब्ले क्षारस्>
जम्बीरबीजपूरचाङ्गेरीवेतसाम्लसंयोगात् ।
क्षारा भवन्ति नितरां गर्भद्रुतिजारणे शस्ताः ॥ र॰चू॰३.११५ ॥
<mercury:: रञ्जन>
तारकर्मण्यस्य न तथा प्रयोगो दृश्यते ।
केवलं निर्मलं ताम्रं वापितं दरदेन तु ।
कुरुते त्रिगुणं जीर्णं लाक्षारसनिभं रसम् ॥ र॰चू॰३.११६ ॥
<mercury:: रञ्जन>
गन्धकेन हतं नागं जारयेत् कमलोदरे ।
एतस्य त्रिगुणे जीर्णे लाक्षाभो जायते रसः ॥ र॰चू॰३.११७ ॥
एतत्तु नागसंधानं न रसायनकर्मणि ॥ र॰चू॰३.११८ ॥
<mercury:: रञ्जन>
किंवा यथोक्तसिद्धबीजोपरि त्रिगुणताम्रजारणात् तद्बीजं समजीर्णं स्वातन्त्र्येणैव रञ्जयति ॥ र॰चू॰३.११९ ॥
<बीज:: production>
कुटिलं विमला तीक्ष्णं समचूर्णं प्रकल्पयेत् ।
पुटितं पञ्चवारं तु तारे वाह्यं शनैर्धमेत् ।
यावद्दशगुणं तत् तु तावद्बीजं भवेच्छुभम् ॥ र॰चू॰३.१२० ॥
<बीज:: production>
सत्त्वं तालोद्भवं वङ्गं समं कृत्वा तु धारयेत् ।
तच्चूर्णं वाहयेत्तारे गुणान् यावत्तु षोडश ॥ र॰चू॰३.१२१ ॥
प्रतिबीजमिदं श्रेष्ठं पारदस्य निबन्धनम् ।
चारणात्सारणाच्चैव सहस्रांशेन विध्यति ॥ र॰चू॰३.१२२ ॥
<बीज:: => शतवेधिरस>
वङ्गाभ्रं वाहयेत्तारे गुणानि द्वादशैव तु ।
एतद्बीजे समे जीर्णे शतवेधी भवेद्रसः ॥ र॰चू॰३.१२३ ॥
<बीज:: हेमबीज>
कुनटीहतकरिणा वा रविणा वा ताप्यगन्धकहतेन ।
दरदनिहतासिना वा त्रिर् व्यूढं हेम तद्बीजम् ॥ र॰चू॰३.१२४ ॥
बलिना व्यूढं केवलमर्कमपि ।
<बीज:: => रसबन्धन>
नागाभ्रं वाहयेद्धेम्नि द्वादशैव गुणानि च ।
प्रतिबीजमिदं श्रेष्ठं पारदस्य तु बन्धनम् ॥ र॰चू॰३.१२५ ॥
<नागबीज>
माक्षिकेण हतं ताम्रं नागं च रञ्जयेन्मुहुः ।
तं नागं वाहयेद्बीजे द्विषोडशगुणानि च ॥ र॰चू॰३.१२६ ॥
बीजं त्व् इदं वरं श्रेष्ठं नागबीजं प्रकीर्तितम् ।
समचारितमात्रेण सहस्रांशेन विध्यति ॥ र॰चू॰३.१२७ ॥
<बीज:: रञ्जन of ँ>
मञ्जिष्ठा किंशुकं चैव खदिरं रक्तचन्दनम् ।
करवीरं देवदारु सरलो रजनीद्वयम् ॥ र॰चू॰३.१२८ ॥
अन्यानि रक्तपुष्पाणि पिष्ट्वा लाक्षारसेन तु ।
तिलं विपाचयेत्तेन कुर्याद् बीजादिरञ्जनम् ॥ र॰चू॰३.१२९ ॥
<सारणातैल:: production>
द्विगुणे रक्तपुष्पाणां रक्तपीतगणस्य च ।
क्वाथे चतुर्गुणं क्षीरं तैलमेकं सुरेश्वरि ॥ र॰चू॰३.१३० ॥
ज्योतिष्मतीकरञ्जाख्यकटुतुम्बीसमुद्भवम् ।
पाटलाकाकतुण्डाह्वमहाराष्ट्रीरसैः पृथक् ॥ र॰चू॰३.१३१ ॥
भेकसूकरमेषाहिमत्स्यकूर्मजलौकसाम् ।
वसया चैकया युक्तं षोडशांशैः सुपेषितैः ॥ र॰चू॰३.१३२ ॥
भूलतामलमाक्षीकद्वंद्वमेलापकौषधैः ।
पाचितं गालितं चैव सारणातैलमुच्यते ॥ र॰चू॰३.१३३ ॥
अत्र गन्धर्वतैलमपि रसहृदयस्वरसात् ॥ र॰चू॰३.१३४ ॥
<द्वन्द्वमेलापक>
ऊर्णाटङ्कणगिरिजतुमहिषीकर्णाक्षिमलेन्द्रगोपकर्कटका द्वंद्वमेलापकौषधानि ॥ र॰चू॰३.१३५ ॥
<"रञ्जकतैल">
यथाप्राप्तैः श्वेतपुष्पैर् नानावृक्षसमुद्भवैः ।
रसं चतुर्गुणं योज्यं कङ्गुनीतैलमध्यतः ॥ र॰चू॰३.१३६ ॥
पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् ।
द्रावितं तारबीजं तु ह्य् एकविंशतिवारकम् ॥ र॰चू॰३.१३७ ॥
रञ्जितं जायते तत्तु रसराजस्य रञ्जनम् ।
कुटिले बलम् अत्यधिकं रागस्तीक्ष्णे च पन्नगे स्नेहः ।
रागस्नेहबलानि तु कमले नित्यं प्रशंसन्ति ॥ र॰चू॰३.१३८ ॥
बलमास्ते ऽभ्रकसत्त्वे जारणरागाः प्रतिष्ठितास्तीक्ष्णे ।
बन्धश्च सारलौहे क्रामणमथ नागवङ्गगतम् ॥ र॰चू॰३.१३९ ॥
क्रामति तीक्ष्णेन रसस्तीक्ष्णेन च जीर्यते ग्रासः ।
हेम्नो योनिस्तीक्ष्णं रागान् गृह्णाति तीक्ष्णेन ॥ र॰चू॰३.१४० ॥
तदपि च दरदेन हतं कृत्वा वा माक्षिकेण रविसहितम् ।
वासितमपि वासनया घनवच्चार्यं च जार्यं च ॥ र॰चू॰३.१४१ ॥
<mercury:: बन्धन>
सर्वैर् एभिर् लौहैर् माक्षिकमृदितैर् द्रुतैस्तथा गर्भे ।
विडयोगेन च जीर्णे रसराजो बन्धम् उपयाति ॥ र॰चू॰३.१४२ ॥
<??>
निर्बीजं समजीर्णे पादोने षोडशांशं तु ।
अर्धेन पादकनकं पादेनैकेन तुल्यकनकं च ॥ र॰चू॰३.१४३ ॥
समादिजीर्णस्य सारणायोग्यत्वं शतादिवेधकत्वं च ।
इतो न्यूनजीर्णस्य पत्त्रलेपार्धकार एव ॥ र॰चू॰३.१४४ ॥
<पत्रलेप>
अत्यम्लितम् उद्वर्तिततारारिष्टादिपत्रम् अतिशुद्धम् ।
आलिप्य रसेन ततः क्रामणलिप्तं पुटेषु विश्रान्तम् ॥ र॰चू॰३.१४५ ॥
<पुटप्रकार>
पुटः प्रायेण चुल्लिकाधस्तादस्य ॥ र॰चू॰३.१४६ ॥
<वर्णपुट>
अर्धेन मिश्रयित्वा हेम्ना श्रेष्ठेन तद्दलं पुटितम् ।
क्षितिखगपटुरक्तमृदा वर्णपुटोऽयं ततो देयः ॥ र॰चू॰३.१४७ ॥
अर्धेनेत्युपलक्षणम् ॥ र॰चू॰३.१४८ ॥
<गोल्द्:: production>
तारार्कमर्कटशिरःशिलागन्धान् प्रचूर्णयेत् ।
पचेद्भूयः क्षिपन् गन्धं यथा सूतो न गच्छति ।
पक्वं तद्धेमपत्रस्थं हेमतां प्रतिपद्यते ॥ र॰चू॰३.१४९ ॥
<??>
रज्जुभिर् भेकरङ्गाद्यैः स्तम्भयोः सारलौहयोः ।
बध्यते रसमातङ्गो युक्त्या श्रीगुरुदत्तया ॥ र॰चू॰३.१५० ॥
<गोल्द्:: production>
शिलाचतुष्कं गन्धेशौ काचकूप्यां सुवर्णकृत् ।
कीलालायःकृतो योगः खटिकालवणाधिकः ॥ र॰चू॰३.१५१ ॥
<गोल्द्:: production (?)>
मण्डूकपारदशिलाबलयः समानाः संमर्दिताः क्षितिबिलेशयमन्त्रजिह्वैः ।
यन्त्रोत्तमेन गुरुभिः प्रतिपादितेन स्वल्पैर्दिनैरिह पतति न विस्मयध्वम् ॥ र॰चू॰३.१५२ ॥
<बीज:: लौहभेकि>
लोहं गन्धं टङ्कणं भ्रामयित्वा तेनोन्मिश्रं भेकम् आवर्तयेत्तु ।
<बीज:: तारतालकी>
तालं कृत्वा तुर्यवङ्गान्तराले रूप्यस्यान्तस्तच्च सिद्धोक्तबीजे ॥ र॰चू॰३.१५३ ॥
इतीदं लौहभेकितारतालकीति सिद्धमते बीजद्वयम् ॥ र॰चू॰३.१५४ ॥
<??>
द्रुतदर्दुरपूतिलौहतापः कुरुते हिङ्गुलखण्डपक्षखण्डम् ।
शशिहेलिहिरण्यमूषिका ध्रुवम् अक्षोणधियामनेन लक्ष्मीम् ॥ र॰चू॰३.१५५ ॥
<mercury (?):: स्तबिलिसतिओन्>
दरदगुटिकाश् चन्द्रक्षोदैर् निरन्तरम् आवृतास् तरणिकनकैः किंवा गन्धाश्मना सह भूरिणा ।
रचय सिकतायन्त्रे युक्त्या मुहुर् मुहुर् इत्यसौ हुतभुजि वसन्न स्थेमानं कथञ्चन मुञ्चति ॥ र॰चू॰३.१५६ ॥
<बाह्यद्रुति>
अथ बाह्यद्रुतयः ।
एतास्तु केवलमारोटमेव मिलिता निबध्नन्ति ।
फलमस्य कल्पप्रमितमायुः ।
किंवा पूर्वोक्तग्रासक्रमजारिताः पूर्वोक्तफलप्रदा भवन्ति ।
उच्यते स समजीर्णश्चायं शतवेधी द्विगुणजीर्णः सहस्रवेधी ।
एवं लक्षायुतकोटिवेधी समनुसर्तव्यः ।
चतुःषष्टिगुणजीर्णस्तु धूमस्पर्शावलोकशब्दतोऽपि विध्यति ॥ र॰चू॰३.१५७ ॥
<सारण:: प्रोपेर् च्रुचिब्ले>
अन्धमूषा तु कर्तव्या गोस्तनाकारसन्निभा ।
सैव छिद्रान्विता मध्ये गम्भीरा सारणोचिता ॥ र॰चू॰३.१५८ ॥
<सारण:: प्रोचेदुरे>
अस्यामेव मूषायां तत्तैलमपगतकल्कविमलमापूर्य तस्मिन्नधिकम् ऊष्मात्मनि द्रुतबीजप्रक्षेपसमकालमेव समावर्तनीयः सूतवरस्तदनु सद्यो मूषाननम् आच्छादनीयम् एतत् तैलाक्तपटखण्डग्रन्थिबन्धेन अरुणसितबीजाभ्याम् अमुना सारणकर्मणा मिलितश्चेत्सारितः सम्यक् संयमितश्च विज्ञेयः प्रतिसारितस्तु द्विगुणबीजेन तद्वदनुसारितस्तु त्रिगुणबीजेन अत्र त्रिविधायामेव सारणायामरुणसितकर्मणोः क्रामणार्थम् ईषत्पन्नगवङ्गौ विश्राणनीयाविति ।
<=> कोटिवेधिरस>
सारितो जारितश्चैव पुनः सारितजारितः ।
सप्तशृङ्खलिकायोगात्कोटिवेधी भवेद्रसः ।
इत्यादीनि कर्माणि पुनः केवलमीश्वरानुग्रहसाध्यत्वान्न प्रपञ्चितानि ॥ र॰चू॰३.१५९ ॥
शिलया निहतो नागो वङ्गं वा तालकेन शुद्धेन ।
क्रमशः पीते शुक्ले क्रामणमेतत्समुद्दिष्टम् ॥ र॰चू॰३.१६० ॥
<विडवटी>
खोटकं स्वर्णसंतुल्यं समावर्त्तं तु कारयेत् ।
माक्षिकं कान्तपाषाणं शिलागन्धं समं समम् ॥ र॰चू॰३.१६१ ॥
भूनागैर्मर्दयेद्यामं वल्लमात्रं वटीकृतम् ।
एषा विडवटी ख्याता योज्या सर्वत्र जारणे ॥ र॰चू॰३.१६२ ॥
<mercury:: रञ्जन => शतवेधिन्>
दरदं माक्षिकं गन्धं राजावर्तं प्रवालकम् ।
शिलातुत्थं च कुङ्कुष्ठं समचूर्णं प्रकल्पयेत् ॥ र॰चू॰३.१६३ ॥
वर्गाभ्यां पीतरक्ताभ्यां कङ्गुणीतैलकैः सह ।
भावयेद्दिवसान् पञ्च सूर्यतापे पुनः पुनः ॥ र॰चू॰३.१६४ ॥
जारितं सूतखोटं च कल्केनानेन संयुतम् ।
वालुकाहण्डिमध्यस्थं शरावपुटमध्यगम् ॥ र॰चू॰३.१६५ ॥
त्रिदिनं पाचयेच्चुल्ल्यां कल्को देयः पुनः पुनः ।
रञ्जितो जायते सूतः शतवेधी न संशयः ॥ र॰चू॰३.१६६ ॥
<mercury:: रञ्जन (?)>
लौहं गन्धं टङ्कणं ध्मातमेतत् तुल्यं चूर्णैर् भानुभेकाहिवङ्गैः ।
सूतं गन्धं सर्वसाम्येन कूप्यामीषत्साध्यं चात्र नो विस्मयध्वम् ॥ र॰चू॰३.१६७ ॥
<हेमकृष्टि:: production>
रसदरदताप्यगन्धकमनःशिलाभिः क्रमेण वृद्धाभिः ।
पुटमृतशुल्बं तारे त्रिर्व्यूढं हेमकृष्टिरियम् ॥ र॰चू॰३.१६८ ॥
<शतांशविधि (१)>
अष्टानवतिभागं च रूप्यमेकं च हाटकम् ।
सूतैकेन च वेधः स्याच्छतांशविधिर् ईरितः ॥ र॰चू॰३.१६९ ॥
<शतांशविधि (२)>
चन्द्रस्यैकोनपञ्चाशत्तथा शुद्धस्य भास्वतः ।
वह्निरेकः शम्भुरेकः शतांशविधिरीरितः ॥ र॰चू॰३.१७० ॥
द्वावेव रजतयोनिताम्रयोनित्वेनोपचर्येते ।
एवं सहस्रवेधादयो जारणबीजवशाद् अनुसर्तव्याः ॥ र॰चू॰३.१७१ ॥
<वेधविधान>
चत्वारः प्रतिवापाः सुलक्षया मत्स्यपित्तभावितया ।
तारे वा शुल्बे वा तारारिष्टेऽथवा कृष्टौ ॥ र॰चू॰३.१७२ ॥
तदनु क्रामणमृदितः सिक्थकपरिवेष्टितो देयः ।
अतिविद्रुते च तस्मिन् वेधोऽसौ कुन्तवेधेन ॥ र॰चू॰३.१७३ ॥
तदनु सिद्धतैलेनाप्लाव्य भस्मावछादनपूर्वकम् अवतार्य स्वाङ्गशैत्यपर्यन्तम् अपेक्षितव्यमिति ॥ र॰चू॰३.१७४ ॥
<सेल्लिन्ग् fअच्तितिओउस् गोल्द्/सिल्वेर्>
विद्धं रसेन यद्द्रव्यं पक्षार्धं स्थापयेद्भुवि ।
तत आनीय नगरे विक्रीणीत विचक्षणः ॥ र॰चू॰३.१७५ ॥
<बुभुक्षितविधिः>
समर्पितः सैन्धवखण्डकोटरे विधाय पिष्टिं सिकताख्ययन्त्रे ।
विशुद्धगन्धादिभिरीषदग्निना समस्तम् अश्नात्यशनीयम् ईशजः ॥ र॰चू॰३.१७६ ॥
<रञ्जन (??)>
कर्षाष्टङ्कणकञ्जलीहरिरसैर् गन्धस्य च द्वौ रजः सिद्धाख्यं सकलैः कृतं पलमथ द्वित्रैश्च लोहैः श्रितम् ।
भूयो गन्धयुतं चतुर्दशपुटैः स्यादिन्द्रगोपारुणं तत्तारे लघुना पुटेन धमनेनार्कछवीम् ईहते ॥ र॰चू॰३.१७७ ॥
कर्षा इति बहुवचनात्त्रयः ।
कर्मास्य त्रिधा पत्रलेपेनेति ज्ञेयम् ॥ र॰चू॰३.१७८ ॥
<गोल्द्:: production>
तुल्यं तारं ताम्रम् आदाय स्वच्छं तावत्तप्तं गन्धचूर्णे कुनट्याम् ।
न्यस्तं यावज्जीर्यते खण्डशोऽथ प्राज्यैर्गाधैः पाचयेत्काचकूप्याम् ॥ र॰चू॰३.१७९ ॥
खण्डाकारं तादृशं टङ्कणेन स्वर्णान्तःस्थं भस्ममूषान्तराले ।
ध्मातं साधु स्यात्सुवर्णं सतारं हीने वर्णे रञ्जयेन्माक्षिकेण ॥ र॰चू॰३.१८० ॥
<चोप्पेर्:: प्रेपरिन्ग् अ द्रवीकारक>
तालताम्रशिलागन्धसंयुतं दरदं यदि ।
कूपिकायां मुहुः पक्वं द्रवकारि तदा मतम् ॥ र॰चू॰३.१८१ ॥
<क्षेत्रीकरणम्>
स्निग्धं स्विन्नं विरिक्तं यन्नीरुजं सिद्धभेषजैः ।
एतत्क्षेत्रं समासेन रसबीजार्पणक्षयम् ॥ र॰चू॰३.१८२ ॥
<पञ्चकर्माणि>
स्निग्धं प्रातस्त्रिदिनं घृतसैन्धवपानेन स्विन्नं वस्त्रादिपुटवह्निना विरिक्तम् इच्छाभेदिना वान्तं वचादिरसेन पलाशबीजविडङ्गगुडमोदकभक्षणात् कीटपातनम् अपि कर्तव्यम् ।
नीरुजं संवत्सरमयनं वा परिशोधितैः शृङ्गाराभ्रलक्ष्मीविलासाद्यभ्रसत्त्वप्रधानप्रयोगैर् इति ॥ र॰चू॰३.१८३ ॥
निम्बक्वाथं भस्मसूतं वचाचूर्णयुतं पिबेत् ।
पीतान्तं वमनं तेन जायते क्लेशवर्जितम् ॥ र॰चू॰३.१८४ ॥
पञ्चकर्मभयत्रस्तैः सुकुमारैर्नरैरिह ।
रेचनान्ते इदं सेव्यं सर्वदोषापनुत्तये ॥ र॰चू॰३.१८५ ॥
अक्षेत्रीकरणे सूतो मृतोऽपि विषवद्भवेत् ।
फलसिद्धिः कुतस्तस्य सुबीजस्योषरे यथा ॥ र॰चू॰३.१८६ ॥
अकृते क्षेत्रीकरणे रसायनं यो नरः प्रयुञ्जीत ।
तस्य क्रामति न रसः सर्वाङ्गदोषकृद्भवति ॥ र॰चू॰३.१८७ ॥
कर्तव्यं क्षेत्रकरणं सर्वस्मिंश्च रसायने ।
न क्षेत्रकरणाद्देवि किंचित् कुर्याद् रसायनम् ॥ र॰चू॰३.१८८ ॥
इति शुद्धो जातबलः शाल्योदनजाङ्गलादिमुद्गरसैः ।
क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं मतिमान् ॥ र॰चू॰३.१८९ ॥
मृताभ्रं भक्षयेन्मासम् एकम् आदौ विचक्षणः ।
पश्चात्स योज्यतां देहे क्षेत्रीकरणमिच्छता ॥ र॰चू॰३.१९० ॥
घनसत्त्वपादजीर्णो ऽर्धकान्तजीर्णश्च तीक्ष्णसमजीर्णः ।
क्षेत्रीकरणाय रसः प्रयुज्यते भूय आरोग्याय ॥ र॰चू॰३.१९१ ॥
योऽग्निसहत्वं प्राप्तः संजातो हेमतारकर्ता च ।
शुद्धो रसश्च भुक्तौ विधिना सिद्धिप्रदो भवति ॥ र॰चू॰३.१९२ ॥
<mercury:: जीर्ण:: रिघ्त् मेअसुरे>
घनसत्त्वकान्तताम्रसङ्करतीक्ष्णादिजीर्णस्य ।
सूतस्य गुञ्जावृद्ध्या माषकमात्रं परा मात्रा ॥ र॰चू॰३.१९३ ॥
गुञ्जामात्रं रसं देवि हेमजीर्णं तु भक्षयेत् ।
द्विगुणं तारजीर्णस्य रविजीर्णस्य च त्रयम् ॥ र॰चू॰३.१९४ ॥
तीक्ष्णाभ्रकान्तमाषैकं प्रायो मात्रेति कीर्तिता ।
वज्रवैक्रान्तजीर्णं तु भक्षयेत्सर्षपोपमम् ॥ र॰चू॰३.१९५ ॥
नागवङ्गादिभिर् बद्धं विषोपविषबन्धितम् ।
मूत्रशुक्रहठाद् बद्धं त्यजेत्कल्पे रसायने ॥ र॰चू॰३.१९६ ॥
<mercury:: जीर्ण:: लोन्गेवित्य्>
भस्मनस्तीक्ष्णजीर्णस्य लक्षायुः पलभक्षणात् ।
एवं भुक्त्वा दशपलं तीक्ष्णजीर्णस्य मानवः ।
तदा जीवेन्महाकल्पं प्रलयान्ते शिवं व्रजेत् ॥ र॰चू॰३.१९७ ॥
भस्मनः शुल्बजीर्णस्य लक्षायुः पलभक्षणात् ।
कोट्यायुर्ब्राह्ममायुष्यं वैष्णवं रुद्रजीवितम् ।
द्वित्रिचतुःपञ्चषष्ठे महाकल्पायुरीश्वरः ॥ र॰चू॰३.१९८ ॥
भस्मनो हेमजीर्णस्य लक्षायुः पलभक्षणात् ।
विष्णुरुद्रशिवत्वं च द्वित्रिचतुर्भिराप्नुयात् ॥ र॰चू॰३.१९९ ॥
गुञ्जामात्रं हेमजीर्णं ज्ञात्वा चाग्निबलाबलम् ।
घृतेन मधुना चाद्यात्ताम्बूलं कामिनीं त्यजेत् ॥ र॰चू॰३.२०० ॥
एको हि दोषः सूक्ष्मोऽस्ति भक्षिते भस्मसूतके ।
त्रिसप्ताहाद्वरारोहे कामान्धो जायते नरः ॥ र॰चू॰३.२०१ ॥
नारीसंगाद्विना देवि ह्यजीर्णं तस्य जायते ।
मैथुनाच्चलिते शुक्रे जायते प्राणसंशयः ॥ र॰चू॰३.२०२ ॥
युवत्या जल्पनं कार्यं तावत्तन्मैथुनं त्यजेत् ॥ र॰चू॰३.२०३ ॥
ब्रह्मचर्येण वा योगी सदा सेवेत सूतकम् ।
समाधिकरणं तस्य क्रामणं परमं मतम् ॥ र॰चू॰३.२०४ ॥
प्रभाते भक्षयेत्सूतं पथ्यं यामद्वयाधिके ।
न लङ्घयेत् त्रियामं तु मध्याह्ने चैव भोजयेत् ॥ र॰चू॰३.२०५ ॥
सकणाममृतां भुक्त्वा मले बद्धे स्वपेन्निशि ।
ताम्बूलान्तर्गते सूते किट्टबन्धो न जायते ॥ र॰चू॰३.२०६ ॥
<mercury:: सेवन:: रुलेस् of चोन्दुच्त्>
अतिपानं चात्यशनम् अतिनिद्रां प्रजागरम् ।
स्त्रीणाम् अतिप्रसङ्गं चाप्यध्वानं च विवर्जयेत् ॥ र॰चू॰३.२०७ ॥
अतिकोपं चातिहर्षं नातिदुःखम् अतिस्पृहाम् ।
शुष्कवादं जलक्रीडाम् अतिचिन्तां च वर्जयेत् ॥ र॰चू॰३.२०८ ॥
<ककाराष्टक>
कूष्माण्डकं कर्कटीं च कलिङ्गं कारवेल्लकम् ।
कुसुम्भिकां च कर्कोटीं कदलीं काकमाचिकाम् ॥ र॰चू॰३.२०९ ॥
ककाराष्टकमेतद्धि वर्जयेद्रसभक्षकः ।
पातकं च न कर्तव्यं पशुसङ्गं च वर्जयेत् ॥ र॰चू॰३.२१० ॥
चतुष्पथे न गन्तव्यं विण्मूत्रं च न लङ्घयेत् ।
धीराणां निन्दनं देवि स्त्रीणां निन्दां च वर्जयेत् ॥ र॰चू॰३.२११ ॥
सत्येन वचनं ब्रूयादप्रियं न वदेद्वचः ।
कुलत्थानतसीतैलं तिलान्माषान्मसूरकान् ॥ र॰चू॰३.२१२ ॥
कपोतान् काञ्जिकं चैव तक्रभक्तं च वर्जयेत् ।
हेमचन्द्रादयः प्राहुः कुक्कुटानपि वर्जयेत् ॥ र॰चू॰३.२१३ ॥
कट्वम्लतिक्तलवणं पित्तलं वातलं च यत् ।
बदरं नारिकेलं च सहकारं सुवर्चलम् ॥ र॰चू॰३.२१४ ॥
नागरङ्गं कामरङ्गं शोभाञ्जनमपि त्यजेत् ।
न वादजल्पनं कुर्याद्दिवा चापि न पर्यटेत् ॥ र॰चू॰३.२१५ ॥
नैवेद्यं नैव भुञ्जति कर्पूरं वर्जयेत्सदा ।
कुङ्कुमालेपनं वर्ज्यं न स्वपेत्कुशलः क्षितौ ॥ र॰चू॰३.२१६ ॥
न च हन्यात्कुमारीं च मातुलानीं च वर्जयेत् ।
क्षुधार्तो नैव तिष्ठेत ह्यजीर्णं नैव कारयेत् ।
दिवारात्रं जपेन्मन्त्रं नासत्यवचनं वदेत् ॥ र॰चू॰३.२१७ ॥
हितं मुद्गान्नदुग्धाज्यशाल्यन्नानि सदा यतः ।
शाकं पौनर्नवं देवि मेघनादं सवास्तुकम् ॥ र॰चू॰३.२१८ ॥
सैन्धवं नागरं मुस्तां पद्ममूलानि भक्षयेत् ।
आत्मज्ञानं कथा पूजा शिवस्य च विशेषतः ॥ र॰चू॰३.२१९ ॥
एतांस्तु समयाद्भद्रे न लङ्घेद् रसभक्षणे ।
एवं चैव महाव्याधीन् रसेऽजीर्णे तु लक्षयेत् ॥ र॰चू॰३.२२० ॥
<रसाजीर्णशमनम्>
कार्षिकं स्वर्जिकक्षारं कारवेल्लीरसप्लुतम् ।
गोमूत्रं सैन्धवयुतं तस्य संस्रावणं परम् ॥ र॰चू॰३.२२१ ॥
सिन्धुकर्कोटिगोमूत्रं कारवेल्लीरसप्लुतम् ।
सौवर्चलसमोपेतं रसाजीर्णी पिबेद् बुधः ॥ र॰चू॰३.२२२ ॥
शरपुङ्खां सुरदालीं पटोलबीजं च काकमाचीं च ।
एकतमां तु क्वथिताम् अविजीर्णरसायने तु पिबेत् ॥ र॰चू॰३.२२३ ॥
कथमपि यद्यज्ञानान्नागादिकलङ्कितो रसो भुक्तः ।
तत्स्रावणाय विज्ञः पिबेच्छिफां कारवेल्लभवाम् ॥ र॰चू॰३.२२४ ॥
निषिद्धवर्जं मतिमान्विचित्ररसभोजनं कुर्यात् ।
स्रवति न यथा रसेन्द्रो न च नश्यति जाठरो वह्निः ॥ र॰चू॰३.२२५ ॥
क्षारक्षोणीरुहाणां विधिवदवहिताः क्षारम् आकल्पयध्वम् ।
कासीसस्वर्जिकाभ्यां पटुचयनरसारक्षपापक्षिटङ्कैः ॥ र॰चू॰३.२२६ ॥
कूपीभिः पातयध्वं बहु बहुलयवक्षारमम्भो हि कल्प्यम् ।
तस्मिन्नाधत्त धीराः सकवलम् अगजावल्लभं जारणाय ॥ र॰चू॰३.२२७ ॥


रसेन्द्रचूडामणि ४[सम्पाद्यताम्]

अथाभ्रीयं व्याचक्ष्महे ॥ र॰चू॰४.१ ॥
तत्किल निखिलजरामरणपरिहारेण सुधारससध्रीचीनत्वम् अङ्गीकरोति ।
साधनानामस्य बहुभिर्बहुधोपवर्णितानां रसमङ्गलीयमन्यतमं विलिखामः ॥ र॰चू॰४.२ ॥
<अभ्र:: वज्र>
यदञ्जननिभं क्षिप्तं न वह्नौ विकृतिं व्रजेत् ।
वज्रसंज्ञं हि तद्योज्यमभ्रं सर्वत्र नेतरत् ॥ र॰चू॰४.३ ॥
<अभ्र:: सुब्त्य्पेस्>
वज्रं भेकवपुः कृष्णमभ्रकं त्रिविधं मतम् ।
ततः कृष्णं समादाय पाचयेत् काण्डिके रसे ॥ र॰चू॰४.४ ॥
<अभ्र:: सुब्त्य्पेस्:: ॠउअलित्य्>
ततः कृष्णं समादायेत्यनेन कृष्णत्वसामान्याद् वज्रकृष्णाभ्रयोर् ग्रहणम् ।
भेकवपुस्तु हरितपीतादिवर्णं न ग्राह्यमिति ॥ र॰चू॰४.५ ॥
<अभ्र:: सत्त्वपातन>
चूर्णीकृतं गगनपत्रमथारनाले धृत्वा दिनैकम् अवशोष्य च सूरणस्य ।
भाव्यं रसैस्तदनु मूलरसैः कदल्याः पादांशटङ्कणयुतं शफरैः समेतम् ॥ र॰चू॰४.६ ॥
पिण्डीकृतं तु बहुधा महिषीमलेन संशोष्य कोष्ठगतमाशु धमेद्धठाग्नौ ।
सत्त्वं पतत्यतिरसायनजारणार्थं योग्यं भवेत् सकललौहगुणाधिकं च ॥ र॰चू॰४.७ ॥
<अभ्र:: सत्त्व:: एकीकरण>
कणशो यद्भवेत्सत्त्वं मूषायां प्रणिधाय तत् ।
मित्रपञ्चकयुग्ध्मातमेकीभवति घोषवत् ॥ र॰चू॰४.८ ॥
<पञ्चमित्र>
घृतमधुगुग्गुलुगुञ्जाटङ्कणमिति पञ्चमित्रसंज्ञं च ।
मेलयति सर्वधातूनङ्गाराग्नौ तु धमनेन ॥ र॰चू॰४.९ ॥
समगन्धमभ्रसत्त्वं सटङ्कणं शूकमूषया ध्मातम् ।
सार्धं तत्सत्त्वरजः सपारदं सकलकार्यकरम् ॥ र॰चू॰४.१० ॥
<अभ्र:: सत्त्व:: शोधन, मारण>
अयोधातुवच्छोधनमारणमेतस्य ॥ र॰चू॰४.११ ॥
<अभ्र:: सत्त्व:: सेवन>
चूर्णम् अभ्रकसत्त्वस्य कान्तलोहस्य वा ततः ।
तीक्ष्णस्य महादेवि त्रिफलाक्वाथभावितम् ॥ र॰चू॰४.१२ ॥
यावदञ्जनसंकाशं वस्त्रच्छन्नं विशोष्य च ।
भृङ्गामलकसारेण हरिद्राया रसेन च ॥ र॰चू॰४.१३ ॥
मिश्रितं क्रौञ्चजघृतमधुसंमिश्रितं ततः ।
लोहसम्पुटमध्यस्थं मासं धान्ये प्रतिष्ठितम् ॥ र॰चू॰४.१४ ॥
घृतेन मधुना लिह्यात्क्षेत्रीकरणमुत्तमम् ।
एवं वर्षप्रयोगेन सहस्रायुर्भवेन्नरः ॥ र॰चू॰४.१५ ॥
<अभ्र:: वज्र:: शोधन>
वज्राभ्रं च धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत् ।
भिन्नपत्रं तु तत्कृत्वा तण्डुलीयाम्लयोर्द्रवैः ।
भावयेदष्टयामं तदेवं शुध्यति चाभ्रकम् ॥ र॰चू॰४.१६ ॥
धान्याभ्रभस्मप्रयोगस्यारुणकृष्णभेदेन प्रकारद्वयं विलिख्यते ॥ र॰चू॰४.१७ ॥
<अभ्र:: मारण>
कृत्वा धान्याभ्रकं तत्तु शोषयित्वा तु मर्दयेत् ।
अर्कक्षीरौदनं मर्द्यमर्कमूलद्रवेण वा ॥ र॰चू॰४.१८ ॥
वेष्टयेदर्कपत्रैस्तु सम्यग्गजपुटे पचेत् ।
पुनर्मर्द्यं पुनः पाच्यं सप्तवारं प्रयत्नतः ॥ र॰चू॰४.१९ ॥
ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम् ।
म्रियते नात्र सन्देहः सर्वरोगेषु योजयेत् ॥ र॰चू॰४.२० ॥
<अभ्र:: मारण>
अभ्रं टङ्कणसम्पिष्टं स्थाल्यां मृदयसोः पचेत् ।
म्रियते नात्र सन्देहो गुणाधिक्याय वौषधैः ॥ र॰चू॰४.२१ ॥
तण्डुलीयकबृहतीनागवल्लीतगरपुनर्नवाहिलमोचिकामण्डूकपर्णीतिक्तिकाखुपर्णिकामदनार्कार्द्रकपलाशसूतमातृकादिभिर् मर्दनपुटनैरपि मारणीयम् ॥ र॰चू॰४.२२ ॥
<अभ्र:: मारण (?)>
धान्याभ्रकस्य भागैकं द्वौ भागौ टङ्कणस्य च ।
पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् ।
स्वभावशीतलं चूर्णं सर्वयोगेषु योजयेत् ॥ र॰चू॰४.२३ ॥
<अभ्र:: मारण>
धान्याभ्रकं समादाय मुस्ताक्वाथैः पुटत्रयम् ।
तद्वत्पुनर्नवानीरैः कासमर्दरसैस्तथा ॥ र॰चू॰४.२४ ॥
नागवल्लीरसैः सूर्यक्षीरैर्देयं पृथक् पृथक् ।
दिनं दिनं मर्दयित्वा क्वाथैर्वटजटोद्भवैः ॥ र॰चू॰४.२५ ॥
दत्त्वा पुटत्रयं पश्चात्त्रिः पुटेन्मुसलीरसैः ।
त्रिर्गोक्षुरकषायेण त्रिःपुटेद्वानरीरसैः ॥ र॰चू॰४.२६ ॥
मोचकन्दरसैः पाच्यं त्रिरात्रं कोकिलाक्षकैः ।
रसैः पुटेच्च लोध्रस्य क्षीरादेकपुटं ततः ॥ र॰चू॰४.२७ ॥
दध्ना घृतेन मधुना स्वच्छया सितया तथा ।
एकमेकं पुटं दद्यादभ्रस्यैवं मृतिर्भवेत् ॥ र॰चू॰४.२८ ॥
सर्वरोगहरं व्योम जायते योगवाहकम् ।
कामिनीमददर्पघ्नं शस्तं पुंस्त्वोपघातिनाम् ॥ र॰चू॰४.२९ ॥
वृष्यमायुष्करं शुक्रवृद्धिसन्तानकारकम् ।
<अभ्र:: मारण (?)>
रम्भाद्भिरभ्रं लवणेन पिष्ट्वा चक्रीकृतं टङ्कणमध्यवर्ति ।
दग्धेन्धनेषु व्यजनानिलेन स्नुह्यर्कमूलाम्बुपुटं च सिद्ध्यै ॥ र॰चू॰४.३० ॥
<अभ्र:: भस्मन्:: forमुलतिओन्स्>
तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत् ।
घृते जीर्णे तदभ्रं तु सर्वकार्येषु योजयेत् ॥ र॰चू॰४.३१ ॥
<अभ्र:: भस्मन्:: forमुलतिओन्स्>
त्रिफलोत्थकषायस्य पलान्यादाय षोडश ।
गोघृतस्य पलान्यष्टौ मृताभ्रस्य पलान् दश ॥ र॰चू॰४.३२ ॥
एकीकृत्य लोहपात्रे पाचयेन्मृदुनाग्निना ।
द्रवे जीर्णे समादाय सर्वरोगेषु योजयेत् ॥ र॰चू॰४.३३ ॥
<??>
अरुणस्य पुनर् अमृतीकरणेन गुणवृद्धिवर्णहानस्तः ॥ र॰चू॰४.३४ ॥
अथ प्रसङ्गाद्द्रुतयो लिख्यन्ते ॥ र॰चू॰४.३५ ॥
<अभ्र:: द्रुति>
अगस्तिपुष्पनिर्यासैर्मर्दितः सूरणोदरे ।
गोष्ठभूस्थो घनो मासं जायते जलसंनिभः ॥ र॰चू॰४.३६ ॥
<अभ्र:: द्रुति>
स्वरसेन वज्रवल्ल्याः पिष्टं सौवर्चलान्वितं गगनम् ।
पक्वं च शरावपुटे बहुवारं भवति रसरूपम् ॥ र॰चू॰४.३७ ॥
<अभ्र:: द्रुति>
निजरसबहुपरिभावितसुरदालीचूर्णवापेन ।
द्रवति पुनः संस्थानं भजते गगनं न कालेऽपि ॥ र॰चू॰४.३८ ॥
<अभ्र:: सत्त्व:: द्रुति>
निजरसशतपरिभावितकञ्चुकिकन्दोत्थपरिवापात् ।
द्रुतमास्तेऽभ्रकसत्त्वं तथैव सर्वाणि लोहानि ॥ र॰चू॰४.३९ ॥
<द्रुति:: मेलापन>
कृष्णागुरुणा मिलितै रसोनसितरामठैरिमा द्रुतयः ।
सोष्णे मिलन्ति मर्द्याः स्त्रीकुसुमपलाशबीजरसैः ॥ र॰चू॰४.४० ॥
<जेwएल्स्:: द्रुति>
मुक्ताफलानि सप्ताहं वेतसाम्लेन भावयेत् ।
जम्बीरोदरमध्ये तु धान्यराशौ निधापयेत् ॥ र॰चू॰४.४१ ॥
पुटपाकेन तच्चूर्णं द्रवते सलिलं यथा ।
कुरुते योगराजोऽयं रत्नानां द्रावणं प्रिये ॥ र॰चू॰४.४२ ॥
<अभ्र (?):: सत्त्व:: पातन>
गुडः पुरस्तथा लाक्षा पिण्याकं टङ्कणं तथा ।
ऊर्णा सर्जरसश्चैव क्षुद्रमीनसमन्वितम् ॥ र॰चू॰४.४३ ॥
एतत्सर्वं तु संचूर्ण्य छागदुग्धेन पिण्डिकाः ।
कृता ध्माताः खराङ्गारैः सत्त्वं मुञ्चन्ति नान्यथा ॥ र॰चू॰४.४४ ॥
पाषाणमृत्तिकादीनि सर्वलोहानि वा पृथक् ।
अन्यानि यान्यसाध्यानि व्योमसत्त्वस्य का कथा ॥ र॰चू॰४.४५ ॥


रसेन्द्रचूडामणि ५[सम्पाद्यताम्]

<गन्धक:: शोधन (मेछनिचल्)>
आदौ गन्धकटङ्कादि क्षालयेज्जम्भकरिणा ।
दृढसंलग्नधूल्यादि मलं तेन विशीर्यते ॥ र॰चू॰५.१ ॥
<सुल्fउर्:: शोधन>
गन्धः सक्षीरभाण्डस्थो वस्त्रे कूर्मपुटाच्छुचिः ।
<सुल्fउर्:: शोधन>
अथवा काञ्जिके तद्वत्सघृते शुद्धिमाप्नुयात् ॥ र॰चू॰५.२ ॥
गन्धकमत्र नवनीताख्यमुपादेयम् ॥ र॰चू॰५.३ ॥
<सुल्fउर्:: शोधन>
लौहपात्रे विनिक्षिप्य घृतम् अग्नौ प्रतापयेत् ।
तप्ते घृते तत्समानं क्षिपेद्गन्धकजं रजः ॥ र॰चू॰५.४ ॥
विद्रुतं गन्धकं ज्ञात्वा दुग्धमध्ये विनिक्षिपेत् ।
एवं गन्धकशुद्धिः स्यात्सर्वकार्येषु योजयेत् ॥ र॰चू॰५.५ ॥
<सुल्fउर्:: रेमोवल् of "स्मेल्ल्">
गन्धकस्य च पादांशं दत्त्वा च टङ्कणं पुनः ।
मर्दयेन्मातुलुङ्गाम्लै रुवुतैलेन भावयेत् ।
चूर्णं पाषाणगं कृत्वा शनैर् गन्धं खरातपे ॥ र॰चू॰५.६ ॥
विचूर्ण्य गन्धकं क्षीरे घनीभावावधिं पचेत् ।
ततः सूर्यावर्त्तरसं पुनर्दत्त्वा पचेच्छनैः ॥ र॰चू॰५.७ ॥
पश्चाच्च पातयेत्प्राज्ञो जले त्रैफलसम्भवे ।
जहाति गन्धको गन्धं निजं नास्तीह संशयः ॥ र॰चू॰५.८ ॥
<सुल्fउर्:: रेमोवल् of "स्मेल्ल्">
देवदाल्यम्लपर्णी वा नागरं वाथ दाडिमम् ।
मातुलुङ्गं यथालाभं द्रवमेकस्य वा हरेत् ॥ र॰चू॰५.९ ॥
गन्धकस्य तु पादांशं टङ्कणं द्रवसंयुतम् ।
अनयोर्गन्धकं भाव्यं त्रिभिर्वारैस् ततः पुनः ॥ र॰चू॰५.१० ॥
धूस्तूरस्तुलसीकृष्णा लशुनं देवदालिका ।
शिग्रुमूलं काकमाची कर्पूरः शङ्खिनीद्वयी ॥ र॰चू॰५.११ ॥
कृष्णागुरुश्च कस्तूरी वन्ध्याकर्कोटकीद्वयी ।
मातुलुङ्गरसैः पिष्ट्वा क्षिपेदेरण्डतैलके ॥ र॰चू॰५.१२ ॥
अनेन लौहपात्रस्थं भावयेत् पूर्वगन्धकम् ।
त्रिवारं क्षौद्रतुल्यं तु जायते गन्धकवर्जितम् ॥ र॰चू॰५.१३ ॥
<गन्धतैल>
अर्कक्षीरैः स्नुहीक्षीरैर्वस्त्रं लेप्यं तु सप्तधा ।
गन्धकं नवनीतेन पिष्ट्वा वस्त्रं विलेपयेत् ॥ र॰चू॰५.१४ ॥
तद्वर्तिर्ज्वलिता दण्डे धृता धार्या त्वधोमुखी ।
तैलं पतत्यधोभाण्डे ग्राह्यं योगेषु योजयेत् ॥ र॰चू॰५.१५ ॥
<गन्धतैल>
आवर्त्यमाने पयसि दध्याद् गन्धकजं रजः ।
तज्जातदधिजं सर्पिर्गन्धतैलं नियच्छति ॥ र॰चू॰५.१६ ॥
<गन्धतैल:: medic. प्रोपेर्तिएस्>
गन्धतैलं गलत्कुष्ठं हन्ति लेपाच्च भक्षणात् ।
अनेन पिण्डिका कार्या रसेन्द्रस्योक्तकर्मसु ॥ र॰चू॰५.१७ ॥
<सुल्fउर्:: बन्धन>
शुद्धसूतपलैकं तु कर्षैकं गन्धकस्य च ।
स्विन्नखल्वे विनिक्षिप्य देवदालीरसप्लुतम् ।
मर्दयेच्च कराङ्गुल्या गन्धबन्धः प्रजायते ॥ र॰चू॰५.१८ ॥
<सुल्fउर्:: पिष्टी>
भागा द्वादश सूतस्य द्वौ भागौ गन्धकस्य च ।
मर्दयेद्घृतयोगेन जायते गन्धपिष्टिका ॥ र॰चू॰५.१९ ॥
<सुल्fउर्:: बन्धन>
अष्टौ भागा रसेन्द्रस्य भाग एकस्तु गान्धिकः ।
विषतैलादिना मर्द्यो गन्धबन्धः प्रजायते ॥ र॰चू॰५.२० ॥
<सुल्fउर्:: पिष्टी>
दशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् ।
स्तोकं स्तोकं क्षिपेत्खल्वे मर्दयेच्च शनैः शनैः ।
कुट्टनाज्जायते पिष्टिः सेयं गन्धकपिष्टिका ॥ र॰चू॰५.२१ ॥
फलं चास्य गन्धकजारणनागमारणादि ॥ र॰चू॰५.२२ ॥
<सुल्fउर्:: शुद्ध:: medic. प्रोपेर्तिएस्>
शुद्धगन्धो हरेद्रोगान्कुष्ठमृत्युज्वरादिकान् ।
अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ॥ र॰चू॰५.२३ ॥


रसेन्द्रचूडामणि ६[सम्पाद्यताम्]

अथातः सर्वलोहाध्यायं व्याचक्ष्महे ॥ र॰चू॰६.१ ॥
रसीभवन्ति लोहानि मृतानि सुरवन्दिते ।
विनिघ्नन्ति जराव्याधीन् रसयुक्तानि किं पुनः ॥ र॰चू॰६.२ ॥
<मेतल्स्:: शोधन>
स्वर्णतारारताम्रायःपत्राण्य् अग्नौ प्रतापयेत् ।
निषिञ्चेत्तप्ततैलानि तैले तक्रे गवां जले ॥ र॰चू॰६.३ ॥
काञ्जिके च कुलत्थानां कषाये सप्तधा पृथक् ।
एवं स्वर्णादिलोहानां विशुद्धिः सम्प्रजायते ॥ र॰चू॰६.४ ॥
<मेतल्स्:: शोधन>
तप्तानि सर्वलोहानि कदलीमूलवारिणि ।
सप्तधाभिनिषिक्तानि शुद्धिम् आयान्त्यनुत्तमाम् ॥ र॰चू॰६.५ ॥
<लेअद्, तिन्:: शोधन>
नागवङ्गौ प्रतप्तौ च गालितौ तौ निषेचयेत् ।
सप्तधैव विशुद्धिः स्याद्रविदुग्धे च सप्तधा ॥ र॰चू॰६.६ ॥
<गोल्द्:: शोधन>
वर्णवृत्तिकया लिप्त्वा सप्तधा ध्मापितं वसु ।
विशुध्यति वरं किंचिद् वर्षवृद्धिश्च जायते ॥ र॰चू॰६.७ ॥
<गोल्द्:: शोधन>
वल्मीकमृत्तिका धूमं गैरिकं चेष्टका पटुः ।
इत्येता मृत्तिकाः पञ्च जम्बीरैरारनालकैः ॥ र॰चू॰६.८ ॥
पिष्ट्वा लेप्यं स्वर्णपत्रं श्रेष्ठं पुटेन शुध्यति ।
<सिल्वेर्:: शोधन>
नागेन टङ्कणेनैव द्रावितं शुद्धिमृच्छति ।
रजतं दोषनिर्मुक्तं किं वा क्षाराम्लपाचितम् ॥ र॰चू॰६.९ ॥
<ताम्र:: शोधन>
स्नुह्यर्कक्षीरलवणकाञ्जिकैस्ताम्रपत्रकम् ।
लिप्त्वा प्रताप्य निर्गुण्डीरसे सिञ्चेत्पुनः पुनः ।
वारान् द्वादश तच्छुध्येल्लेपात्तापाच्च सेचनात् ॥ र॰चू॰६.१० ॥
<चोप्पेर्:: शोधन>
गोमूत्रेण पचेद्यामं ताम्रपत्रं दृढाग्निना ।
साम्लक्षारेण संशुद्धिं ताम्रमाप्नोति सर्वथा ॥ र॰चू॰६.११ ॥
<राजरीति, ब्रोन्शे:: शोधन, मारण>
राजरीतिं तथा घोषं ताम्रवच्छोधयेद् भिषक् ।
ताम्रवन्मारयेच्चापि ताम्रवच्च तयोर्गुणाः ॥ र॰चू॰६.१२ ॥
<ब्रोन्शे, ब्रस्स्, लेअद्, तिन्:: शोधन>
घोषारनागवङ्गानि निषेकैर्मुनितुल्यकैः ।
निर्गुण्डीरसमध्ये तु शुध्यन्ते नात्र संशयः ॥ र॰चू॰६.१३ ॥
<इरोन्:: शोधन:: अद्रि>
त्रिफलाष्टगुणे तोये त्रिफलाषोडशं पलम् ।
तत्क्वाथे पादशेषे तु लोहस्य पलपञ्चकम् ॥ र॰चू॰६.१४ ॥
कृत्वा पत्राणि तप्तानि सप्तवारान्निषेचयेत् ।
एवं प्रलीयते दोषो गिरिजो लोहसम्भवः ॥ र॰चू॰६.१५ ॥
<इरोन्:: शोधन>
तत्तद्व्याध्युपयुक्तानाम् औषधानां जलेऽयसः ।
प्रक्षेपं प्राह तत्त्वज्ञः सिद्धो नागार्जुनस्ततः ॥ र॰चू॰६.१६ ॥
<इरोन्:: शोधन>
सर्वाभावे निषेक्तव्यं क्षीरतैलाज्यगोजले ।
शुद्धस्य शोधनं ह्येतद्गुणाधिक्याय संमतम् ॥ र॰चू॰६.१७ ॥
<दिवेर्स् सत्त्वस्:: शोधन>
खसत्त्वं लौहवच्छोध्यं ताम्रवत्ताप्यसत्त्वकम् ।
रसकालशिलातुत्थसत्त्वं क्षाराम्लपाचनैः ।
दिनैकेनैव शुध्यन्ति भूनागाद्यास्तथाविधैः ॥ र॰चू॰६.१८ ॥
सिद्धलक्ष्मीश्वरप्रोक्तप्रक्रियाकुशलो भिषक् ।
लोहानां सरसं भस्म सर्वोत्कृष्टं प्रकल्पयेत् ॥ र॰चू॰६.१९ ॥
<सप्तधातु:: मारण>
शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सप्तधातवः ।
म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा ॥ र॰चू॰६.२० ॥
<सप्तधातु:: मारण>
रसमिश्राश्चतुर्यामं स्वर्णाद्याः सप्तधातवः ।
म्रियन्ते सिकतायन्त्रे गन्धकैरमृताधिकाः ॥ र॰चू॰६.२१ ॥
गन्धैर् एकद्वित्रिवारान् पच्यन्ते फलदर्शनात् ।
षड्गुणादिश्च गन्धोऽत्र गुणाधिक्याय जार्यते ॥ र॰चू॰६.२२ ॥
<गोल्द्:: मारण>
समसूतेन वै पिष्टिं कृत्वाग्नौ नाशयेद्रसम् ।
स्वर्णं तत्समताप्येन पुटितं भस्म जायते ॥ र॰चू॰६.२३ ॥
<गोल्द्:: मारण, रेमोवल् of नाग>
हेमपत्राणि सूक्ष्माणि जम्भाम्भो नागभस्मतः ।
लेपतः पुटयोगेन त्रिवारं भस्मतां नयेत् ।
पुनः पुटे त्रिवारं तन्म्लेच्छतो नागहानये ॥ र॰चू॰६.२४ ॥
<गोल्द्:: मारण>
शुद्धसूतसमं स्वर्णं खल्वे कृत्वा तु गोलकम् ।
ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च ॥ र॰चू॰६.२५ ॥
त्रिंशद्वनोपलैर्देयाः पुटाश्चैवं चतुर्दश ।
निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥ र॰चू॰६.२६ ॥
<गोल्द्:: मारण>
स्वर्णम् आवृत्य तोलैकं माषैकं शुद्धगन्धकम् ।
क्षिप्त्वा चाम्लेन संचूर्ण्य तत्तुल्यौ गन्धमाक्षिकौ ॥ र॰चू॰६.२७ ॥
अम्लेन मर्दयेद्यामं रुद्ध्वा लघुपुटे पचेत् ।
गन्धः पुनः पुनर्देयो म्रियते दशभिः पुटैः ॥ र॰चू॰६.२८ ॥
<सिल्वेर्:: मारण>
विधाय पिष्टिं सूतेन रजतस्याथ मेलयेत् ।
तालं गन्धं समं पश्चान्मर्दयेन्निम्बुकद्रवैः ।
द्वित्रिपुटैर्भवेद्भस्म योज्यमेवं रसादिषु ॥ र॰चू॰६.२९ ॥
सूतेन समेनेत्यर्थः ।
अत्र सूतरक्षार्थं गन्धः पुनर् अधिको देयः ॥ र॰चू॰६.३० ॥
<चोप्पेर्:: मारण>
गन्धेन ताम्रतुल्येन ह्यम्लपिष्टेन लेपयेत् ।
कण्टवेध्यं ताम्रपत्रम् अन्धयित्वा पुटे पचेत् ॥ र॰चू॰६.३१ ॥
उद्धृत्य चूर्णयेत्तस्मिन् पादांशं गन्धकं क्षिपेत् ।
पाच्यं जम्भाम्भसा पिष्टं समो गन्धश्चतुःपुटे ॥ र॰चू॰६.३२ ॥
मातुलुङ्गरसैः पिष्ट्वा पुटमेकं प्रदापयेत् ।
सितशर्कराप्येवं पुटदाने मृतिर्भवेत् ॥ र॰चू॰६.३३ ॥
<चोप्पेर्:: मारण>
ताम्रपादांशतः सूतं ताम्रतुल्यं तु गन्धकम् ।
मर्दयेद्यामयुग्मं तु यावत्कज्जलिका भवेत् ॥ र॰चू॰६.३४ ॥
तां तु कन्यारसैः पिष्ट्वा ताम्रपत्राणि लेपयेत् ।
संशुष्काणि ततस्तानि शेषकज्जलिकान्तरम् ॥ र॰चू॰६.३५ ॥
निक्षिप्य हण्डिकामध्ये शरावेण निरोधयेत् ।
सन्धिरोधं द्वयोः कुर्यादम्बुभस्म विलेपनम् ॥ र॰चू॰६.३६ ॥
हण्डिकां पटुनापूर्य भस्मना वा गलावधि ।
पिधाय चुल्ल्यामारोप्य वह्निं प्रज्वालयेद् दृढम् ।
चतुर्यामं ततः स्वाङ्गशीतलं तत्समुद्धरेत् ॥ र॰चू॰६.३७ ॥
न रसेन विना लौहं न रसं चाभ्रकं विना ।
एकत्वेन शरीरस्य बन्धो भवति देहिनः ॥ र॰चू॰६.३८ ॥
चपलेन विना लौहं यः करोति पुमानिह ।
उदरे तस्य किट्टानि जायन्ते नात्र संशयः ॥ र॰चू॰६.३९ ॥
वस्तुतस्तु प्राशस्त्याय रसयोगो रसाभ्रयोगश्च ।
अनयोर्मात्रा युक्त्यनुसारिणी ततो म्रियत इति शेषः ॥ र॰चू॰६.४० ॥
<रेमेद्य् अगैन्स्त् वोमित्>
अम्लपिष्टं मृतं ताम्रं शरणस्थं लिपेन्मृदा ।
पचेत्पञ्चामृतैर्वापि त्रिधावान्त्यादिशान्तये ॥ र॰चू॰६.४१ ॥
सूरणपक्षे बृहत्पुटप्रदानम् ।
<चोप्पेर्:: मारण>
जम्भाम्भसा सैन्धवसंयुतेन सगन्धकं स्थापय शुल्वपत्रम् ।
पङ्कायमानं पुटयेत्सुयुक्त्या वान्त्यादिकं यावदुपैति शान्तिम् ॥ र॰चू॰६.४२ ॥
<चोप्पेर्:: मृतोत्थ:: मारण (= रेपेअतेद् मारण)>
मृतोत्थशुद्धं संतप्तं ताम्रचक्रं बलिस्थितम् ।
मृतं स्यात्तत्र सूतेन्द्रं दद्याद्दोषानुसारतः ॥ र॰चू॰६.४३ ॥
<चोप्पेर्:: मारण>
रसगन्धकयोः कृत्वा कञ्जलीम् अर्धमानयोः ।
वारा लिम्पेत् कण्टवेध्यं म्रियते ताम्रमातपे ॥ र॰चू॰६.४४ ॥
<गोल्द्:: production:: fरोम् चोप्पेर्>
आर्कं भस्म स्थालिकायां निधाय ज्वालां दत्त्वा नाशयेत्तत्र गन्धम् ।
आवर्त्यैतन्मारयेत्सप्तवारानित्थं शुल्बं जायते हेमतुल्यम् ॥ र॰चू॰६.४५ ॥
<??>
शशिहाटकहेलिदलं रसबलितमेकमर्दितं बलिना ।
इष्टरसपिष्टमतः कृतपर्पटम् अर्पयेत् तदनु ॥ र॰चू॰६.४६ ॥
<माक्षिक:: सत्त्व:: मारण>
माक्षीकरसकादीनां सत्त्वं हन्याच्च ताम्रवत् ॥ र॰चू॰६.४७ ॥
<तिन्:: मारण>
वङ्गं खर्परके कृत्वा चुल्ल्यां संस्थापयेत् सुधीः ।
द्रवीभूते पुनस्तस्मिन् चूर्णान्येतानि दापयेत् ॥ र॰चू॰६.४८ ॥
प्रथमे रजनीचूर्णं द्वितीये च यवानिकाम् ।
तृतीये जीवकं चैव ततश्चिञ्चात्वगुद्भवम् ॥ र॰चू॰६.४९ ॥
अश्वत्थवल्कलोत्थं च चूर्णं तत्र विनिक्षिपेत् ।
एवं विधानतो वङ्गो म्रियते नात्र संशयः ॥ र॰चू॰६.५० ॥
<लेअद्:: मारण>
नागं खर्परके निधाय कुनटीचूर्णं ददीत द्रुते निम्बूत्थद्रवगन्धकेन पुटितं भस्मीभवत्याशु तत् ।
एवं तालकवापतस्तु कुटिलं चूर्णीकृतं तत्पुटेद् गन्धाम्लेन समस्तदोषरहितं योगेषु योज्यं भवेत् ॥ र॰चू॰६.५१ ॥
<सिन्दूर:: production>
भूभुजङ्गमगस्तिं च पिष्ट्वा पात्रं प्रलेपयेत् ।
तत्र सविद्रुते नागे वासापामार्गसम्भवम् ॥ र॰चू॰६.५२ ॥
क्षारं विमिश्रयेत्तत्र चतुर्थांशं गुरूक्तितः ।
प्रहरं पाचयेच्चुल्ल्यां वासादर्व्या विघट्टयन् ॥ र॰चू॰६.५३ ॥
तत उद्धृत्य तच्चूर्णं वासानीरैर्विमर्दयेत् ।
पुटेत्पुनः समुद्धृत्य तद्द्रवेण विमर्दयेत् ।
एवं सप्तपुटैर्नागः सिन्दूरो जायते ध्रुवम् ॥ र॰चू॰६.५४ ॥
<इरोन्:: मारणम्>
लौहं पत्रसतीवतप्तम् असकृत् क्वाथे क्षिपेत्त्रैफले चूर्णीभूतम् अतः पुनस्त्रिफलजे क्वाथे पचेद् गोजले ।
मत्स्याक्षीत्रिफला एतेन पुटयेद्यावन्निरुत्थं भवेत् पश्चादाज्यमधुप्लुतं सुपुटितं सिद्धं भवेद् आयसम् ॥ र॰चू॰६.५५ ॥
अत्र मत्स्याक्षी मछेछी ।
प्रकृतत्रिचतुःपुटे मनःशिलां किंचिद् दद्यात् ॥ र॰चू॰६.५६ ॥
<इरोन्:: मारण>
परिप्लुतं दाडिमपत्रवारा लौहं रजः स्वल्पकटोरिकायाम् ।
म्रियेत वस्त्रावृतमर्कभासा योज्यं पुटैः स्यात् त्रिफलादिकानाम् ॥ र॰चू॰६.५७ ॥
पुटबाहुल्यं गुणाधिक्याय शतादिपुटपक्षे मुद्गनिभं कृत्वा पुटान् दद्याद्वस्त्रपूतं च न कुर्यात् ।
त्रिफलादिर् अमृतसारलौहे वक्ष्यते ॥ र॰चू॰६.५८ ॥
<इरोन्:: मारण:: वारितर>
सूतकाद्द्विगुणं गन्धं दत्त्वा कृत्वा च कज्जलीम् ।
द्वयोः समं लोहचूर्णं मर्दयेत्कन्यकाद्रवैः ॥ र॰चू॰६.५९ ॥
यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके ।
घर्मे धृत्वोरुवूकस्य पत्रैराच्छादयेद् बुधः ॥ र॰चू॰६.६० ॥
यामार्धेनोष्णता भूयाद्धान्यराशौ न्यसेत्ततः ।
दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत् ॥ र॰चू॰६.६१ ॥
पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत् ।
एवं सर्वाणि लोहानि स्वर्णादीन्यपि मारयेत् ॥ र॰चू॰६.६२ ॥
<इरोन्:: छेच्किन्ग् थे वारितर स्तते>
सर्वमेतन्मृतं लौहं ध्मातव्यं मित्रपञ्चकैः ।
यद्येवं स्यान्निरुत्थानं सेव्यं वारितरं हि तत् ॥ र॰चू॰६.६३ ॥
<मित्रपञ्चक>
मधुसर्पिस्तथा गुञ्जा टङ्कणं गुग्गुलुस्तथा ।
मित्रपञ्चकमेतत्तु गणितं धातुमेलने ॥ र॰चू॰६.६४ ॥
<इरोन्:: मृत:: छेच्किन्ग् थे मृत-स्तते>
मध्वाज्यं मृतलौहं च सरूप्यं सम्पुटे क्षिपेत् ।
रुद्ध्वा ध्माते च संग्राह्यं रूप्यं वै पूर्वमानकम् ।
तदा लौहं मृतं विद्यादन्यथा मारयेत्पुनः ॥ र॰चू॰६.६५ ॥
<इरोन्:: मारण:: निरुत्थान>
गन्धकेनोत्थितं लौहं तुल्यं खल्वे विमर्दयेत् ।
दिनैकं कन्यकाद्रावैः रुद्ध्वा गजपुटे पचेत् ।
इत्येवं सर्वलौहानां कर्तव्येयं निरुत्थितिः ॥ र॰चू॰६.६६ ॥
यववृद्ध्या प्रयोक्तव्यं हेम गुञ्जाष्टकं रविः ।
तारं तद्द्विगुणं लौहमन्यत्तु त्रिगुणाधिकम् ॥ र॰चू॰६.६७ ॥
<किट्ट (रुस्त्!):: अगे => ॠउअलित्य्>
शतोर्ध्वम् उत्तमं किट्टं मध्यं चाशीतिवार्षिकम् ।
अधमं षष्टिवर्षीयं ततो हीनविषोपमम् ॥ र॰चू॰६.६८ ॥
<मण्डूर:: production>
अक्षाङ्गारैर्धमेत्किट्टं लोहजं तद्गवां जलैः ।
सेचयेत्तप्ततप्तं च सप्तवारं पुनः पुनः ॥ र॰चू॰६.६९ ॥
चूर्णयित्वा ततः क्वाथैर् द्विगुणैस्त्रिफलोद्भवैः ।
आलोड्य भर्जयेद्वह्नौ मण्डूरं जायते वरम् ॥ र॰चू॰६.७० ॥
<स्वर्ण, रूप्य>
आयुर्लक्ष्मीप्रभाधीस्मृतिकरमखिलव्याधिविध्वंसि पुण्यम् ।
भूतावेशप्रशान्तिस्मरभवसुखदं सौख्यपुष्टिप्रकाशि ।
गाङ्गेयं चाथ रूप्यं गदहम् अजराकारि मेहापहारि ।
क्षीणानां पुष्टिकारि स्फुटम् अतिकरणं कारणं वीर्यवृद्धेः ॥ र॰चू॰६.७१ ॥
<गोल्द्:: medic. प्रोपेर्तिएस्>
मधुरं कटुकं पाके सुवर्णं वीर्यशीतलम् ।
सर्वदोषप्रशमनं विषघ्नं गरनाशनम् ॥ र॰चू॰६.७२ ॥
अलक्ष्मीकलिपापानां प्रयोगस्तस्य नाशनः ।
आयुर्मेधास्मृतिकरः पुष्टिकान्तिविवर्धनः ॥ र॰चू॰६.७३ ॥
सर्वौषधिप्रयोगैर् ये व्याधयो न विनिर्जिताः ।
कर्मभिः पञ्चभिश्चापि सुवर्णं तेषु योजयेत् ॥ र॰चू॰६.७४ ॥
शिलाजतुप्रयोगैश्च ताप्यसूतकयोस्तथा ।
अन्यै रसायनैश्चापि प्रयोगो हेम्न उत्तमः ॥ र॰चू॰६.७५ ॥
ताप्यसूतकयोरित्यत्र सामान्यसंस्कृतसूतको ज्ञेयः ।
विशेषसंस्कृतसूतकस्य तु व्योमगामित्वादिप्रदत्वात् ॥ र॰चू॰६.७६ ॥
मध्वामलकचूर्णं तु सुवर्णं चेति तत्त्रयम् ।
प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंशयात् ॥ र॰चू॰६.७७ ॥
मेधाकामस्तु वचया श्रीकामः पद्मकेशरैः ।
शङ्खपुष्प्या वयोऽर्थी च विदार्या च प्रजार्थकः ॥ र॰चू॰६.७८ ॥
<चोप्पेर्:: medic. प्रोपेर्तिएस्>
गुल्मपाण्डुपरिणामशूलहृल्लेखनं कृमिहरं विशोधनम् ।
प्लीहकुष्ठजठरामशूलजिच्छ्लेष्मवातहरणं रविनाम ॥ र॰चू॰६.७९ ॥
<पित्तल, कांस्य>
रीतिका श्लेष्मपित्तघ्नी कांस्यमुष्णं च लेखनम् ॥ र॰चू॰६.८० ॥
<तिन्:: medic. प्रोपेर्तिएस्>
वङ्गो दाहहरः पाण्डुजन्तुमेहविनाशनः ॥ र॰चू॰६.८१ ॥
<लेअद्:: medic. प्रोपेर्तिएस्>
दशनागबलं धत्ते वीर्यायुःकान्तिवर्धनः ।
रोगान् हन्ति मृतो नागः सेव्यो रङ्गोऽपि तद्गुणः ॥ र॰चू॰६.८२ ॥
तृष्णामशोथशूलार्शःकुष्ठपाण्डुत्वमेहजित् ।
वयस्यो गुरुचक्षुष्यः सरो मेदोऽनिलापहः ।
तारस्य रञ्जको नागो वातपित्तकफापहः ॥ र॰चू॰६.८३ ॥
<इरोन्:: medic. प्रोपेर्तिएस्>
आयुःप्रदाता बलवीर्यकर्ता रोगापहर्ता कदनस्य कर्ता ।
अयःसमानं नहि किंचिदस्ति रसायनं श्रेष्ठतमं नराणाम् ॥ र॰चू॰६.८४ ॥
<इरोन्:: ऋएइहेन्fओल्गे देर् ङ्ंते>
सामान्याद् द्विगुणं क्रौञ्चं कलिङ्गोऽष्टगुणस्ततः ।
कलेर्दशगुणं भद्रं भद्राद्वज्रं सहस्रधा ॥ र॰चू॰६.८५ ॥
वज्राच्छतगुणं पाण्डिर् निरङ्गं दशभिर्गुणैः ।
तस्मात् सहस्रगुणितम् अयः कान्तं महाबलम् ॥ र॰चू॰६.८६ ॥
यल्लोहं यद्गुणं प्रोक्तं तत्किट्टं चापि तद्गुणम् ॥ र॰चू॰६.८७ ॥


रसेन्द्रचूडामणि ७[सम्पाद्यताम्]

अथ विषोपरससाधनाध्यायं व्याचक्ष्महे ॥ र॰चू॰७.१ ॥
विषं हि नाम निखिलरसायनानाम् ऊर्जस्वलम् अखिलव्याधिविध्वंसविधायकताम् आसादयति ॥ र॰चू॰७.२ ॥
तत्खल्वष्टादशप्रकारं भवति ।
यत्र सक्तुकमुस्तककौर्मदार्वीकसार्षपसैकतवत्सनाभश्वेतशृङ्गिभेदानि प्रयोगार्थम् आहरणीयानि भवन्ति ॥ र॰चू॰७.३ ॥
<सक्तुक>
चित्रमुत्पलकन्दाभं सुपिष्टं सक्तुवद्भवेत् ।
सक्तुकं तद्विजानीयाद्दीर्घवेगं महोल्बणम् ॥ र॰चू॰७.४ ॥
<मुस्तक>
ह्रस्ववेगं च रोगघ्नं मुस्तकं मुस्तकाकृति ।
<कौर्म, दार्वीक>
कूर्माकृति भवेत्कौर्मं दार्वीको ऽहिफणाकृति ॥ र॰चू॰७.५ ॥
<सार्षप>
ज्वरहृत्सार्षपं रोमसर्षपामकणाचितम् ।
स्थूलसूक्ष्मैः कणैर्युक्तः श्वेतपीतैर् विरोमकः ॥ र॰चू॰७.६ ॥
<सैकत>
ज्वरादिसर्वरोगघ्नः कन्दः सैकतमुच्यते ॥ र॰चू॰७.७ ॥
<वत्सनाभ>
यः कन्दो गोस्तनाकारो न दीर्घः पञ्चमाङ्गुलात् ।
न स्थूलो गोस्तनादूर्ध्वं द्विविधो वत्सनाभकः ॥ र॰चू॰७.८ ॥
आशुकारी लघुस्त्यागी शुक्लकृष्णोऽन्यथा भवेत् ।
प्रयोज्यो रोगहरणे जारणायां रसायने ॥ र॰चू॰७.९ ॥
<श्वेतशृङ्गी>
गोशृङ्गवद्द्विधा शृङ्गी श्वेतः स्याद् बहिरन्तरे ॥ र॰चू॰७.१० ॥
एतानि सक्तुकाद्यानि वातादौ रक्तमेलनेनोन्मादसन्निपातादौ च प्रयोज्यानि ॥ र॰चू॰७.११ ॥
कालकूटमेषशृङ्गीदर्दुरहालाहलकर्कोटग्रन्थिहारिद्ररक्तशृङ्गीकेशरयमदंष्ट्राप्रभेदेन दशविषाणि परिवर्जनीयानि ॥ र॰चू॰७.१२ ॥
<कालकूट>
वृत्तकन्दो भवेत्कृष्णो जम्बीरफलवच्च यः ।
तं कालकूटं जानीयात् घ्राणमात्रान्मृतिप्रदम् ॥ र॰चू॰७.१३ ॥
<मेषशृङ्गी>
मेषशृङ्गाकृतिः कन्दो मेषशृङ्गीति कीर्त्यते ।
<दर्दुर>
दर्दुराकृतिकः कन्दो दर्दुरः कथितस्तु सः ॥ र॰चू॰७.१४ ॥
<हलाहल>
अन्तर्नीलं बहिः श्वेतं विजानीयाद्धलाहलम् ।
<कर्कोट>
कर्कोटाभं तु कर्कोटं खरं बाह्येऽन्तरे मृदु ॥ र॰चू॰७.१५ ॥
<हारिद्र>
हरिद्राग्रन्थिवद्ग्रन्थिः कृष्णवर्णोऽतिभीषणः ।
मूलाग्रयोः सुवृत्तः स्यादायतः पीतगर्भकः ।
कञ्चुकाढ्यः स्निग्धपर्वा हारिद्रः स्याच्च कन्दकः ॥ र॰चू॰७.१६ ॥
<रक्तशृङ्गी>
गोशृङ्गाग्रेऽथ संक्षिप्ते नाशयासृक् प्रवर्तते ।
कन्दो लघुर् गोस्तनवद् रक्तशृङ्गीति तद्विषम् ॥ र॰चू॰७.१७ ॥
<केसर>
शुक्लाभं यत्केशरं स्याद्गर्भे तत्केशरं विदुः ।
<यमदंष्ट्रा>
श्वदंष्ट्रारूपसंस्थाना यमदंष्ट्रेति सोच्यते ॥ र॰चू॰७.१८ ॥
रसवादे धातुवादे विषवादे क्वचित्क्वचित् ।
दशैतानि प्रयुज्यन्ते न भैषज्ये रसायने ॥ र॰चू॰७.१९ ॥
उद्धरेत् फलपाके तु नवं स्निग्धं घनं गुरु ।
अव्याहतं विषहरैर्वातादिभिर् अशोषितम् ॥ र॰चू॰७.२० ॥
<पोइसोन्:: शोधन>
विषभागान् चणकवत्स्थूलान् कृत्वा तु भाजने ।
तत्र गोमूत्रकं क्षिप्त्वा प्रत्यहं नित्यनूतनम् ॥ र॰चू॰७.२१ ॥
शोषयेत् त्रिदिनाद् ऊर्ध्वं धृत्वा तीव्रातपे ततः ।
प्रयोगेषु प्रयुञ्जीत भागमानेन तद्विषम् ॥ र॰चू॰७.२२ ॥
<पोइसोन्:: शुद्ध:: स्तोरगे>
रक्तसर्षपतैलेन लिप्ते वाससि धारयेत् ।
विषं शुद्धं प्रयत्नेन नान्यत्र गुणहानितः ॥ र॰चू॰७.२३ ॥
<पोइसोन्:: मारण>
समटङ्कणसम्पिष्टं तद्विषं मृतमुच्यते ।
योजयेत् सर्वरोगेषु न विकारं करोति तत् ॥ र॰चू॰७.२४ ॥
<पोइसोन्:: सुब्त्य्पेस्:: चोलोर्, चस्ते>
श्वेतो रक्तश्च पीतश्च कृष्णश्चेति चतुर्विधः ।
ब्राह्मणः क्षत्रियो वैश्यः क्रमाज्ज्ञेयश्च शूद्रकः ॥ र॰चू॰७.२५ ॥
सर्वरोगहरो विप्रः क्षत्रियो रसवादकृत् ।
वैश्योऽपि रोगहर्ता स्याच्छूद्रः सर्वत्र निन्दितः ॥ र॰चू॰७.२६ ॥
ब्राह्मणो दीयते रोगे क्षत्रियो विषभक्षणे ।
वैश्यो व्याधिषु सर्वेषु सर्पदंष्ट्रे च शूद्रकः ॥ र॰चू॰७.२७ ॥
शरद्ग्रीष्मवसन्तेषु वर्षासु न तु दापयेत् ।
चतुर्मासे हरेद्रोगान् कुष्ठलूतादिकानपि ॥ र॰चू॰७.२८ ॥
<पोइसोन्:: ॠउअन्तितिएस्>
यवाष्टकं भवेद्यावदभ्यस्तं तिलमात्रया ।
सर्वरोगोपशमनं दृष्टिपुष्टिकरं भवेत् ॥ र॰चू॰७.२९ ॥
प्रथमे सार्षपी मात्रा द्वितीये सर्षपद्वयम् ।
तृतीये च चतुर्थे च पञ्चमे दिवसे तथा ॥ र॰चू॰७.३० ॥
षष्ठे च सप्तमे चैव क्रमवृद्ध्या विवर्धयेत् ।
सप्तसर्षपमात्रेण प्रथमं सप्तकं नयेत् ॥ र॰चू॰७.३१ ॥
<पोइसोन्:: रुलेस् for चोन्सुमे>
क्रमहान्या तथा देयं द्वितीये सप्तके विषम् ।
यवमात्रं विषं देयं तृतीये सप्तके क्रमात् ॥ र॰चू॰७.३२ ॥
वृद्धहान्या च दातव्यं चतुर्थे सप्तके तथा ।
यवमात्रं ग्रसेत्स्वस्थो गुञ्जामात्रं तु कुष्ठवान् ॥ र॰चू॰७.३३ ॥
अशीतिर्यस्य वर्षाणि वसुवर्षाणि यस्य वा ।
विषं तस्मै न दातव्यं दत्तं वै दोषकारकम् ॥ र॰चू॰७.३४ ॥
दातव्यं सर्वरोगेषु घृताशिनि हिताशिनि ।
क्षीराशिनि प्रयोक्तव्यं रसायनरते नरे ॥ र॰चू॰७.३५ ॥
ब्रह्मचर्यप्रधानं हि विषकल्पे समाचरेत् ।
पथ्यैः सुस्थमना भूत्वा तदा सिद्धिर्न संशयः ॥ र॰चू॰७.३६ ॥
<पोइसोन्:: ८ वेगस्>
मात्राधिकं यदा मर्त्यः प्रमादाद्भक्षयेद्विषम् ।
अष्टौ वेगास्तदा चैव जायन्ते तस्य देहिनः ॥ र॰चू॰७.३७ ॥
संतापः प्रथमे वेगे द्वितीये वेपथुर्भवेत् ।
वेगे तृतीये दाहः स्याच्चतुर्थे पतनं भुवि ॥ र॰चू॰७.३८ ॥
फेनं तु पञ्चमे वेगे षष्ठे विकलता भवेत् ।
जडता सप्तमे वेगे मरणं चाष्टमे भवेत् ॥ र॰चू॰७.३९ ॥
<पोइसोन्:: हेअलिन्ग् थे वेगस्>
विषवेगानिति ज्ञात्वा मन्त्रतन्त्रैर्विनाशयेत् ॥ र॰चू॰७.४० ॥
अतिमात्रं यदा भुक्तं वमनं कारयेत्तदा ॥ र॰चू॰७.४१ ॥
तावद्दद्यादजादुग्धं यावद् वान्तिर्न जायते ।
अजादुग्धं यदा कोष्ठे स्थिरीभवति देहिनः ।
विषवेगं तदोत्तीर्णं जानीयात्कुशलो भिषक् ॥ र॰चू॰७.४२ ॥
विषं हन्याद्रसः पीतो रजनीमेघनादयोः ।
सर्पाक्षी टङ्कणं वापि घृतेन विषहृत्परम् ॥ र॰चू॰७.४३ ॥
पुत्रजीवकमज्जा वा पीतो निम्बुकवारिणा ।
विषवेगं निहन्त्येव वृष्टिर्दावानलं यथा ॥ र॰चू॰७.४४ ॥
न क्रोधिते न पित्तार्ते न क्लीबे राजयक्ष्मणि ।
क्षुत्तृष्णाश्रमघर्माध्वसेविनि क्षयरोगिणि ।
गर्भिणीबालवृद्धेषु न विषं राजमन्दिरे ॥ र॰चू॰७.४५ ॥
न दातव्यं न भोक्तव्यं विषं वादे कदाचन ।
आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम् ॥ र॰चू॰७.४६ ॥
<पोइसोन्:: सुब्त्य्पेस्>
कालकूटो वत्सनाभः शृङ्गिकश्च प्रदीपनः ।
हालाहलो ब्रह्मपुत्रो हारिद्रः सक्तुकस्तथा ।
सौराष्ट्रिकः इति प्रोक्ता विषभेदा अमी नव ॥ र॰चू॰७.४७ ॥
<उपविष>
अर्कसेहुण्डधुस्तूरलाङ्गलीकरवीरकाः ।
गुञ्जाहिफेनावित्येताः सप्तोपविषजातयः ॥ र॰चू॰७.४८ ॥
<mercury:: पक्षछेद:: ब्य् पोइसोन्>
एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते ।
मुखं च जायते तस्य धातूंश्च ग्रसतेतराम् ॥ र॰चू॰७.४९ ॥
<वज्र:: सुब्त्य्पेस्:: colour>
श्वेतरक्तपीतकृष्णा द्विजाद्या वज्रजातयः ।
स्त्रीपुंनपुंसकात्मानो लक्षणेन तु लक्षयेत् ॥ र॰चू॰७.५० ॥
<वज्र:: पुंवज्र>
वृत्ताः फलकसम्पूर्णास्तेजोवन्तो बृहत्तराः ।
पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥ र॰चू॰७.५१ ॥
<वज्र:: स्त्रीवज्र>
रेखाबिन्दुसमायुक्ताः षट्कोणास्ते स्त्रियो मताः ॥ र॰चू॰७.५२ ॥
<वज्र:: नपुंसक>
त्रिकोणाः पत्तला दीर्घा विज्ञेयास्ते नपुंसकाः ॥ र॰चू॰७.५३ ॥
<वज्र:: प्रोपेर्तिएस् of गेन्देर्स्>
सर्वेषां पुरुषाः श्रेष्ठा वेधका रसबन्धकाः ।
स्त्रीवज्रं देहसिद्ध्यर्थं क्रामणे स्यान्नपुंसकम् ॥ र॰चू॰७.५४ ॥
विप्रो रसायने प्रोक्तः क्षत्रियो रोगनाशने ।
वादे वैश्यं विजानीयाद् वयःस्तम्भे तुरीयकम् ॥ र॰चू॰७.५५ ॥
स्त्री तु स्त्रीणां प्रदातव्या क्लीबे क्लीबं तथैव च ।
सर्वेषां सर्वदा योज्याः पुरुषा बलवत्तराः ॥ र॰चू॰७.५६ ॥
<वज्र:: शोधन>
व्याघ्रीकन्दोदरे क्षिप्त्वा सप्तधा पुटितः पविः ।
हयमूत्रस्य निर्वापाच्छुद्धः प्रतिपुटं भवेत् ॥ र॰चू॰७.५७ ॥
<वज्र:: मारणम्>
त्रिवर्षनागवल्ल्याश्च कार्पास्या वाथ मूलिकाम् ।
पिष्ट्वा तन्मध्यगं वज्रं कृत्वा मूषां निरोधयेत् ।
मुनिसंख्यैर् गजपुटैर्म्रियते ह्यविचारितम् ॥ र॰चू॰७.५८ ॥
<वज्र:: मारण>
मण्डूकं कांस्यजे पात्रे निगृह्य स्थापयेत्सुधीः ।
स भीतो मूत्रयेत्तत्र तन्मूत्रे वज्रमावपेत् ।
तप्तं तप्तं च बहुधा वज्रस्यैवं मृतिर्भवेत् ॥ र॰चू॰७.५९ ॥
<वज्र:: मारण>
हिङ्गुसैन्धवसंयुक्ते क्वाथे कौलत्थके क्षिपेत् ।
तप्तं तप्तं पुनर्वज्रं भवेद्भस्म त्रिसप्तधा ॥ र॰चू॰७.६० ॥
<वज्र:: भस्मन्:: उसे>
रसे यत्र भवेद्वज्रं रसः सोऽमृतमुच्यते ।
भस्मीभावगतं युक्त्या वज्रवत् कुरुते तनुम् ॥ र॰चू॰७.६१ ॥
<वैक्रान्त:: शोधन>
वैक्रान्तं वज्रवच्छोध्यं नीलं श्वेतं च लोहितम् ।
<वैक्रान्त:: फ्य्स्. प्रोपेर्तिएस्>
वज्रलक्षणसंयुक्तं दाहघातासहिष्णु तत् ॥ र॰चू॰७.६२ ॥
<वैक्रान्त:: मारण>
हयमूत्रेण तत्सिञ्चेत्तप्तं तप्तं त्रिसप्तधा ।
पञ्चाङ्गोत्तरवारुण्या लिप्तं मूषागतं पुटैः ॥ र॰चू॰७.६३ ॥
कुञ्जराख्यैर्मृतिं याति वैक्रान्तं सप्तभिस्तथा ।
<वैक्रान्त:: सुब्स्तितुते for वज्र>
भस्मीभूतं तु वैक्रान्तं वज्रस्थाने नियोजयेत् ॥ र॰चू॰७.६४ ॥
<नवरत्नानि>
पुंवज्रं गरुडोद्गारं माणिक्यं वासवोपलम् ।
वैदूर्यपुष्पे गोमेदं मौक्तिकं च प्रवालकम् ।
एतानि नवरत्नानि सदृशानि सुधारसैः ॥ र॰चू॰७.६५ ॥
<जेwएल्स्:: शोधन>
स्वेदयेद्दोलिकायन्त्रे जयन्त्या स्वरसेन च ।
मणिमुक्ताप्रवालानां यामैके शोधनं भवेत् ॥ र॰चू॰७.६६ ॥
<जेwएल्स्:: स्पेचिअल् शोधन>
शुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा ।
विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धतस्तथा ॥ र॰चू॰७.६७ ॥
पुष्यरागं च संधानैः कुलत्थक्वाथसंयुतैः ।
तण्डुलीयजलैर्वज्रं नीलं नीलीरसेन च ॥ र॰चू॰७.६८ ॥
रोचनाभिश्च गोमेदं वैदूर्यं त्रिफलाजलैः ।
<जेwएल्स्:: शोधन:: इम्पर्त्स् अद्दितिओनल् ॠउअलितिएस्>
मुक्तादिष्वविशुद्धेषु न दोषः स्याच्च शास्त्रतः ।
तथापि गुणवृद्धिः स्याच्छोधनेन विशेषतः ॥ र॰चू॰७.६९ ॥
<धातु, उपरस:: शोधन>
अम्लक्षारविपाचितं तु सकलं लौहं विशुद्धं भवेन्माक्षीकोऽपि शिलापि तुत्थगगनं तालं च सम्यक्तथा ।
मुक्ताविद्रुमशुक्तिकाथ चपलाः शङ्खा वराटाः शुभा जायन्तेऽमृतसन्निभाः पयसि च क्षिप्तः शुभः स्याद्बलिः ॥ र॰चू॰७.७० ॥
<जेwएल्स्:: मारण>
लकुचद्रावसम्पिष्टैः शिलागन्धकतालकैः ।
वज्रं विनान्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ॥ र॰चू॰७.७१ ॥
<जेwएल्स्:: मारण>
कुमार्या तण्डुलीयेन स्तन्येन च निषेचयेत् ।
प्रत्येकं सप्तवेलं च तप्ततप्तानि कृत्स्नशः ॥ र॰चू॰७.७२ ॥
मौक्तिकानि प्रवालानि तथा रत्नान्यशेषतः ।
क्षणाद्विविधवर्णानि म्रियन्ते नात्र संशयः ॥ र॰चू॰७.७३ ॥
<जेwएल्स्:: शोधन, मारण>
वज्रवत् सर्वरत्नानि शोधयेन्मारयेत् तथा ॥ र॰चू॰७.७४ ॥
<हरिताल:: शोधन>
तालकं पोट्टलीं बद्ध्वा सचूर्णे काञ्जिके क्षिपेत् ।
दोलायन्त्रेण यामैकं ततः कूष्माण्डजे रसे ॥ र॰चू॰७.७५ ॥
तिलतैले पचेद्यामं यामं तत्त्रैफले जले ।
दोलायन्त्रे चतुर्यामं पक्वं शुध्यति तालकम् ॥ र॰चू॰७.७६ ॥
<हरिताल:: शुद्ध:: medic. प्रोपेर्तिएस्>
स शुद्धः कान्तिवीर्ये च कुरुते मृत्युनाशनः ॥ र॰चू॰७.७७ ॥
<हरिताल:: सत्त्व:: पातनम्>
लाक्षाराजी तिलाः शिग्रुष्टङ्कणं लवणं गुडम् ।
तालकार्धेन संमिश्र्य छिद्रमूष्यां निरोधयेत् ।
पुटेत्पातालयन्त्रेण सत्त्वं पतति निश्चितम् ॥ र॰चू॰७.७८ ॥
<हरिताल:: सत्त्व:: पातन>
जैपालसत्त्ववातारिबीजमिश्रं च तालकम् ।
कूपीस्थं वालुकायन्त्रे सत्त्वं मुञ्चति यामतः ॥ र॰चू॰७.७९ ॥
<इन्दुसुन्दरी>
भृष्टटङ्कणतालस्य लौहपर्पटवेष्टिता ।
गुटिका गुरुमार्गेण ध्माता स्याद् इन्दुसुन्दरी ॥ र॰चू॰७.८० ॥
<??>
हिङ्गुलस्य च दारस्य तालकादेश्च बन्धने ।
लौहपत्त्र्या बहिर्लेपो भक्ताङ्गाररसेन च ॥ र॰चू॰७.८१ ॥
<मनःशिला:: सत्त्व:: पातन>
तालवच्च शिलासत्त्वं ग्राह्यं तैरेव भेषजैः ॥ र॰चू॰७.८२ ॥
<तुत्थ:: सत्त्व:: पातन>
तुल्यं टङ्कणकं ग्राह्यं ध्माते सत्त्वं च तुत्थके ॥ र॰चू॰७.८३ ॥
<माक्षिक:: सत्त्व:: पातन>
ऊर्णा लाक्षा गुडश्चेति पुरटङ्कणकैः सह ।
संमर्द्यं वटिकाः कार्याश्छागीदुग्धेन यत्नतः ।
ध्मातास्ताप्यस्य तीव्राग्नौ सत्त्वं मुञ्चति लोहितम् ॥ र॰चू॰७.८४ ॥
<महारस:: सत्त्व:: पातन>
एवं तालशिलाधातुर् विमलाखर्परादयः ।
मुञ्चन्ति निजसत्त्वानि धमनात् कोष्ठिकाग्निना ॥ र॰चू॰७.८५ ॥
<कासीस:: सत्त्वपातन (?), मृदूकरण (?)>
शिलया गन्धकेनापि भर्जितः क्षोदितः खगः ।
मुद्रितस्ताम्रपात्रेण लिप्तः स्याद् ध्मापितो मृदुः ॥ र॰चू॰७.८६ ॥
<माक्षिक:: सत्त्व:: पातन>
समगन्धं चतुर्यामं पक्त्वा ताप्यं ततः पचेत् ।
अर्धगन्धं यामयुग्मं भृष्टटङ्कार्धसंयुतम् ।
अन्धमूषागतं ध्मातं सत्त्वं मुञ्चति शुल्ववत् ॥ र॰चू॰७.८७ ॥
<गुटी औस् वेर्स्छ्. ष्तोffएन् -> वर्णोत्कर्ष (ङोल्धेर्स्तेल्लुन्ग्)>
भ्रामयेद्भस्ममूषायां ताप्यं गन्धकटङ्कणम् ।
गुटी भवति पीताभा वर्णोत्कर्षविधायिनी ॥ र॰चू॰७.८८ ॥
<गुटी:: for वर्णोत्कर्ष>
ताप्यस्य खण्डकान्सप्त दहेन्नागमृदन्तरे ।
ध्मापिता टङ्कणेनैव गुटीभवति पूर्ववत् ॥ र॰चू॰७.८९ ॥
<भूनाग:: सत्त्व:: पातन>
सद्यो भूनागमादाय चारयेच्छिखिनं बुधः ।
अथवा कुक्कुटं वीरं कृत्वा मन्दिरमागतम् ॥ र॰चू॰७.९० ॥
मलं मूत्रं गृहीत्वास्य संत्यज्य प्रथमांशिकम् ।
आलोड्य क्षारमध्वाज्यैर् धमेत् सत्त्वार्थम् आदरात् ॥ र॰चू॰७.९१ ॥
मुञ्चति ताम्रवत्सत्त्वं तन्मुद्राजलपानतः ।
नश्यति जङ्गमविषं स्थावरं च न संशयः ॥ र॰चू॰७.९२ ॥
<भूनाग:: सत्त्व:: पातन>
क्षीरेण पक्त्वा भूनागांस्तन्मृदा वाथ टङ्कणैः ।
भृष्टैश्चक्रीं विधायाथ पात्यं सत्त्वं प्रयत्नतः ॥ र॰चू॰७.९३ ॥
यत्रोपरसभागोऽस्ति रसे तत्सत्त्वयोजनम् ।
कर्तव्यं तत्फलाधिक्यं रसज्ञत्वम् अभीप्सता ॥ र॰चू॰७.९४ ॥
<मनःशिला:: शोधनम्>
जयन्तिकाद्रवे दोलायन्त्रे शुध्येन्मनःशिला ।
दिनमेकमजामूत्रे भृङ्गराजरसेऽपि वा ॥ र॰चू॰७.९५ ॥
<मनःशिला:: शुद्ध:: medic. प्रोपेर्तिएस्>
शिला स्निग्धा कटुस्तिक्ता कफघ्नी लेखनी सरा ॥ र॰चू॰७.९६ ॥
<मनःशिला:: रेमोवेस् कालिमा>
कूपिकादौ परीपाकात्स्वर्णस्य कालिमापहा ।
<मनःशिला:: द्रावण>
कटुतैले शिलाचम्पकदल्यन्तः सरत्यपि ॥ र॰चू॰७.९७ ॥
<रसक:: शोधनम्>
नरमूत्रे च गोमूत्रे जलाम्ले वा ससैन्धवे ।
सप्ताहं त्रिदिनं वापि पक्वः शुध्यति खर्परः ॥ र॰चू॰७.९८ ॥
<तुत्थ:: शोधन>
एकः सूतस्तथा पीतिश्चतुर्भेकास्त्रिदारकः ।
बीजपिष्टः पिकज्वालैर् भेको बद्धोऽन्धवेश्मनि ॥ र॰चू॰७.९९ ॥
विष्ठया मर्दयेत्तुत्थं समम् ओतोर् दशांशता ।
टङ्कणेन समं पिष्ट्वाथवा लघुपुटे पचेत् ।
तुत्थं शुद्धं भवेत्क्षौद्रे पुटितं वा विशेषतः ॥ र॰चू॰७.१०० ॥
<तुत्थ:: शुद्ध:: बोदिल्य् रेअच्तिओन्>
वान्तिर्भ्रान्तिर्यदा न स्तस्तदा शुद्धिं विनिर्दिशेत् ॥ र॰चू॰७.१०१ ॥
<तुत्थ:: शुद्ध:: medic. प्रोपेर्तिएस्>
लेखनं भेदि च ज्ञेयं तुत्थं कण्डुक्रिमिप्रणुत् ॥ र॰चू॰७.१०२ ॥
<माक्षिक:: शोधन>
अगस्त्यपत्रनिर्यासैः शिग्रुमूलं सुपेषितम् ।
तन्मध्ये पुटितं शुध्येत् ताप्यं त्वम्लेन पाचितम् ॥ र॰चू॰७.१०३ ॥
<माक्षिक:: शोधन>
सिन्धूद्भवस्य भागैकं त्रिभागं माक्षिकस्य च ।
मातुलुङ्गरसैर्वापि जम्बीरोत्थद्रवेण वा ॥ र॰चू॰७.१०४ ॥
कृत्वा तदायसे पात्रे लौहदर्व्या च चालयेत् ।
सिन्दूराभं भवेद्यावत् तावन्मृद्वग्निना पचेत् ।
सुशुद्धं माक्षिकं विद्यात्सर्वरोगेषु योजयेत् ॥ र॰चू॰७.१०५ ॥
<माक्षिक:: मारण>
माक्षिकस्य चतुर्थांशं गन्धं दत्त्वा विमर्दयेत् ।
उरूवूकस्य तैलेन ततः कुर्यात्सुचक्रिकाम् ॥ र॰चू॰७.१०६ ॥
शरावसंपुटे धृत्वा पुटेद्गजपुटेन च ।
सिन्दूराभं भवेद्भस्म माक्षिकस्य न संशयः ॥ र॰चू॰७.१०७ ॥
<माक्षिक:: मृत:: medic. प्रोपेर्तिएस्>
माक्षिकं तिक्तमधुरं मोहार्शःक्रिमिकुष्ठनुत् ।
कफपित्तहरं बल्यं योगवाहि रसायनम् ॥ र॰चू॰७.१०८ ॥
<विमल:: शोधन>
जम्बीरस्य रसे स्वेदो मेषशृङ्गीरसे ऽथवा ।
रम्भातोयेन वा पाको घस्रं विमलशुद्धये ॥ र॰चू॰७.१०९ ॥
<कासीस:: शोधन>
सकृद्भृङ्गाम्बुना स्विन्नं कासीसं निर्मलं भवेत् ॥ र॰चू॰७.११० ॥
<कासीस:: शुद्ध:: medic. प्रोपेर्तिएस्>
कासीसं शीतलं स्निग्धं श्वित्रनेत्ररुजापहम् ।
पित्तापस्मारशमनं रसवद् गुणकारकम् ॥ र॰चू॰७.१११ ॥
<कान्त:: शोधनम्>
लवणानि तथा क्षारौ शोभाञ्जनरसे क्षिपेत् ।
अम्लवर्गयुतेनादौ दिने घर्मे विभावयेत् ॥ र॰चू॰७.११२ ॥
तद्द्रवैर्दोलिकायन्त्रे दिवसं पाचयेत् सुधीः ।
कान्तपाषाणशुद्धौ तु रसकर्म समाचरेत् ॥ र॰चू॰७.११३ ॥
<मोनेय् चोwरिए:: फ्य्स्. प्रोपेर्तिएस्>
पीताभा ग्रन्थिला पृष्ठे दीर्घवृत्ता वराटिका ।
<मोनेय् चोwरिए:: ओप्तिमल् wएइघ्त्>
सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा ।
पादोननिष्कभारा च कनिष्ठा परिकीर्तिता ॥ र॰चू॰७.११४ ॥
<मोनेय् चोwरिए:: शोधन>
वराटी काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयात् ॥ र॰चू॰७.११५ ॥
<मोनेय् चोwरिए:: शुद्ध:: medic. प्रोपेर्तिएस्>
परिणामादिशूलघ्नी ग्रहणीक्षयहारिणी ।
कटूष्णा दीपनी वृष्या तिक्ता वातकफापहा ।
रसेन्द्रजारणे प्रोक्ता विडद्रव्येषु शस्यते ॥ र॰चू॰७.११६ ॥
<दरद:: शोधनम्>
मेषीक्षीरेण दरदमम्लवर्गेण भावितम् ।
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥ र॰चू॰७.११७ ॥
<दरद:: शुद्ध:: medic. प्रोपेर्तिएस्>
तिक्तोष्णं हिङ्गुलं दिव्यं रसगन्धसमुद्भवम् ।
मेहकुष्ठहरं रुच्यं मेधाग्निवर्धनम् ॥ र॰चू॰७.११८ ॥
<शोधन of दिff. सुब्स्तन्चेस्>
सौवीरं टङ्कणं शङ्खं कङ्कुष्ठं गैरिकं तथा ।
एते वराटवच्छोध्या भवेयुर्दोषवर्जिताः ॥ र॰चू॰७.११९ ॥
<कासीस:: शोधन>
जम्बीरपयसा शुध्येत्कासीसं टङ्कणाद्यपि ॥ र॰चू॰७.१२० ॥
<स्रोतोञ्जन:: शोधनम्>
स्रोतोञ्जनं तु गोमूत्रघृतक्षौद्रवसादिभिः ।
विभावितं च शुद्धं स्याद्रसबन्धकरं परम् ॥ र॰चू॰७.१२१ ॥
<नीलाञ्जन:: शोधन>
नीलाञ्जनं चूर्णयित्वा जम्बीरद्रवभावितम् ।
दिनैकमातपे शुद्धं भवेत्कार्येषु योजयेत् ॥ र॰चू॰७.१२२ ॥
<एxत्रच्तिओन् of ओइल् fरोम् सेएद्स्>
सुपक्वभानुपत्राणां रसमादाय धारयेत् ।
समस्तबीजचूर्णं यदुक्तानुक्तं पृथक्पृथक् ।
आतपे मुञ्चते तैलं साध्यासाध्यं न संशयः ॥ र॰चू॰७.१२३ ॥


रसेन्द्रचूडामणि ८[सम्पाद्यताम्]

अथातः प्रयोगीयम् अध्यायं व्याचक्ष्महे ॥ र॰चू॰८.१ ॥
तत्रश्लोकचतुष्टयं प्रागधिगन्तव्यम् ॥ र॰चू॰८.२ ॥
साग्नीनां चरकमतं फलमूलाद्यौषधं यदविरुद्धम् ।
तद्यदि रसानुपीतं भवेत्तदा त्वरितम् उल्लाघः ॥ र॰चू॰८.३ ॥
मात्रावृद्धिः कार्या तुल्यायामुपकृतौ क्रमाद्विदुषा ।
मात्राह्रासः कार्यो वैगुण्ये त्यागसमये च ॥ र॰चू॰८.४ ॥
वल्मीककूपतरुतलरथ्यादेवालयश्मशानेषु ।
जाता विधिनापि हृता ओषध्यः सिद्धिदा न स्युः ॥ र॰चू॰८.५ ॥
कचकचिति न दन्ताग्रे कुर्वन्ति समानि केतकीरजसा ।
योज्यानि हि प्रयोगे रसोपरसलोहचूर्णानि ॥ र॰चू॰८.६ ॥
सर्वप्रयोगयोग्यतया रसेन्द्रमारणाय शाम्भवीमुद्रामभिदध्मः ॥ र॰चू॰८.७ ॥
<अन्तर्धूम (?)>
अधस्ताप उपर्यापो मध्ये पारदगन्धकौ ।
यदि स्यात्सुदृढा मुद्रा मन्दभाग्योऽपि सिध्यति ॥ र॰चू॰८.८ ॥
यदि कार्यम् अयोयन्त्रं तदा तत्सार इष्यते ॥ र॰चू॰८.९ ॥
समे गन्धे तु रोगघ्नो द्विगुणे राजयक्ष्मनुत् ।
जीर्णे गुणत्रये गन्धे कामिनीदर्पनाशनः ॥ र॰चू॰८.१० ॥
चतुर्गुणे तु तेजस्वी सर्वशास्त्रविशारदः ।
भवेत्पञ्चगुणे सिद्धः षड्गुणे मृत्युजिद्भवेत् ॥ र॰चू॰८.११ ॥
षड्गुणे रोगघ्न इतियदुक्तं तत्तु बहिर्धूममूर्च्छायाम् एवाधिगन्तव्यम् तत्र गन्धस्य समग्रजारणाभावात् स्वर्णादिपिष्टिकायामपि रीतिरियम् ॥ र॰चू॰८.१२ ॥
<मेदिचिने:: स्तोरगे>
वंशे वा माहिषे शृङ्गे स्थापयेत् साधितं रसम् ॥ र॰चू॰८.१३ ॥
अमृतं च विषं प्रोक्तं शिवेन च रसायनम् ।
अमृतं विधिसंयुक्तं विधिहीनं तु तद्विषम् ॥ र॰चू॰८.१४ ॥
<गन्धामृत>
भस्मसूतं द्विधा गन्धं शतं कन्याम्बुमर्दितम् ।
रुद्ध्वा लघुपुटे पच्यादुद्धृत्य मधुसर्पिषा ॥ र॰चू॰८.१५ ॥
निष्कमात्रं जरामृत्युं हन्ति गन्धामृतो रसः ।
समूलं भृङ्गराजं तु छायाशुष्कं विमर्दयेत् ॥ र॰चू॰८.१६ ॥
तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ।
पलैकं भक्षयेच्चानु वर्षान्मृत्युजरापहम् ॥ र॰चू॰८.१७ ॥
<हेमसुन्दररसः>
मृतसूतस्य पादांशं हेमभस्म प्रकल्पयेत् ।
क्षीराज्यमधुना मिश्रं माषैकं कान्तपात्रके ॥ र॰चू॰८.१८ ॥
लोहयेन् माषषट्कं तु जरामृत्युविनाशनम् ।
वाकुचीचूर्णकर्षैकं धात्रीफलरसप्लुतम् ।
अनुपानं लिहेन्नित्यं स्याद्रसो हेमसुन्दरः ॥ र॰चू॰८.१९ ॥
<चन्द्रोदयरसः>
पलं मृदु स्वर्णदलं रसेन्द्रात्पलाष्टकं षोडशगन्धकस्य ।
शोणैः सुकार्पासभवप्रसूनैः सर्वं विमर्द्याथ कुमारिकाद्भिः ॥ र॰चू॰८.२० ॥
तत्काचकुम्भे निहितं सुगाढे मृत्कर्पटैस् तद्दिवसत्रयं च ।
पचेत्क्रमाग्नौ सिकताख्ययन्त्रे ततो रसः पल्लवरागरम्यः ॥ र॰चू॰८.२१ ॥
संगृह्य चैतस्य पलं पलं पलानि चत्वारि कर्पूररजस् तथैव ।
जातीफलं शोषणम् इन्द्रपुष्पं कस्तूरिकाया इह शाण एकः ॥ र॰चू॰८.२२ ॥
चन्द्रोदयोऽयं कथितो ऽस्य वल्लो भुक्तोऽहिवल्लो दलमध्यवर्ती ।
मदोन्मदानां प्रमदाशतानां गर्वाधिकत्वं श्लथयत्यकाण्डे ॥ र॰चू॰८.२३ ॥
शृतं घनीभूतम् अतीवदुग्धं गुरूणि मांसानि समण्डकानि ।
माषान्नपिष्टानि भवन्ति पथ्यान्यानन्ददायीन्यपराणि चात्र ॥ र॰चू॰८.२४ ॥
रतिकाले रतान्ते च सेवितोऽयं रसेश्वरः ।
मानहानिं करोत्येष प्रमदानां सुनिश्चितम् ॥ र॰चू॰८.२५ ॥
कृत्रिमं स्थावरं चैव जङ्गमं चैव यद् विषम् ।
न विकाराय भवति साधकेन्द्रस्य वत्सरात् ॥ र॰चू॰८.२६ ॥
यथामृत्युञ्जयो ऽभ्यासान्मृत्युं जयति देहिनाम् ।
तथायं साधकेन्द्रस्य जरामरणनाशनः ॥ र॰चू॰८.२७ ॥
वलीपलितनाशनस् तनुधृतां वयःस्तम्भनः ।
समस्तगदखण्डनः प्रचुररोगपञ्चाननः ।
गृहे च रसराडयं भवति यस्य चन्द्रोदयः ।
स पञ्चशरदर्पितो मृगदृशां भवेद् वल्लभः ॥ र॰चू॰८.२८ ॥
<मृत्युञ्जयरसः>
बलिः सूतो निम्बूरसविमृदितो भस्मसिकताह्वये यन्त्रे कृत्वा समरविकणाटङ्कणरजः ।
त्रिघस्रं लुङ्गाम्भोलवकदलितः क्षौद्रहविषा विलीढो माषैको दलयति समस्तं गदगणम् ॥ र॰चू॰८.२९ ॥
जरां वर्षैकेन क्षपयति च पुष्टिं वितनुते तनौ तेजस्कारं रमयति वधूनामपि शतम् ।
रसः श्रीमान्मृत्युञ्जय इति गिरीशेन गदितः प्रभावं को वान्यः कथयितुमपारं प्रभवति ॥ र॰चू॰८.३० ॥
<गन्धदाह>
पिष्टिः कार्या गन्धकेनेन्दुमौलेर् ऊर्ध्वं चाधो गन्धमादाय तुल्यम् ।
धार्या मध्ये पक्वमूषा तुषाग्नौ स्थाप्या चेत्थं मन्यते गन्धदाहः ॥ र॰चू॰८.३१ ॥
<आनन्दसूतरसः>
शुद्धं रसं समविषं प्रहरं विमर्द्य तद्गोलकं कनकचारुफले निधाय ।
दोलागतं पञ्चदिनं विषमुष्टितोये प्रक्षाल्य तत्पुनरपीह तथा द्विवारम् ॥ र॰चू॰८.३२ ॥
तत्सूतके गिरिशलोचनयुग्मगन्धं युक्त्यावजार्य कुरु भस्म समं च तस्य ।
वैक्रान्तभस्म जयपालनवांशकार्धं सर्वैर् विषं द्विगुणितं मृदितं च खल्वे ॥ र॰चू॰८.३३ ॥
घस्रत्रयं कनकभृङ्गरसेन गाढम् आवेश्य भाजनतले विषधूपभाजि ।
भृङ्गद्रवेण शिथिलं लघुकाचकूप्याम् आपूर्य रुद्धवदनां सिकताख्ययन्त्रे ॥ र॰चू॰८.३४ ॥
तां वासरार्थम् उपदीप्य निसर्गशीतां दृष्ट्वा विचूर्ण्य गदशालिषु शालिमात्रम् ।
आनन्दसूतम् अखिलामयकुम्भिसिंहं गद्याणकार्धसितया सह देहि पश्चात् ॥ र॰चू॰८.३५ ॥
रोगानुरूपमनुपानमपि प्रकाशं क्षोणीभुजां प्रचुरपूजनमाप्नुहि त्वम् ।
कीर्त्या दिशो धवलय स्फुरदिन्दुकान्त्या वैद्येश्वरेति विरुदं भज वैद्यराज ॥ र॰चू॰८.३६ ॥
<अर्कानलेश्वररसः>
माक्षीककनकौ गन्धं भ्रामयित्वा विचूर्णयेत् ।
रसं गन्धाद् द्विभागं च सिकतायन्त्रगं पचेत् ॥ र॰चू॰८.३७ ॥
दिनमेवं च तारं वा जरारोगहरं महत् ।
<रविचन्द्रेश्वररसः>
रसेन पिष्ट्वा स्वर्णं वा ताप्यं पश्चाद् विमिश्रयेत् ॥ र॰चू॰८.३८ ॥
ताप्यस्थाने मृतं तालं तारकर्मणि कस्यचित् ।
रससंख्यान्पुटान्दद्याद्गन्धैर्वा वीर्यवृद्धये ॥ र॰चू॰८.३९ ॥
<प्राणिकल्पद्रुमगुटी>
सूतं गन्धं कान्तपाषाणमिश्रं ब्राह्मैर् बीजैर् मर्दयेद् एकघस्रम् ।
गोलं कृत्वा टङ्कणेन प्रवेष्ट्य पश्चान्मृत्स्नागोमयाभ्यां धमेत्तम् ॥ र॰चू॰८.४० ॥
शुष्कं यन्त्रे सत्त्वपातप्रधाने किट्टः सूतो बद्धतामेति नूनम् ।
बद्धं पश्चात् सारकाचप्रयोगाद्धेम्ना तुल्यं सूतमावर्तयेत्तु ॥ र॰चू॰८.४१ ॥
वक्त्रे गोलः स्थापितो वत्सरार्थं रोगान् सर्वान्हन्ति सौख्यं करोति ।
यद्वा दुग्धे गोलकं पाचयित्वा दद्याद् दुग्धं पिप्पलीभिः क्षये तत् ॥ र॰चू॰८.४२ ॥
लौहे पात्रे पाचयित्वा तु देयं शुष्के पाण्डौ कामले पित्तरोगे ।
वाते गोलं व्योषवातारितैले पक्त्वा तैलं गन्धयुक्तं ददीत ॥ र॰चू॰८.४३ ॥
भार्ङ्गीमुण्डीकासमर्दाटरूषद्रावैर् गोलं पाचयेच्छ्लेष्मनुत्त्यै ।
कासे श्वासे तं च दद्यात् कषायं माध्वीकाक्तं पिप्पलीचूर्णयुक्तम् ॥ र॰चू॰८.४४ ॥
यस्मिन् रोगे यः कषायोऽस्ति चोक्तस्तस्मिन् गोलं पाचयित्वा कषाये ।
दद्यात्तत्तद्रोगनाशाय पथ्यं तत्तद्रोगे कीर्तितं यत्तदेव ॥ र॰चू॰८.४५ ॥
उक्तो गोलः प्राणिकल्पद्रुमोऽयं पूजां कृत्वा योजयेद्भक्तियोगात् ।
<रसशार्दूलरसः>
रसस्य द्विगुणं गन्धं शुद्धं संमर्दयेद् दिनम् ।
प्रतिलौहं सूततुल्यमष्टलौहं मृतं क्षिपेत् ॥ र॰चू॰८.४६ ॥
ब्राह्मी जयन्ती निर्गुण्डी मधुयष्टी पुनर्नवा ।
नीलिका गिरिकर्ण्यर्ककृष्णधत्तूरकं यवाः ॥ र॰चू॰८.४७ ॥
आटरूषः काकमाची द्रवैरासां विमर्दयेत् ।
गुञ्जात्रयं चतुष्कं वा सर्वरोगेषु योजयेत् ।
रोगोक्तमनुपानं वा कवोष्णं वा जलं पिबेत् ॥ र॰चू॰८.४८ ॥
<त्रिनेत्ररसः>
रसगन्धकताम्राणि सिन्धुवाररसौदनम् ।
मर्दयेदातपे पश्चाद्वालुकायन्त्रमध्यगम् ॥ र॰चू॰८.४९ ॥
रुद्ध्वा मूषागतं यामत्रयं तीव्राग्निना पचेत् ।
तद्गुञ्जा सर्वरोगेषु पर्णखण्डिकया सह ॥ र॰चू॰८.५० ॥
दातव्या देहसिद्ध्यर्थं पुष्टिवीर्यबलाय च ।
रसोऽयं हेमताराभ्याम् अपि सिध्यति कन्यया ॥ र॰चू॰८.५१ ॥
<अमृतार्णवरसः>
सूतभस्म चतुर्भागं लौहभस्म तथाष्टकम् ।
मेघभस्म च षड्भागं शुद्धगन्धस्य पञ्चकम् ॥ र॰चू॰८.५२ ॥
भावयेत्त्रिफलाक्वाथैस् तत् सर्वं भृङ्गजैर्द्रवैः ।
शिग्रुवह्णिकटुक्यद्भिः सप्तधा भावयेत्पृथक् ॥ र॰चू॰८.५३ ॥
सर्वतुल्या कणा योज्या गुडैर्मिश्रं पुरातनैः ।
निष्कमात्रं सदा खादेज्जरां मृत्युं निहन्त्यलम् ॥ र॰चू॰८.५४ ॥
ब्रह्मायुःस्याच्चतुर्मासै रसोऽयममृतार्णवः ।
तिलकौरण्टपत्राणि गुडेन भक्षयेदनु ॥ र॰चू॰८.५५ ॥
<रत्नेश्वररसः>
अर्धं पारदतुल्येन तारं ताम्रेण मेलयेत् ।
मारयेत् सिकतायन्त्रे शिलाहिङ्गुलगन्धकैः ॥ र॰चू॰८.५६ ॥
अयं रत्नेश्वरः सूतः सर्वत्रैव प्रयुज्यते ।
हेम्नो ऽन्तर्योजितो ह्येषो हेमतां प्रतिपद्यते ॥ र॰चू॰८.५७ ॥
शेषोऽर्कश्चेद्गन्धकैर्वा कुनट्या वाहतद्विपैः ।
शोधयेत् कनकं सम्यग् अन्यैर् वा कालिकापहैः ।
वर्णह्रासे तु ताप्येन कारयेद्वर्णमुत्तमम् ॥ र॰चू॰८.५८ ॥
<दुर्नामारि>
प्रणम्य शङ्करं रुद्रं दण्डपाणिं महेश्वरम् ।
जीवितारोग्यमन्विच्छन्नारदोऽपृच्छदीश्वरम् ॥ र॰चू॰८.५९ ॥
सुखोपायेन हे नाथ शस्त्रक्षाराग्निभिर्विना ।
दुर्बलानां च भीरूणां चिकित्सां वक्तुमर्हसि ॥ र॰चू॰८.६० ॥
तच्छिष्यवचनं श्रुत्वा लोकानां हितकाम्यया ।
अर्शसां नाशनं श्रेष्ठं भैषज्यम् इदम् ईरितम् ॥ र॰चू॰८.६१ ॥
पाण्डिवज्रादिलोहानाम् आदायान्यतमं शुभम् ।
कृत्वा निर्मलम् आदौ तु कुनट्या माक्षिकेण च ॥ र॰चू॰८.६२ ॥
पत्तूरमूलकल्केन स्वरसेन दहेत्ततः ।
वह्नौ निक्षिप्य विधिवच्छालाङ्गारेण निर्धमेत् ॥ र॰चू॰८.६३ ॥
ज्वाला च तस्य रोद्धव्या त्रिफलाया रसेन च ।
ततो विज्ञाय गलितं शङ्कुनोर्ध्वं समुत्क्षिपेत् ॥ र॰चू॰८.६४ ॥
त्रिफलाया रसे पूते तदाकृष्य तु निर्वपेत् ।
न सम्यग्गलितं यत्तु तेनैव विधिना पुनः ॥ र॰चू॰८.६५ ॥
ध्मातं निर्वापयेत्तस्मिंल्लौहं तत्त्रिफलारसे ।
यल्लौहं न मृतं तत्र पाच्यं भूयोऽपि पूर्ववत् ॥ र॰चू॰८.६६ ॥
मारणान्न मृतं यच्च तत् त्यक्तव्यम् अलौहवत् ।
ततः संशोष्य विधिवच्चूर्णयेल्लौहभाजने ॥ र॰चू॰८.६७ ॥
लोहखल्वे तथा पिंष्याद् दृषदि श्लक्ष्णचूर्णितम् ।
कृत्वा लोहमये पात्रे सार्द्रे वा लिप्तरन्धके ॥ र॰चू॰८.६८ ॥
रसैः पङ्कसमं कृत्वा पचेत्तद्गोमयाग्निना ।
पुटानि क्रमशो दद्यात्पृथगेषां विधानतः ॥ र॰चू॰८.६९ ॥
त्रिफलार्द्रकभृङ्गाणां केशराजस्य बुद्धिमान् ।
मानकन्दकभल्लातवह्नीनां सूरणस्य च ॥ र॰चू॰८.७० ॥
हस्तिकर्णपलाशस्य कुलिशस्य तथैव च ।
पुटे पुटे चूर्णयित्वा लोहात्षोडशिकं पलम् ॥ र॰चू॰८.७१ ॥
तन्मानं त्रिफलायाश्च पलेनाधिकम् आहरेत् ।
अष्टभागावशिष्टे तु रसे तस्याः पचेद् बुधः ॥ र॰चू॰८.७२ ॥
अष्टौ पलानि दत्त्वा तु सर्पिषो लोहभाजने ।
ताम्रे वा लोहदर्व्या तु चालयेद् विधिपूर्वकम् ॥ र॰चू॰८.७३ ॥
ततः पाकविधानज्ञः स्वच्छे चोर्ध्वे च सर्पिषि ।
मृदुमध्यादिभेदेन गृह्णीयात्पाकमन्यतः ॥ र॰चू॰८.७४ ॥
आरभेत विधानेन कृतकौतुकमङ्गलः ।
घृतभ्रामरसंयुक्तं लिहेद् आ रक्तिकं क्रमात् ॥ र॰चू॰८.७५ ॥
वर्धमानानुपानं च गव्यं क्षीरोत्तमं मतम् ।
गव्याभावेऽप्यजायाश्च स्निग्धवृष्यादिभोजनम् ॥ र॰चू॰८.७६ ॥
सद्यो वह्णिकरं चैव भस्मकं च नियच्छति ।
हन्ति वातं तथा पित्तं कुष्ठानि विषमज्वरम् ॥ र॰चू॰८.७७ ॥
गुल्माक्षिपाण्डुरोगांश्च तन्द्रालस्यमरोचकम् ।
परिणामभवं शूलं प्रमेहमपबाहुकम् ॥ र॰चू॰८.७८ ॥
श्वयथुं रुधिरस्रावं दुर्नामानं विशेषतः ।
बलकृद् बृंहणं चैव कान्तिदं स्वरवर्धनम् ॥ र॰चू॰८.७९ ॥
शरीरलाघवकरमारोग्यं पुष्टिवर्धनम् ।
आयुष्यं श्रीकरं चैव वयस्तेजस्करं तथा ॥ र॰चू॰८.८० ॥
सश्रीकपुत्रजननं वलीपलितनाशनम् ।
दुर्नामारिर् अयं नाम्ना दृष्टो वारान् सहस्रशः ।
निर्मूलं दह्यते शीघ्रं यथा तूलं च वह्णिना ॥ र॰चू॰८.८१ ॥
सौकुमार्याल्पकायत्वे मद्यसेवां समाचरेत् ।
जीर्णमद्यानि युक्तानि भोजनैः सह पाययेत् ॥ र॰चू॰८.८२ ॥
लावतित्तिरिवर्तीरमयूरशशकादयः ।
चटकः कलविङ्कश्च वर्तको हरितालकः ॥ र॰चू॰८.८३ ॥
श्येनकश्च बृहल्लावो वनविष्किरकादयः ।
पारावतमृगादीनां मांसं जाङ्गलजं तथा ॥ र॰चू॰८.८४ ॥
मद्गुरो रोहितः श्रेष्ठः शकुलश्च विशेषतः ।
मत्स्यराजा इमे प्रोक्ता हितमत्स्येषु योजयेत् ॥ र॰चू॰८.८५ ॥
प्रशस्तं वार्ताकफलं पटोलं बृहतीफलम् ।
प्रलम्बाभीरुवेत्राग्रजातुकं तण्डुलीयकम् ॥ र॰चू॰८.८६ ॥
वास्तुकं धान्यशाकं च कर्णालुकपुनर्नवाम् ।
नारिकेलं च खर्जूरं दाडिमं लवलीफलम् ॥ र॰चू॰८.८७ ॥
शृङ्गाटकं च पक्वाम्रं द्राक्षा तालफलानि च ।
जातिकोषं लवङ्गं च पूगं ताम्बूलपत्रकम् ।
हितान्येतानि वसूनि लोहमेतत्समश्नताम् ॥ र॰चू॰८.८८ ॥
नाश्नीयाल्लकुचं कोलकर्कन्धुबदराणि च ।
जम्बीरं बीजपूरं च तिन्तिडीकरमर्दकम् ॥ र॰चू॰८.८९ ॥
आनूपानि च मांसानि क्रकरं पुण्ड्रकादिकम् ।
हंससारसदात्यूहचाषक्रौञ्चबलाकिकाः ॥ र॰चू॰८.९० ॥
माषकन्दकरीराणि चणकं च कलिङ्गकम् ।
कूष्माण्डकं च कर्कोटीं केबुकं च विशेषतः ॥ र॰चू॰८.९१ ॥
कञ्चटं कारवेल्लं च कशेरुं कर्कटीं तथा ।
विदलानि च सर्वाणि ककारादींश्च वर्जयेत् ॥ र॰चू॰८.९२ ॥
शङ्करेण समाख्यातो यक्षराजानुकम्पया ।
जगतामुपकाराय दुर्नामारिरयं ध्रुवम् ॥ र॰चू॰८.९३ ॥
स्थानादपैति मेरुश्च पृथ्वी पर्येति वायुना ।
पतन्ति चन्द्रताराश्च मिथ्या चेदहमब्रुवम् ॥ र॰चू॰८.९४ ॥
ब्रह्मघ्नाश्च कृतघ्नाश्च क्रूराश्चासत्यवादिनः ।
वर्जनीया विदग्धेन भैषज्यगुरुनिन्दकाः ॥ र॰चू॰८.९५ ॥
<इरोन्:: दोष:: रेमोवल्>
मुनिरसपिष्टविडङ्गं मुनिरसलीढं चिरस्थितं घर्मे ।
द्रावयति लोहदोषान् वह्णिर्नवनीतपिण्डमिव ॥ र॰चू॰८.९६ ॥
कृमिरिपुचूर्णं लीढं सहितं स्वरसेन वङ्गसेनस्य ।
क्षपयत्यचिरान्नियतं लोहाजीर्णोद्भवं शूलम् ॥ र॰चू॰८.९७ ॥
जीर्णे लौहे त्वपतति चूर्णं भुञ्जीत सिद्धिसाराख्यम् ।
लौहव्यापन्नश्यति विवर्धते जाठरो वह्णिः ॥ र॰चू॰८.९८ ॥
<सिद्धसार>
पथ्यासैन्धवशुण्ठीमागधिकानां पृथक्समो भागः ।
त्रिवृताभागौ निम्बूभाव्यं स्यात् सिद्धिसाराख्यम् ॥ र॰चू॰८.९९ ॥
आरग्वधस्य मज्जाभी रेचनं किट्टशान्तये ।
भवेद्यदतिसारस्तु दुग्धं पीत्वा तु तं जयेत् ॥ र॰चू॰८.१०० ॥
रक्तिद्वादशकाद् ऊर्ध्वं वृद्धिरस्य भयप्रदा ॥ र॰चू॰८.१०१ ॥
काले मलप्रवृत्तिर्लाघवमुदरे विशुद्धिर् उद्गारे ।
अङ्गेषु नावसादो मनःप्रसादोऽस्य परिपाके ॥ र॰चू॰८.१०२ ॥
नागार्जुनो मुनीन्द्रः शशास यल्लोहशास्त्रम् अतिगहनम् ।
तस्यार्थस्य स्मृतये वयमेतद्विशदाक्षरैर्ब्रूमः ॥ र॰चू॰८.१०३ ॥
मेने मुनिः स्वतन्त्रे यः पाकं न पलपञ्चकादर्वाक् ।
सुबहुप्रयोगदोषाद् ऊर्ध्वं च पलत्रयोदशकात् ॥ र॰चू॰८.१०४ ॥
तत्रायसि पचनीये पञ्चपलादौ त्रयोदशपलकान्ते ।
लौहात्त्रिगुणा त्रिफला ग्राह्या षड्भिः पलैरधिका ॥ र॰चू॰८.१०५ ॥
मारणपुटनस्थालीपाकास् त्रिफलैकभागसंपाद्याः ।
त्रिफलाभागद्वितयं ग्रहणीयं लौहपाकार्थम् ॥ र॰चू॰८.१०६ ॥
सर्वत्रायः पुटनाद्यर्थैकांशे शरावसंख्यातम् ।
प्रतिपलमेव त्रिगुणं पाथः क्वाथार्थमादेयम् ॥ र॰चू॰८.१०७ ॥
सप्तपलादौ भागे पञ्चदशान्तेऽम्भसां शरावैश्च ।
त्र्याद्यैकादशकान्तैर् अधिकं तद्वारि कर्तव्यम् ॥ र॰चू॰८.१०८ ॥
तत्राष्टमो विभागः शेषः क्वाथस्य यत्नतः स्थाप्यः ।
तेन हि मारणपुटनस्थालीपाका भविष्यन्ति ॥ र॰चू॰८.१०९ ॥
पाकार्थे तु त्रिफलाभागद्वितये शरावसंख्यातम् ।
प्रतिपलमम्बु समं स्यादधिकं द्वाभ्यां शरावाभ्याम् ॥ र॰चू॰८.११० ॥
तत्र चतुर्थो भागः शेषो निपुणैः प्रयत्नतो ग्राह्यः ।
अयसः पाकार्थत्वात्स च सर्वस्मात् प्रधानतमः ॥ र॰चू॰८.१११ ॥
पाकार्थमश्मसारे पञ्चपलादौ त्रयोदशपलान्ते ।
दुग्धशरावद्वितयं पादैर् एकादिकैर् अधिकम् ॥ र॰चू॰८.११२ ॥
पञ्चपलादिर्मात्रा तदभावे तदनुसारतो ग्राह्यम् ।
चतुरादिकम् एकान्तं शक्तावधिकं त्रयोदशकात् ॥ र॰चू॰८.११३ ॥
<इरोन्:: प्रक्षेपचूर्ण>
त्रिफलात्रिकटुकचित्रककान्तक्रामकविडङ्गचूर्णानि ।
जातीफलस्य जातीकोषैलाकङ्कोललवङ्गानाम् ।
सितकृष्णजीरकयोर् अपि चूर्णान्ययसा समानि स्युः ॥ र॰चू॰८.११४ ॥
त्रिफलात्रिकटुविडङ्गा नियता अन्ये यथाप्रकृति बोध्याः ।
कालायसदोषहृते जातीफलादेर्लवङ्गकान्तस्य ।
क्षेपः प्राप्त्यनुरूपः सर्वस्योनस्य चैकाद्यैः ॥ र॰चू॰८.११५ ॥
कान्तक्रामकमेकं निःशेषं दोषमपहरत्ययसः ॥ र॰चू॰८.११६ ॥
द्विगुणत्रिगुणचतुर्गुणमाज्यं ग्राह्यं यथाप्रकृति ॥ र॰चू॰८.११७ ॥
यदि भेषजभूयस्त्वं स्तोकत्वं वा तथापि चूर्णानाम् ।
अयसा साम्यं संख्या भूयोऽल्पत्वेन भूयोऽल्पा ॥ र॰चू॰८.११८ ॥
एवं धात्वनुसारात्तत्तत्कथितौषधस्य बाधेन ।
सर्वत्रैव विधेयस् तत्तत्कथितस्यौषधस्योहः ॥ र॰चू॰८.११९ ॥
<लौहमारणम्>
कान्तादिलौहमारणविधानसर्वस्वम् उच्यते तावत् ।
यस्य कृते तल्लौहं पक्तव्यं तस्य शुभे दिवसे ॥ र॰चू॰८.१२० ॥
समृदङ्गारकरालितनतभूभागे शिवं समभ्यर्च्य ।
वैदिकविधिना वह्णिं निधाय दत्त्वाहुतीस्तत्र ॥ र॰चू॰८.१२१ ॥
धर्मात् सिध्यति सर्वं श्रेयस्तद्धर्मसिद्धये किमपि ।
शक्त्यनुरूपं दद्याद् द्विजाय संतोषिणे गुणिने ॥ र॰चू॰८.१२२ ॥
संतोष्य कर्मकारं प्रसादपूगादिदानसत्पानैः ।
आदौ तदश्मसारं निर्मलमेकान्ततः कुर्यात् ॥ र॰चू॰८.१२३ ॥
<??>
तदनु कुठारच्छिन्नात्रिफलागिरिकर्णिकास्थिसंहारैः ।
करिकर्णच्छदमूलशतावरीकेशराजाख्यैः ॥ र॰चू॰८.१२४ ॥
शालिं च मूलकाशीमूलप्रावृड्जभृङ्गराजैश् च ।
लिप्त्वा दग्धव्यं तद्दृष्टक्रियलौहकारेण ॥ र॰चू॰८.१२५ ॥
चिरजलभावितनिर्मलशालाङ्गारेण परित आच्छाद्य ।
कुशलाध्मापितभस्त्रानवरतमुक्तेन पवनेन ॥ र॰चू॰८.१२६ ॥
<??>
वह्णेर्बाह्यज्वाला बोद्धव्या जातु नैव कुञ्चिकया ।
मृल्लवणसलिलभाजा किं तु स्वच्छाम्बुसंप्लुतया ॥ र॰चू॰८.१२७ ॥
<द्रुग्स्:: लोसे पोतेन्च्य् ब्य् इम्पुरितिएस्>
द्रव्यान्तरसंयोगात् स्वां शक्तिं भेषजानि मुञ्चन्ति ।
मलधूलिमत् सर्वं सर्वत्र विवर्जयेत्तस्मात् ॥ र॰चू॰८.१२८ ॥
<मेतल्स्:: मेथोद् for मेल्तिन्ग्>
सन्दंशेन गृहीत्वान्तः प्रज्वलिताग्निमध्यमुपनीय ।
गलति यथायथमग्रे तथैव मृदु वर्धयेन्निपुणः ॥ र॰चू॰८.१२९ ॥
<निर्वापण:: मेथोद्>
तलनिहितोर्ध्वमुखाङ्कुशलग्नं त्रिफलाजले विनिक्षिप्य ।
निर्वापयेदशेषं शेषं त्रिफलाम्बु रक्षेच्च ॥ र॰चू॰८.१३० ॥
<इरोन्/मेतल्स्:: परीक्षा:: उन्मेल्तब्ले>
यल्लौहं न मृतं तत्पुनरपि पक्तव्यम् उक्तमार्गेण ।
यन्न मृतं तथापि तत् त्यक्तव्यम् अलौहमेव हि यत् ॥ र॰चू॰८.१३१ ॥
<जारणा (?):: => क्षालन>
तदनु घनलौहपात्रे कालायसमुद्गरेण संचूर्ण्य ।
दत्त्वा बहुशः सलिलं प्रक्षाल्याङ्गारम् उद्धृत्य ॥ र॰चू॰८.१३२ ॥
तदयः केवलम् अग्नौ शुष्कीकृत्याथवातपे पश्चात् ।
लौहशिलायां पिंष्यादसितेऽश्मनि वा तदप्राप्तौ ॥ र॰चू॰८.१३३ ॥
<स्थालीपाक>
अथ कृत्वायो भाण्डे दत्त्वा त्रिफलाम्बु शेषमन्यद्वा ।
प्रथमं स्थालीपाकं दद्याद् आ तत्क्षयात् तदनु ॥ र॰चू॰८.१३४ ॥
गजकर्णपत्रमूलशतावरीभृङ्गकेशराजरसैः ।
प्राग्वत् स्थालीपाकं कुर्यात्प्रत्येकमेकं वा ॥ र॰चू॰८.१३५ ॥
<पुटपाक>
हस्तप्रमाणवदनं श्वभ्रं हस्तैकखाति सममध्यम् ।
कृत्वा कटाहसदृशं तत्र करीषं तुषं च काष्ठं च ॥ र॰चू॰८.१३६ ॥
अन्तर्घनतरम् अर्धं सुषिरं परिपूर्य दहनमायोज्य ।
पश्चादयसश्चूर्णं श्लक्ष्णं पङ्कोपमं कुर्यात् ॥ र॰चू॰८.१३७ ॥
त्रिफलाम्बुभृङ्गकेशरशतावरीकन्दमाणसहजरसैः ।
भल्लातककरिकर्णच्छदमूलपुनर्नवास्वरसैः ॥ र॰चू॰८.१३८ ॥
क्षिप्त्वाथ लौहपात्रे मार्दे वा लौहमार्दपात्राभ्याम् ।
तुल्याभ्यां पृष्ठेनाच्छाद्यान्ते रन्ध्रम् आलिप्य ॥ र॰चू॰८.१३९ ॥
तत्पुटपात्रं तत्र श्वभ्रज्वलने निधाय भूयोभिः ।
काष्ठकरीषतुषैस् तत् संछाद्याहर्निशं दहेत्प्राज्ञः ॥ र॰चू॰८.१४० ॥
एवं नवभिरमीभिर् मेषजराजैः पचेत्तु पुटपाकम् ।
प्रत्येकमेकमेभिर्मिलितैर्वा त्रिचतुरान् वारान् ॥ र॰चू॰८.१४१ ॥
<पुटपाक:: ग्रिन्दिन्ग् अfतेर् एअछ् ँ>
प्रति पुटनं तत्पिंष्यात् स्थालीपाकं विधाय तथैव तत् ।
तादृशि दृषदि न पिंष्याद् विगलद्रजसा तु युज्यते यत्र ॥ र॰चू॰८.१४२ ॥
तदयश्चूर्णं पिष्टं घृष्टं घनसूक्ष्मवाससि श्लक्ष्णम् ।
यदि रजसा सदृशं स्यात्केतक्यास्तर्हि तद्भद्रम् ॥ र॰चू॰८.१४३ ॥
पुटने स्थालीपाके ऽधिकृतपुरुषे स्वभावरुगधिगमात् ।
कथितमपि हेयम् औषधम् उचितम् उपादेयम् अन्यद् अपि ॥ र॰चू॰८.१४४ ॥
अभ्यस्तकर्मविधिभिर् वालकुशाग्रीयबुद्धिभिर् अलक्ष्यम् ।
लौहस्य पाकमधुना नागार्जुनशिष्टमभिदध्मः ॥ र॰चू॰८.१४५ ॥
<लौहपाक (हेअतिन्ग्/मेल्तिन्ग् इरोन्)>
लोहारकूटताम्रकटाहे दृढमृन्मये प्रणम्य शिवम् ।
तदयः पचेदचपलः काष्ठेन्धनेन वह्णिना मृदुना ॥ र॰चू॰८.१४६ ॥
निक्षिप्य त्रिफलाजलम् उदितं यत्तद् घृतं च दुग्धं च ।
संचाल्य लौहमय्या दर्व्या लग्नं समुत्पाट्य ॥ र॰चू॰८.१४७ ॥
<पाक (मेल्तिन्ग्, हेअतिन्ग्):: थ्रेए ग्रदेस्>
मृदुमध्यखरभावैः पाकस् त्रिविधो ऽत्र वक्ष्यते पुंसाम् ।
पित्तसमीरणश्लेष्मप्रकृतीनां मध्यमस्तु समः ॥ र॰चू॰८.१४८ ॥
<पाक:: देतेच्तिन्ग् थे इन्तेन्सित्य्>
अभ्यक्तदर्विलौहं सुखदुःखस्खलनयोगि मृदु मध्यम् ।
उज्झितदर्विखरं परिभाषन्ते केचिदाचार्याः ॥ र॰चू॰८.१४९ ॥
अन्ये विहीनदर्वीप्रलेपम् आखूत्कराकृतिं ब्रुवते ।
मृदु मध्यम् अर्धचूर्णं सिकतापुञ्जोपमं तु खरम् ॥ र॰चू॰८.१५० ॥
त्रिविधोऽपि पाक ईदृक् सर्वेषां गुणकृदेव न तु विफलः ।
प्रकृतिविशेषे सूक्ष्मौ गुणदोषौ जनयतीत्यल्पम् ॥ र॰चू॰८.१५१ ॥
<प्रक्षेप>
विज्ञाय पाकमेव द्रागवतार्य क्षितौ क्षणान् कियतः ।
विश्राम्य तत्र लौहे त्रिफलादेः प्रक्षिपेच्चूर्णम् ॥ र॰चू॰८.१५२ ॥
यदि कर्पूरप्राप्तिर्भवति ततो विगलिते तदुष्णत्वे ।
चूर्णीकृतमनुरूपं क्षिपेन्न वा न यदि तल्लाभः ॥ र॰चू॰८.१५३ ॥
<इरोन्:: मोल्तेन्:: स्तोरगे>
पक्वं तदश्मसारं सुचिरघृतस्थित्यभाविरूक्षत्वे ।
गोदोहनादिभाण्डे लौहभाण्डाभावे सति स्थाप्यम् ॥ र॰चू॰८.१५४ ॥
यदि तु परिप्लुतिहेतोर् घृतम् ईक्षेताधिकं ततोऽन्यस्मिन् ।
भाण्डे निधाय रक्षेद् भाव्युपयोगो ह्यनेन महान् ॥ र॰चू॰८.१५५ ॥
<इरोन्:: स्नेहन>
अयसि विरूक्षीभूते स्नेहस्त्रिफलाघृतेन संपाद्यः ।
एतत्ततो गुणोत्तरमित्यमुना स्नेहनीयं तत् ॥ र॰चू॰८.१५६ ॥
<इरोन्:: सेवन>
अत्यन्तकफप्रकृतेर् भक्षणम् अयसो ऽमुनैव शंसन्ति ।
केवलम् अपीदम् अशितं जनत्ययसो गुणान् कियतः ॥ र॰चू॰८.१५७ ॥
अथवा वक्तव्यविधिसंस्कृतकृष्णाभ्रचूर्णम् आदाय ।
लोहचतुर्थार्धसमद्वित्रिचतुःपञ्चगुणभागम् ॥ र॰चू॰८.१५८ ॥
प्रक्षिप्यायः प्राग्वत्पचेदुभाभ्यां भवेद्रजो यावत् ।
तावन्मानानुस्मृतेः स्यात्त्रिफलादिद्रव्यपरिमाणम् ॥ र॰चू॰८.१५९ ॥
इदम् आप्यायकम् इदम् अतिपित्तनुद् इदमेव कान्तिबलजननम् ।
स्तभ्नाति तृट्क्षुधौ परम् अधिकाधिकमात्रया क्षिप्तम् ॥ र॰चू॰८.१६० ॥
<अभ्र:: शोधन:: निश्चन्द्रिक>
कृष्णाभ्रम् भेकवपुर् वज्राख्यं चैकपत्रकं कृत्वा ।
काष्ठमयोदूखलके चूर्णं मुशलेन कुर्वीत ॥ र॰चू॰८.१६१ ॥
भूयो दृषदि च पिष्टं वासः सूक्ष्मावकाशतलगलितम् ।
मण्डूकपर्णिकायाःप्रचुररसे स्थापयेत् त्रिदिनम् ॥ र॰चू॰८.१६२ ॥
उद्धृत्य तद्रसादथ पिंष्याद्धैमन्तिकधान्यभक्तस्य ।
अक्षोदात्यन्ताम्लस्वच्छजलेन प्रयत्नेन ॥ र॰चू॰८.१६३ ॥
मण्डूकपर्णिकायाः पूर्वरसेनैव मर्दनं कुर्यात् ।
स्थालीपाकं पुटनं चाद्यैरपि भृङ्गराजाद्यैः ॥ र॰चू॰८.१६४ ॥
अर्कादिपत्रमध्ये कृत्वा पिण्डं निधाय भस्त्राग्नौ ।
तावद्दहेन्न यावन्नीलोऽग्निर्दृश्यते सुचिरम् ॥ र॰चू॰८.१६५ ॥
निर्वापयेच्च दुग्धे दुग्धं प्रक्षाल्य वारिणा तदनु ।
पिष्ट्वा घृष्ट्वा गाल्य वस्त्रे चूर्णं निश्चन्द्रकं कुर्यात् ॥ र॰चू॰८.१६६ ॥
<सिद्धलौहसेवन>
नानाविधरुक्शान्त्यै पुष्ट्यै कान्त्यै शिवं समभ्यर्च्य ।
सुविशुद्धेऽहनि पुण्ये तदमृतमादाय लौहाख्यम् ॥ र॰चू॰८.१६७ ॥
दशकृष्णलपरिमाणं शक्तिवयोभेदमाकलय्य पुनः ।
इदमधिकं तद् अधिकतरम् इयदेव न मातृमोदकवत् ॥ र॰चू॰८.१६८ ॥
सममसृणामलपात्रे लौहे लौहेन मर्दयेच्च पुनः ।
दत्त्वा मध्वनुरूपं तदनु घृतं योजयेद् अधिकम् ॥ र॰चू॰८.१६९ ॥
बन्धं गृह्णाति यथा मध्वपृथक्त्वेन पङ्कमविशिंषत् ।
इदमिह दृष्टोपकरणमेतद् अदृष्टं तु मन्त्रेण ॥ र॰चू॰८.१७० ॥
स्वाहान्तेन विमर्दो भवति फडन्तेन लौहबलरक्षा ।
सनमस्कारेण बलिर्भक्षणमयसो हूमन्तेण ॥ र॰चू॰८.१७१ ॥
ओं अमृतोद्भवाय स्वाहा ओं अमृते हूं फट् ।
ओं नमश्चण्डवज्रपाणये महायक्षसेनाधिपतये सुरगुरुविद्यामहाबलाय स्वाहा ।
ओं अमृते हूम् ।
जग्ध्वा तदमृतसारं नीरं वा क्षीरमेवानुपिबेत् ।
कान्तक्रामकममलं संचर्व्य रसं पिबेद् गिलेन्न तु तत् ॥ र॰चू॰८.१७२ ॥
आचम्य च ताम्बूलं लाभे घनसारसहितमुपयोज्यम् ॥ र॰चू॰८.१७३ ॥
नात्युपविष्टो नाप्यतिभाषी नातिस्थितस् तिष्ठेत् ॥ र॰चू॰८.१७४ ॥
अत्यन्तवातशीतातपयानस्नानवेगरोधादीन् ।
जह्याच्च दिवानिद्रासहितं चाकालभुक्तं च ॥ र॰चू॰८.१७५ ॥
वातकृतः पित्तकृतः सर्वान् कट्वम्लतिक्तकषायान् ।
तत्क्षणविनाशहेतून् मैथुनकोपश्रमान् दूरे ॥ र॰चू॰८.१७६ ॥
अशितं तदयः पश्चात्पततु न वा पाटवं छडु प्रथताम् ।
आर्तिर्भवतु नवान्त्रे कूजति भोक्तव्यमव्याजम् ॥ र॰चू॰८.१७७ ॥
प्रथमं पीत्वा दुग्धं शाल्यन्नं विशदसिद्धम् अक्लिन्नम् ।
घृतसंप्लुतम् अश्नीयान्मांसैर् वैहङ्गमैः प्रायः ॥ र॰चू॰८.१७८ ॥
उत्तममूषरभूचरविष्किरमांसं तथाजम् ऐणादि ।
अन्यदपि जलचराणां पृथुरोमापेक्षया ज्यायः ॥ र॰चू॰८.१७९ ॥
मांसालाभे मत्स्या अदोषलाः स्थूलसद्गुणा ग्राह्याः ।
मद्गुररोहितशकुला दग्धाः पललान्मनाङ्न्यूनाः ॥ र॰चू॰८.१८० ॥
शृङ्गाटकफलकशेरुकदलीफलतालनारिकेलादि ।
अन्यदपि यच्च वृष्यं मधुरं पनसादिकं ज्यायः ॥ र॰चू॰८.१८१ ॥
केबुकतालकरीरान् वार्ताकुपटोलफलदलसमेतान् ।
मुद्गमसूरेक्षुरसान् शंसन्ति निरामिषेष्वेतान् ॥ र॰चू॰८.१८२ ॥
शाकं प्रहेयमखिलं स्तोकं रुचये तु वास्तुकं दद्यात् ।
विहितनिषिद्धाद् अन्यन्मध्यमकोटिस्थितं विद्यात् ॥ र॰चू॰८.१८३ ॥
तप्तदुग्धानुपानं प्रायः सारयति बद्धकोष्ठस्य ।
अनुपीतमम्बु यद्वा कोमलशस्यस्य नारिकेलस्य ॥ र॰चू॰८.१८४ ॥
यस्य न तथापि सरति सयवक्षारं जलं पिबेत्कोष्णम् ।
कोष्णं त्रिफलाक्वाथं क्षारसनाथं ततोऽप्यधिकम् ॥ र॰चू॰८.१८५ ॥
त्रीणि दिनानि समं स्यादह्नि चतुर्थे तु वर्धयेत् क्रमशः ।
यावत्तदष्टमाषं न वर्धयेत् पुनरितो ऽप्यधिकम् ॥ र॰चू॰८.१८६ ॥
आदौ रक्तिद्वितयं द्वितीयवृद्धौ तु रक्तिकात्रितयम् ।
रक्तीपञ्चकपञ्चकम् अत ऊर्ध्वं वर्धयेन्नियतम् ॥ र॰चू॰८.१८७ ॥
वात्सरिककल्पपक्षे दिनानि यावन्ति वर्धितं प्रथमम् ।
तावन्ति वर्षशेषे प्रतिलोमं ह्रासयेत्तदयः ॥ र॰चू॰८.१८८ ॥
तेष्वष्टमाषकेषु प्रातर्माषत्रयं समश्नीयात् ।
सायं च तावदह्णो मध्ये माषद्वयं शेषम् ॥ र॰चू॰८.१८९ ॥
एवं तदमृतमश्नन्कान्तिं लभते चिरस्थिरं देहम् ।
सप्ताहत्रयमात्रात्सर्वरुजो हन्ति किं बहुना ॥ र॰चू॰८.१९० ॥
आर्याभिर् इह नवत्या सप्तविधिभिर् यथावद् आख्यातम् ।
अमतिविपर्ययसंशयशून्यम् अनुष्ठानम् उन्नीतम् ॥ र॰चू॰८.१९१ ॥
मुनिरचितशास्त्रपारं गत्वा सारं ततः समुद्धृत्य ।
निबबन्ध बान्धवानामुपकृतये कोऽपि षट्कर्मा ॥ र॰चू॰८.१९२ ॥
<ताम्रयोग>
कन्यातोये ताम्रपत्रं सुतप्तं कृत्वा वारान् विंशतिं प्रक्षिपेत्तत् ।
शुद्धं गन्धं तद्द्विभागं विमर्द्य निम्बूतोयैस्ताम्रपत्राणि लिप्त्वा ॥ र॰चू॰८.१९३ ॥
भाण्डे कृत्वा रोधयित्वा तु भाण्डं शालाग्नौ तं निक्षिपेत् पञ्चरात्रम् ।
शीतं जातं भावयेदुक्ततोयैर् यद्वा नीरैस् त्रैफलैर् एकघस्रम् ॥ र॰चू॰८.१९४ ॥
मध्वाज्याभ्यां पेषयित्वा पुटेत् तच्छुद्धं सिद्धं जायते देहसिद्ध्यै ।
गुञ्जामात्रं शाल्मलीनीरयुक्तं मध्वाज्याभ्यां सेवयेद् वत्सरार्धम् ॥ र॰चू॰८.१९५ ॥
दुग्धं खण्डं वानुपानं विदध्यात् साज्यं भोज्यं गौड्यम् अम्लेन युक्तम् ।
वीर्यं पुष्टिं दीपनं देहदार्ढ्यं दिव्यां दृष्टिं दीर्घमायुः करोति ॥ र॰चू॰८.१९६ ॥
<ताम्रयोग (२)>
रसतस्ताम्रं द्विगुणं ताम्रात् कृष्णाभ्रकं तथा द्विगुणम् ।
पृथगेवैषां शुद्धिस्ताम्रे शुद्धिस्ततो द्विविधा ॥ र॰चू॰८.१९७ ॥
पत्त्रीकृतस्य गन्धकयोगाद्वा मारणं तथा लवणैः ।
आक्ते ध्मापितताम्रे निर्गुण्डीकल्ककाञ्जिके मग्ने ॥ र॰चू॰८.१९८ ॥
यद्भवति गैरिकाभं तत्पिष्टम् अर्धगन्धकं तदनु ।
पुटपाकेन विशुद्धं शुद्धं स्यादभ्रकं तु पुनः ॥ र॰चू॰८.१९९ ॥
हिलमोचिमूलपिण्डे क्षिप्तं तदनु मार्दसम्पुटे लिप्ते ।
तीक्ष्णं दग्धं पिष्टम् अम्लाम्भसा साधु चन्द्रिकाविरहितम् ॥ र॰चू॰८.२०० ॥
रेचितताम्रेण रसः खल्वशिलायां घृष्टः पिण्डिका कार्या ।
उत्स्वेद्य गृहसलिलेन निर्गुण्डीकल्केऽसकृच्छुद्धौ ॥ र॰चू॰८.२०१ ॥
एतत्सिद्धं त्रितयं चूर्णितताम्रार्धिकैः पृथग्युक्तम् ।
पिप्पलीविडङ्गमरिचैः श्लक्ष्णं द्वित्रिमाषकं भक्ष्यम् ॥ र॰चू॰८.२०२ ॥
शूलाम्लपित्तश्वयथुग्रहणीयक्ष्मादिकुक्षिरोगेषु ।
रसायनं महदेतत्परिहारो नियमतो नात्र ॥ र॰चू॰८.२०३ ॥
<लक्ष्मीविलासरसः>
पलं कृष्णाभ्रचूर्णस्य तदर्धौ रसगन्धकौ ।
कर्पूरस्य तदर्द्धं तु जातीकोषफले तथा ॥ र॰चू॰८.२०४ ॥
वृद्धदारकबीजं च बीजमुन्मत्तकस्य च ।
त्रैलोक्यविजयाबीजं विदारीकन्दम् एव च ॥ र॰चू॰८.२०५ ॥
नारायणी तथा नागबला चातिबला तथा ।
बीजं गोक्षुरकस्यापि हैज्जलं बीजमेव च ॥ र॰चू॰८.२०६ ॥
एतेषां कार्षिकं चूर्णं गृहीत्वा वारिणा पुनः ।
निष्पिष्य वटिका कार्या त्रिगुञ्जाफलमानतः ॥ र॰चू॰८.२०७ ॥
निहन्ति सन्निपातोत्थान् गदान् घोरान् सुदारुणान् ।
वातोत्थान् पैत्तिकांश्चापि नास्त्यत्र नियमः क्वचित् ॥ र॰चू॰८.२०८ ॥
कुष्ठमष्टादशविधं प्रमेहान् विंशतिं तथा ।
नाडीव्रणं व्रणं घोरं गुदामयभगन्दरम् ॥ र॰चू॰८.२०९ ॥
श्लीपदं कफवातोत्थं चिरजं कुलसम्भवम् ।
गलशोथमन्त्रवृद्धिमतिसारं सुदारुणम् ॥ र॰चू॰८.२१० ॥
कासपीनसयक्ष्मार्शः स्थौल्यं दौर्बल्यमेव च ।
आमवातं सर्वरूपं जिह्वास्तम्भं गलग्रहम् ॥ र॰चू॰८.२११ ॥
उदरं कर्णनासाक्षिमुखवैजात्यमेव च ।
सर्वशूलं शिरःशूलं स्त्रीणां गदनिषूदनम् ॥ र॰चू॰८.२१२ ॥
वटिकां प्रातरेकैकां खादेन्नित्यं यथाबलम् ।
अनुपानमिदं प्रोक्तं मांसं पिष्टं पयो दधि ॥ र॰चू॰८.२१३ ॥
वारितक्रसुरासीधुसेवनात् कामरूपधृक् ।
वृद्धोऽपि तरुणस्पर्धी न च शुक्रस्य संक्षयः ॥ र॰चू॰८.२१४ ॥
न च लिङ्गस्य शैथिल्यं न केशा यान्ति पक्वताम् ।
नित्यं शतस्त्रियो गच्छेन्मत्तवारणविक्रमः ॥ र॰चू॰८.२१५ ॥
द्विलक्षयोजनी दृष्टिर्जायते पौष्टिकः परः ।
प्रोक्तः प्रयोगराजोऽयं नारदेन महात्मना ॥ र॰चू॰८.२१६ ॥
रसो लक्ष्मीविलासस्तु वासुदेवो जगद्गुरौ ।
अभ्यासाद्यस्य भगवान् लक्षनारीषु वल्लभः ॥ र॰चू॰८.२१७ ॥
<शिलाजतु:: ओरिगिन्>
हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः ।
जत्वाभं मृदुमृत्स्नाच्छं यन्मलं तच्छिलाजतु ॥ र॰चू॰८.२१८ ॥
<शिलाजतु:: medic. प्रोपेर्तिएस्>
अनम्लं चाकषायं च कटुपाकि शिलाजतु ।
नात्युष्णशीतं धातुभ्यश् चतुर्भ्यस्तस्य सम्भवः ।
हेम्नोऽथ रजतात्ताम्राद्वरात्कृष्णायसादपि ॥ र॰चू॰८.२१९ ॥
<शिलाजतु:: fरोम् गोल्द्:: medic./फ्य्स्. प्रोपेर्तिएस्>
मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः ।
कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः ॥ र॰चू॰८.२२० ॥
<शिलाजतु:: fरोम् सिल्वेर्:: medic./फ्य्स्. प्रोपेर्तिएस्>
रूप्यस्य कटुकः श्वेतः शीतः स्वादुर्विपच्यते ।
<शिलाजतु:: fरोम् चोप्पेर्:: medic./फ्य्स्. प्रोपेर्तिएस्>
ताम्रस्य बर्हिकण्ठाभस् तिक्तोष्णः पच्यते कटुः ॥ र॰चू॰८.२२१ ॥
<शिलाजतु:: fरोम् इरोन्:: medic./फ्य्स्. प्रोपेर्तिएस्>
यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः ।
कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ॥ र॰चू॰८.२२२ ॥
गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः ।
रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ॥ र॰चू॰८.२२३ ॥
यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु ।
विशेषेण प्रशस्यन्ते मला हेमादिधातुजाः ॥ र॰चू॰८.२२४ ॥
<शिलाजतु:: परीक्षा>
लौहकिट्टायते वह्नौ विधूमं दह्यतेऽम्भसि ।
तृणात्यग्रे कृतं श्रेष्ठमधो गलति तन्तुवत् ॥ र॰चू॰८.२२५ ॥
<शिलाजतु:: शोधन>
मलिनं यद्भवेत् तच्च क्षालयेत्केवलाम्भसा ।
लौहपात्रेषु विधिना ऊर्ध्वीभूतं च संहरेत् ॥ र॰चू॰८.२२६ ॥
वातपित्तकफघ्नैस्तु निर्यूहैस् तत् सुभावितम् ।
वीर्योत्कर्षं परं याति सर्वैर् एकैकशोऽपि वा ॥ र॰चू॰८.२२७ ॥
प्रक्षिप्योद्धृतमावानं पुनस्तत्प्रक्षिपेद्रसे ।
कोष्णे सप्ताहमेतेन विधिना तस्य भावनां ॥ र॰चू॰८.२२८ ॥
<शिलाजतु:: सोअकिन्ग्>
तुल्यं गिरिजेन जले चतुर्गुणे भावनौषधं क्वाथ्यम् ।
ततः क्वाथे च पादांशे पूतोष्णे प्रक्षिपेद्गिरिजम् ।
तत् समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः ॥ र॰चू॰८.२२९ ॥
<शिलाजतु:: medic. प्रोपेर्तिएस्>
पूर्वोक्तेन विधानेन लौहैश्चूर्णीकृतैः सह ।
तत्पीतं पयसा दद्याद् दीर्घमायुः सुखान्वितम् ॥ र॰चू॰८.२३० ॥
जराव्याधिप्रशमनं देहदार्ढ्यकरं परम् ।
मेधास्मृतिकरं धन्यं क्षीराशी तत्प्रयोजयेत् ॥ र॰चू॰८.२३१ ॥
प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः ।
निर्दिष्टस् त्रिविधस् तस्य परो मध्योऽवरस्तथा ॥ र॰चू॰८.२३२ ॥
<शिलाजतु:: मेअसुरे for medic. उसे>
मात्रा पलं त्वर्द्धपलं स्यात्कर्षं तु कनीयसी ॥ र॰चू॰८.२३३ ॥
<शिलाजतु:: रेगुलतिओन्स्/दिएत्>
शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च ।
वर्जयेत् सर्वकालं च कुलत्थान् परिवर्जयेत् ॥ र॰चू॰८.२३४ ॥
पयांसि शुक्तानि रसाः सयूषास् तोयं समूत्रं विविधाः कषायाः ।
आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम् ॥ र॰चू॰८.२३५ ॥
<कामेश्वरमोदक>
सम्यङ्मारितमभ्रकं कटुफलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारिमुशली गोक्षूरकं चेक्षुरम् ।
रम्भाकन्दशतावरी ह्यजमोदा माषास्तिला धान्यकं यष्टी नागबला बला मधुरिका जातीफलं सैन्धवम् ॥ र॰चू॰८.२३६ ॥
भार्ङ्गीकर्कटशृङ्गिका त्रिकटुकं जीरद्वयं चित्रकं चातुर्जातपुनर्नवे गजकणा द्राक्षा शठी वासकम् ।
शाल्मल्यङ्घ्रिफलत्रिकं कपिभवं बीजं समं चूर्णयेत् चूर्णांशा विजया सिता द्विगुणिता मध्वाज्यमिश्रं तु तत् ॥ र॰चू॰८.२३७ ॥
कर्षार्द्धा गुडिकाथ कर्षमथवा सेव्या सतां सर्वदा पेया क्षीरसितानुवीर्यकरणे स्तम्भेऽप्ययं कामिनाम् ।
वामावश्यकरः सुखातिसुखदः प्रौढाङ्गनाद्रावकः क्षीणे पुष्टिकरः क्षयक्षयकरो नानामयध्वंसकः ॥ र॰चू॰८.२३८ ॥
कासश्वासमहातिसारशमनो मन्दाग्निसन्दीपनः दुर्नामग्रहणीप्रमेहनिवहश्लेष्मास्रपित्तप्रणुत् ।
नित्यानन्दकरो विशेषकवितावाचां विलासोद्भवं धत्ते सर्वगुणं महास्थिरवयो ध्यानावधाने ऽप्यलम् ॥ र॰चू॰८.२३९ ॥
अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरात् सर्वेषां हितकारिणा निगदितः श्रीनित्यनाथेन सः ।
वृद्धानाम् अपि कामवर्धनकरः प्रौढाङ्गनासङ्गमे सिद्धोऽयं मम दृष्टिप्रत्ययकरो भूपैः सदा सेव्यताम् ॥ र॰चू॰८.२४० ॥
<चूर्णरत्न>
वृष्यगणचूर्णतुल्यं तत् पुटपक्वं घनं सिता द्विगुणम् ।
वृष्यात्परमतिवृष्यं रसायनं चूर्णरत्नमिदम् ॥ र॰चू॰८.२४१ ॥
<शृङ्गाराभ्ररसः>
शुद्धं कृष्णाभ्रचूर्णं द्विपलपरिमितं शाणमानं यदन्यत् ।
कर्पूरं जातिकोषं सजलमिभकणा तेजपत्रं लवङ्गम् ॥ र॰चू॰८.२४२ ॥
मांसी तालीशचोचे गजकुसुमगदं धातकी चेति तुल्यं ।
पथ्या धात्री विभीतं त्रिकटुरथ पृथक् त्वर्द्धशाणं द्विशाणम् ॥ र॰चू॰८.२४३ ॥
एलाजातीफलाख्यं क्षितितलविधिना शुद्धगन्धाश्मकोलं कोलार्द्धं पारदस्य प्रतिपदविहितं पिष्टमेकत्र मिश्रम् ।
पानीयेनैव कार्याः परिणतचणकस्विन्नतुल्याश्च वट्यः प्रातः खाद्याश् चतस्रस् तदनु च हि कियच्छृङ्गवेरं सपर्णम् ॥ र॰चू॰८.२४४ ॥
पानीयं पीतमन्ते ध्रुवमपहरति क्षिप्रमेतान् विकारान् कोष्ठे दुष्टाग्निजातान् ज्वरमुदररुजो राजयक्ष्मं क्षयं च ।
कासं श्वासं सशोथं नयनपरिभवं मेहमेदोविकारान् छर्दिं शूलाम्लपित्तं तृषमपि महतीं गुल्मजालं विशालम् ॥ र॰चू॰८.२४५ ॥
पाण्डुत्वं रक्तपित्तं गरलभवगदान् पीनसं प्लीहरोगं हन्याद् आमानिलोत्थान् कफपवनकृतान् पित्तरोगानशेषान् ।
बल्यो वृष्यश्च योगस्तरुणतरकरः सर्वरोगे प्रशस्तः पथ्यं मांसैश्च यूषैर् घृतपरिलुलितैर् गव्यदुग्धैश्च भूयः ॥ र॰चू॰८.२४६ ॥
भोज्यं योज्यं यथेष्टं ललितललनया दीयमानं मुदा यच्छृङ्गाराभ्रेण कामी युवतिजनशतां भोगयोगादतुष्टः ।
वर्ज्यं शाकाम्लमादौ दिनकतिपयचित् स्वेच्छया भोज्यमन्यद् दीर्घायुः काममूर्तिर् गतवलिपलितो मानवोऽस्य प्रसादात् ॥ र॰चू॰८.२४७ ॥
<जयावटी>
विषं त्रिकटुकं मुस्तं हरिद्रा निम्बपत्रकम् ।
विडङ्गमष्टमं चूर्णं छागमूत्रैः समं समम् ।
चणकाभा वटी कार्या स्याज्जया योगवाहिका ॥ र॰चू॰८.२४८ ॥
<त्रिनेत्ररसः>
आदौ गन्धहतं शुल्वं पश्चात्तुल्याहिपारदम् ।
त्रिनेत्रो हविषा पिष्टः शीतवीर्योऽर्द्धगन्धकः ॥ र॰चू॰८.२४९ ॥
उष्णश्चेत्तुल्यगन्धेन कुर्यात् संमर्द्य पर्पटीम् ।
देहसिद्धिकरो ह्येष सर्वरोगनिकृन्तनः ॥ र॰चू॰८.२५० ॥
<सिद्धयोगेश्वररसः>
शुद्धं सूतं द्विधा गन्धं खल्वे घृष्ट्वा तु कज्जलीम् ।
तयोः समं कान्तलौहमभावे तस्य तीक्ष्णकम् ॥ र॰चू॰८.२५१ ॥
मेलितं देवदेवेशि मर्दितं कन्यकाद्रवैः ।
यामद्वयं ततः पश्चात्तद्गोलं ताम्रसम्पुटे ॥ र॰चू॰८.२५२ ॥
आच्छाद्यैरण्डपत्रैस्तु धान्यराशौ निधापयेत् ।
त्रिदिनान्ते समुद्धृत्य पिष्टं वारितरं भवेत् ॥ र॰चू॰८.२५३ ॥
कुमारी भृङ्गकोरण्टौ काकमाची पुनर्नवा ।
नीली मुण्डी च निर्गुण्डी सहदेवी शतावरी ॥ र॰चू॰८.२५४ ॥
अम्लपर्णी गोक्षुरकः कच्छूमूलं वटाङ्कुराः ।
एतेषां भावयेद्द्रावैः सप्तवारान् पृथक् पृथक् ॥ र॰चू॰८.२५५ ॥
त्र्यूषणत्रिफलासोमराजीनां च कषायकैः ।
शुष्केऽस्मिंस्तोलितं चूर्णं सममेकादशाभिधम् ॥ र॰चू॰८.२५६ ॥
वराव्योषाग्निविश्वैला जातीफललवङ्गकम् ।
संयोज्य मधुनालोड्य विमर्द्येदं भजेत्सदा ॥ र॰चू॰८.२५७ ॥
रात्रौ पिबेद् गवां क्षीरं कृष्णानां च विशेषतः ।
संवत्सराज्जरामृत्युरोगजालं निवारयेत् ॥ र॰चू॰८.२५८ ॥
वीर्यवृद्धिकरं श्रेष्ठं रामाशतसुखप्रदम् ।
तावन्न च्यवते वीर्यं यावदम्लं न सेवते ॥ र॰चू॰८.२५९ ॥
दीपनं कान्तिदं पुष्टितुष्टिकृत्सेविनां सदा ।
सुगुप्तः कथितः सूतः सिद्धयोगेश्वराभिधः ॥ र॰चू॰८.२६० ॥
<पलितघ्नचूर्णम्>
त्रिफला लोहजं चूर्णं रक्तचित्रकजा जटा ।
च्युतक्षुद्राम्रकं बीजं पालाशं क्षुद्रदुग्धिका ॥ र॰चू॰८.२६१ ॥
एतदष्टकमादाय पृथक् पञ्चपलोन्मितम् ।
मिश्रयित्वा पलाशस्य सर्वाङ्गरसभावितम् ॥ र॰चू॰८.२६२ ॥
महाकालजबीजानां भागत्रयमथाहरेत् ।
भागं कृष्णतिलस्यैकं मिश्रयित्वा निपीडयेत् ॥ र॰चू॰८.२६३ ॥
तेन तैलेन तच्चूर्णं पिण्डीकार्यं विमर्दनात् ।
स्निग्धे भाण्डे तदाधाय शरावेण निरोधयेत् ॥ र॰चू॰८.२६४ ॥
लिप्त्वा तदाशु धान्ये च पललौघे निधापयेत् ।
मासमात्रात्समाहृत्य पूजयित्वा शिवं शिवम् ॥ र॰चू॰८.२६५ ॥
तोलैकं भक्षयेत्प्रातस्तोलैकं भोजनोपरि ।
एवं मासत्रयाभ्यासात्पलितं हन्त्यसंशयम् ।
वर्षैकेन जरां हत्वा मृत्युं जयति मानवः ॥ र॰चू॰८.२६६ ॥
<कामिनीमदनिधूननरसः>
कज्जलीकृतसुगन्धकशम्भोस् तुल्यभागकनकस्य बीजम् ।
मर्दयेत्कनकतैलयुतं स्यात् कामिनीमदविधूनन एषः ॥ र॰चू॰८.२६७ ॥
अस्य वल्लयुगलं ससितं चेत् सेवितं हरति मेहगणौघम् ।
वीर्यदार्ढ्यकरणं कमनीयं द्रावणं निधुवने वनितानाम् ॥ र॰चू॰८.२६८ ॥
<चतुर्मुखरसः>
रसगन्धकलौहाभ्रं समं सूताङ्घ्रि हेम च ।
सर्वं खल्वतले क्षिप्त्वा कन्यास्वरसमर्दितम् ॥ र॰चू॰८.२६९ ॥
त्रिफलातुलसीब्राह्मीरसैश्चानु विमर्दयेत् ।
एरण्डपत्रैरावेष्ट्य धान्यराशौ दिनत्रयम् ॥ र॰चू॰८.२७० ॥
संस्थाप्य च तदुद्धृत्य त्रिफलामधुसंयुतम् ।
एतद्रसायनवरं सर्वरोगेषु योजयेत् ॥ र॰चू॰८.२७१ ॥
तद्यथाग्निबलं खादेद्वलीपलितनाशनम् ।
पौष्टिकं बल्यमायुष्यं पुत्रप्रसवकारकम् ॥ र॰चू॰८.२७२ ॥
क्षयमेकादशविधं कासं पञ्चविधं तथा ।
कुष्ठमष्टादशविधं पाण्डुरोगान् प्रमेहकान् ॥ र॰चू॰८.२७३ ॥
शूलं श्वासं च हिक्कां च मन्दाग्निं चाम्लपित्तकम् ।
व्रणान् सर्वानामवातं विसर्पं विद्रधिं तथा ॥ र॰चू॰८.२७४ ॥
अपस्मारं महोन्मादं सर्वार्शांसि त्वगामयान् ।
क्रमेण शीलितं हन्ति वृक्षमिन्द्राशनिर्यथा ।
चतुर्मुखेन देवेन कृष्णात्रेयाय सूचितम् ॥ र॰चू॰८.२७५ ॥
<गन्धलौह>
गन्धं लौहं भस्म मध्वाज्ययुक्तं सेव्यं वर्षं वारिणा त्रैफलेन ।
शुक्ले केशे कालिमा दिव्यदृष्टिः पुष्टिवीर्यं जायते दीर्घमायुः ॥ र॰चू॰८.२७६ ॥
<सिद्धलक्ष्मीश्वररसः>
अष्टांशहेम्नि हरजे शिखिमूषिकायां संजार्य षड्गुणबलिं क्रमशो ऽधिकं च ।
ऊर्ध्वं पयोऽग्निम् अधरे विनिधाय धीराः सिद्धीः समग्रमतुलाः स्वकरे कुरुध्वम् ॥ र॰चू॰८.२७७ ॥
<वह्निसिद्धरसः>
लौहं गन्धं टङ्कणं भ्रामयित्वा सार्धस् तस्मिन् सूतकोऽन्यश्च गन्धः ।
कन्याम्भोभिर् मर्दितः काचकूप्यां क्षिप्तो वह्णौ सिद्धये वह्णिसिद्धः ॥ र॰चू॰८.२७८ ॥


इदमपि पश्यन्तु[सम्पाद्यताम्]

स्रोतम्[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=रसेन्द्रचूडामणि&oldid=163291" इत्यस्माद् पुनः प्राप्तिः