रसगङ्गाधरः/आनन २

विकिस्रोतः तः

रसगङ्गाधरः/आनन १

रसगङ्गाधरः द्वितीयमाननम

अथ संलक्ष्यक्रमध्वनिर्निरूप्यते-संलक्ष्यक्रमध्वनिं विभजते-स च तावद् द्विविधः शब्दशक्तिमूलोऽर्थशक्तिमूलश्च । तत्राद्यो द्विविधः, व्यङ्ग्यस् वस्तुत्वालङ्कारत्वाभ्यां द्वैविध्यात्। द्वितीयोऽपि वस्त्वलङ्कारात्मना लोकसिद्धेन, तथाभूतेनै प्रतिभा-मात्र-निवर्तितेन च व्यञ्जकेनार्थेन चतुर्विधेन वस्त्वलङ्कारत्मनो द्विविधस् व्यङ्ग्यस्य प्रत्येकं व्यञ्जनादष्टमूर्तिः
ननु अर्थशक्तिमूलध्वनेरष्टविधत्वोक्तिरसङ्गःता, मम्मटादिभिः लोकसिद्धकविप्रतिभामात्रनिवर्र्तितावि
कविकल्पितवक्तृप्रतिभानिर्वर्तिताभिधानमप्येकं व्यञ्जकार्थस्य भेदमङ्गीकृत्य तस्
द्वादशविधत्वप्रतिपादनादित्यत आह- प्रतिभा निर्वर्ति तत्वाविशेषाच्
कवितदुम्भितवक्तृप्रौढोक्तिनिष्पन्नयोरर्थयोर्न पृथग्भावेन गणनोचिता, उम्भितोम्भितादेरप
भेदान्तरप्रयोजकतापत्तेः। न च तस्यापि कव्युम्भितत्वानपायात्तत्प्रयोज्यभेदान्तर्गतत्वमेवेति वाच्यम्
प्रथमोम्भितस्यापि लोकोत्तरवर्णनानिपुणत्वलक्षणकवित्वानपायात्पृथग्भेद-प्रयोजकतानुपपत्तेः
उपसंहरति-एवं साकल्येन दशभेदोऽयम्
नानार्थकशब्दस्थले संयोगादिभिरेकस्मिन्नर्थेऽभिधायां नियन्त्रितायां द्वितीयोऽर्थो व्यञ् जनय
बोध्यते, स एव शब्दशक्तिमूलध्वनिलक्ष्यस्थल इति प्राचीनाभिमतं सिद्धान्तं मतभेदे
समालोचयितुमुपक्रमते-तत्र केचिदाहु:- नानार्थस्य शब्दस्य सर्वेष्वर्थेषु संकेतग्रहस्य तुल्य-त्वाच्छ्रुतमात्र ए
तस्मिन् सकलानामर्थानामुपस्थितौ, शब्दस्यास्य कस्मिन्नर्थे तात्पर्यमिति सन्देहे च सति
प्रकरणादिकं तात्पर्यनिर्णायकं पर्यालोचयतः पुरुषस्य सति तन्निर्णये, तदात्मकपदज्ञानजाय
एकार्थमात्रविषयायाः पुनः पदार्थोपस्थितेरनन्तरमन्वयबोध इति नये द्वितीयाया
पदार्थोपस्थितेः प्राथमिक्या इव न कुतो नानार्थगोचरतेति प्रकरणादिज्ञानस्

तदधीनतात्पर्यनिर्णयस्य वा पदार्थोपस्थितौ प्रतिबन्धकत्वं वाच्यम्, अन्यथा शाब्दबुद्धे रप नानार्थविषयत्वापत्तिः
उक्तान्वयबोधक्रमानुसारेण ‘संयोगो विप्रयोगश्चे’त्यादिकारिकांशं संगमयति-अत एवोक्तम्-

‘अनवच्छेदे विशेषस्मृतिहेतवः’ इति । अनवच्छेदे तात्पर्यसंदेहे विशेषस्मृतिरेकार्थमात्रविषया स्मृतिः

उक्तविचारसरणेः प्रकृतोपयोगित्वं दर्शयति-इत्थञ्च सुरभिमांसं भक्षयतीत्यादेर्वाक्याज्जायमाना द्वितीया प्रतीतिर्गवाद्युपस्थितेरभावात
कथं स्यादिति तदुपस्थित्यर्थं व्यञ्जनाव्यापारोऽभ्युपेयः
ननु नानार्थकशब्देषु नानार्थनिरूपिता एकैव शक्तिरिति पक्षाङ्गीकारे भवदुक्तरीत्य
व्यञ्जनावृत्तेरावश्यकत्वमास्ताम्, अथ यदि नानार्थनिरूपिता नानाशक्तिर्नानार्थकेषु स्वीक्रियेत
तर्हि तु सम्भवत्यभिधयैव निर्वाह इति शंकते समाधत्ते च-अथैकया शक्त्या प्राकरणिकार्थोपस्थितेरनन्तरं द्वितीयया शक्त्या द्वितीया-र्थोपस्थितिस्तथापि स्यादिति चेत्? न स्यादेव, प्रकरणादिज्ञानस्य प्रतिबन्धकस्यानुपरमात्
अन्यथा प्राकरणिकार्थोपस्थितावेवाप्राकरणिक-स्याप्यर्थस्य विषयत्वं स्यात्
ननूक्तप्रतिबध्यप्रतिबन्धकभावाङ्गीकारे वैयञ्जनिकाप्राकरणिकार्थविषयकोपस्थितेरपि कुतो
प्रतिबन्ध इत्याशङ्क्य समाधत्ते-न च प्रकरणादिज्ञानस्य तादृशपदजन्यार्थोपस्थितिसामान्य एव प्रतिबन्धकत्वाद् व्यक्त्याऽप
कथमर्थान्तरोपस्थितिरिति वाच्यम्, धर्मिग्राहकमानेनाप्राकरणिकोपस्थापकतयै
तादृशव्यक्तेरुल्लासात्तदजन्योपस्थितिं प्रत्येव प्रकरणादिज्ञानस्य प्रतिबन्धकत्वकल्पनात्
व्यक्तिज्ञानस्योत्तेजकत्वकल्पनाद्वा
मम्मटस्योक्तविचारानुसारित्वं दर्शयति-एतदेव सर्वमभिसन्धायोक्तम्-

अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते
संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ॥

यन्त्रणमपरार्थोपस्थापनप्रतिबन्ध इति उक्तमिति । काव्यप्रकशे मम्मटभट्टेनेति शेषः नानार्थस्थलीयपदार्थोपस्थितिशाब्दबोधक्रमसंबधिमतान्तरमाह

अपरे त्वाहु:-

नानार्थशब्दजशाब्दबुद्धौ तात्पर्यनिर्णयहेतुताया अवश्यकल्प्यत्वात् प्रथम
नानार्थशब्दादनेकार्थोपस्थानेऽपि प्रकरणादिभिस्तात्पर्यनिर्णयहेतुभिरुत्पादिते तस्मिन् यत्
तात्पर्यनिर्णयस्तस्यैवार्थस्यान्वयबुद्धिर्जायते, नान्यस्येति सरणावाश्रीयमाणाया
नैकमात्रगोचरस्मृत्यपेक्षा, नाप्यपरार्थो-पस्थानप्रतिबन्धकत्वकल्पनम्

एतद्रीत्या शाब्दबोधोपपादनेऽपि व्यञ्जनावृत्तेरावश्यकत्वं दर्शयति-एवं च प्रागुपदर्शितनानार्थस्थले प्रकरणादिज्ञानाधीनात्तात्पर्यनिर्णयात्प्राकरणिकार्थशाब्दबुद्ध
जातायामतात्पर्यविषयाऽपि शाब्दबुद्धिस्तस्मादेव शब्दाज्जायमाना कस्य व्यापारस्
साध्यतामवलम्बताम्, ऋते व्यञ्जनात्
‘सुरभिमांस’मित्यादौ गोमांसभक्षणरूपार्थविषयकबोधस्य शक्तिसाध्यत्वमर्थान्निरस्तमप
शब्दतो निरस्यति-न च शक्तिसाध्या सेति वाच्यम्, तदधीनबोधं प्रति तात्पर्यनिर्णयस्य हेतुत्वात्
ननु व्यञ्जनयापि कथमतात्पर्यविषयार्थबोधः, वैयञ्जनिकबोधं प्रत्यपि तात्पर्यनिणर्यस्
हेतुताकल्पनादित्यत आह-व्यक्त्यधीनबोधस्तु नावश्यं तात्पर्यज्ञानमपेक्षते
अनुपदोक्तव्याख्याने ‘संयोगो विप्रयोगश्चे’ति हरिकारिकायाः, ‘अनेकार्थस्येत'
मम्मटकारिकायाश्चासंगतिमापाद्य निराकरोति-नन्वेकमात्रगोचरस्मृतेस्तच्छाब्दबुद्धावनपेक्षितत्वे ‘विशेषस्मृतिहेतवः’ इति प्राचां ग्रन्थ
कथं संगच्छते? कथं वा प्रकरणादिज्ञानस्यापरार्थोपस्थानप्रतिबन्धकत्वविरह
संयोगाद्यैरनेकार्थस्य शब्दस्य वाचकताया नियन्त्रणोक्तिश्चेति चेत्? इत्थम्-स्मृतिशब्दस्
निश्चयपरतया विशेषस्मृतिशब्देन विशेषविषयस्तात्पर्यनिर्णयो गृह्यते । संयोगाद्यैर्वा चकताय
नियन्त्रणं चैकार्थमात्रविषयकतात्पर्यनिर्णयजननद्वारा शाब्दबोधानुकूलत्वम्
अवाच्यार्थोऽतात्पर्यार्थः। एवं च न ग्रन्थासंगतिरित्यपि वदन्ति
ननु वैयञ्जनिकबोधेऽपि पदज्ञानस्य कारणत्वेन शक्तिसाध्यप्राकरणिकार्थबोधानन्तर
तात्पर्यज्ञानात्मकपदज्ञानस्य नष्टत्वात् कथं व्यञ्जनयापि अप्राकरणिकार्थबोध इत्याशंक्
समाधत्ते-अथ प्राकरणिकार्थबोधानन्तरं तादृशपदज्ञानस्योपरमात् कथं व्यक्तिवादिनाप्यर्थान्तरधी
सूपपादेति चेत्? मैवम्, प्रथमार्थप्रतीतेव्र्यापारस्य सत्त्वाददोष इत्येके । अर्थप्रतीत

शक्यतावच्छेदकस्येव पदस्यापि विशेषणतया भानात्प्राथमिकशक्यार्थबोधस्यै
पदज्ञानत्वादित्यपरे । आवृत्त्या पदज्ञानं सुलभमित्यपि कश्चित्
प्राचीनमतमुपसंहरति-तदित्थं नानार्थस्थलेऽनुरणनीयं व्यञ्जनं शब्दशक्तिमूलम्, शब्दस्य परिवृत्त्यसहत्वादित
ध्वनिकारानुयायिनो वर्णयन्ति
अस्मिन् प्रसङ्गे ग्रन्थकारः स्वमतमुपदर्शयितुं पूर्वोक्तं मतद्वयं खण्डयति-अन्ये त्वत्र प्रत्यवतिष्ठन्ते । यत्तावदुक्तमेकार्थमात्रविषया पदार्थोपस्थितिस्तदन्वयबोधेऽपेक्ष्य
इति तदसारम् । नानार्थादर्थद्वयोपस्थितावपि प्रकरणादिज्ञानाधीनतात्पर्यमहिम्नै
विवक्षितार्थशाब्दबोधोपपत्तेः, एकार्थमात्रोपस्थित्यपेक्षायां मानाभावात
अपरार्थोपस्थापकसामग्रयाः पदज्ञानस्य सत्त्वेन तदुपस्थितेरप्यौचित्याच्च
सामग्रीविघटनमाशंक्य समाधत्ते-न च प्रकरणादिज्ञानं तदधीनतात्पर्यज्ञानं वा पदार्थोपस्थाने प्रतिबन्धकमिति शक्यं वक्तुम्
संस्कारतदुद्बोधकयोः सत्त्वे स्मृतेः प्रतिबन्धस्य क्वाप्यदृष्टत्वात्
अन्यत्रादृष्टस्यापि स्मृतिप्रतिबन्धस्यात्रैवाङ्गीकारे का बाधेत्याक्षिप्य निरस्यति-अत्रैव स्मृतावयं प्रतिबध्य-प्रतिबन्धकभावः कल्प्यते, न स्मृत्यन्तरे इत्य-प्यहृदयङ्गःमम्
तादृशकल्पनाया निष्फलत्वात्, अनुभवविरुद्धत्वाच्च
अनुभवविरोधं दर्शयति-तथा हि नानार्थशक्तिविषयकदृढसंस्कारशालिनां प्रकरणज्ञानवतामपि पय
रमणीयमित्यादेर्वाक्यात्प्रथममर्थद्वयोपस्थितिरनुभवसिद्धा । अत एव पय
रमणीयमित्यादिवाक्यमकस्मादाकर्णितवद्भिः प्रकरणाद्यभिज्ञैरप्रकरणज्ञाः पांसुरपाद
वक्तुस्तात्पर्यं बोध्यन्ते, नूनमस्य दुग्धे तात्पर्यं शब्दस्य, न तु जल इति । यदि
प्रकरणादिज्ञानं नानार्थशब्दाज्जायमानामप्राकरणिकार्थोपस्थितिं प्रति बध्नीयात्तत्कथमेत
तदानीमनुपस्थितजलाः प्रकरणज्ञा जलतात्पर्यं निषेधेयुरित्यहृदयङ्गः
एवायमप्राकरणिकार्थोपस्थापनप्रतिबन्धकभावः प्रकरणादिज्ञानस्य
तात्पर्यनिर्णयशाब्दबोधयोः कार्यकारणभावस्य समर्थकं द्वितीयं मतमनूद्य खण्डयति-यदप्युच्यते प्रकरणादिज्ञानात्प्राकरणिकेऽर्थे तात्पर्यविषयतया निर्णीत
तदीयशाब्दबोधानन्तरमतात्पर्यविषयीभूतार्थबोधो जायमानो व्यञ्जनाव्यापारसाध्य इति । तत्

किमयं नानार्थस्थले सर्वत्रैव व्यञ्जनोल्लासः, आहोक्त्वचदेवेति सम्मतम्? नाद्यः
प्राकरणिकाप्राकरणिकयोरर्थयोः शाब्दबुद्धौ सर्वत्राभ्युपगम्यमानायां तात्पर्यज्ञानकारणताया
कल्पनस्य नैरर्थक्यापत्तेः
शाब्दबोधे तात्पर्यनिर्णयकारणतायाः सार्थक्यमाशंक्यते-न च शक्तिजबोधे सा कल्प्यते, व्यक्तिजबोधस्तु तात्पर्यज्ञानं विनापि भवतीति तत्स्थान
शक्तिजबोधवारणाय तत्कल्पनमिति वाच्यम्
समाधत्ते-अतात्पर्यार्थबोधस्य सार्वत्रिकत्वे तस्य शक्तिजतायामपि बाधकाभावात्
पुनः प्रकारान्तरेण तात्पर्यज्ञानकारणताकल्पनायाः साफल्यमाशंक्यते-अथ नानार्थशब्दादर्थद्वयोपस्थितौ सत्यां प्रकरणादिना सत्येकस्मिन्नर्थे तात्पर्यनिर्णय
तस्यैवार्थस्य प्रथमं शाब्दबुद्धिर्जायते, नापरार्थस्येति नियम-रक्षणा
शक्तिजतदर्थशाब्दबुद्धौ तदर्थतात्पर्यज्ञानं हेतुरिष्यते । अन्यथ
तात्पर्यविषयतयानिर्णीतस्यार्थस्येवातथाभूतस्यापरस्याप्यर्थस्य प्रथमं शाब्दधीः स्यात्
अनन्तरं तु तात्पर्यविषयार्थबोधादतात्पर्यविषयार्थविषयापि शाब्दधीरिष्यत इत
तज्जन्यतावच्छेदककोटौ शक्तिजत्वं निवेश्यत इति चेत्
खण्डयति-मैवम् । ‘सोऽव्यादिष्टभुजङ्गःहारवलयस्त्वां सर्वदोमाधवः’ इत्यादौ श्लेषकाव्य इव प्रकृतेऽप
प्रकृताप्रकृतयोरर्थयोर्बोधस्य स्वीकारे बाधकाभावात्
दृष्टान्तदाष्र्टान्तिकयोर्वैषम्यं शङ्कःते-न च दृष्टान्तेऽर्थद्वयेऽपि प्रकरणसाम्यात्तात्पर्यज्ञानमस्तीति युगपद्द्वयोर्बोधोपपद्यते
दाष्र्टान्तिके त्वेकत्रैव प्रकरणादिवशात्तदिति न युगपदर्थद्वयबोधोपपत्तिरिति वाच्यम्
समाधत्ते-तात्पर्यज्ञानकारणताया एवासिद्धत्वेन युगपदर्थद्वयबोधानुपपत्तिवाचोयुक्तेररमणीयत्वात्
तादृशज्ञानहेतुतासिद्धौ तु शक्येतापीत्थं वक्तुम्
एवं सति तात्पर्यज्ञानस्यानुपयोगमाशङ्क्य निरस्यति-तर्हि तात्पर्यज्ञानस्य कुत्रोपयोग इति चेत्? अस्मिन्नर्थेऽयं शब्दः प्रमाणमयमर्थः प्रमाणवेद्
इत्यादिनिर्णये प्रवृत्त्याद्युपयोगिनीति गृहाण

नानार्थस्थले सर्वत्र व्यञ्जनोल्लास:, क्वचिदेवेति कल्पद्वये प्रथमकल्पीय
वक्तव्यमुपसंहरति-इत्थं च नानार्थस्थलेऽपि तात्पर्यधियः कारणताया
शिथिलीभवन्त्यामतात्पर्यार्थविषयशाब्दबुद्धिसम्पादनाय व्यक्तिस्वीकारोऽनुचित एव शक्त्यै
बोधद्वयोपपत्तेः
नानार्थस्थले क्वचिदेव व्यञ्जनोल्लास इति द्वितीयं कल्पमालोचयितुं प्रक्रमते-नापि द्वितीयः, हेतोरभावात् । व्यङ्ग्यार्थविषयककवितात्पर्यज्ञानं तथेति चेत्? न
व्यक्तिजबोधे तात्पर्यज्ञानकारणतायास्त्वयानभ्युपगमात्, यत्राश्लीलं दोषस्तत्राप्राकरणिकेऽर्थ
सकलानुभवसिद्धे कवितात्पर्यस्य विरहात् तज्ज्ञानस्य तादृशबुद्धिहेतुताय
व्यभिचारदूषितत्वाच्च
व्यञ्जनोल्लासस्य क्वाचित्कत्वनियामकमपरहेतुमाशंक्य खण्डयति-अथ श्रोतुः शक्तिविशेषो व्यक्तेरुल्लासे हेतुः, स च फलबलाच्चमत्कारिण्येवार्थ
व्यक्तिमुल्लासयति नाचमत्कारिणीति सिद्धं व्यञ्जनोल्लासस्य क्वाचित्कत्वमिति चेत्? न
हन्तैवं स नियन्त्रितशक्तेरेव वोल्लासकोऽस्त्विति कृतं नानार्थस्थले व्यक्तिकल्पनया
अभ्युपगतेऽपि व्यञ्जनोल्लासस्य क्वाचित्कत्वे नानार्थस्थलेऽप्राकरणिकार्थबोधो व्यञ्जनयेत
पक्षो न युक्तोऽनिष्टापत्तेरित्याह-किंच ‘उल्लास्यकालकरवालमहाम्बुवाहम्’ इत्यादिनानार्थव्यञ्जकस्थले-ऽग्रहीतद्वितीयार्थशक्तिकस्य गृहीतविस्मृतद्वितीयार्थशक्तिकस्य वा पुंसः सर्वथैव व्यञ्जनय
द्वितीयार्थबोधानुदयात्तत्र तया तदापत्तिस्तव दुर्वारा
एतद्दोषोद्धारायाशङ्कःते-न च येन शब्देन योऽर्थो व्यज्यते तस्य शब्दस्य तदर्थगतशक्तिज्ञानं तदर्थव्यक्तेरुल्लास
हेतुरिति वाच्यम्, ‘निःशेषच्युत- ’ इत्यादौ रमणव्यक्त्यनापत्तेः। न ह्यधमपदस्
कस्यचिद्रमणे शक्तिग्रहोऽस्ति । सति वा तस्मिंस्तेनैवोपपत्तौ व्यक्तिकल्पनवैयर्थ्यापत्तेश्च
उक्तकार्यकारणभावस्य सङ्कुचितविषयकत्वकल्पनेन ‘निःशेष’ इत्यादौ दोषनिरासमाशङ्क्
निरस्यति-न च नानार्थव्यञ्जनस्थल एवैवंजातीयकः कार्यकारणभावः कल्प्यते, तत्र
शक्तेर्नियन्त्रितत्वेन तद्ग्रहस्याप्रयोजकतया व्यक्तिकल्पनौचित्यादिति वाच्यम्

नवीनकार्यकारणभावकल्पने गौरवप्रसङ्गात् । नियन्त्रणस्य पूर्वमेव दूषितत्वेन तद्धेतोरेवेत
न्यायावताराच्च
अथान्यथा शङ्कःते-अथास्त्वप्राकरणिकोऽप्यर्थः शक्तिवेद्य एवान्वयधीगोचरः परन्तु यत्र न बाधितः स्यात्। यत्
तु बाधितस्तत्र ‘जैमिनीयमलं धत्ते रसनायामयं द्विजः ’ इत्यादौ जुगुप्सितोऽर्थो वह्निन
सिञ्चतीत्यादौ वह्निकरणकसेक इवाबोधोपहत एव स्यात् । बाधनिश्चयस्य तद्वत्ताज्ञानं प्र त
प्रतिबन्धकतायाः सर्वजनसिद्धत्वात् । व्यक्तेस्तु बाधितार्थबोधकत्वं धर्मिग्राहकमान सिद्धमित
व्यक्तिवादिनामदोष इति
उक्तशङ्कायाः समाधानमाह-मैवम्, ‘गामवतीर्णासत्यं सरस्वतीयं पतञ्जलिव्याजात्,’ ‘सौधानां नगरस्यास्
मिलन्त्यर्केण मौलयः।’ इत्यादौ वाच्यार्थान्वयोपपादनायानु-सरणीयेन यत्ने
नानार्थस्थलेऽपि बाधितार्थबोधस्योपपत्तिः स्यात्, अन्यथा प्रायशः सर्वेष्वप्यलंकारेष
वाच्यार्थबोधोपपत्तये व्यञ्जनाङ्गीकरणीया स्यात्
तस्मान्नानार्थस्याप्राकरणिकेऽर्थे व्यञ्जनेति प्राचां सिद्धान्तः शिथिल एव
प्राचीनमतस्यांशिकरूपेण युक्तिसङ्गःतत्वं कथञ्चित् स्वीकरोति-प्राकरणिकाप्राकरणिकयोरर्थयोरुपमायां तु सा कदाचित्स्यादपीत्यत्रास्माकं प्रतिभाति
स्वाभिमतं शब्दशक्तिमूलव्यञ्जनोदाहरणस्थलं दर्शयितुमुपक्रममातनोति-एवमपि योगरूढिस्थले रूढिज्ञानेन योगापहरणस्य सकलतन्त्रसिद्धतया रूढ्यनधिकरणस्
योगार्थालिङ्गिःतस्यार्थान्तरस्य व्यक्तिं विना प्रतीति र्दुरुपपादा
उदाहरति-यथा-

‘अबलानां श्रियं हृत्वा वारिवाहैः सहानिशम्
तिष्ठन्ति चपला यत्र स कालः समुपस्थितः॥

अत्राशक्तानां द्रव्यमपहृत्य जलवाहकैः पुरुषैः सह पुंश्चल्यो रमन्त इत्यर्थान्तरं
तावदबला-वारिवाह-चपलाशब्दैर्योगरूढ्या शक्यते बोधयितुम्
मेघत्वविध्युत्त्वाद्यघटितस्यैव तस्यार्थस्य प्रतीतेः। अन्यथा चमत्कारो न स्यात् । अत एव

योगशक्त्यापि केवलया । रूढ्यर्थासंवलितार्थबोधकत्वस्य तस्या रूढिसमानाधिकरणाय
असङ्गःतेः। पुंश्चलीत्वादेः सर्वथैव तदविषयत्वात्
योगरूढेरन्यत्राप्येकत्रैषा स्थितिरिति दर्शयति-एवं यौगिकरूढिस्थलेऽपि बोध्यम्
योगरूढिस्थलीयमेवोदाहरणान्तरमाह-यथा वा-

‘चाञ्चल्ययोगिनयनं तव जलजानां श्रियं हरतु
विपिनेऽतिचञ्चलानामपि च मृगाणां कथं हरति ॥

अत्र नैवाश्चर्यकारी चाञ्चल्यगुणरहितानां कमलानां चाञ्चल्यगुणाधिकेन तव लोचने
शोभायास्तिरस्कारः, आश्चर्यकृत्तु हरिणानां तद्गुणयुक्तानां तस्याः स इति वाच्यार्थ
पर्यवसन्नेऽपि रूढिनिर्मुक्तकेवलयोगमर्यादया मूर्खपुत्राणामत एव प्रमत्तानां नेतृभिश्चोराद्यैः
श्रियो धनस्य हरणं सुशकम्, न तु गवेषकाणामत एवाप्रमत्तानामित
जलजनयनमृगशब्देभ्यः प्रतीयमानोऽर्थः कथं नाम व्यञ्जनाव्यापारं विनोपपादयितुं शक्यत

योगरूढिस्थले केवलयोगशक्त्या नार्थान्तरप्रतीतिरिति स्वाभिमतं सिद्धान्तम् अन्या चार्य मतै
संवादयति-अत एव पङ्कःजादिपदेभ्यः पङ्कःजनिकर्तृत्वेन कुमुदाद्युपस्थितिर्लक्षणयैवेति नैयायिका मन्यन्त
। अत एव च ‘ईशानो भूतभव्यस्य स एवाद्य स उ श्वः ’ इति वेदान्तवाक्य
किमैश्वर्यविशिष्टः कश्चिज्जीवोऽत्र प्रतिपाद्यते उतेश्वर इति संशये, जीव एवेति पूर्वपक्षे
‘शब्दादेव प्रमितः’ इति सूत्रितमुत्तरमीमांसाकारैर्बादरायणचरणैः(ब्रह्मसूत्रे १।३।२४)
उपसंहरति-तस्मादर्थान्तरमिह न शक्तिवेद्यम् अपि तु व्यक्तिवेद्यमेव
ननु शक्त्यवेद्यत्वेऽपि लक्षणावेद्यत्वमेवास्तु किं व्यञ्जनयेत्यत आह-यथाश्रुतार्थस्यैवोपपत्तेर्बाधाभावेन लक्ष्यमित्यपि न शक्यं वक्तुम् । तात्पर्यार्थबोध स्त
तदर्थबोधोत्तरं बोध्यः। स एव तु कथं स्यादित्युपायोऽयं विचिन्त्यते । नह्यपहर्तृव्यवहार
वक्त्रा विवक्षित इति श्रोतुर्बोधे कश्चिदुपायोऽस्ति ऋते सहृदयहृदयोन्मिषितादस्माद्व्यापारात

पूर्वोक्तरीतिरेवान्यत्रापि तादृशस्थलेषु समाश्रयणीयेत्याह-एवमन्यत्राप्यूह्यम्
योगरूढपदनिबद्धेषु ‘अबलानाम्’ इत्यादिषु द्वितीयार्थप्रतीत्यपलापं दूरीकरोति-तादृशार्थप्रतिपत्तिरेव नास्तीति तु गाढतरशब्दार्थव्युत्पत्तिमसृणीकृतान्तः- करणैर्न शक्यत
वक्तुम्
इदानीम् ‘अनेकार्यस्य शब्दस्
इत्यादिमम्मटोक्तशब्दशक्तिमूलव्यञ्जनासङ्ग्राहककारेकास्थाने भिन्नविधैव सङ्ग्रहकारिक
कर्तव्येत्याह-तथा चेत्थं संग्रह:-

‘योगरूढस्य शब्दस्य योगे रूढ्या नियन्त्रिते
धियं योगस्पृशोऽर्थस्य या सूते व्यञ्जनैव सा ॥

मम्मटादिप्राचीनाचार्यणां हृदयं स्फोरयति-एवं स्थिते नानार्थस्थलेऽप्युपमायाः प्राकरणिकाप्राकरणिकार्थगतायाः प्रतिपत्तयेऽवश्य
वाच्यया व्यञ्जनयैवाप्राकरणिकस्याप्यर्थस्य प्रतिपत्तावलं क्लिष्टकल्पनयेत्याशये
प्राचीनैरुक्तं नानार्थव्यञ्जकत्वमपि न दुष्यति
प्राचीनोक्तनानार्थशक्तिनियामकान् संयोगादीन् निरूपयितुमुपक्रमते-तत्र नानार्थशक्तिनियमनाय तैः संयोगादयो निरूपिताः-

‘संयोगो विप्रयोगश्च साहचर्यं विरोधिता
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः

सामय्र्थमौचिती देशः कालो व्यक्तिः स्वरादयः
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः॥

हरिकारिकोक्तान् संयोगादीनेकैकशो व्याचिख्यासुरादौ प्रथमोक्तं संयोगं व्याचष्टे-तत्र-संयोगो नानार्थशब्दशक्यान्तरवृत्तितया अप्रसिद्धत्वे सति तच्छक्यवृत्तितया प्रसिद्ध
संबन्धः
यथा-‘सशङ्खःचक्रो हरिः’ इत्यत्र शङ्खःचक्रयोः संयोगो भगवन्मात्रनिष्ठतया प्रसिद्ध
भगवति हरिशब्दस्याभिधाया नियमेनावस्थापकः, न त्वायुधत्वेनायुधसामान्यसंयोग

पाशाङ्कुशादिसंयोगो वा दलद्वयाभावात् । न चासौ लिङ्गान्तर्गत इति मन्तव्यम्, शक्यान्तर
नियमेनावृत्तेरेव प्रकृते लिङ्गःत्वात् । शङ्खचक्रयोस्त्विन्द्रादिनापि कदाचिद्धारणसंभवात्
विप्रयोगं व्याचष्टे-विप्रयोगो विश्लेषः
यथा-‘अशङ्खःचक्रो हरिः’ इत्यत्र तयोरेव विश्लेषस्तथा । अत्र हि विश्लेषनियतपूर्ववर्तिन
संश्लेषस्य प्रागुक्तदलद्वयाक्रान्तत्वमपेक्ष्यते । तेनायुधसामान्यविभागः, पाशाङ्कुशादिविभाग
वा न तथा । यद्यप्यत्र गुणतया वर्तमान-स्तादृशसंयोग एवाभिधानियमनायालम्, तथाप
गुणप्रधानयोः संनिपाते प्रधानानुरोध एव न्याय्य इत्याशयेन विप्रयोगस्य नियामक त्वमुक्तम्
यद्वा संयोगस्यैव केवलत्वेन विश्लेषगुणीभूतत्वेन च द्वैविध्यप्रदर्शनाय तथोक्तम्
साहचर्यं व्याकरोति-साहचर्यमेकस्मिन् कार्ये परस्परापेक्षित्वम्
यथा-‘रामलक्ष्मणौ’ इत्यत्र लक्ष्मणसाहचर्यं रामशब्दस्य
शङ्कःते-अथ किमिदं परस्परापेक्षित्वं यत्किञ्चित्कार्ये, सर्वेषु कार्येषु वा? नाद्य:
घटाद्यव्यावर्तनाद्घटसाहचर्यस्यापि रामपदशक्तिनियामकतापत्तेः। न द्वितीयः
लक्ष्मणसाहचर्यस्यापि निवारणापत्तेः। पक्षद्वयेऽपि रामायोध्ये रघुरामावित्यत्रानियमापत्तेश्च
साहचर्यस्य स्वरूपान्तरमाशंक्य निरस्यति-न च नानार्थपदसमभिव्याहृतपदान्तरार्थस्य प्रसिद्धः संबन्धस्तत् । स चैक-जन्यत्व-दांपत्य-जन्यजनकभाव-स्वामिभृत्यभाव-स्वस्वामिभावादिरनेक-विधः, तेन रामलक्ष्मणौ
सीतारामौ, रामदशरथौ, रामहनूमन्तौ, रामायोध्ये इत्यादौ साहचर्यं नियामकमिति वाच्यम्
लक्ष्मणादिसंबन्धापेक्षया चक्रादिसंबन्धस्याविशिष्टतया सशङ्खःचक्र इत्यत्रापि साहचर्यस्यै
नियामकतापत्तेः
उक्तसाहचर्यस्वरूपस्वीकारेऽपि साहचर्यसंयोगयोर्विषयविभागः संभवतीत्याशङ्क्
निराकुरुते-न च सशङ्खःचक्र इत्यादौ यत्र संबन्धः संयोगरूपस्तत्राद्यस्य यत्र च संबन्धान्तरं तत्
तृतीयस्यावकाश इति वाच्यम्, संयोगस्यैव पृथक्कारो बीजाभावात्
संयोगस्यैव पृथक्कारे बीजमुद्भाव्य खण्डयति

न च यत्र संयोगः शब्दोपात्तस्तत्र स एव नियामकः, यत्र तु सम्बन्धिमात्रं न त
सम्बन्धस्तत्र साहचर्यम्, अत एव सशङ्खःचक्र इति संयोगस्य, रामलक्ष्मणाविति
साहचर्यस्योदाहरणमिति वाच्यम्; सलक्ष्मणो रामो विलक्ष्मणो राम इत्यत्
संयोगविभागयोर्गुणयोरप्रतीत्या साहचर्योदाहरणतायां प्रसक्तायां सशङ्खःचक्र इत्यादेरप
तदुदाहरणताया एवौचित्यात्
शङ्कापक्षमुपसंहरति-इति चेत्
सिद्धान्तयति-उच्यते- संयोगशब्दस्य सम्बन्धसामान्यपरतया यत्र शब्दोपात्तं प्रसिद्धं सम्बन्धसामान्य
शक्तिनियामकं तदाद्यस्य, यत्र तु द्वन्द्वादिगतः सम्बन्ध्येव केवलस्तद
तत्साहचर्यस्योदाहरणमिति प्राचामाशयात् । इत्थं च सगाण्डीवोऽर्जुनः इति संयोगस्य
गाण्डीवार्जुनाविति साहचर्यस्योदाहरणम्
विरोधितां निर्वक्ति-विरोधिता प्रसिद्धं वैरम्, सहानवस्थानञ्च । तत्राद्यस्य ‘रामार्जुनौ ’ इत्युदाहरणं प्राञ्च
वदन्ति
अथ दीक्षितोक्तं खण्डयितुं प्रथमं तदनुवदति-यत्त्वप्पय्यदीक्षितो वृत्तिवार्तिके प्राचामुदाहरणं निराकुर्वन्नाह-रामार्जुनपदयोर्वध्यघातकभावविरोधाद्भार्गवकार्तवीर्ययोरभिधा नियम्यत इति तदयुक्त म्
रामपदस्याभिधानियमने सति तद्विरोधप्रतिसंधानेनार्जुनपदस्य कार्तवीर्येऽभिधानियमनम्
तस्मिंश्च सति तद्विरोधप्रतिसंधानेन रामपदस्येत्यन्योन्याश्रयापत्तेः, तस्मादन्यतरपदस्
व्यवस्थितार्थत्व एव स्मृततद्विरोधप्रतिसंधानान्नानार्थपदस्याभिधानियमनमित
रामरावणयोरित्युदाहरणं भवितुमर्हति इति
दीक्षितोक्तं निराचष्टे-तत्र तावद्रामरावणयोरिति व्यवस्थितार्थान्यतरपदकमुदाहरणं विरोधिताया नियामकत्वस्य
युक्तम् । रामलक्ष्मणयोरित्यत्रेवात्रापि साहचर्यस्यैव नियामकत्वात्
दृष्तान्ते दाष्र्टान्तिकापेक्षया वैषम्यमाशङ्क्य निरस्यति

न च लक्ष्मणसाहचर्यं रामस्य प्रसिद्धम्, न तु रावणसाहचर्यमिति वाच्यम्
प्रसिद्धतत्सम्बन्धकत्वस्यैव तत्साहचर्यपदार्थक्त्वात् । पितृ-भ्रातृ-जायापत्य-भृत्य-नगरीणां संबन्धस्येव रिपोः संबन्धस्यापि लोकप्रसिद्धत्वात्
साहचर्यान्तर्भावयोग्याया अपि प्रसिद्धवैरात्मकविरोधितायाः साहचर्यान्तरापेक्षया यत्किञ्चिद
वैलक्षण्यमादाय पृथग्गणने का क्षतिरित्यत आह-एवं स्थितेऽपि विरोधितायाः पृथग्गणने मित्रत्वादेरपि तथा गणनापत्तेः
उपसंहरति-तस्मात्प्राचीनोदाहरणमिव त्वदुक्तमुदाहरणमप्यशुद्धमेव
दीक्षितोक्तमुदाहरणं निरस्य सम्प्रति तत्सिद्धान्तमपि खण्डयति-‘अन्यतरपदस्य व्यवस्थितार्थत्व एव’ इत्याद्यप्यसङ्गःतमेव
हरिनागस्येत्यादावुभयोरव्यवस्थितार्थत्वेऽप्येकवद्भावाभिव्यक्तेन विरोधे
धर्मिवेशेषाविशेषितेनापि युगपद्धर्मिविशेषद्वयेऽभिधाया नियन्तुं शक्यत्वात्
दीक्षितोक्तमेवांशान्तरं दूषयति-यदपि ‘रामार्जुनगतिस्तयो ’रिति शब्दान्तरसन्निधेरुदाहरणम्, इति स एवाह । तदप्यसत्
त्वया निरूपिते शब्दान्तरसन्निधेरुदाहरणे ‘निषधं पश्य भूभृतम् ’, ‘नागो दानेन राजते ’
इत्यत्र चाभिधाया नियतविषयतां विनान्वयस्यैवानुपपत्त्या प्रकृते
‘रामार्जुनगतिस्तयो’रित्यत्रार्थान्तरविषयत्वेऽप्यन्वयानुपपत्तेरभावान्महति वैलक्षण्य
शब्दान्तरसन्निध्युदाहरणत्वायोगात्
अथापि प्रतीयमानां ‘रामार्जुनगतिस्तयो’-रितिविरोधितोदाहरणस्यासङ्गःतिमुद्भाव्य निरस्यति-एवमपि काव्यप्रकाशगतस्य ‘रामार्जुनगतिस्तयो’ रिति विरोधितोदाहरणस्यासङ्गःति
स्थितैवेति चेत्? न, तयोः कयोश्चित्प्रसिद्धविरोधयो रामार्जुनगती रामार्जुनसदृश
गतिराचरणमिति तदर्थवर्णने विरोधेन प्रस्ताववशात्प्रतीतेन युगपद्भार्गवकार्तवीर्यय
रामार्जुनशब्दाभिधाया नियमनस्योपपत्तेः
इत्थं व्याख्याने प्रकरणरूपनियामक एवान्तर्भावसम्भवात् पुनः पृथग्विरोधित
प्रथमप्रकरणस्य परिगणनं वृथेत्याशङ्क्य समाधत्ते-न च प्रकरणादविशेषः? विरोधस्य प्रक्रान्तत्वेऽपि भार्गवकार्तवीर्ययो
शक्तिनियमाधिकरणयोरप्रक्रान्तत्वात्

विरोधिताया द्वितीयं प्रकारमुदाहरति-सहानवस्थानलक्षणाविरोधिता तु छायातपावित्यादौ बोध्या
अर्थं निरूपयति-अर्थः प्रयोजनं चतुर्थ्याद्यभिधेयम्
उदाहरति-यथा-‘स्थाणुं भज भवच्छिदे’ इत्यादौ भवच्छेदनादि स्थाणुपदस्य भवे
शङ्कःते-नन्वर्थस्य लिङ्गात्को भेदः? न च लिङ्गःमनन्यसाधारणस्तद्धर्मः, अर्थस्तु तद्भजनादे
कार्यम्, न तु तद्गतो धर्म इति स्फुट एव भेद इति वाच्यम्, भवच्छेदजनकभजनकर्मत्वस्
काष्ठावृत्तिभवधर्मत्वादिति चेत्
उत्तरयति-अत्राहु:- उक्तस्य विशिष्टधर्मस्य शाब्दबोधोत्तरभाविमानसबोधविषयत्वे
प्रकृतशाब्दबोधाविषयत्वाल्लिङ्गःतो वैलक्षण्योपपत्तिरिति
प्राचीनाभिमतं लिङ्गार्थयोर्वैलक्षण्यं प्रदर्शयति-लिङ्गं त्वेकपदार्थः कोपादिः, अनन्वित एव यः पादार्थान्तरेण प्रकृतशक्य-धर्मता
शक्यान्तरव्यावृत्ततां च भजते, उक्तधर्मस्तु न तथेत्यपि केचित्
प्रकरणं निरूपयति-प्रकरणं वक्तृश्रोतृबुद्धिस्थता
उदाहरति-यथा-राजानं संबोध्य केनचिद्भृत्येनोक्ते ‘सर्वं जानाति देवः ’ इति वाक्ये देवपदस्
युष्मदर्थे
लिङ्गं निरूपयति-लिङ्गं नानार्थपदशक्यान्तरावृत्तिरेकशक्यगतः साक्षाच्छब्दवेद्यो धर्मः
उदाहरति-यथा-‘कुपितो मकरध्वजः’ इत्यत्र कोपो मकरध्वजपदस्य
अन्यशब्दसन्निधिं निर्वक्ति-शब्दस्यान्यस्य सन्निधिर्नानार्थपदैकार्थमात्रसंसग्र्यर्थान्तरवाचकपदसमभि-व्याहारः

उदाहरति-यथा-‘करेण राजते नागः’ इत्यत्र करपदस्य नागपदमादाय नागपदस्य च करपदमादा
शुण्डायां गजे च
अत्रापाततो जायमानामन्योन्याश्रयभ्रान्तिं निराकरोति-न चात्रैकशब्दशक्तिनियमनमपरशब्दशक्तिनियमोऽपेक्षते । येनान्योन्याश्रयः स्यात्, किन्त
करनागशब्दयोरर्थान्तरग्रहणेऽन्वयानुपपत्त्या युगपदेव शक्तिर्नियम्यते
प्राचीनोक्तं खण्डयति-देवस्य पुरारातेरिति प्राचामुदाहरणे सुरत्वभूपत्वाभ्यां देवपदान्नगरा-रित्वासुरविशेषारित्वाभ्या
पुरारातिपदाच्चोपस्थितेरुभयोरपि नानार्थत्वादर्थान्तरस्वीकारेऽप्यन्वयोपपत्तेश्च कथ
शक्तेर्नियमः स्यात्
तदुदाहरणसङ्गःतिसाधकं प्राचामाशयमुपपाद्यावद्यति-न च पुरारातिपदं योगरूढम्, तथा च रूढेर्योगापहारितया शिवत्वेनैव तस्
बोधकत्वाद्देवपदशक्तिनियामकतेति वाच्यम्; पुरारातिपदस्य रूढौ मानाभावात्
पाठान्तरमाश्रित्योदाहरणसङ्गःतिं कुर्वतः प्रदीपकारादेर्मतमवतार्य निरस्यति-अथ ‘देवस्यत्रिपुराराते:’ इति पाठस्तथापि पदान्तरोपस्थापितस्य त्रिपुरासुरवैरित्वस्
लिङ्गःतया लिङ्गोदाहरणत्वमेवास्य स्यात्, न तु शब्दान्तरसन्निध्युदाहरणत्वमिति वदन्ति
पूर्वग्रन्थे वदन्तीत्यनेन सूचितामरुचिं स्फोरयति-तत्रैकपदार्थः कोपादिः पदार्थान्तरेणानन्वित एव यः प्रकृतशक्यधर्मतां शक्यान्तरव्यावृ त्तता
च भजते स लिङ्गःपदेनात्रोक्त इति प्राचामाशये तु नोक्तदोषः
काव्यप्रकाशटीकाकारैर्गोविन्दठक्कुरादिभिरुक्तं शब्दान्तरसन्निधेः स्वरूपमनूद्य दूषयति-यत्तु शब्दस्याव्यभिचरितस्य सन्निधिः सामानाधिकरण्यम् इति काव्यप्रकाशटीकाकारैरुक्तम्
तत्तु ‘करेण राजते नागः ’ इत्यादावव्यापनात्तन्नियामकान्तरस्य गवेषणे गौरवात् ‘कुपित
मकरध्वजः’ इति तन्मूलोक्ते लिङ्गोदाहरणेऽतिव्यापनाच्चोपेक्ष्यम्
सामर्थ्यं निरूपयति-सामर्थ्यं कारणता
उदाहरति-यथा-‘मधुना मत्तः कोकिलः ’ इत्यत्र कोकिलमदजनकता मधुशब्दस्य वसन्ते

खण्डनाय परकीयोक्तिमनुवदति-‘अत्र कोकिलमादने मधोरेव शक्तिर्न तु मधुनः। मादकत्वं मधुन्यपीति न लिङ्गःम् ’ इत
वदन्ति
पूर्वसूचितामरुचिमाह-तत्र सामर्थ्यं लिङ्गान्तर्गतमेव कुतो न स्यात्, इति शङ्कायाः कथमेतदुत्तरं सङ्गःच्छते
पराभिमतमुत्तरसंगतिप्रकारमुपपाद्य खण्डयति-न च मादनसामर्थ्यस्य सुरावृत्तितया नासाधारणधर्मतारूपं लिङ्गःत्वमिति वाच्यम्
मादनसामर्थ्यस्य सुरावृत्तित्वेऽपि कोकिलमादनसामर्थ्यस्य वसन्तासाधारणतया लिङ्गःत्वस्
दुर्वारत्वात्
कथञ्चित् कोकिलमादनसामर्थ्यस्य साधारणत्वस्थिरीकरणेऽपि न तवोक्तेः सङ्गःतिरित्याह-न च प्राणिमात्रमादनसामर्थ्यस्य मधुनः कोकिलमादनसामर्थ्यमप्यस्तीति वाच्यम्, एवं सत
सामर्थ्यस्य वाचकता नियामकत्वमसङ्गःतं स्यात्, न तु मधुन इति स्वोक्तिविरोधश्च भवेत्
अथ सामर्थ्यस्य नियामकत्वे प्रसिद्ध्यनुरोध इत्यपि न युक्तमित्याचष्टे-प्रसिद्ध्याश्रये पुनर्लिङ्गःत्वमप्रच्युतम्
स्वसम्मतं लिङ्गःसामर्थ्ययोर्भेदमाह-शाब्दत्वाशाब्दत्वाभ्यामेकानेकपदार्थत्वाभ्यां वा विशेषस्तु स्यात्
औचितीं निर्वक्ति-औचिती योग्यता
उदाहरति-यथा-‘पातु वो दयितामुखम्’ इत्यत्र दयितामुखकर्तृकरक्षणकर्मत्वाक्षिप्त-कामार्ताना
संबोध्यपुरुषाणां त्राणं हि तस्याः सांमुख्येनैव भवति, न तु मुखमात्रेण, वैमुख्ये ते
त्राणायोगात् । अतस्त्राणार्हत्वं वदन-सांमुख्योभयप्रत्यायकस्य मुखशब्दस्य
देशं निरूपयति-देशो नगरादिः
उदाहरति

यथा-‘भात्यत्र परमेश्वरः’ इत्यादौ परमेश्वरादिशब्दस्य राजादौ । तस्
नगरादिसंबन्धतदभावयोः सम्भवेनाभावव्यावृत्त्यर्थमधिकरणकीर्तनस्य सार्थक्यात्
परमात्मनस्तु सर्वगतस्य व्यावत्त्र्याभावात्तदुक्तिवैयर्थ्यापत्तेः
उदाहरणान्तरं प्रदर्शयति-एवं ‘वैकुण्ठे हरिर्वसति’ इत्यत्रापि बोध्यम्
उभयोरुदाहरणयोः प्रदर्शने हेतुभूतं विशेषमाह-एकत्रार्थान्तरोपग्रहेऽधिकरणोक्तिवैयर्थ्यम्, अपरत्र तु तदधिकरणत्वाप्रसिद्धिरिति विशेषः
कालं निरूपयति-कालो दिवसादिः
उदाहरति-‘चित्रभानुर्दिने भाति ’ इत्यादौ चित्रभान्वादिपदानां सूर्यादिषु, एवं ‘चातुर्मास्ये हरिः शेते
इत्यस्य
व्यक्तिं निरूपयति-व्यक्तिः स्त्रीपुंनपुंसकलिङ्गानि
उदाहरति-यथा-‘मित्त्रो भाति’ -‘मित्त्रं भाति’ इत्यत्र मित्त्रशब्दस्य पुंनपुंसके सुहृत्सूर्ययोः। एव
‘नभो भाति ’ ‘नभा-भाति ’ इत्यत्रापि
स्वरं विवृणोति-स्वर उदात्तादि:-उदाहरति-यथा-‘इन्द्रशत्रुः’ इत्यत्र समासान्तोदात्तत्वमिन्द्रशत्रुशब्दस्येन्द्रस्य शत्रौ । पूर्व-पद-प्रकृति-स्वर-प्राप्तमाद्युदात्तत्वं त्विन्द्रशत्रुके
संयोगो विप्रयोगश्चेति कारिकायां ‘कालो व्यक्तिः स्वरादयः’ इत्यत्रत्यादिपदसंग्राह्य
स्फोरयति-आदिनाभिनयादिपरिग्रहः
उदाहरति-यथा-‘एद्दहमेत्तत्थणिआ’ इत्यादौ

प्रकरणमेनमुपसंहरन् संयोगादीनां नियामकानां परस्परभेदैः पर्यालोचयति-इहार्थसामर्थ्यौचितीनामुदाहरणेषु चतुथ्र्थाद्यैस्तृतीयाद्यैरर्थसामर्थ्येन
बोध्यमानकार्यकारणभाव एव नियामकः, न तु वस्त्वन्तरम् । बोधकवैचित्र्याच्
नियामकस्य वैचित्र्येणोक्तिः प्राचाम् । वस्तुतस्तु संयोगादीनामर्थान्तरसाधारणत्व
नानार्थशब्दस्यार्थविशेषे शक्तेः सङ्कोच एव न संभवति, नियामकानामसङ्कुचितत्वात्। अ
प्रसिद्धत्वादिना तेषामसाधारणताबुद्धिर्यथाकथञ्चिदुपपाद्यते, तदा प्रायशो लिङ्गःभेदा एवैते
न तु सर्वथैव ततः स्वतन्त्रा इति बोध्यम्
अथ संलक्ष्यक्रमध्वन्युदाहरणप्रदर्शनप्रसङ्गे प्रथमं शब्दशक्तिमूलालङ्कारध्वनिमुदाहरन्ति-

तत्र शब्दशक्तिमूलालङ्कारस्य ध्वनिर्यथा-

‘करतलनिर्गलदविरलदानजलोल्लासितावनीवलयः
धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमोऽयम् ॥

उपपादयति-अत्र राजप्रकरणे कर-दान-धनद-सार्वभौमशब्दानां शक्तौ सङ्कोचितायामपि तन्मूलके
ध्वननेन प्रतीयमानस्यार्थान्तरस्याप्रस्तुतस्याभिधानं मा भूदित
प्रकृताप्रकृतयोरुपमानोपमेयभावः प्रधानवाक्यार्थतया कथ्यत इत्युपमालङ्कारध्वनि :
मतान्तरमवतारयति-अथ श्लिष्टविशेषणायां समासोक्तौ व्यङ्ग्यस्याप्रकृतव्यवहारस्य प्रकृतधर्मिण्यारोप्यमाणस्
प्रकृतोपस्कारकतया यथा गुणीभूतव्यङ्ग्यत्वमेवमिहाऽप्युचितम्
पूर्वग्रन्थप्रतिकूलमाशङ्क्य निरस्यति -न चोपमा प्रकृतार्थोपस्कारिका न भवतीति शक्यं वदितुम्, ‘उल्लास्
कालकरवालमहाम्बुवाहम्’ ‘भद्रात्मनो दुरधिरोहतनोः’ इत्यादौ प्राचीनानां पद्ये ‘करतल’ -इत्यादि प्रागुदाहृतपद्ये च व्यङ्ग्योपमया प्रकृतस्य राज्ञः प्रकर्षस्य सकलानुभवसिद्धत्वा त्
अनुभवापलापे तु समासोक्तावप्यप्रकृतव्यवहारस्य प्रकृतोपस्कारकत्वं नेति सुवचत्वात्
समासोक्तावप्रकृतस्य प्रकृतोपस्कारकत्वं सम्भवति, व्यङ्ग्योपमायां तु नेति मिथ
विशेषप्रदर्शनेनाशङ्क्य समाधत्ते-ननु समासोक्तावत्र चास्ति विशेषः-यत्तत्र व्यवहारिणो नानार्थशब्दानुपस्थाप्यत्वम्, इह त
तदुपस्थाप्यत्वमिति चेत्? किं चातो न हि व्यवहारिण

नानार्थशब्दोपस्थाप्यतामात्रेणाप्रकृतधर्मिनिरूपिताया उपमायाः प्रकृतधम्र्युपस्कारकत्व
वार्यते, येन गुणीभूतव्यङ्ग्यत्वं न स्यात्
व्यङ्ग्योपमा येन गुणीभूता न भवति, तादृशं युक्त्यन्तरमुद्भाव्य खण्डयति-न चात्रोपमादीनामलङ्कारणां स्वभावतः सुन्दरत्वात्काव्यप्रवृत्त्युद्देश्यतया च वस्तुमात्र
गुणीभावो न संभवति, यथा वस्तुमात्रेणाभिव्यक्तानामलङ्काराणाम्, तुल्यन्यायत्वात्
अप्रकृतव्यवहारस्य तु समासोक्त्यवयवस्य निरलङ्कारतया वस्तुन्युपस्कारकत्व
समासोक्तावविरुद्धमिति वाच्यम्, एवमपि ‘बाधेऽदृढेऽन्यसाम्यात्किं दृढेऽन्यदपि बाध्यताम्
इति न्यायेनोक्तयुक्तेः शिथिलत्वात्, अपराङ्गःताया दुरपह्नवत्वात्
करतलेत्यादौ गुणीभूतव्यङ्ग्यत्वसाधिकाया युक्तेरपराङ्गःताया असिद्धिमापाद्य निरस्यति-अथोच्येत-उपमानमुपमेयं साधारणो धर्म इति ह्युपमाशरीरघटकम्, न तु ततः पृथग्भूतम्
तैर्विना तस्या अनिष्पत्तेः। इत्थं चोपमेयस्य सादृश्यांशेनोपस्कारेऽप्युपमाया नापराङ्गः त्वम्
उपमेयस्यापरत्वाभावात् । यथा समासोक्तावप्रकृतव्यवहारेण प्रकृतस्योपस्करणेऽपि
समासोक्तेरपराङ्गःत्वम्, प्रकृताप्रकृतघटितत्वात्, एवमिहापि स्यादिति । तथाप
समासोक्तेरिवास्यापि प्रभेदस्य गुणीभूतव्यङ्ग्यत्वापत्तेः, अस्येव वा समासोक्तेरप
ध्वनिव्यपदेश्यत्वापत्तेः
‘उल्लास्य’-‘भद्रात्मनो’-‘करतल’ इत्येतेषु उपमालङ्कारस्य व्यङ्ग्यत्वं न, अपि त
रूपकालङ्कारस्यैवेत्याह-अन्यच्च-श्लेषे हि श्लेषभित्तिकमभेदाध्यवसानं द्वयोरर्थयोरिति सकलालंकारिकनिबद्धम्
अनुभवसिद्धञ्च । तत्र मूलान्वेषणे विधीयमाने एकपदोपात्तत्वान्न शक्यते मूलमन्यन्निर्वक्तुम
। एकपदोपात्तो ह्यनेकोऽप्यर्थोऽभिन्नतयैव भासते । इत्थञ्च-‘उल्लास्य कालकरवाल ’ -इत्यादावप्येकपदोपात्ततया द्वयोरर्थयोरभेदाध्यवसानस्य युक्तत्वेनाभेदस्यै
व्यङ्ग्यत्वमुचितम्, नोपमायाः
‘उल्लास्य’ इत्यादिषु अभेदाध्यवसाननिरसनसमीहया श्लेषस्थलाद् वैलक्षण्य
प्राचामभिमतमुपपाद्य तस्याकिञ्चित्करतामाह-श्लेषे द्वयोरर्थयोर्वाच्यत्वम् एककालत्वं च । इह त्वेकस्य वाच्यत्वम्, अपरस्य व्यङ्ग्यत्व
भिन्नकालत्वं चेति । एतावन्मात्रेणैवैकपदोपात्तत्वप्रयुक्तमभेदाध्यवसानं न शक्यं त्यक्तुम्
व्यङ्ग्यताया भिन्नकालत्वस्य चाभेदप्रतिपत्तावबाधकत्वात्

काव्यप्रकाशटीकाकारोक्तं खण्डयति-एतेन -‘रूपकस्योपमाज्ञानाधीनज्ञानत्वेन प्रथमोपस्थिततया तस्या एव संबन्धत्वं कल्प्यम्
इति काव्यप्रकाशटीकाकारैरुक्तं नातीव श्रद्धेयमिति
विच्छिन्नप्रायं प्रसङ्गं पुनरवतारयति-प्रकृतमनुसरामः
अलङ्कारान्तरस्यापि शब्दशक्त्युद्भवसंलक्ष्यक्रमध्वनित्वं प्रतिजानीते-एवमलङ्कारान्तरमपि शब्दशक्तिमूलानुरणनस्य विषयः
विरोधाभासालङ्कारध्वनिमुदाहरति-यथा यमुनावर्णने-‘रविकुलप्रीतिमावहन्ती नरविकुलप्रीतिमावहति । अवारितप्रवाह
सुवारितप्रवाहा ।
उपपादयति-इह नराणां वीनां च कुलस्य प्रीतिमावहतीति प्रकृतेऽर्थे सिद्धे रविकुलप्रीतिं नावहतीत
द्वितीयोऽप्रकृतोऽर्थः विरोधश्च । एवमन्यत्रापि
अपिपदाभाव एव विरोधाभासस्य व्यङ्ग्यत्वम्, तत्पदसत्त्वे तु तस्य वाच्यत्वमेवेत्याह-यदि तु रविकुलप्रीतिमावहन्त्यपि न रविकुलप्रीतिमावहति । अवारितप्रवाहाप
सुवारितप्रवाहा इत्यपिरन्तर्भाव्यते तदा विरोधांशस्यापिनोक्तत्वाद् द्वितीयार्थस्य
तदाक्षिप्तत्वान्न ध्वनित्वम्
ननु ‘निपाता द्योतका न तु वाचका’ इति नये समाश्रीयमाणे विरोधस्
अपिपदवाच्यताविरहेण पूर्वोक्तमसङ्गःतम्, नेत्याह-निपातानां द्योतकतानयेऽपि स्फुटद्योतितस्य तदाक्षिप्तस्य च वाच्यकल्पत्वान्न तथात्वम्
प्राचीनोदाहरणे शङ्कःते-ननु ‘मृणालवलयादिदवदहनराशिः’ इत्यत्र विरोधाभासस्य कथं वाच्यालङ्कारत्वम्
विरोधांशस्य शब्दवाच्यताविरहेण व्यङ्ग्यताया एवाभ्युपगन्तव्यत्वात्
शङ्किःतस्यार्थस्यापातसुभगं समाधानमुक्त्वा खण्डयति-न च विरोधविशिष्टाभेदस्य संसर्गत्वाद्वाच्यार्थबोधविषयतया विरोधस्य वाच्यत्वमित
वाच्यम्, विरोधाभेदयोः परस्परविरुद्धत्वेनैककालावच्छेदेनैकसंसर्गत्वस्यानुपपत्तेः

नामार्थयोरभेदस्यैव संसर्गतया विरोधस्यापि संसर्गत्वे मानाभावाच्च, पर्यन्त
दवदहनराशिपदस्य सदृशलाक्षणिकतया विरोधांशस्य तिरोधानाच्च
नन्वित्यादिना कृतामाशङ्कां समाधत्ते-मैवम्
शङ्काया अयुक्तत्वे हेतुमाह-उक्तपद्यस्य विरोधोदाहरणतामात्रे तात्पर्यात्, व्यङ्ग्यत्वेऽपि तथात्वस्यानपायात्
वाच्यविरोधोदाहरणतायां त्वपिरन्तर्भाव्यः
उक्तकाव्यप्रकाशग्रन्थसङ्गातिसाधकं मतान्तरमाह-केचित्तु-‘विरोधस्य व्यङ्ग्यत्वेऽपि विरोधिद्वयस्य वाच्यतामत्रेण विरोधाभासस्
वाच्यालङ्कारव्यपदेशोपपत्तिः। इत्थमेव चांशान्तरस्य व्यङ्ग्यत्वेऽप्येकांशमादा
समासोक्त्यादीनामपि वाच्यालङ्कारव्यपदेशः’ इत्याहुः
शब्दशक्तिमूलव्यतिरेकालङ्कारध्वनिमुदाहरति-यथा वा-‘कृष्णपक्षाधिकरुचिः सदासम्पूर्णमण्डलः
भूपोऽयं निष्कलङ्कात्मा मोदते वसुधातले ॥

उपपादयति-अत्र भगवत्पक्षाधिकप्रीत्यादिलक्षणे प्रकृतभूपोपयोगित्वात्प्रकृतेऽर्थे शक्त्य
प्रतीतिपथमवतीर्णे द्वितीयोऽर्थोऽप्रकृतो वैधम्र्यात्मा तत्प्रयुक्तो व्यतिरेकश्च
अत्र व्यज्यमानस्य व्यतिरेकस्य गुणीभूतत्वमाशंक्य निरस्यति-न चात्र व्यतिरेकस्य कविगतराजविषयकरतिभावोत्कर्षकतया गुणीभूतस्य कथ
ध्वनिव्यपदेशहेतुत्वं, प्रधानस्यैव ध्वनिव्यपदेशहेतुत्वादिति वाच्यम्, उदासीने वक्तर
तत्त्वार्थकथनपरस्यास्य पद्यस्य वक्तृगतरतिव्यञ्जकत्वासङ्गःतेः, गुणीभूतस्याप्यर्थस्
वाच्यार्थापेक्षया प्रधानतया ध्वनिव्यपदेशहेतुतायाः प्राचीनैः स्वीकाराच्च । अन्यथा-‘निरुपादानसंभारमभित्तावेव तन्वते
जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने ॥

इत्यत्र व्यतिरेकध्वनित्वं तैरुक्तमसङ्गःगतं स्यात् । व्यतिरेकस्य भगवद्विषयकरतिभावाङ्गःताय
अनुभवसिद्धत्वात्

शब्दशक्तिमूलवस्तुध्वनिमुदाहरति-शब्दशक्तिमूलवस्तुध्वनिर्यथा-‘राज्ञो मत्प्रतिकूलान्मे महद्भयमुपस्थितम्
बाले! वारय पान्थस्य वासदानविधानतः
उपपादयति-अत्रोपभोगं देहीति वस्तु राजपदशक्तिमूलानुरणनविषयः। राजपदाच्चन्द्रोपस्थितावे
चन्द्रजनितभयवारणकारणत्वेनोपभोगस्याभिव्यक्तेः
अलङ्कारध्वनित्वमस्य पद्यस्याशङ्क्य निराकरोति-न चात्र नृपचन्द्र्योरुपमानोपमेयभावः भेदापोहरूपं रूपकं व तथास्त्विति वाच्यम्, इ
नृपरूपस्यार्थस्य चन्द्ररूपार्थगोपनमात्रार्थमुपात्तत्वे
युगपदुल्लसितोपमानोपमेयकयोरुपमारूपकयोस्तात्पर्यविषयताया अयोगात्
अथैवं वाक्यभेदापत्तिर्नेत्याह-न चासंसृष्टार्थद्वयबोधने वाक्यभेद इति वाच्यम्, तुल्यकक्षतया द्वयोरसंसृष्टयोरर्थयो
प्रतिपिपादयिषितत्व एव तस्याभ्युपगमात् । इह त्वाच्छादकप्रतीतिसमये आच्छाद्याऽप्रतीतिः
आच्छाद्यप्रतीतौ चाच्छादकन्यग्भाव एवेति नास्ति तुल्यकक्षता
काव्यप्रकाशोक्तं शब्दशक्तिमूलवस्तुध्वनेरुदाहरणं परीक्षते-काव्यप्रकाशे तु-‘शनिरशनिश्च तमुच्चैः’ इत्यादिकमुदाहृत्य ‘अत्र विरुद्धौ द्वावप
त्वदनुवर्तनार्थमेकं कार्यं कुरुत इति ध्वन्यत ’ इत्युक्तम् । तच्च ‘द्वौ शन्यशनी उदारानुदार
चैकं कार्यं हननं भानं च’ इति व्याख्यातृभिव्र्याख्यातम्, तत्
शन्यशन्योर्हननक्रियाकर्तृत्वान्वयेऽप्युदारानुदारयोर्भानकर्तृतत्पदार्थविशेषणयोस्तत्प्रकार-विशेषणयोर्वा साक्षाद्भानकर्तृत्वान्वयाभावात् कथमेककार्यकारित्वं सङ्गःतं स्यात्
प्रकाशग्रन्थस्याशयं स्पष्टीकरोति-अतो विरुद्धौ द्वावित्यादि प्रथमार्धविषयम् । द्वितीयार्धे तु विरोधाभास एव
उक्तव्याख्याग्रन्थस्यापि सङ्गःतिं कुर्वन् तैरनुक्तं तत्रत्यं विशेषं प्रदर्शयति-कर्तर्यभेदेनान्वयमात्रेण कृरुत इत्यस्योपपत्तिश्चेत्? अस्तु द्वितीयार्धेऽपि विरुद्धौ द्वावित्याद
वस्तु व्यङ्ग्यम् । परं त्वर्धद्वयेऽपि विरोधाभासालङ्कारशबलितमेव । शत्रुविरुद्धस्

शत्रुत्वासंभवादेकस्य शन्यशनिकर्तृकहननकर्मत्वायोगेनाद्यार्ध
उदारत्वानुदारत्वयोरेकाधिकरणवृत्तित्वायोगाद् द्वितीयार्धे च विरोधस्य स्फुटत्वात्
अर्थशक्तिमूलध्वन्युदाहरणप्रसङ्गे प्रथमं स्वतःसंभविना वस्तुना वस्तुध्वनिमुदाहरति-अर्थशक्तिमूलानुरणनं यथा-‘गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति संमुखम्
आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः

उपपादयति-अत्र मधुव्रतकर्तृकमञ्जुगुञ्जनाद्यैर्वस्तुभिः कविकल्पितत्वविरहेण स्वत
संभविभिरासन्नसरसिजोत्पत्तिध्वननद्वारा शरदागमनैकट्यरूपं वस्तु व्यज्यते
काव्यप्रकाशोक्तं स्वतःसम्भविना वस्तुना वस्तुध्वनेरुदाहरणमालोचयति-काव्यप्रकाशे तु-‘अलससिरोमणिधुत्ताणं अग्गिम-’ इत्याद्युदाहृत्य ‘ममैवोपभोगयोग्य इत
वस्तु व्यज्यते’ इत्युक्तम् । तत्र केन वस्तुनेदं वस्तु व्यज्यते?
तावदलसशिरोमणित्वादिकान्तविशेषणैः, तेषां धात्र्यादिवृद्धस्त्रीनिरूपितत्वे
तवैवोपभोगयोग्य इत्यादिरूपेणैव व्यङ्ग्यस्य वक्तव्यतापत्तेः। विशेषणाना
कामिनीनिरूपितत्वे तु ममैवेत्यादिव्यङ्ग्याकारः स्यात् । नापि परिफुल्लविलोचनत्वेन, तस्
हर्षभावानुभावत्वेन हर्षव्यञ्जकताया एव क्लृप्तत्वात् । मदुपभोगयोग्यत्वं हि हर्ष भावस्
विभावः। न ह्यनुभावैर्विभावो व्यज्यत इति तद्विभावव्यञ्जनं शक्यं वक्तुम् । केवलस्
परिफुल्लविलोचनत्वस्य ममैवेत्यादिव्यङ्ग्यव्यञ्जने सामर्थ्याभावात्
पुत्रागमनधनप्राप्त्यादिविभावकेऽपि हर्षभावे परिफुल्लविलोचनताया अनैकान्तिकत्वादिति
उक्तशङ्काया युक्ततामाह-सत्यम्
उक्तशङ्कायाः समुचितत्वेऽपि प्रकाशग्रन्थस्य सुसङ्गःतमभिप्रायं प्रकटयति-‘इअ भणिएण
इत्याद्यर्थवशप्रापितालसशिरोमणित्वादिविशेषणश्रवणविशिष्टप्रफुल्लविलोचन-त्वे
मदुपभोगयोग्यत्वलक्षणविभावाभिव्यक्तिद्वारा हर्षभावोऽभिव्यज्यते । तत्
द्वारीभूतविभावाभिव्यक्तिमादाय काव्यप्रकाशग्रन्थसंगतिः
पूर्वोक्तरीत्याऽभिव्यक्त्याश्रवणे सम्भवन्तीं भावध्वनेः संलक्ष्यक्रमत्वापत्तिमिष्टापत्त्या परिहरति

न च भावध्वनेः संलक्ष्यक्रमत्वापत्तिः, द्वारस्य संलक्ष्यक्रमत्वादिति वाच्यम्; इष्टापत्तेः।
चापसिद्धान्तः, तस्य प्रागेवोद्धारात्
स्वतः संभविना वस्तुनाऽलङ्कारध्वनिमुदाहरति-‘मृद्वीका रसिता सिता समशिता स्फीतं निपीतं पयः
स्वर्यातेन सुधाऽप्यधायि कतिधा रम्भाधरः खण्डितः
तत्त्वं ब्रूहि मदीयजीव! भवता भूयो भवे भ्राम्यत
कृष्णेत्यक्षरयोरयं मधुरिमोद्गारः क्वचिल्लक्षितः॥

उपपादयति-अत्र निष्कृष्टजीवसंबोध्यक-परिदृश्यमानस्थूलदेहेन्द्रियादिचेतनाचेतनसंधा-तात्मकास्मत्पदबोध्यकर्तृकप्रश्नविषयेणार्थेन वस्तुना तथाभूते
भगवन्नाम्नोऽनेकजन्मवृत्तान्ताध्यक्षीकरणकारणयोगसिद्धिविशेषतादात्म्याध्यवसाय-रूपातिशयोक्तिव्र्यज्यते
शङ्कःते-अथ प्रश्नविषयस्यात्र नानाजन्मगतवृत्तान्तरूपतया तज्ज्ञं प्रत्येव प्रष्टुमौचित्येनानभिज्ञ
स्वजीवं प्रति प्रष्टुमयोग्यत्वात्प्रश्नान्यथानुपपत्त्या आक्षिप्ता, वाच्यसिद्ध्यङ्गःत्वे
गुणीभूतव्यङ्ग्यरूपा वा, प्रागुक्तातिशयोक्तिरिह कथं ध्वनिव्यपदेशहेतुः स्यात्
प्राचीनैरुक्ते स्वतःसंभविना वस्तुनाऽलङ्कारध्वनेरुदाहरणेऽपीयं शङ्का समानैवेति दर्शयति-इत्थमेव च ‘तदप्राप्तिमहादुःख’-इत्यत्राप्यतिशयोक्तेरर्थापत्तिविषयत्वं गुणीभूतव्यङ्ग्यत्वं व
युक्तम् । अनेकजन्मोपभोग्यदुःखसुखराशिभ्या
तदप्राप्तिमहादुःखतच्चिन्ताविपुलाह्लादयोरनिगरणेऽशेषपापपुण्यपुञ्जनाशकताया अनुपपत्तेः
तद्दुःखसुखानां स्वस्वफलोपहितपापपुण्यनाशकताया एवान्यत्र क्लृप्तत्वात् । निगरणे त
तयोस्तन्नाशकताबुद्ध्युपपत्तिः
आशङ्क्य समाप्यते-न च वस्तुमात्राभिव्यक्तस्यालंकारस्य न गुणीभूतव्यङ्ग्यत्वम्-‘व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तदा
ध्रुवं ध्वन्यङ्गःता तासां काव्यवृत्तेस्तदाश्रयात् ॥

इति सिद्धान्तादिति वाच्यम्, बाधे दृढे सिद्धान्तमात्रेणात्र ध्वनित्वस्
स्थापयितुमशक्यत्वादिति चेत्
अथ प्रश्नविषयस्येत्यादिना समुत्थापितामाशङ्कामुपसंहरति-सत्यम्
समाधत्ते-यादृशव्यङ्ग्यप्रतिपत्तिं विना यत्र वाच्यस्य सर्वथाप्यनुपपत्तिस्तत्र तद् वाच्यसिद्ध्यङ्गःम्
यत्र प्रकारान्तरेणापि तस्योपपत्तिः शक्या कर्तुं न तत्र तथा
पूर्वोक्तसिद्धान्तास्वीकारेऽनुपपत्तिं दर्शयति-अन्यथा हि ‘निःशेषच्युतचन्दनं स्तनतटम्’इत्यत्राधमत्वासिद्ध्यङ्गःत्वाद् दूतीरमणस्
वाच्यसिद्ध्यङ्गःगुणीभूतव्यङ्ग्यत्वापत्तेः
उक्तसिद्धान्तानुसारेण ‘मृद्वीके’ति पद्ये व्यज्यमानातिशयोक्तिर्न वाच्यसिद्ध्यङ्गःमित्युपपादयति-प्रकृते च भगवन्नाम्नि योगसिद्धितादत्म्याध्यवसायरूपामतिशयोक्तिं विनाप
भगवन्नामोच्चारणमाहात्म्यप्राप्तसार्वज्ञ्यबुद्ध्याऽपि प्रश्नोपपत्तेर्न गुणीभूतव्यङ्ग्यत्वम्
भगवन्नामोच्चारणमाहात्म्येत्याद्यनुपदोक्तरीतेरनुसरणेऽपि उक्तापत्तिसजातीयामेवापत्तिमाशङ्क्
निरस्यति-एतेनासंबन्धे सम्बन्धरूपातिशयोक्तिर्नामोच्चारणमाहात्म्यप्रभवसार्वज्ञ्याध्यवसायेऽपि स्थितेत
स दोषस्तदवस्थ इति परास्तम् । भगवन्नामोच्चारणस्याचिन्त्यमाहात्म्यताया
पुराणप्रसिद्धत्वात्
मृद्वीकेति पद्यस्य गुणीभूतव्यङ्ग्यत्वमभ्युपेत्योदाहरणान्तरमवतारयति-अथवा मास्तु प्रागुक्तमुदाहरणं वस्तुनोऽलङ्कारव्यञ्जकतायाः, इदं तु भविष्यति-‘न मनागपि राहुरोधशंका न कलङ्काधिगमो न पाण्डुभावः
उपचीयत एव कापि शोभा परितो भामिनि! ते मुखस्य नित्यम् ॥

उपपादयति-अत्र राहुरोधशङ्काभावादिभिर्निरपेक्षैर्वस्तुभिव्र्यतिरेकालङ्कारो व्यज्यते
स्वतःसंभविनाऽऽलङ्कारेण वस्तुध्वनिमुदाहरति-‘नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः
पठन्ति बिरुदावलीमहितमन्दिरे वन्दिनः

इदं तदवधि प्रभो! यदवधि प्रवृद्धा न ते
युगान्तदहनोपमा नयनकोणशोणद्युतिः॥

उपपादयति-अत्र युगान्तदहनोपमया यदैव तव कोपोदयस्तदैव रिपूणां सम्पदो भस्मसाद्भविष्यन्तीत
वस्तु व्यज्यमानं राजविषयकरतिभावेऽङ्गःमपि वाच्यापेक्षया सुन्दरत्वाद् ध्वनिव्यपदेशहे तुः
गुणीभूतव्यङ्ग्यत्वमस्याशङ्क्य निरस्यति-न च भस्मीकरणपटुत्वरूपस्य साधारणधर्मस्योपमानिष्पादकत्वाद् व्यङ्ग्यस्
वाच्यसिद्ध्यङ्गःत्वं शङ्क्यम्, उपात्तशोणत्वरूपसाधारणधर्मेणापि तन्निष्पत्तेः संभावात्
उपमेयीभूतशोणद्युतिगतस्य भस्मीकरणपटुत्वरूपसाधारणधर्मस्योपमानिष्पादकत्वेऽ-प्युपमेयव्यङ्ग्यकोपगतभस्मीकरणपटुत्वस्यातथात्वाच्च
उदाहरणान्तरमाह-‘निर्भिद्य क्ष्मारुहाणामतिघनमुदरं येषु गोत्रां गतेष
द्राघिष्ठस्वर्णदण्डभ्रमभृतमनसो हन्त धित्सन्ति पादान्
यैः संभिन्ने दलाग्रप्रचलहिमकणे दाडिमीबीजबुद्ध्य
चञ्चूचाञ्चल्यमञ्चन्ति च शुकशिशवस्तेंऽशवः पान्तु भानोः॥

उपपादयति-अत्र भ्रान्तिभृतां तिरश्चामप्येवमानन्दं जनयतीति जगदानन्दहेतुर्भगवानिति व्यज्यते
एवंरूपाया भ्रान्तेर्लोकेऽपि संभवात्स्वतःसंभवित्वम्
स्वतःसंभविनाऽलङ्कारेणालङ्कारध्वनिमुदाहरति-‘उदितं मण्डलमिन्दो रुदितं सद्यो वियोगिवर्गेण
मुदितं च सकलललनाचूडामणिशासनेन मदनेन ॥

उपपादयति-अत्र समुच्चयेन क्रियायौगपद्यात्मना कार्यकारणपौर्वापर्यविपर्ययात्मिकातिशयोक्तिः
एषु स्वतःसंभवी व्यञ्जकः
कविप्रौढोक्तिसिद्धवस्तुना वस्तुध्वनिमुदाहरति-‘तदवधि कुशली पुराणशास्त्रस्मृतिशतचारुविचारजो विवेकः
यदवधि न पदं दधाति चित्ते हरिणकिशोरदृशो दृशोर्विलासः॥

उपपादयति-अत्र कामिनीदृग्विलासे चेतसि पदमर्पितवती विवेकस्य नास्ति कुशलमिति वस्तुन
दृग्विलासकर्तृकपदार्पणस्य लोकसिद्धत्वाभावात्कविप्रौढोक्तिनिष्पन्नेन सुनिषण्णे तस्मिन
का कुशलचर्चा विवेकस्येति वस्तु व्यज्यते
शिष्यबुद्धिवैशद्यायोदाहरणाभासमस्य प्रदश्र्य निरस्यति-‘कस्मै हन्त फलाय सज्जन! गुणग्रामार्जने सज्जसि
स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय
ये भावा हृदयं हरन्ति नितरां शोभाभरैः सम्भृता-स्तैरेवास्य कलेः कलेवरपुषो दैनंदिनं वर्तनम् ॥

उपपादयति-इह यद्यपि रमणीयाः पदार्थाः कलेर्नित्यमदनीया इति वस्तुना प्रौढोक्तिसिद्धेन मर्तुं का मयस
चेद् गुणप्राप्तौ यतस्वेति वस्तु व्यज्यते, तथापि तस्य पर्यायोक्तात्मनो वाच्यापेक्षय
सुन्दरताविरहाद् गुणीभूतत्वमेव । अलङ्कारा हि वाच्यसौन्दर्यसाराः प्रायशः स्वान्तर्गत
प्रतीयमानं पृष्ठतः कुर्वन्ति
कविप्रौढोक्तिसिद्धेनालङ्कारेण वस्तुध्वनेरुदाहरणमाह-‘देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता-देवं जल्पन्ति तावत्प्रतिभटपृतनावर्तिनः क्षत्रवीराः
यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते
मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजङ्गःः॥

उपपादयति-अत्र कविप्रौढोक्तिसिद्धेन रूपकेण त्वय्युद्यतकरवाले सति का परेषां जीवनस्याशेति वस्त
व्यज्यते
कविप्रौढोक्तिनिष्पन्नवस्तुनाऽऽलङ्कारध्वनेरुदाहरणं दर्शयति-‘साहङ्कारसुरासुरावलिकराकृष्टभ्रमन्मन्दर-क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वंकषाः
तृष्णाताम्यदमन्दतापसकुलैः सानन्दमालोकित
भूमीभूषण! भूषयन्ति भुवनाभोगं भवत्कीर्तयः॥

उपपादयति-अत्र कीर्तेः सानन्दालोकनेन वस्तुना कविकल्पितेन दुग्धभ्रान्तिस्तापसगता व्यज्यते
शङ्कःते-न च सानन्दालोकनस्यैव चाक्षुषभ्रान्तिरूपतया व्यङ्ग्यव्यञ्जकयोरविवेक
व्यङ्ग्यत्वानुपपत्तिश्चेति वाच्यम्
समाधत्ते-वस्तुन एकत्वेऽपि कीर्तिरूपविशेष्यावृत्तिदुग्धत्वप्रकारकत्वात्मकभ्रान्तित्वे
सानन्दावलोकनत्वेन च व्यङ्ग्यव्यञ्जकविवेकस्य व्यङ्ग्यतावच्छेदकरूपेण वाच्यताय
अभावात् व्यङ्ग्यत्वस्य चोपपत्तेः
उक्तार्थे प्राचां सम्मतिं दर्शयति-तथा चाहु:- ‘यदेवोच्यते तदेव व्यङ्ग्यम्, यथा तु व्यङ्ग्यं न तथोच्यते ’इति
कविप्रौढोक्तिसिद्धालङ्कारेणालङ्कारध्वनिमुदाहरति-‘दयिते रदनत्विषां मिषादयि, तेऽमी विलसन्ति केसराः
अपि चालकवेषधारिणो मकरन्दस्पृहयालवोऽलयः॥

उपपादयति-अत्र पूर्वोत्तरार्धवर्तिनीभ्यामपह्नुतिभ्यां न त्वं नारी किं तु नलिनीति तृतीयापह्नुतिव्र्यज्यते
एषु प्रौढोक्तिनिष्पन्नो व्यञ्जकः
स्थलभेदेन ध्वनेः शब्दशक्त्यर्थशक्तिमूलकत्वव्यपदेशयोर्बीजमुपन्यस्यति-यद्यपि शब्दशक्तिमूलकत्वमर्थशक्तिमूलकत्वं चेत्युभयमपि सकलव्यङ्ग्यसाधरणम्
शब्दार्थयोरनुसन्धानं विना व्यङ्ग्यस्यैवानुल्लासात्, तथापि परिवृत्त्यसहिष्णूनां शब्दाना
प्राचुर्ये तत्प्रयुक्तात्प्राधान्यात्सत्या अप्यर्थशक्तेरप्राधान्याच्च व्यङ्ग्यस्य शब्दशक्तिमूलकत्वेनै
व्यपदेशः। परिवृत्तिसहिष्णूनां तु प्राचुर्येऽर्थशक्तेरेव प्राधान्यात्सत्या अपि शब्दशक्ते
प्रधानानुगुण्यार्थतया मल्लग्रामादिवत्प्रधानेनैव व्यपदेशः
ध्वनेःशब्दार्थोभयशक्तिमूलकत्वव्यवहारे कारणं प्रदर्शयति-यत्र तु काव्ये परिवृत्तिं सहमानानामसहमानानां च शब्दानां नैकजातीयप्राचुर्यम्, अपि त
साम्यमेव, तत्र शब्दार्थोभयशक्तिमूलकस्य व्यङ्ग्यस्य स्थितिरिति द्व्युत्थो ध्वनिः
द्व्युत्थध्वनेरन्यत्रगतार्थतामाशङ्क्य निरस्यति

न चायं शब्दशक्तिमूलकतयैवार्थशक्तिमूलकतयैव वा व्यपदेष्टुं शक्यः, विनिगमकाभावात्
नापि शब्दशक्तिमूलकार्थशक्तिमूलकयोः सङ्कःरेण गतार्थयितुम्, व्यङ्ग्यभेद एव सङ्कःरस्येष्टेः
इह तु व्यङ्ग्यस्यैक्येन तस्यानुत्थानात्
उदाहरणम्-कविः परामृशति-‘रम्यहासा रसोल्लासारसिकालिनिषेविता
सर्वाङ्गःशोभासंभारा पद्मिनी कस्य न प्रिय ॥

द्व्युत्थध्वनिसंबन्धिविशेषमाह-अयं च वाक्यमात्रे । पदसमूहश्च वाक्यम् । तेनास्य नानार्थानानार्थघटितसमासविषयत्वेऽप
न विरोधः। न तु शुद्धैकपदे, तस्मिन्नानार्थानानार्थयोरसमावेशात्
द्व्युत्थध्वनिसंबन्धिमतान्तारमाह-अन्ये तु-‘अर्थशक्तिमूलकत्वव्यपदेशे नानार्थप्रकाशकशब्दशक्त्युल्लास्यत्वसामान्यशून्यत्व
तन्त्रम्, विषयप्राचुर्यात् । शब्दशक्तिमूलकत्वव्यपदेशे त
नार्थशक्त्युल्लास्यत्वसामान्यशून्यत्वं तथा, विषयदौर्लभ्यापत्तेः। न ह
नानार्थशब्दमात्रघटितं पद्यं प्रचुरविषयम्, अतः शब्दशक्तिमूलकत्वेनैवायं शक्यव्यपदेश
ध्वनिः’इत्यप्याहुः
प्रकृतप्रकरणमुपसंहरति-इत्थमभिधामूलस्त्रिविधोऽपि संक्षेपेण निरूपितो ध्वनिः। निरूपयिष्यते चांशतो यथाव सरम

लक्षणामूलध्वनिनिरूपणं प्रतिजानीते -लक्षणामूलस्तु निरूप्यते-पूर्वोक्तं निरूपणं प्रारभते-तत्र वक्ष्यमाणलक्षणायां लक्षणायां प्रयोजनवत्या: षड्विधायाः सारोपसाध्यवसानाभ्या
गौणीशुद्धाभ्यां च विभक्तानां भेदानां चतुर्णामलङ्कारात्मना परिणतत्वाद् द्वौ भेद
ध्वन्याश्रयतया स्थितौ, जहत्स्वार्था अजहत्स्वार्था चेति । तन्मूलौ च द्वौ ध्वनेः प्रभेदौ
जहत्स्वार्थामूलं ध्वनिमुदाहर्तुं प्रतिजानीते-तयोर्जहत्स्वार्थामूलो यथा

‘कृतं त्वयोन्नतं कृत्यमर्जितं चामलं यशः
यावज्जीवं सखे! तुभ्यं दास्यामो विपुलाशिषः॥

उपपादयति-इयं कस्यचिदपकारिणं प्रत्युक्तिः । त्वया कृतेऽप्यपकारे परमखेदहेतौ मधुरमेव यो भाषेत
न परुषं तस्मिन्नेवंजातीयके मयि पापमाचरतस्तव पापिष्ठत्वं कथं शक्यते वक्तुमित
व्यङ्ग्यम्
अजहत्स्वार्थामूलं ध्वनिमुदाहरति-अपरामूलो यथा-‘बधान द्रागेव द्रढिमरमणीयं परिकर
किरीटे बालेन्दुं नियमय पुनः पन्नगगणैः
न कुर्यास्त्वं हेलामितरजनसाधारणधिय
जगन्नाथस्यायं सुरधुनि समुद्धारसमयः॥

उपपादयति-अत्र जगन्नाथस्येत्यनेन शक्य एवानेकपापविशिष्टत्वेन लक्ष्यते । पापाना
पदान्तरेणानिर्वाच्यत्वं व्यङ्यम्
प्राचीनोक्तमजहत्स्वार्थोदाहरणं समीक्षते-कुन्ताः प्रविशन्तीत्यादौ तु वाच्यगततैक्ष्ण्यादि लक्ष्यम्
पदध्वनिवाक्यध्वन्योर्विभाजकं विशेषं वर्णयति-तदेवमेते प्रागुक्ता द्व्युत्थातिरिक्ताः सर्वेऽपि ध्वनय एकस्मिन् वाच्ये यद्येकपदमात्रगतास्तद
पदध्वनितया व्यपदिश्यन्ते । नानापदगततायां तु वाक्यध्वनितयेति
अभिधानिरूपणमवतारयति-अथ केयमभिधाशा नाम यन्मूलः प्रथमं निरूपितोऽयं ध्वनिप्रपञ्चः
जिज्ञासाशान्तिं प्रतिजानीते-उच्यते-अभिधां लक्षयति-शक्त्याख्योऽर्थस्य शब्दगतः, शब्दस्यार्थगतो वा संबन्धविशेषोऽभिधा
अभिधाविषयकाणि मतान्तराणि प्रदर्शयति

सा च पदार्थान्तरमिति केचित् । ‘अस्माच्छब्दादयमर्थोऽवगन्तव्य’इत्याकारेश्वरेच्छैवाभिधा
तस्याश्च विषयतया सर्वत्र सत्त्वात्पटादीनामपि घटादिपदवाच्यता स्यात् । अत
व्यक्तिविशेषोपधानेन घटादिपदाभिधात्वं वाच्यम्’ इत्यपरे । एवमपीश्वरज्ञानादिन
विनिगमनाविरहः स्यात्, अतः प्रथममतमेव न्यायः ’इत्यपि वदन्ति
दीक्षितोक्तं खण्डयति-यत्तु वृत्तिवार्तिके ‘शक्त्या प्रतिपादकत्वमभिधा’इत्यप्पय्यदीक्षितैरुक्तम् तत्तुच्छम्
उपपत्तिविरोधात् । तथा हि-इह शब्दाज्जायमानायामर्थोपस्थितौ कारणीभूतं यदीयज्ञानं स
शब्दवृत्तिरभिधाख्या लक्ष्यतया प्रस्तुता। प्रतिपादकत्वस्य च प्रतिपत्तिहेतुत्वरूपस्
शब्दगतस्य न ज्ञानं प्रतिपत्तौ कारणम् । अतः कथं नाम प्रतिपादकत्वमभिधेत्युच्यते? अ
प्रतिपादकत्वं प्रतिपत्त्यनुकूलव्यापाररूपं ज्ञानं सदेवोपयुज्यते प्रतिपत्तावित्युच्यते एवमप
शक्त्येत्यनेन शब्दगतार्थगता वा काचिच्छक्तिः प्रतिपत्तिहेतुतया विवक्षिता, सैवाभिधेत
‘अभिधया प्रतिपादकत्वमभिधा इति लक्षणं पर्यवसन्नम् ’। तथा
स्फुटैवासङ्गःतिरात्माश्रयश्च । न चाभिधातः शक्तिरतिरिक्ता शब्दजन्यप्रतिपत्तिप्रयोजिक
काचिदस्तीत्यत्र प्रमाणमस्ति
अभिधां विभजते-सेयमभिधा त्रिविधा-केवलसमुदायशक्तिः, केवलावयवशक्तिः
समुदायावयवशक्तिसङ्कःरश्चेति
उपपादनपूर्वकमभिधाभेदानुदाहरति-आद्याया डित्थादिकमुदाहरणम्, तत्रावयवशक्तेरभावात् । द्वितीयायास्तु पाचकपाठकादिः
तत्र धातुप्रत्ययशक्तिबोध्ययोरर्थयोरन्वयेनोल्लसितात्पाककर्तृरूपादर्थादृतेऽर्था-न्तरस्यानवभासेन समुदायशक्तेरभावात् । तृतीयायाः पङ्कःजादिः। इ
धातूपपदप्रत्ययरूपावयवशक्तिवेद्यानां पङ्कःजाननकतर्ॄणामाकाङ्क्षादिवशादन्वये प्रकाश मानात
पङ्कःजनिकर्तृरूपादर्थादतिरिक्तस्य पद्मत्वविशिष्टस्य प्रत्ययेन तदर्थं समुदायशक्तेरप
कल्पनादुभयोः सङ्कःरः
अमीषामभिधाप्रभेदानां प्राचीनै: प्रयुक्तानि पर्यायान्तराणि दर्शयति-एता एव विधा रूढि-योग-योगरूढिशब्दैव्र्यपदिश्यन्ते
दीक्षितोक्तौ पूर्वोक्तदूषणान्यतिदिशति

यत्तु-‘अखण्डशक्तिमात्रेणैकार्थप्रतिपादकत्वं रूढिः। अवयवशक्तिमात्रसापेक्ष
पदस्यैकार्थप्रतिपादकत्वं योगः। उभयशक्तिसापेक्षमेकार्थप्रतिपादकत्वं योगरूढिः।’इत
वृत्तिवार्तिकेऽप्पय्यदीक्षितैरुक्तम्, तन्न । अभिधालक्षणोक्तदूषणानामिहापि दुर्वारत्वात्
अथेदानीमश्वगन्धादिकतिपयविशिष्टशब्दानां शक्तिरुक्तेषु अभिधाभेदेषु कुत्रान्तर्भवतीत
विचारयितुमुपक्रमते-अथ अश्वगन्धा-अश्वकर्ण-मण्डप-निशान्त-कुवलयादिशब्देषु का शक्तिरिति
पूर्वजिज्ञासितां शक्तिं मतभेदेन ज्ञापयिष्यन् तावत्प्रथममतमाह-अत्र केचित्- ‘अश्वगन्धारसं पिबेत्’इत्यादिषु विषयविशेषे केवलसमुदायशक्तिः
अश्वगन्धा, वाजिशाला, इत्यादिषु तु केवलयोगशक्तिः
समुदायावयवशक्त्योरुभयोरेकशब्दाश्रयत्वे कथं केवलत्वविशेषितयोराद्यद्वितीयभेदयो
प्रसक्तिरिति तु न शङ्क्यम् । समुदायावयवशक्तिवेद्ययोरर्थयोरनन्वयेन तादृशशक्त्यो
कैवल्यस्य साम्राज्यात् इदमेव हि केवलत्वमिह विवक्षितम्, यदन्वया-योग्यार्थ-बोधकत्वम् । सङ्कःरस्त्वन्वययोग्यार्थबोधकयोरेवेति न तस्यात्र प्रसक्तिः’इत्याहुः
तादृशकैवल्यविवक्षायां मानाभावात् मतान्तरमा
अन्ये तु-‘अश्वकर्णादिशब्देषु नाभिधायाः प्रथमद्वितीययोर्विधयोः प्रसक्तिः, कैवल्यविरहात्
परन्तु सङ्कःरस्य द्वौ भेदौ-योगरूढिर्यौगिकरूढिश्चेति । तत्राद्यस्योदाहरणं पङ्कःजादिशब्दाः
द्वितीयस्य त्वश्वकर्णादयः’ इत्याहुः
सङ्कःरस्य योगरूढिशब्देनैव प्रसिद्धेर्मतान्तरमाह-‘चतुर्थ एवायमभिधाया भेदः ’इत्यप्यन्ये
सिद्धान्तमाह-‘अखण्डा एव हि शब्दाः। तत्र समासेषु पदानां ‘कृत्तद्धिततिङन्तेषु च प्रकृतिप्रत्ययाना
विभागः काल्पनिक एवेति कुत्रास्ति योगशक्तिः? विशिष्टस्य विशिष्टार्थे रूढेरेवाभ्युपगमात्
इत्यपि वदन्ति
शङ्कःःते-अथ- ‘गीष्पतिरप्याङ्गिःरसो गदितुं ते गुणगणान् सगर्वो न
इन्द्रः सहस्रनयनोऽप्यद्भुतरूपं परिच्छेत्तुम् ॥

इत्यादौ रूढ्यर्थमादाय पुनरुक्त्यापत्तिः

उक्तापत्तेः समाधानाभासमुपपाद्य खण्डयति-न चैवंविधपदद्वयसमभिव्याहारस्थले योगरूढपदस्यावयवार्थमात्रबोधकत्वम्, तावन्मात्रस्यै
प्रकृतोपयोग्यातिशयविशेषसमर्पकत्वात्, इति वाच्यम् । एवमपि योगरूढपदस्
रूढिशक्तेरनियन्त्रणेन योगार्थमात्रप्रतिपादकताया अनुपादानादुक्तदोषस्यानुवृत्तेः। एकेनै
पदेन योगार्थरूढ्यर्थयोरुभयोरप्यावश्यकयोरर्थयोरुपस्थितिसंभवेन द्वितीयपदप्रयोगस्
नैरर्थक्यापत्तेश्च, इति चेत्
सिद्धान्तभूतं समाधानमाह-अत्राहु:-एकपदोपात्तत्वादन्तरङ्गाकाङ्क्षावशेन प्रथमं योगार्थरूढ्यर्थयोरन्वये सत
समुल्लसितस्य विशिष्टार्थस्यैव पदान्तरार्थेनान्वयः, न तु तयोरेव विशकलितयोरिति यद्यप
न्यायसिद्धोऽर्थः तथापि शक्त्याऽर्थस्य प्रतिपादने स्यादेवम् । लक्षणायां तु योगरूढे
योगार्थमात्रप्रतिपादनेन न किञ्चिद्बाधकमस्ति । नापि द्वितीयपदप्रयोगस्य नैरर्थक्यम् । तथ
सति रूढ्यर्थबोधनेन गतार्थेन योगरूढशब्देन प्रतिपाद्यमानस्य योगार्थस्
पङ्कःजाक्षीत्यादाविव नान्तरीयकत्वशङ्कया कुर्वद्रूपताया अपहत
प्रकृतोपयोग्यातिशयविशेषव्यञ्जनस्य पाक्षिकत्वापत्तेः। द्वितीयपदयोगे तु तेनै
रूढ्यर्थप्रतिपादने सिद्धे योगरूढपदप्रतिपाद्यस्य योगार्थस्य नान्तरीयकत्वशङ्काय
अयोगात्कुर्वद्रूपत्वेन व्यङ्ग्यविशेषव्यञ्जकत्वं नियमेन सिद्ध्यति
उपसंहरति-एषा पदद्वयोपादानस्थले गतिरुक्ता
नन्वेवं यत्र केवलं योगरूढं पदं प्रयुज्य रूढ्यर्थस्य योगार्थप्रतीतिद्वारकविशेषस्य च प्रत्यायन
क्रियते तत्र कुर्वद्रूपताया अपहतिः कुतो नेत्याह-यत्र तु ‘पुष्पधन्वा विजयते जगत्त्वत्करुणावशात् ’इत्यादावेकेनैव पदे
रूढ्यर्थोपस्थितिर्योगार्थद्वारा निःसारत्वाद्यवगमश्च भवति, तत्
कविकृतमन्मथरूढपदान्तरानुपादानपूर्वकपुष्पधन्वपदोपादानप्रतिसंधानेन तदीययोगार्थ
कुर्वद्रूपताधानं बोध्यम्
उपसंहरति-तदित्थं द्वितीयपदस्योपादानेऽनुपादाने वा न क्षतिः
स्थलान्तरेऽपि पूर्वोक्तां रीतिमतिदिशति

एवं जात्यन्तरविशिष्टवाचकपदसमभिव्याहारेऽपि
तादृशं वाक्यमुदाहरति-‘दिशि दिशि जलजानि सन्ति कुमुदानि ’इत्यत्रापि जलजादिपदानां लक्षणय
योगार्थमात्रबोधकत्वम्, योगशक्त्युल्लासितस्य तु तादृशार्थस्य रूढ्यर्थोपश्लिष्टत्वे
स्वातन्त्र्येण कुमुदादावन्वयायोगात्
उपसंहरति-इत्थमभिधा निरूपिता
वाचकवाच्ययोः परिचयं कारयति-अनया यः शब्दो यमर्थं बोधयति स तस्य वाचकः। इयं च यस्य शब्दस्य यस्मिन्नर्थेऽस्त
तस्य सोऽर्थोऽभिधेयः
इदानीमुपाधीनामेवाभिधेयत्वं न व्यक्तीनामित्युपपादयति-स च जातिगुणक्रियायादृच्छिकात्मकः। तत्र जातिर्गोत्वादिः संस्थानविशेषाभिव्यङ्ग्य
प्रत्यक्षसिद्धा गवादिपदानामभिधेया । अनुमानसिद्धा च घ्राणरसनत्वादिघ्र्राणरसनादिपदानाम्
आनन्त्यात्, व्यभिचाराच्च व्यक्तीनामभिधेयताया अकल्पनात्
उक्तं व्यभिचारदोषं वारयितुमाशङ्कःते-न च ज्ञातगोत्वादिरूपया गोत्वादिज्ञानरूपया वा प्रत्यासत्त्या प्रत्यक्षेण परिकलितास
सकलतदीयव्यक्तिष्वभिधायाः कल्पने नास्ति दोष इति वाच्यम्
समाधत्ते-सामान्यप्रत्यासत्तेर्निराकरणात्
तुष्यतु दुर्जनन्यायेन सामान्यलक्षणास्वीकारेऽप्याह-गौरवदोषस्यानुद्धारात्
प्रकारान्तरेणोक्तव्यभिचारवारणपरं परकीयमतं गौरवदोषानुवृत्तिप्रतिपादनेन दूषयति-एतेन शक्तिग्रहपदार्थोपस्थितिशाब्दबोधानां समानप्रकारकतयै
हेतुहेतुमद्भावादगृहीतसङ्केतानामपि व्यक्तिविशेषाणामन्वयबोधविषयताया उपपादनेऽपि
निस्तारः

पूर्वोक्तरीत्या व्यक्तिशक्तिवादपक्षं निरस्य जात्याद्युपाधिशक्तिवादपक्षः स्थापितः, परमस्मिन
पक्षे व्यक्तेरवाच्यतया बोधो न स्यात्, तथात्वे च लौकिकव्यवहारो न सिद्ध्येदिति शङ्का
मनसि कृत्वा उपाधिशक्तिवादपक्षे व्यक्तिबोधोपायमाह-व्यक्तीनां प्रत्ययस्त्वाक्षेपाल्लक्षणया वेत्यन्यदेतत्
जातेर्महत्त्वमुपपादयन् वक्रगत्या जातिशक्तिवादपक्षं पुष्णाति-अयं च जातिरूपः शब्दार्थः प्राणद इत्युच्यते । प्राणं व्यवहारयोग्यतां ददाति सम्पादयतीत
व्युत्पत्तेः
जातेः व्यवहारयोग्यतासम्पादकत्वे युक्तियुक्तामाप्तजनसम्मतिं दर्शयति-तदुक्तम्-‘गौः स्वरूपेण न गौर्नाप्यगौः, गोत्वाभिसंबन्धाद्वा गौः ’इति
उक्तावाक्यस्य व्याख्यां कुरुते-अस्यार्थः-गौः सास्रादिमान् धर्मी स्वरूपेण अज्ञातगोत्वकेन धर्मिस्वरूपमात्रेण न गौः
गोव्यवहारनिर्वाहकः। नाप्यगौः नापि गोभिन्न इति व्यवहारस्य निर्वाहकः। तथा सत
दूरादनभिव्यक्तसंस्थानतया गोत्वाग्रहदशायां गवि गौरिति गोभिन्न इति वा व्यवहारः स्यात्
स्वरूपस्याविशेषाद् घटे गौरिति गवि चागौरिति वा व्यवहारः स्यादिति भावः
गोत्वाभिसंबन्धाद्गोत्ववत्तया ज्ञानात् गौर्गोशब्दव्यवहार्य इति
गुणक्रियादिरूपाभिधेयसंबद्धं विचारमुत्थापयति-गुणः शुक्लादिः शुक्लादिपदानामभिधेयः। क्रिया चलनादिशब्दानाम्
अत्राशङ्क्य समाधत्ते-शुक्लादीनां चलनादीनां च प्रतिव्यक्तिभेददर्शनादानन्त्यव्यभिचाराभ्या
व्यक्तिशक्तिवाददोषाभ्यामिहापि कलुषीकरणमिति चेत्, तेषा
लाघवात्प्रत्यभिज्ञाबलाच्चैकताया अभ्युपगमात्
अत्रार्थे प्राचीनोक्तिं प्रमाणयति-तदुक्तम्-‘गुणक्रियायदृच्छानां वस्तुत एकरूपाणामाश्रयभेदाद्भेद इव लक्ष्यते’इति
मम्मटोक्तिफलितमाह-तथा च भेदप्रतीतिभ्र्रम एवेति भावः। इदमुपलक्षणम् । उत्पत्तिविनाशप्रतीतिरपि तथैव
वर्णनित्यतावादे गकाराद्युत्पत्तिविनाशप्रतीतेभ्र्रमत्वस्य स्वीकारात्
यादृच्छिकात्मकमभिधेयं स्फोटयति

यादृच्छिकस्तु वक्ता स्वेच्छया डित्थादिशब्दानां प्रवृत्तिनिमित्तत्वे संनिवेशितो धर्मः
कोऽसौ धर्म इति मतभेदेनाह-स च ‘परम्परया व्यक्तिगतश्चरमवर्णाभिव्यङ्ग्योऽखण्डः स्फोटः’इत्येके
‘आनुपूव्र्यवच्छिन्नो वर्णसमुदायेः ’ इत्यपरे । ‘केवला व्यक्तिरेवे’इतीतरे
उक्तमतत्रये वैलक्षण्यं दर्शयति-तत्राद्यमतद्वये विशेषणज्ञानाद् विशिष्टप्रत्ययः। तृतीयमते च निर्विकल्पकात्मकः प्रत्ययः
उपाधिशक्तिवादफलितार्थमाह-तदित्थं चतुष्टयी शब्दानां प्रवृत्तिरिति दर्शनं व्यवस्थितम्
उपाधिशक्तिवादे मतान्तरमाह-सर्वेषां शब्दानां जातिरेवार्थः। गुणक्रियाशब्दानां गुणक्रियागतायाः, यदृच्छाशब्दानां
बालवृद्धशुकाद्युदीरिततत्तच्छब्दवृत्तेस्तत्तत्समयभिन्नार्थवृत्तेर्वा जातेरेवाभिधेयता संभवात्
इति जातिशक्तिदर्शनम्
लक्षणामूलध्वनिनिरूपणानन्तरं लक्षणानिरूपणे सङ्गःतिं दर्शयितुमाह-अथ केयं लक्षणा, यन्मूलश्चरमं निरूपितो ध्वनिः
उक्तजिज्ञासाशमनं प्रतिजानीते-उच्यते-लक्षणाया लक्षणमाह-शक्यसम्बन्धो लक्षणा
लक्षणाबीजं निश्चेतुं रुचिरं विचारं प्रचारयति-तस्याश्चार्थोपस्थापकत्वे मुख्यार्थतावच्छेदके तात्पर्यविषयान्वयितावच्छेदकताया अभावो
तन्त्रम् । शक्यतावच्छेदकरूपेण लक्ष्यमाणस्य स्वीकारात् । किं तु तात्पर्यविषयान्वय
मुख्यार्थतावच्छेदकरूपेण मुख्यार्थप्रतियोगिकताया अभावो रूढिप्रयोजनयोरन्यतरच्च तन्त्रम
। मुख्यार्थान्वयानुपपत्तेः तन्त्रत्वे तु ‘काकेभ्यो दधि रक्ष्यताम् ’ इत्यत्र लक्षणोत्थानं न स्यात

लक्षणापदार्थतयाभिमतस्य शक्यसंबन्धस्य स्थलभेदेन भेदं दर्शयति-‘गङ्गायां घोषः ’इत्यत्र सामीप्यम्, ‘मुखचन्द्रः’इत्यादौ सादृश्यम्, व्यतिरेकलक्षणाया
विरोधः ‘आयुर्घृतम् ’इत्यादौ कारणत्वादयश्च संबन्धा यथायोगं, लक्षणाशरीराणि

लक्षणाया भेदान् दर्शयति-इयं तावद् द्विविधा, निरूढा प्रयोजनवती च । तत्रापि द्वितीया द्विविधा, गौणी शुद्धा च
तत्राद्या सारोपा, साध्यवसाना चेति द्विविधा । अन्त्या चतुर्विधा-जहत्स्वार्था, अजहत्स्वार्था
सारोपा, साध्यवसाना चेति प्रयोजनवती षड्विधा सम्पद्यते
निरूढलक्षणाया उदाहरणानि प्रदर्शयति-तत्र निरूढलक्षणाया अनुकूलप्रतिकूलानुलोमप्रतिलोमलावण्यादय उदाहरणम् नीलादयश्च
उपपादयति-‘धर्मस्यायमनुकूलः’इत्यादौ मुख्यार्थस्य कूलानुगतत्वादेर्बाधात
अनादिप्रयोगप्रवाहवशादेकवस्तुप्रवणत्वात्मना कूलानुगतादिरूपशक्यस्य सादृश्ये
संबन्धेनानुकूलादिशब्दैरनुगुणादयो लक्ष्यन्ते । एवं नीलादिपदानां लाघवाद्गुणगतजा तेरे
शक्यतावच्छेदकतया गुणद्रव्ययोः ‘नीलो घटः’इत्यादौ सामानाधिकरण्येनान्वयस्यानुपपत्ते
समवायात्मना गुणरूपशक्यस्य संबन्धेन नीलादिशब्दैर्गुणिनो लक्ष्यन्ते
उक्तेषु निरूढलक्षणोदाहरणेषु विशेषमाह-तत्राद्यवर्गे सादृश्यसम्बन्धेन द्वितीयवर्गे च तदितरसम्बन्धेन लक्षणायाः प्रवृत्तेर्निरूढायामप
गौणीत्वशुद्धत्वाभ्यां द्वैविध्यमामनन्ति
सारोपसाध्यवसानपदयोरर्थं विवृणोति-विषयविषयिणोः पृथङ्निर्दिष्टयोरभेद आरोपः। अपृथङ्निर्दिष्टे विषये विषय्यभेदोऽध्यवसानम
। तत्राद्येन सहिता सारोपा । द्वितीयेन तु साध्यवसाना
गौण्योः सारोपसाध्यवसानलक्षणयोरुदाहरणे दर्शयति-उदाहरणानि च ‘मुखं चन्द्रः’इत्यादीनि गौण्याः सारोपायाः। ‘पुरेऽस्मिन् सौधशिखर
चन्द्रराजी विराजते’इत्यादीनि च तस्याः साध्यवसानायाः
उक्तसारोपास्थलेऽन्वयप्रकारमुपदर्शयति-अत्राद्यायां विषयिप्रतिपादकैश्चन्द्रादिशब्दैर्लक्षणयोपस्थापितानां चन्द्रादिसदृशानामभेदे
संसर्गेण मुखादिशब्दोपस्थापितैर्मुखत्वादिविशिष्टैर्मुखादिभिरन्वयः
ननु सदृशरूपधर्मिलक्षणायां गौरवात् सादृश्यरूपधर्मलक्षणैव कुतो नाङ्गीक्रियत इत्य
आह

सादृश्यरूपधर्मलक्षणायां तु तेन सह मुखादीनामन्वयो न स्यात्, नामार्थ-योरभेदातिरिक्तसंसर्गेण विशेष्यविशेषणभावस्यानुपपत्तेः
शङ्कःते-नन्वेवं सति बोधावैलक्षण्याच्चन्द्रसदृशं मुखमित्युपमानो मुखं चन्द्र इति रूपकस्य कथ
भेदः। न च सदृशविशेषणचन्द्रसंबन्धासंबन्धाभ्यामिति वाच्यम् । बोधस्य वैलक्षण्यमात्रे
पृथगलङ्कारताया असिद्धेः। अन्यथा मुखं चन्द्र इवेत्यत्
चन्द्रसदृशमित्येतद्गतात्पृथगलङ्कारतापत्तिरिति चेत्
उक्ताशङ्कायाः प्राचामभिमतं मतभेदेन समाधानत्रयं प्रतिपादयिष्यन् तावत् प्रथममतमाह-अत्र केचित्-‘रूपकस्योपमातः स्वरूपसंवेदनांशमादायावैलक्षण्येऽप
लक्षणाफलीभूतताद्रूप्यसंवेदनमादाय वैलक्षण्यं निर्बाधम् । ताद्रूप्यसंवेदनं च विषये मुखाद
विषयितावच्छेदकस्य चन्द्रत्वादेः संप्रत्ययः। ननु लक्षणाप्रयोज्यादपि तत्सदृशबोधात्कथ
नाम ताद्रूप्यप्रत्ययः स्यात्, उपायस्याभावाद् भेदज्ञानेन प्रतिबन्धाच्च । अन्यथा चन्द्रसदृश
मुखमित्यत्रापि ताद्रूप्यप्रत्ययप्रसङ्गः इति चेत्, मैवम् । श्लेषस्थ
इवात्राप्येकशब्दोपादानोत्थस्य व्यञ्जनस्योपायत्वाद्वैयञ्जनिकबोधस्
बाधबुद्ध्यप्रतिबध्यत्वाच्च । अथ चन्द्रतत्सदृशयोरेवैकपदोपात्तत्वाच्चन्द्रसदृश
चन्द्रताद्रूप्यस्य प्रत्ययो यथाकथञ्चिदस्तु, न तु मुखत्वविशिष्टे मुखे । अनुभवसिद्धश्
सर्वेषां ‘वक्त्रे चन्द्रमसि स्थिते किमपरः शीतांशुरुज्जृम्भते’इत्यादौ विषय
विषयिताद्रूप्यस्य प्रत्यय इति सत्यम् । स्वताद्रूप्यवदभेदबुद्ध्या स्वताद्रूप्यस्य सुबोधतय
तस्मिन्नपि तस्य सिद्धेः ’इत्याहुः
उक्तारुचेद्र्वितीयं मतमुपदर्शयति-अन्ये तु-‘चन्द्रादिपदेभ्यो लक्षणया चन्द्रसदृशत्वेनापि रूपेणोपस्थितानां मुखादीना
चन्द्रत्वेन रूपेणैव मुखादिपदोपस्थापितैः सहाभेदान्वयबोधो जायते
तत्तत्पदलक्षणाज्ञानस्य तत्तत्पदशक्यतावच्छेदकप्रकारकलक्ष्यान्वयबोधत्वावच्छिन्नं प्रत
हेतुतायाः, पदार्थोपस्थितिशाब्दबोधयो
समानाकारत्वस्यानुभवसाक्षिकवैलक्षण्यकलाक्षणिकबोधातिरिक्तविषयतायाश्च कल्पनात्
अत एव गङ्गायां घोष इत्यत्र तटत्वेनाप्युपस्थितस्य तटस्य गङ्गात्वेनान्वयबोधस्तत्प्रयोज्य
शैत्यपावनत्वादिप्रत्ययश्च सङ्गःच्छते। प्रकृते तु विषयिचन्द्रादिनिष्ठासाधारणगुणवत्त्वप्रत्यय

फलम् । न हि चन्द्रत्वप्रतीतिं विना मुखे चन्द्रत्वनियतगुणवत्त्वधीः शक्योपपादयितुम्
ताद्रूप्यपदेन तदसाधारणगुणवत्त्वमेव प्राचीनैरुक्तम् । इत्थं च स्वरूपसंवित्तिकृत
फलीभूतसंवित्तिकृतश्चोपमातो रूपकस्य भेदः स्फुट एव ’इति वदन्ति
उक्तसामञ्जस्यसाधकं तृतीयं मतमाह-अपरे तु-‘भेदकरम्बितं सादृश्यमुपमाजीवातुभूतम्, भेदाकरम्बितं च गणसारोपलक्षणाय
इति स्फुटे भेदे कृतं फलकृतवैलक्षण्यपर्यन्तानुधावनेन
पक्षेऽस्मिन्भेदगर्भसादृश्यप्रतिपत्तेस्ताद्रूप्यप्रतीतेः कथं नाम फलं भवितुमीष्टे इत्यनुपपत्ति
परिहर्तुमायासोपि नापततीत्यपरमनुकूलम्’इत्यप्याहुः
प्राचीनमतवर्णनसमाप्तिं सूचयन्नाह-तदित्थं प्राचामाशयो मतभेदेन वर्णितः
खण्डयितुं नवीनमतं प्रपञ्चयति-नव्यास्तु-‘मुखं चन्द्रः, वाहीको गौः ’इत्यादौ चन्द्रादीनां मुखादिभिः सह संभवत
लक्षणां विनैवाभेदेन संसर्गेणान्वयबोधः
बाधनिश्चयप्रतिबध्यतावच्छेदककोटावनाहार्यत्वस्येव शाब्दान्यत्वस्यापि निवेश्यत्वात् । अ
एव ‘अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि ’इति प्राचां प्रवादोऽपि संगच्छते ।
च ‘वह्निना सिञ्चिति’इत्यतो वाक्यादपि शाब्दबोधापत्तिः। योग्यताज्ञानविरहात् । मुख
चन्द्रः गौर्वाहीकः इत्यादौ त्विष्टचमत्कारप्रयोजकताज्ञानाधीनाया इच्छाया
सत्त्वादाहार्ययोग्यताज्ञानसाम्राज्यम्। अत एव शाब्दबोधे योग्यताज्ञानस्य कारणत्वोक्ति
प्राचां संगच्छते
मुखं चन्द्र इत्यादौ लक्षणां विनैवाभेदान्वयबोधोपपादकं प्रकारान्तरमाह-आहार्य एव वाऽभेदान्वयबोधोऽस्तु । मास्तु बाध-बुद्धि-प्रतिबध्यतावच्छेदककोट
शाब्दान्यत्वम् । मा चास्तु शाब्दबुद्धौ योग्यताज्ञानस्य कारणत्वम् । आहार्य
प्रात्यक्षिकमेवेति नियमश्च
उक्तार्थं द्रढयितुमाह-अवश्यं मुखचन्द्र इत्यादौ पराभिमतसारोपलक्षणोदाहरण
वाच्यार्थयोरेवाभेदान्वयोऽभ्युपगन्तव्यः, न तु वाच्य-लक्ष्ययोः। अन्यथा ‘राजनारायण
लक्ष्मीस्त्वामालिङ्गःति निर्भरम्’‘पादाम्बुजं भवतु मे विजया

मञ्जुमञ्जीरशिञ्जितमनोहरमम्बिकायाः’इत्याद
क्रमेणोपमारूपकयोरुपमितविशेषणसमा-साधीनयोर्लक्ष्मीकर्तृकालिङ्गःनमञ्जुमञ्जीरशिञ्जितमनोहरत्वयोरनुपपत्तिनिर्णायिक
रूपकोपमयोः प्राचीनैस्तत्र तत्र निबद्धा विरुद्धा स्यात् । आद्यपद्ये उपमाया इ
रूपकस्यापि स्वीकारे बाधकस्य तुल्यतया तन्निर्णायकताया असङ्गःतेः। द्वितीयपद्य
रूपकस्यापि स्वीकारे बाधकाभावेन तन्निवर्तकताया अयोगात्
व्यस्तरूपकस्थले लक्षणाया निर्बाधत्वमाशङ्क्य खण्डयति-न च मुखचन्द्रादौ समासे क्वचिदस्तु नाम प्रागुक्तरीत्या लक्षणां विनापि बोधोपपत्तिः
व्यासे तु लक्षणाया नास्ति बाधकमिति वाच्यम् । ‘कृपया सुधया सिञ्च हरे मा
तापमूच्र्छितम्’इत्यादौ व्यासेऽप्यनुपपत्तेः
व्यासेऽनुपपत्तिपरिहारमाशङ्क्य समाधत्ते-न च सिञ्चतेरपि विषयीकरणे लक्षणया नानुपपत्तिः। उत्प्रेक्षाद्यतिरिक्ताति-शयोक्त्यपह्नवादिष्वाहार्यज्ञानेनैवोपपत्तौ लक्षणायां बीजाभावादनुभवविरोधाच्च
उक्तानुभवविरोधस्य विसंवादग्रस्तत्वाद् रूपकस्थले वाच्यार्थयोराहार्याभेदान्वयबोधसाधक
युक्त्यन्तरमाह-अपि चोपमानवाचकस्य चन्द्रादिपदस्य रूपके उपमानसदृशे लक्षणा इति हि प्राचा
समयः। तत्र च लक्ष्यतावच्छेदकं सादृश्यम् । तच्च समानधर्मरूपम् । स च लक्ष्यांश
सुन्दरत्वादिना विशेषरूपेण प्रतीयते, उताहो सामान्यरूपेण? नाद्यः। सुन्दरं मुखं चन्द्
इत्यादौ पौनरुक्त्यापत्तेः। न चैवमादावुपात्तधर्मके रूपके तद्धर्मातिरिक्तो धर्म ए
लक्ष्यतावच्छेदकीभूतसादृश्यरूप इति वाच्यम्। अनुभवविरोधात्
‘अङ्किःतान्यक्षसंघातैः सरोगाणि सदैव हि
शरीरिणां शरीराणि कमलानि न संशयः॥

इत्यादौ श्लेषभित्तिकाभेदाध्यवसितधर्मं विना धर्मान्तरस्य सर्वथैवास्फूर्तेश्च
उपमानपदलक्ष्यतावच्छेदकस्य समानधर्मात्मकस्य सादृश्यस्य लक्ष्यांशे सामान्यरूपे
प्रतीतिरिति द्वितीयकल्पं दूषयितुमाह-नान्त्यः। सादृश्यस्य शब्दोपात्तत्वेनोपमात्वापत्तेः। न च सादृश्यस्
वाच्यतायामेवोपमाव्यपदेशः। ‘नलिनप्रतिपक्षमाननम्’इत्यादौ तदभावापत्तेः

‘नलिनप्रतिपक्षमाननम्’ इत्यादौ उपमात्वाभावस्येष्टत्वेऽपि नवीनमतसमर्थक
युक्त्यन्तरमुपदर्शयति-किं च ‘विद्वन्मानसंहस- ’इत्यादौ श्लिष्टपरम्परितरूपके श्लेषनिष्पत्त
श्लेषभित्तिकाभेदाध्यवसानेन मानसवासित्वरूपे भूपहंसयोः सादृश्ये सिद्ध
सदृशलक्षणामूलस्य भूपे हंसरूपकस्य सिद्धिः। तस्यां च सत्या
सरोमनोरूपार्थद्वयाभिधानलक्षणस्य श्लेषस्य निष्पत्तिरिति परस्पराश्रयः। न हि रूपकास्फूर्ता
सरोरूपेऽर्थे मानसशब्दस्य तात्पर्यं वेदयितुं किंचित्प्रमाणमवतरति । स्फुरिते तु रूपक
तद्घटकसादृश्यान्यथानुपपत्तिरूपेण प्रमाणेनार्थद्वयाभेदबोधफलकस्
तदुभयप्रतिपादनात्मनः श्लेषस्य निष्पत्तिः
उपसंहरति-अतो नामार्थयोरभेदान्वयसरणिरेव रूपकस्थले रमणीया
प्राचीनाभिमतमन्यदपि दूषयति-‘सदृशलक्षणायाः फलं रूपके ताद्रूप्यप्रत्यय इत्यपि न हृदयङ्गःमम् । तत्सदृश इत
शब्दात्सादृश्यप्रत्यये सत्यपि ताद्रूप्यप्रत्ययापत्तेः’इत्याहुः
नवीनमतखण्डनोपक्रमं कुरुते-अत्रेदं विचार्यते-यत्तावदुच्यते नामार्थयोरभेदान्वयबोधेनैवोपपत्तौ रूपके नास्ति लक्षणेति
तत्र चमत्कारिसाधारणधर्मानुपस्थितिदशायामुपमालङ्कारस्येव रूपकालङ्कारस्यापि नास्त
निष्पत्तिश्चमत्कारो वेति सकलहृदयसिद्धम् । कथमन्यथा ‘भारतं नाकमण्डलम्’, ‘नगर
विधुमण्डलम्’इत्यादिवाक्यश्रवणानन्तरमनुन्मिषन्त्या रूपकप्रतिपत्तेः सुपर्वालङ्कृत-सकलकलादिशब्दश्रवणोत्तरमेव समुन्मेषः सर्वेषाम् । इत्थमेव च मुखं चन्द्
इत्यादिप्रसिद्धोदाहरणेऽपि, इयांस्तु विशेषः-यदेकत्र साधारणो धर्मः प्रसिद्धतया नियमत
स्वबोधकश्रुतिं नापेक्षते । इतरत्र त्वप्रसिद्धतया तथा । एवं स्थिते साधारणधर्मवत्त्वरूप
सादृश्यं यदि रूपकमध्यं न प्रविशेत्तदा कथमिव धर्मविशेषानुपस्थितिदशायां रूपकं
पर्यवस्येत् । चमत्कारं वा न जनयेत्
उपमानोपमेययोराहार्याभेदबुद्धेरनन्यापेक्षपर्यवसानायाः साम्राज्यात्
साधारणधर्मानुपस्थितिदशायामाहार्याभेदबुद्धेरप्यभाव इत्येतदुपपादिकां युक्तिमाशंक्
निरस्यति

न चाहार्यापदार्थद्वयाभेदबुद्धौ तच्चमत्कारे वा साधारणधर्मविशेषज्ञानं प्रयोजकमिति श क्य
वक्तुम्
‘यद्यनुष्णो भवेद्वह्निर्यद्यशीतं भवेज्जलम्
मन्ये दृढव्रतो रामस्तदा स्यादप्यसत्यवाक्॥

इत्यादौ साधारणधर्मस्याप्रत्ययेऽपि वह्न्यनुष्णत्वादीनामभेदप्रत्ययोपगतेः।
चोपमानोपमेयस्थल एवायं नवीनो विशेष इति वाच्यम् । ईदृशविशेषकल्पने मानाभावात्
साधारणधर्मानुपस्थितिदशायामपि ‘मुखं यदि चन्द्रः स्यात् तदा भूम्यवस्थितं न स्यात्
इत्यादौ तादृशप्रतीत्युपगमाच्च
सदृशलक्षणापक्षेऽसङ्गःतिमाशङ्क्य समाधत्ते-ननु रूपकप्रतीतेरुपमानाभेदविषयत्वविरहे ‘सिंहेन सदृशो नायं किन्तु सिंहो नराधिपः
इत्यादौ निषेध्यविधेययोरसङ्गःतिरिति चेत्, न । अनुपदमेव प्राचीनमतद्वयेऽपि रूपक
ताद्रूप्यप्रतिपत्तेः स्वीकारस्य प्रतिपादनात्
प्राचीनमते पुनरपरामसङ्गःतिमाशङ्क्य निरस्यति-अथ विधेयकोटौ प्राचां मते सादृश्यापि प्रविष्टतया तन्निषेधानुपपत्तिस्तथापि स्थितैवेत
चेत्, भेदघटितसादृश्यरूपाया उपमाया एव निषेध्यत्वात् तिरोभूतभेदसादृश्यलक्षणस्
रूपकस्य विधेयत्वाच्च नानुपपत्तिः
प्राचीनमते दर्शितामनुपपत्तिं परिहर्तुमाह-यदप्युक्तं रूपके लक्षणास्वीकारे ‘राजनारायणम् ’इत्यत्र ‘पादाम्बुजम्’इत्यत्
चोपमारूपकयोर्बाधकतया रूपकोपमयोर्निर्णायकतया
लक्ष्मीकर्तृकालिङ्गःनमञ्जुमञ्जीरशिञ्जितत्वयोरनुपपत्तिः प्राचीनैरुक्ता विरुद्धा स्यादित्यादि
तदपि न । रूपके उपमानतावच्छेदकरूपेण तत्सदृशप्रत्ययस्योपपादितत्वेन ‘राजनारायणम ्
इत्यादौ विशेषणसमासायत्तस्य रूपकस्य स्वीकारे प्रधानीभूतोत्तरपदार्थस्
नारायणसदृशस्यापि नारायणत्वेनैव प्रतीतेर्लक्ष्मीकर्तृकालिङ्गःनकर्मताया अनुपपत्तेरभावात्
उपमाया उपमितिसमासायत्तायाः स्वीकारे तु प्रधानीभूतपूर्वपदार्थस्य राज्ञो राजत्वेनै
प्रत्ययात्तादृशकर्मताया अनुपपत्तेः। ‘पादाम्बुजम्’इत्यादावपि रूपकस्य स्वीकार
प्रधानीभूतोत्तरपदस्यास्याम्बुजसदृशस्याम्बुजत्वेनैव प्रतीतेर्मञ्जुमञ्जीरशिञ्जितमनोहरताय

अनुपपत्तेः। उपमितिसमासायत्तोपमायां तु प्रधानस्य पादस्य पादत्वेनैव प्रतीतस्य नास्त
तस्या अनुपपत्तिरिति न कोऽपि दोषः
‘पादाम्बुजम्’ इत्यत्रोक्तरीतेरसम्भवमाशङ्क्य समाधत्ते-न चोपमितसमासे पूर्वपदार्थस्योपमेयस्योपमेयतावच्छेदकतयैव प्रतीतिरिति न युक्तम्
‘वक्त्रे चन्द्रमसि’इति प्रागुक्तरूपक इवोपमानताद्रूप्यवदभेदबुद्ध्या तत्ताद्रूप्यस्यात्राप
प्रतिपत्तुं शक्यत्वाल्लक्षणायास्तुल्यत्वादिति वाच्यम् । उपमितिसमासे भेदघटितसादृश्यस्
लक्ष्यकोटिप्रविष्टतया वैलक्षण्यस्य वक्ष्यमाणत्वात्
प्राचीनमते नवीनैरारोपितमनुपपत्त्यन्तरमनूद्य समाधत्ते-यदप्युक्तं सादृश्यस्य शब्देनोपादानादुपमात्वापत्तिरिति तदपि न
भेदाकरम्बितसादृश्यविशिष्टस्य रूपके लक्ष्यत्वादुपमाव्यपदेशस्याप्रसक्तेः ‘सादृश्यमुपम
भेदे’इति तत्सिद्धान्तात्
पुनरन्यथा नवीनाभिमतां शङ्कामुत्थाप्य खण्डयति-ननु यत्र भेदघटितसादृश्यवति वक्त्रा लक्षणया मुखं चन्द्र इति प्रयुक्तम् तत्
तथाप्युपमालङ्कारापत्तिः स्थितैवेति चेत्, भेदघटितसादृश्यप्रतिपिपादयिषाकाले लक्ष णय
तद्वति शब्दप्रयोगस्य विरुद्धत्वात् । लक्षणायास्ताद्रूप्यप्रतिपिपादयिषाधीनत्वात् । न ह
प्रयोजनमनुद्दिश्य रूढिव्यतिरिक्तया लक्षणयाऽर्थं प्रतिपादयन्त्यार्याः
भेदताद्रूप्ययोर्विप्रतिषिद्धत्वेन युगपत्प्रतिपत्तृबुद्ध्युपारोहासंभवाच्च
प्राचीनमते दोषदानाय पुनरन्यथा शङ्कःते-अथोपमितसमासे पुरुषव्याघ्र इत्यादावुत्तरपदस्य स्वार्थसदृशे लक्षणैवोपगन्तव्या । अन्यथ
बोधकाभावेन समासे सादृश्यप्रत्ययो न स्यात् । न च व्याघ्र इवेतीवशब्दस्तद्बोधक इत
वाच्यम्, तस्य समासे संबन्धाभावात् । सति च संबन्धे तन्निवृत्तेरयोगात्
निवर्तकशास्त्रस्याभावात् । विग्रहवाक्यगतस्त्विवशब्दः स्वघटितवाक्यस्योपमाप्रतिपादक त्व
सम्पादयितुमीष्टे, न वाक्यान्तरस्य । तस्य विवरणत्वानुपपत्तेश्च । न ह
विवरणीयवाक्यगतशब्दाप्रतिपाद्यस्यार्थस्य विवरणं युज्यते । इत्थञ्च लक्षणाय
एवाभ्युपगम्यतया सत्यां च तत्प्रयोजनीभूतताद्रूप्यप्रतिपत्तौ कथमुपमा द्विलुप्ता तत्
प्राचीनैरुक्तेति चेत्
समाधत्ते

अत्रोच्यते-उपमितसमासस्य भेदघटितोपमानसादृश्यविशिष्टोपमेये शक्ते-स्तद्घटकीभूतोपमानशब्दस्य भेदघटितसादृश्यविशिष्टे निरूढलक्षणाया वा स्वीकाराददोषः
स्थलान्तरेऽपि उक्तरीतेः स्वीकरणीयतामतिदिशति-इयमेव निपातानामिवादीनां द्योतकतानये मुखं चन्द्र इवेत्यादौ, वाचकलुप्तायामुपमायां
गतिरनुसरणीया
ननु ‘पुरुषव्याघ्रः’ ‘तडिद्गौरी’त्यादौ कथं वाचकलुप्तता, उपमानवाचकपदानामेव लक्षणय
सादृश्यप्रतिपादकत्वादित्यत आह-वाचकलोपस्तूपमानाद्यकरम्बितसादृश्यतद्विशिष्टान्यतरप्रतिपादकशब्दशून्य-त्वादुपपादनीयः
प्राचीनमतदूषकं नव्यमतोक्तं युक्त्यन्तरं निराकर्तुमाह-यच्च ‘विद्वन्मानस’इत्यत्र दूषणमभिहितं तद्रूपकप्रकरणे परिहरिष्यते
दूषणान्तरमपि परिहरति-यदप्युक्तं रूपके सदृशलक्षणायाः फलं ताद्रूप्यप्रत्ययो न युज्यते । तत्सदृश इत
शब्दबोधानन्तरमपि तथा प्रत्ययापत्तेरिति, तन्न । तत्सदृश इत्यत्र लक्षणाया अभावे
ताद्रूप्यप्रत्ययस्यापादनायोगात् । ताद्रूप्यप्रत्ययो लक्षणायाः फलमिति प्राचां समयः
महाभाष्यादिग्रन्थानामस्मिन्नेवानुकूलत्वाच्च । नव्यनये तु तेषामाकुलीभावः स्यादितिदिक्
साध्यवसानलक्षणास्थले बोधं विचारयति-‘साध्यवसानायाञ्च ‘चन्द्रराजी विराजते’इत्यादौ चन्द्रादिशब्दैर्लक्षणय
मुखत्वेनोपस्थितस्यापि मुखादेः शाब्दबोधश्चन्द्रत्वादिना भवति, लक्षणाज्ञानस्यै
माहात्म्यात्’इत्येके
उपस्थितिशाब्दबोधयोः समानाकारत्वनियमे उक्तसङ्कोचास्वीकर्तृमतेनाह-‘लक्षणया मुखत्वेन मुखादेः शाब्दबोधे वृत्ते व्यञ्जनयैकशब्दोपात्तत्वप्रादुर्भूतया चन्द ्रत्वे
बोधः’इत्यपरे
उक्तमतद्वये शाब्दबोधे पदार्थभानरीतिं मतभेदेन दर्शयति-मतद्वयेऽप्यस्मिन् मुखादौ चन्द्रत्वभानसामग्रया मुखत्वादेः स्वधर्मस्य भानं न निवार्यते
इत्थं चैकस्मिन्धर्मिणि चन्द्रत्वादीनां मुखत्वादीनां च साक्षाद् भानमेव सारोपातोऽस्य
विच्छेदकम् । अपरे तु ‘निवार्यत एव विरुद्धभानसामग्रया स्वधर्मस्य भानम्

रजतत्वभानसामग्रया शुक्तित्वस्याभानात् ’ इति वदन्ति । मतेऽस्मिन
विषयतावच्छेदकास्फूर्तिस्तथा
उक्ताशयमेव विशदयति-वस्तुतस्तु साध्यवसानायां विषयतावच्छेदकधर्मभान यदि सहृदयहृदयप्रमाणकम्, तद
तद्वारणाय कारणकल्पनाऽनुचितैव । शुक्तिरजतभानस्थले तु शुक्तित्वेन भाने पुरोवर्तिन
रजतत्वभानं सर्वथैव विरुद्धत्वाद्रजतत्वभानसमये शुक्तित्वभाननिवारणमावश्यकम् ।
चेहापि तथा, अनुभवविरुद्धत्वात् । यदि तु तन्न प्रामाणिकं तदा सोचितैव
लक्षणानिरूपणानन्तरमिदानीमलङ्कारनिरूपणं प्रतिजानीते-अथास्य प्रागभिहितलक्षणस्य काव्यात्मनो व्यङ्ग्यस्य रमणीयताप्रयोजका अलङ्कार
निरूप्यन्ते-अलङ्कारेषु सर्वतः प्रथममुपमालङ्कारविचारः सयुक्तिकमवतार्यते-तत्रापि विपुलालङ्कारान्तर्वर्तिन्युपमा तावद्विचार्यते-उपमालङ्कारस्य लक्षणं लिख्यते-सादृश्यं सुन्दरं वाक्यार्थोपस्कारमुपमालङ्कृतिः
लक्षणघटकं ‘सुन्दर ’ पदं स्वयं व्याचष्टे-सौन्दर्यं च चमत्कृत्याधायकत्वम् । चमत्कृतिरानन्दविशेषः सहृदयहृदयप्रमाणकः
पदकृत्यं दर्शयति-अनन्वये च ‘गगनं गगनाकारम्’ इत्यादौ सादृश्यस्य द्वितीयसब्रह्म-चारिनिवर्तनमात्रार्थमुपात्तत्वेन स्वयमप्रतिष्ठानादचमत्कारितैव । अत ए
तस्यान्वयाभावादनन्वयं तमाहुः। व्यतिरेके ‘तवाननस्य तुलनां दधातु जलजं कथम्
इत्यादौ चमत्कारिणो निषेधस्य निरूपणाय प्रतियोगिनः सादृश्यस्
निरूपणमचमत्कारकमेव । एवमभेदप्रधानेष्वपि रूपकापह्नुतिपरिणामभ्रान्तिमदुल्लेखादिषु
भेदप्रधानेषु दृष्टान्तप्रतिवस्तूपमादीपकतुल्ययोगितादिषु चमत्कारिष
तत्तन्निष्पादकतयावस्थितस्यापि सादृश्यस्य चमत्कारिताविरहेण नास्त्युपमालङ्कृतित्वम्
प्रतीते उपमेयोपमायाञ्चातिव्याप्तिमाशङ्क्येष्टापत्त्या परिहरति-मुखमिव चन्द्र इति प्रतीपे, चन्द्र इव मुखं मुखमिव चन्द्र इत्युपमेयोपमायां च सादृश् यस्
चमत्कारित्वान्नातिप्रसङ्गःः शङ्कःनीयः तयोः सङ्ग्राह्यत्वात्

उक्तोपमालक्षणस्याव्याप्तिमाशङ्क्य निरस्यति-ननु ‘त्वयि कोपो ममाभाति सुधांशाविव पावकः ’इत्यादावुपमानस्या-त्यन्तमसम्भावितत्वात्सादृश्यमेव न तावत्प्रतिपत्तु शक्यम्, चमत्कारस्तु पुनः केन स्या दित
चेत्, कविना हि खण्डशः पदार्थोपस्थितिमतास्वेच्छया सम्भावितत्वेनाकारे
चन्द्राधिकरणकमनलं प्रकल्प्य तेन सह साम्यस्यापि कल्पने बाधकाभावात्
कल्पितमसत्सादृश्यं कथं चमत्कारजनकमिति तु न वाच्यम्
परमसुकुमारीभवत्कनकनिर्मिताङ्ग्या मणिमयदशनकान्तिनिर्वासितध्वान्तायाः कान्ताय
भावनया पुरोऽवस्थापिताया आलिङ्गःनस्याह्लादजनकत्वदर्शनात् । उपमानोपमेययो
सत्यत्वस्य लक्षणे प्रवेशाभावान्नात्र दोषलेशोऽपि
कल्पितोपमानोपमेयभावविशिष्टं स्थलान्तरमपि दर्शयति-अत ए
‘स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः
शशाङ्कःबिम्बतो मेरौ लम्बमान इवोरगः॥

इत्यादावपि नानुपपत्तिः
एतादृशस्थलेऽन्यत्र वर्णितं मतान्तरमुल्लिख्य खण्डयति-परे तु अस्याः कल्पितोपमाया उपमानान्तराभावफलकत्वेनालङ्कारान्तरतामाहुः। तन्न
सादृश्यस्य चमत्कारितयोपमान्तर्भावस्यैवोचितत्वात्, सन्निरूपितत्वस्य लक्षण
प्रवेशाभावात् । उपमानान्तराभावफलकत्वं ह्युपमाविशेषत्वे साधकम्, न तूपमाबहिभर्ावे
शङ्कःते-अ
‘विलसत्याननं तस्या नासाग्रस्थितमौक्तिकम्
आलक्षितबुधाश्लेषं राकेन्दोरिव मण्डलम् ॥

इत्यादौ साधारणधर्मस्याभावात् कथमुपमानिष्पत्तिः? बुधमौक्तिकयोरेकैकमात्रवृत्तित्वात्
उक्ताशङ्काया असत्समाधानद्वयं तावत् प्रतिपाद्य खण्डयति-न चात्र यदि नासाग्रस्थितमौक्तिकं तस्या आननमालक्षितबुधाश्लेषं राकेन्दोर्मण्डलमि
विलसतीति तादृशराकेन्दुमण्डलनिरूपितसादृश्यप्रयोजक-विलासाश्रयस्तादृशमाननमित
तात्पर्यं तदा विपूर्वकलसत्यर्थशोभाविशेष एव समानो धर्मः। यदि

तादृशमिन्दुमण्डलमिव यत्तादृशमाननं तद् विलसतीति तादृशसादृश्यतावच्छिन्नमाननमुद्दिश्
विलासाश्रयत्वं विधेयतया विवक्ष्यते तदास्या लुप्तोपमात्वात्पद्ममि
मुखमित्यादाविवाह्लादकत्वादिधर्म उन्नेय इति वाच्यम् । उपमानोपमेयशोभयोरप
वस्तुतोऽसाधारणत्वात्
‘कोमलातपशोणाभ्रसन्ध्याकालसहोदरः
कषायवसनो याति कुङ्कुमालेपनो यतिः॥

इत्यादौ धर्मान्तरस्याप्रतिभानादसुन्दरत्वाच्च कोमलातपादीनामसाधारणत्वा-त्कथमुपमेत
चेत्
इदानीं सिद्धान्तभूतं समाधानं लिख्यते-अत्राहु:-उपमेयगतानामुपमानगतानां चासाधारणानामपि धर्माणा
सादृश्यमूलेनाभेदाध्यवसायेन साधारणत्वकल्पनादुपमासिद्धिः
पुनरुक्तस्थलेषु उपमाया असिद्धिमन्यप्रकारेणाशङ्क्य समाधत्ते-न च भ्रमात्मकेनाहार्याभेदबोधेन कथं नाम कुङ्कुमालेपकोमलातपादीनां वस्तुतोभिन्नाना
साधारणत्वसिद्धयेऽत्यन्तमसन्नभेदः सेद्धुं शक्नुयात्, भ्रमेणार्थसिद्धेरभावादिति वाच्यम्
प्रागुक्तेऽपि ‘त्वयि कोपो ममाभाति सुधांशाविव पावकः
इत्यादावुपमानोपमेययोरत्यन्तासत्त्वेऽपि कल्पनामात्रतो यथा निष्पत्तिस्तथैव प्रकृत
साधारणधर्मस्यापीति व्यक्तमुपपादयिष्यामः
विशेषमाह-अयमेव बिम्बप्रतिबिम्बभाव इति प्राचिनैरभिधीयते
प्रागुक्तरीत्योदाहरणान्तरेऽप्युपमासिद्धिं दर्शयति-एवम
‘भुजो भगवतो भाति चञ्चच्चाणूरचूर्णने
जगन्मण्डलसंहारे वेगवानिव धूर्जटिः॥

अत्र धूर्जटिभगवद्भुजयोराकारेण सादृश्याभावात्प्रकारनिर्मुक्तस्य केवलभानस्याप्रयोजकतय
चाणूरचूर्णननिमित्तकचाञ्चल्यवत्त्वजगन्मण्डलसंहारनिमित्तक-वेगवत्त्वयोरभेदाध्यवसानेनाभिन्नधर्मप्रकारकभानविशेष्यत्वस्य साधारणधर्मस्
सिद्धेरुपमासिद्धिः

अत्र विशेषामाह-तत्र चाणूरजगन्मण्डलयोर्वस्तुतो भिन्नयोर्महाकायत्वादिना सादृश्याद्-बिम्बप्रतिबिम्बभावः
चूर्णनसंहारयोश्चाञ्चल्यवेगवत्त्वयोस्त्वाश्रयभेदाद्भिन्नयोरपि वस्तुत एकरूपतैवेत
वस्तुप्रतिवस्तुभावः
लक्षणनिरूपणमुपसंहरति-इत्येवं निरूपितमुपमालक्षणम्
उदाहरणनिरूपणं प्रतिजानीते-अथेयमुदाह्रियते-उदाहरणं प्रदर्शयति-‘गुरुजनभयमद्विलोकनान्त:-समुदयदाकुलभावमावहन्त्याः
दलदरविन्दसुन्दरं हा हरिणदृशो नयनं न विस्मरामि ॥

उपपादयति-अत्र दलदरविन्दशब्दस्योपमानवाचकस्य सुन्दरशब्देन सामान्यवचनेन समास
प्रतीयमानोपमा सकलवाक्यार्थस्य विप्रलम्भशृङ्गारस्
स्मृत्युपस्करणद्वारोपस्कारकतयालङ्कारः
आशङ्क्य समाधत्ते-न चात्र स्मृतिः प्रधानतया ध्वन्यत इति वक्तुं शक्यम्, न विस्मरामीत
स्मृत्यभावनिषेधमुखेन स्फुटमावेदनात् । नापि पूर्वार्धगतत्रासौत्सुक्ययो
परस्पराभिभवकामयोः सन्धिः प्रधानम्, तस्य नायिकागतत्वेनानुवाद्यत्वात्
उत्तरार्धगतस्मृत्यङ्गःत्वाच्च
निष्कृष्टार्थमाह-तस्माद् भावसन्ध्युपमालङ्काराभ्यामुपस्कृता स्मृतिर्हापदगम्यः सन्तापोऽनुभावश्
विप्रलम्भमेवोपस्कुरुत इति तस्यैवात्र प्राधान्यम्
प्राचीनालङ्कारिकोक्तोपमालक्षणान्यालोचयितुमुपक्रममाणस्तावद्दीक्षितकृतलक्षणमालोचयति-अप्पय्यदीक्षिताः पुनश्चित्रमीमांसायाम्-‘उपमितिक्रियानिष्पत्तिमत्सादृश्यवर्णनमदुष्टमव्यङ्ग्यमुपमालङ्कारः। स्वनिषेधापर्यवसाय

सादृश्यवर्णनं वा तथाभूतं तथा’इति लक्षणद्वयमाहुः। तच्चिन्त्यम् । वर्णनस्
विलक्षणशब्दात्मकस्य विलक्षणज्ञानात्मकस्य वा शब्दवाच्यताविरहेणार्थालङ्कारताया बाधात ्
तस्य सर्वथैवाव्यङ्ग्यत्वादव्यङ्ग्यत्वविाशेषणवैयर्थ्याच्च
दीक्षितलक्षणस्य सङ्गःतिमाशङ्क्य निराचष्टे-अथ यदि वर्णनविषयीभूतं तादृशसादृश्यमुपमेत्युच्यते, तदा यथा गौस्तथा गव
इत्यत्रोपमालङ्कारापत्तेः। एवं ‘कालोपसर्जने च तुल्यम्’इत्यादावपि । अशिष्यत्वादिन
प्रधानप्रत्ययार्थवचनसादृश्यस्यात्रापि प्रतिपादनात्
द्वितीयदोषवारणमाशङ्क्य निराकरोति-न चात्र वचनभेदस्य दोषस्य सत्त्वाददुष्टत्वविशेषणेन वारणं भविष्यतीति वाच्यम्
एतद्वाक्योपप्लुतवाक्यान्तरप्रतिपादितैकोपमेयके सादृश्ये तथाप्यतिप्रसङ्गात्
दीक्षितोक्तलक्षणसङ्गःतिसम्पादनाय, प्रोक्तसकलदोषनिरासमुपपाद्य पुनरन्यदोषं दृढीकरोति-न चात्रोपमितिक्रियाया निष्पत्तावपि न सादृश्यवर्णनम्, विषयस्याचमत्कारित्वात्
चमत्कारविषयककविव्यापारस्यैव वर्णनपदार्थत्वादिति वाच्यम् । एवं हि चमत्कारित्वस्
लक्षणेऽवश्यं निवेश्यत्वेनोपमितिक्रियानिष्पत्तिविशेषणस्य वैयर्थ्यात् । न ह्मनिष्पन्नमापातत
प्रतीयमानं सादृश्यं चमत्कृतिमाधत्ते । एवं द्वीतीयलक्षणेऽपि निषेधापर्यवसायित्वं निरर्थकम
। व्यतिरेके कमलादि-सादृश्यनिषेधस्यानन्वये च सर्वथा सादृश्यनिषेधस्य चमत्कारितय
तदर्थं सादृश्यस्य निरूपणमिति प्रागेवाभिधानात्
ननु ‘उपमितिक्रियानिष्पत्तिमत् ’‘स्वनिषेधापर्यवसायी’ ति विशेषणद्वयं न लक्षणशरीरघटकम
, अपि तु ‘अत्रत्यवर्णनपदस्य ‘चमत्कारजनकज्ञानविषयीभूतानुयोगिकं सादृश्यं लक्षणप्र विष्
’मित्यर्थे तात्पर्यग्र्राहकम्, तथा च न तद्वैयर्थ्यमापाद्यतामर्हतीत्यतो दोषान्तरमह-किञ्
‘स्तनाभोगे पतन्भाति कपोलात् कुटिलोऽलकः
शशाङ्कःबिम्बतो मेरौ लम्बमान इवोरगः॥

इत्यादौ मुख्यवाक्यार्थत्वेनानलङ्कारभूतायामुपमायामतिव्याप्तिः। उपमिति-क्रियानिषत्तिमत्सादृश्यवर्णनस्यादुष्टाव्यङ्ग्यत्वस्य चात्रापि सत्त्वात् । न चेयमप्युपम
लक्ष्येति वाच्यम् । ध्वन्यमानोपमानिवारणप्रयासस्य वैयर्थ्यापत्तेः। न ह्यत्राभेदप्रधानोत्प्रेक्ष
शक्या वक्तुम् । कल्पितोपमाया निर्विषयत्वप्रसङ्गात्

‘व्यापार उपमानाख्यो भवेद्यदि विवक्षितः
क्रियानिष्पत्तिपर्यन्तमुपमालङ्कृतिस्तु सा ॥

इति स्वकृतसूत्रेऽलङ्कारभूतोपमाया एव लक्ष्यत्वेनाभिधानात् । अलङ्कारभूतोपमालक्षणत्व
तदेवादुष्टाव्यङ्ग्यत्वविशेषितमिति तत्रैव पुनरभिधानाच्च ।
ह्यत्रोपमानोपमेयसादृश्यादुपमास्वरूपादस्ति कश्चिदतिरिक्तो वाक्यार्थः, येनोपमा तमलङ्कुर्यात

ननु अलङ्कःरोतीति योगबोधितोपस्कारकत्वस्यालङ्कारसामान्यस्वरूपत्वेन विशेषलक्षणेष
तदनिविशेऽपि क्षत्यभावः-अर्थात् अलङ्कारपदयोगार्थशून्ये लक्ष्ये पूर्वोक्तातिव्याप्तिर्
संभवदुक्तिकेत्यत आह-अपि च लक्षणे सादृश्यविशेषणं निरर्थकम् । ‘उपमितिक्रियानिष्पत्तिमद् वर्णनमुपमा
इत्येतावतैव स्वाभीष्टार्थलाभात्
विद्यानाथोक्तमुपमालक्षणमालोचयति-एवम्-‘स्वतःसिद्धेन भिन्नेन सम्मतेन च धर्मतः
साम्यमन्येन वण्र्यस्य वाच्यं चेदेकदोपमा ॥

इति विद्यानाथोक्तं लक्षणमपास्तम् । व्यतिरेके निषेधप्रतियोगिनि सादृश्येऽतिव्याप्तेः
अन्यदपि प्राचीनोक्तं लक्षणं पर्यालोचयति-एवम्-‘उपमानोपमेयत्वयोग्ययोरर्थयोद्र्वयोः
हृद्यं साधम्र्यमुपमेत्युच्यते काव्यवेदिभिः॥

इति प्राचामपि लक्षणं प्रत्युक्तम् । हृद्यतामात्रेण निर्वाहे विशेषणान्तरवैयर्थ्यात्
मम्मटोक्तं लक्षणं परीक्षते-एवं काव्यप्रकाशोक्तमपि ‘साधम्र्यमुपमा भेदे’इति लक्षणं नातीव रमणीयम् । व्यतिरेक
निषेधप्रतियोगिनि सादृश्येऽतिव्यापनात् । न च पर्यवसितत्वेन साधम्र्यं विशेषणी यमित
वाच्यम् । अनन्वयस्थसादृश्यस्यापर्यवसायित्वेनैव वारणे भेदविशेषणवैयर्थ्यापत्तेः
काव्यालङ्कारप्रस्तावे लौकिकालौकिकप्रधान-वाच्यव्यङ्ग्योपमासामान्यलक्षणकरणानौचित्याच्च
उक्तयुक्त्यैवालङ्कारसर्वस्वोक्तं लक्षणं खण्डयति-अत एव ‘भेदाभेदतुल्यत्वे साधम्र्यमुपमा’इत्यलङ्कारसर्वस्वोक्तमपि लक्षणं तथैव

अपरमपि लक्षणं पर्यालोचयत
एवं ‘प्रसिद्धगुणेनोपमानेनाप्रसिद्धगुणस्योपमेयस्य सादृश्यमुपमा’इत्यलङ्काररत्नाकरोक्तमप
न भव्यम् । श्लेषमूलकोपमायां तादृशशब्दात्मकस्य धर्मस्य कविनैव कल्पनात् ते
रूपेणोपमानस्याप्रसिद्धेश्च
परकीयलक्षणपर्यालोचनसमाप्तिं सूचयति-इत्यलं परकीयदूषणगवेषणया
पुनः प्रकृतानुसरणं सूचयति-प्रकृतमनुसरामः
प्राचीनाभिमतोपमाभेदानामुदाहरणप्रदर्शनं प्रतिजानीते-अस्याश्चोपमायाः प्राचामनुसारेण केचिद् भेदा उदाह्रियन्ते
उपमाभेदान् प्राचीनाभिमतान् प्रदर्शयति-तथा हि-उपमा द्विविधा, पूर्णा लुप्ता च । पूर्णा तत्र-श्रौती आर्थी चेति द्विधा भवन्त
वाक्य-समास-तद्धितगामिताया षोढा । लुप्ता च-उपमानलुप्ता, धर्मलुप्ता, वाचकलुप्ता
धर्मोपमानलुप्ता, वाचकधर्मलुप्ता, वाचकोपमेयलुप्ता, धर्मोपमानवाचकलुप्तेत
तावत्सप्तविधा, तत्रोपमानलुप्ता-वाक्यगा समासगा चेति द्विविधा । धर्मलुप्ता समासगता-श्रौती, आर्थी । वाक्यगता-श्रौती, आर्थी । तद्धितगता च-आर्थ्येव, न श्रौती । इत
पञ्चविधा । वाचकलुप्ता-समासगता, कर्मक्यज्गता, आधारक्यज्गता, क्यङ्गःता
कर्मणमुल्गता, कर्तृणमुल्गता चेति षड्विधा । धर्मोपमानलुप्ता-वाक्यगता, समासगत
चेति द्विविधा । वाचकधर्मलुप्ता क्विब्गता समासगता चेति द्विविधैव । वाचकोपमेय लुप्त
त्वेकविधा । धर्मोपमानवाचकलुप्ता तु समासगतैकविधा । इति
प्राचीनाभिमतभेदसंख्यासङ्कःलनं कुरुते-एवं साकल्येनैकोनविंशतिर्लुप्ताभेदाः पूर्णाभेदैः सह पञ्चविंशति: क्रमेणोदाह्रियन्ते
वाक्यगतां श्रौतीं पूर्णोपमामुदाहरति-तत्र पूर्णा श्रौती वाक्यगता यथा-‘ग्रीष्मचण्डकरमण्डलभीष्मज्वालसंसरणतापितमूर्तेः
प्रावृषेण्य इव वारिधरो मे वेदनां हरतु वृष्णिवरेण्यः॥

उपपादयति

अत्र प्रावृषेण्य इत्यनेन वारिधरविशेषणेन नैराकाङ्क्ष्यात्, इवेन समास इत्ये
पाठान्नित्यत्वाभावाद् वारिधरेणापि नेवस्य समासः। एष
चोपमानोपमेययोर्वारिधरभगवतोर्वेदनाहरणकर्तृत्वस्य साधारणधर्मस्
सादृश्यबोधकस्येवशब्दस्य चाभिधानात्पूर्णा सादृश्यस्य श्रुत्या बोधनाच्छ्रौती
वाक्यगतामार्थीं पूर्णोपमामुदाहर्तुमाह-पूर्णा आर्थी वाक्यगता यथा-उदाहरति-‘प्राणापहरणेनासि तुल्यो हालाहलेन मे
शशाङ्कः केन मुग्धेन सुधांशुरिति भाषितः॥

समासगतां श्रौतीं पूर्णोपमामुदाहर्तुमाह-पूर्णा श्रौती समासगा यथा-उदाहरणं निर्दिशति-‘हरिचरणकमलनखगणकिरणश्रेणीव निर्मला नितराम्
शिशिरयतु लोचनं मे देवव्रतपुत्रिणी देवी ॥

उपपादयति-अत्रेवेन समासः
समासगामार्थीं पूर्णोपमामुदाहर्तुमाह-पूर्णा आर्थी समासगा यथा-उदाहरणं निर्दिश्यते-‘आनन्दनेन लोकानामातापहरणेन च
कलाधरतया चापि राजन्निन्दूपमो भवान् ॥

श्रौतीमार्थीञ्च तद्धितगतां पूर्णोपमामुदाहर्तुमाह-पूर्णा श्रौती आर्थी च तद्धितगा यथा-उदाहरणं निर्दिश्यते-‘निखिलजगन्महनीया यस्याभा नवपयोधरवत्
अम्बुजवद्विपुलतरे नयने तद्ब्रह्म संश्रये सगुणम् ॥

उपपादयति

अत्र पूर्वार्धे वतेः ‘तत्र तस्येव’इति सादृश्ये विधानाच्छ्रौती उत्तरार्धे ‘तेन तुल्यम्’इत
विधानात्सादृश्यवदर्थकतया आर्थी
पूर्णोपमोदाहरणप्रदर्शनानन्तरमिदानीं लुप्तोपमोदाहरणप्रदर्शनप्रसङ्गे प्रथम
वाक्यगतामुपमानलुप्तोपमामुदाहर्तुमाह-उपमानलुप्ता वाक्यगा यथा-उदाहरणं निर्दिश्यते-‘यस्य तुलामधिरोहसि लोकोत्तरवर्णपरिमलोद्गारैः
कुसुमकुलतिलक चम्पक न वयं तं जातु जानीमः॥

अल्पव्यत्यासेन इदमेव पद्यं समासगताया अपि तस्या उदाहरणं सम्भवतीति प्रतिपादयति-यत्तुलनामधिरोहसीत्याद्यचरणनिर्माणे इयमेव समासगा
अत्रालङ्कारान्तरत्वमाशङ्क्य निरस्यति-उपमानाभावेन सादृश्याभावस्य पर्यवसानात्सादृश्यपर्यवसानस्
चोपमाजीवितत्वादलङ्कारान्तरमेवात्र नोपमानलुप्तेति नाशङ्कःनीयम् । यस्य तुलामारोहसि
तं वयं जानीम इत्युक्त्या अस्माकमसर्वज्ञत्वादस्मदगोचरः कोऽपि तवोपमानं भविष्यतीत
सादृश्यपर्यवसानमस्तीत्युपमानलुप्तैवेयमुपमा नालङ्कारान्तरम्
प्राचीनोेक्तिं खण्डयति-एते
‘ढुंढुंणंतो हि मरीहसि कंटककलिआइं केअइवणाइं
मालइकुसुमसरिच्छं भमर भमंतो न पावहिसि ॥

इत्यत्रासमालङ्कारोऽयमुपमातिरिक्त इति वदन्तोऽलङ्काररत्नाकरादयः परास्ताः
श्रौतीं वाक्यगतां धर्मलुप्तोपमामुदाहर्तुमाह-धर्मलुप्ता श्रौती वाक्यगता यथा-उदाहरणं निर्दिश्यते-‘कलाधरस्येव कलावशिष्टां विलूनमूला लवलीलतेव
अशोकमूलं परिपूर्णशोका सा रामयोषा चिरमध्युवास ॥

धर्मलुप्तामधिकृत्य विचारमेकं प्रस्तौति

‘ग्रीष्मचण्डकरमण्डल ’इति प्रागुदाहृते पूर्णाया उदाहरणे प्रावृषेण्यो वारिधर इव य
वृष्णिवरेण्यः स मे वेदनां हरत्विति वृष्णिवरेण्यमात्रगतत्वेन वेदनाहरणकर्तृत्वं विवक्षितम्
वारिधरसादृश्यं च श्यामत्वादिना यदि, तदा तत्राप्येषा बोध्या
तत्र पूर्णोपमास्वीकारे लुप्तोपमास्वीकारे च यो विशेषस्तं दर्शयति-इयांस्तु विशेष:-यत्पूर्णायां वृष्णिवरेण्यमात्रमुद्दिश्य प्रावृषेण्यवारिधरसादृश्यप्रयोजक
तादृशवारिधरसादृश्याभिन्नं वा वेदनाहरणकर्तृत्वं विधेयमित्युपमाविधेयिका धीः
धर्मलुप्तायां तु वारिधरसादृश्यावच्छिन्नवृष्णिवरेण्यमुद्दिश्य वेदनाहरणकर्तृत्वमात्र
विधेयमित्युपमोद्देश्यतावच्छेदिका
वाक्यगतामार्थीं धर्मलुप्तोपमामुदाहर्तुमाह-धर्मलुप्ता आर्थी वाक्यगता यथा-उदाहरणं निर्दिश्यते-‘कोपेऽपि वदनं तन्वि तुल्यं कोकनदेन ते
उत्तमानां विकारेऽपि नापैति रमणीयता ॥

एकस्मिन्नेव पद्ये समासगतां श्रौतीम्, आर्थीम्, तद्धितगतामार्थीञ्
धर्मलुप्तोपमामुदाहर्तुमाह-धर्मलुप्ता समासगा श्रौत्यार्थी तद्धितगार्थी च यथा-उदाहरणं निर्दिश्यते-‘सुधेव वाणी वसुधेव मूत्र्तिः सुधाकरश्रीसदृशी च कीर्तिः
पयोधिकल्पा मतिरासफेन्दोर्महीतलेऽन्यस्य नहीति मन्ये ॥

ननु कल्पप्प्रत्ययस्येषदसमाप्त्यर्थे विधानात् कथं ‘पयोधिकल्पे’त्यंशे उपमा, सादृश्यस्
तत्स्वरूपत्वादित्यत आह-ईषदसमाप्तिरपि भङ्ग्यन्तरेण सादृश्यमेव
समासगतां वाचकलुप्तोपमां दर्शयति-वाचकलुप्ता समासगा-‘दलदरविन्दसुन्दरम् ’इति प्रागुदाहृते पद्ये
वाचकलुप्ताया भेदान्तराण्युदाहर्तुमाह-कर्माधारक्यज्गता क्यङ्गःतां च यथा-उदाहरणं निर्दिश्यते

‘मलयानिलमनलीयति मणिभवने काननीयति क्षणतः
विरहेण विकलहृदया निर्जलमीनायते महिला ॥

उपपादयति-अत्रानलमिवाचरतीत्यर्थेऽनलशब्दात् ‘उपमानादाचारे’ इति सूत्रेण, कानन इवाचरतीत्यर्थ
काननशब्दाच्च तत्सूत्रस्थेन ‘अधिकरणाच्च ’इति वार्तिकेन क्यच् । निर्जलमीनशब्दाच्
‘कर्तुः क्यङ् सलोपश्च ’इति क्यङ्
ननु कथमिह वाचकलुप्तात्वम्, क्यच्क्यङ्प्रत्यययोर्वाचकयोर्वर्तमानत्वादित्यत आह-आचारमात्रार्थकतया क्यच्क्यङोः प्रकृत्यैव लक्षणया स्वस्वार्थसादृश्यप्रतिपत्तिरिति नय
सादृश्यवाचकाभावाद् वाचकलुप्ता
अनलीयतीत्यादिसमुदायस्यैवानलादिसादृश्यप्रयोजकाचरणकर्तृशक्तत्वमिति नयेऽप
सादृश्यसादृश्यविशिष्टमात्रवाचकाभावाद्वाचकलुप्ता
वाचकलुप्तोपमाया एव भेदान्तरमुदाहर्तुमाह-कर्तृकर्मणमुल्गता यथा-उदाहरणं निर्दिश्यते-‘निरपायं सुधापायं पयस्तव पिबन्ति ये
जह्नुजे निर्जरावासं वसन्ति भुवि ते नराः॥

उपपादयति-अत्र सुधापायमिति सुधामिव, निर्जरावासमिति निर्जरा इवेति ‘उपमानात् कर्मणि च’ इत
कर्मणि चकारात्कर्तर्युपमाने उपपदे णमुल्
एवमेकलुप्तामुदाहृत्य द्विलुप्तामुदाहर्तुमाह-धर्मोपमानलुप्ता वाक्यगा समासगा च यथा-उदाहरणं निर्दिश्यते-‘गाहितमखिलं विपिनं परितो दृष्टाश्च विटपिनः सर्वे
सहकार न प्रपेदे मधुपेन तथापि समं जगति ॥

उक्ताकारके ‘गाहितम
.......
’ इत्यादिपद्ये उपमाया वाक्यगतत्वमेव । तथा च अवतरणे ‘समासग
चे’ ति कथनं विरुद्धम्, अतः पाठान्तरेण समासगतत्वमुपपादयति

‘तथापि ते समम्’इति हित्वा ‘भवत्समम्’ इति यद्यार्या शुद्धैव विधीयते तदेदमेवोदाहरण
समासगायाः
वाचकधर्मलुप्तोपमामुदाहर्तुमाह-वाचकधर्मलुप्ता क्विब्गता यथा-उदाहरणं निर्दिश्यते-‘कुचकलशेष्वबलानामलकायामथ पयोनिधेः पुलिने
क्षितिपाल कीर्तयस्ते हारन्ति हरन्ति हीरन्ति ॥

उपपादयति-अत्र हारहरहीरशब्दा आचारार्थके क्विपि लुप्ते धातवः। तत्र हारादिशब्दा लक्षणय
हारादिसादृश्यं बोधयन्ति । लुप्तोऽपि स्मृतः क्विबाचारमिति पक्षे वाचकधर्मलोपः स्प ष्
एव । हारादिशब्दा एव लक्षणया तादृशसादृश्याभिन्नामाचारमिति पक्षे सादृश्यस्ये
धर्मस्यापि तन्मात्रबोधकाभावाल्लोप एव
वाचकधर्मलुप्तोपमाया भेदान्तरमुदाहर्तुमाह-वाचकधर्मलुप्ता समासगा यथा-उदाहरणं निर्दिश्यते-‘शोणाधरांशुसंभिन्नास्तन्वि ते वदनाम्बुजे
केसरा इव काशन्ते कान्तदन्तालिकान्तयः॥

उपपादयति-अत्र वदनाम्बुजयोरभेदविवक्षया विशेषणसमासे दन्तालिकान्तीनां केसर-सादृश्योक्तिरसङ्गःता स्यात् । यतो ह्यम्बुजतादात्म्यसाधकं दन्तालिकान्तीनां केसरतादात्म्यं
तु केसरसादृश्यम् । उपमितसमासे तु वदनाम्बुजयोर्धर्मिणोरौपम्य
केसरदन्तालिकान्तीनामपि तद्धर्माणामौपम्योक्तिरुचितैव
अतोऽधिकरणतावच्छेदकोपमामादाय वाचकधर्मलुप्तोदाहृता । विधेयतावच्छेदिका तु पूर्णै

भेदान्तराण्युदाहर्तुमाह-वाचकोपमेयलुप्ता क्यज्गता धर्मोपमानवाचकलुप्ता समासगा च यथा-उदाहरणं निर्दिश्यते

‘तया तिलोत्तमीयन्त्या मृगशावकचक्षुषा
ममायं मानुषो लोको नाकलोक इवाभवत् ॥

उपपादयति-तिलोत्तमीयन्त्येति तिलोत्तमामिवात्मानमाचरन्त्येत्याचारार्थके क्यचि तिलोत्तमापदस्
तिलोत्तमासादृश्ये लाक्षणिकतया वाचकस्य, स्फुटत्वेन प्रतीयमानतया आत्मन उपमेयस्
चानुपादानाल्लोपः। स्वयं तु सा नोपमेया । आचारकर्मण उपमानस्य तिलोत्तमारूपस्
तत्कत्र्र्यामुपमेयायामुपमानत्वासङ्गःतेः। अत आत्मैवात्रोपमेयतयोन्नेयः। मृगशावकचक्षुषेत
मृगशावकस्य चक्षुषी इव चक्षुषी अस्या इति ‘सप्तम्युपमानपूर्वस्य ’इत
समासोत्तरपदलोपौ । मृगशावकपदस्य मृगशावकचक्षुःसदृशलाक्षणिकत्वपक्ष
वृत्तेर्विशिष्टार्थवाचकतापक्षेऽपि स्वस्वमात्रबोधकपदाभावात्त्रयाणां लोपः
प्राचीनाभिमतोपमाभेदानां सङ्कःलनं कुरुते-इति पञ्चविंशतिरुपमाभेदाः
उक्तपञ्चविंशतिभेदेभ्योऽन्यानपि भेदान् अन्यैरुक्तान् प्रदर्शयति-इहान्यानपि भेदानन्ये निगदन्ति-वाचकलुप्ता षड्विधोपवर्णिता । ‘कर्तर्युपमाने’इति णिन
सप्तम्यपि दृश्यते । कोकिल इवालपति कोकिलालापिनीति । तथाष्टम्यपि-‘इवे प्रतिकृतो
इति कनि ‘लुम्मनुष्ये’इति लुपि चञ्चेवेत्यर्थे ‘चञ्चा पुरुषः सोऽयं यः स्वहितं नै
जानीते’ इत्यत्र । नवम्यपि-आचारक्विपि पदान्तरेण प्रतिपादिते समाने धर्मे दृश्यते
‘आह्लादि वदनं तस्याः शरद्राकामृगाङ्कःति ’इत्यादौ
उपमानलुप्तोपमाया भेदान्तरं दर्शयति-उपमानलुप्ता वाक्यसमासयोद्र्विविधोपवर्णिता, तृतीयापि दृश्यते-‘यच्चोराणामस्य च समागमो यच्च तैर्वधोऽस्य कृतः
उपनतमेतदकस्मादासीत्तत्काकतालीयम् ॥

इत्यत्र काकतालशब्दयोर्लक्षणया काकागमनतालपतनबोधकयोरिवार्थे ‘समासाच्
तद्विषयात्’ इति ज्ञापकात्समासे काक इव ताल इव काकतालमित
काकतालसमागमसदृशश्चोराणामस्य च समागम इत्यर्थः। ततः काकतालमिवेति द्विती
इवार्थे पूर्वोक्तेनैव सूत्रेण छप्रत्यये तालपतनजन्यकाकवधसदृशश्चोरकर्तृको देवदत्तव
इत्येवं स्थिते प्रत्ययार्थोपमायामुपमानस्य तालपतनजन्यकाकवधस्यानुपादानादुपमानलुप्ता

प्राचीनैरनुक्तमेकं भेदं प्रदर्शयति-वाचकोपमानलुप्ता तु नाम्नैव न निर्दिष्टा । साप्यत्र प्रकृत्यर्थे दृश्यत
भेदान्तरं प्रकटयति-धर्मोपमानलुप्ता वाक्यसमासयोद्र्विविधैवोक्ता । सा चात्रापि तृतीयचरणो-क्तधर्मनिरास
प्रत्ययार्थे दृष्टा
भेदान्तरं प्रतिपादयति-वाचकधर्मलुप्ता क्विप्समासयोद्र्वयोरेव कथिता । सापि ‘चञ्चा पुरुष सोऽयं योऽत्यन्त
विषयवासनाधीनः ’इत्यत्र स्वहिताकरणरूपस्य धर्मस्यानुपादाने कनो लोपे विलोक्यते
उपसंहरति-एवं च द्वात्रिंशद् भेदाः
प्राचीनोक्तभेदानालोचयति-अत्रेदमवधेयम्-कर्माधारक्यचि क्यङि च वाचकलुप्तोदाहरणं प्राचाम-सङ्गःतमिव प्रतीयत
धर्मलोपस्यापि तत्र संभावात् । न च क्यजाद्यर्थ आचार एव साधारणधर्मोऽस्तीति वक्तव्यम
। धर्ममात्ररूपस्याचारस्योपमा-प्रयोजकत्वाभावात् । ‘नारीयते सपत्नसेना ’इत्याद
वृत्त्यन्तरनिवेदितैः कातरत्वादिभिरभिन्नतयाध्यवसितस्याचारस्योपमानिष्पादकत्वात् । यदि
क्यङर्थ आचारमात्रमुपमानिष्पादकं स्यात्तदा ‘त्रिविष्टपं तत्खलु भारतायते’इत्याद
सुप्रसिद्धत्वादिरूपाचारोपस्थितावप्युपमालङ्कृतेरनिष्पत्तेः, तस्यैव च ‘सुपर्वभि
शोभितमन्तराश्रितैः’इति चरणान्तरनिर्माणे तस्या निष्पत्तेःक्यङाद्यर्थः साधारणोऽपि नोपमा
प्रयोजयति । उपमाप्रयोजकतावच्छेदकरूपेण साधारणधर्मवाचकशून्यत्वस्यै
धर्मलोपशब्देनाभिधानात् । अन्यथा ‘मुखरूपमिदं वस्तु प्रफुल्लमिव पङ्कःजम् ’इत्याद
पूर्णोपमापत्तेरिति दिक्
दीक्षितोक्तं खण्डयति-यच्चाप्पय्यदीक्षितैरस्मिन्नेव प्रस्तावे ‘धर्मलुप्ता वाक्यसमासतद्धितेषु दर्शिता द्विर्भावेऽप
दृश्यते । ‘पटुपटुर्देवदत्तः’इत्यत्र ‘प्रकारे गुणवचनस्य’इति सादृश्ये द्विर्भावविधानात्
इति निगदितं तत्तुच्छम् । अत्र च वाचकस्याप्यनुदानाद्वाचकधर्मलुप्तायामेत-दाधिक्यमुद्भावयितुमुचितम्, न धर्मलुप्तायाम् । धर्ममात्रलुप्ताया एव धर्मलुप्ताशब्दे
तैर्विवक्षणात् । अन्यथा एकलुप्तास्वेव द्विलुप्तानां त्रिलुप्तायाश्

ग्रहणात्पृथगुपादानमसम्बद्धमेव स्यात् । न चात्र वाचकस्य द्विर्भावस्यैव सत्त्वान्नास्त
लोपः, अपि तु धर्ममात्रस्येति वक्तुं शक्यम् । द्विर्भावस्
सादृश्यवाचकत्वोक्तेर्भाष्यकैयटादिविरुद्धत्वात् । तदुक्तं कैयटेन ‘प्रकारे गुणवचनस्य’इत
सूत्रे सिद्धं त्विति प्रतीकमुपादाय-‘‘द्विर्वचनस्य प्रकृतिः स्थानी इति तदर्थो विशेष्यतेन त
प्रकारः। तत्र सर्वस्य गुणवचनत्वाद् व्यभिचाराभावात् । तद्ग्रहणाद् गुणवचनो यः शब्द
निज्र्ञातस्तस्य सादृश्ये द्योत्ये द्वे भवत इति सूत्रार्थः ’इति
दीक्षितोक्तमन्यदपि निरस्यति-इदं चान्यत्तस्मिन्नेव प्रस्तावे चित्रमीमांसाकृद्भिरभ्यधीयत-‘नृणां यं सेवमानानां संसारोऽप्यपवर्गति
तं जगत्यभजन्मत्र्यश्चञ्चा चन्द्रकलाधरम् ॥

अत्र क्विप्कनोर्लोपे प्रत्येकं वाचकधर्मलोप उभयत्रापि तदरमणीयमेव । कनो वाचकस्
लोपेऽपि तं चन्द्रकलाधरमभजन्निति चन्द्रकलाधरभजनराहित्यरूपस्य धर्मस्
चञ्चामत्र्यसाधारणस्योक्तत्वात्कथं तावद्धर्मस्य लोपः
दीक्षितमतसमर्थकमवान्तरपूर्वपक्षं कृत्वा खण्डयति-न चोपमेयमर्थविशेषणतयोपात्तस्य चन्द्रकलाधरभजनराहित्यस्य सादृश्योपसर्जन
चञ्चायामनन्वयान्न साधारण्यमिति वाच्यम्
‘यद् भक्तानां सुखमयः संसारोऽप्यपवर्गति
तं शम्भुमभजन् मत्र्यश्चञ्चैवात्महिताकृतेः

इति पाठे धर्मश्रवणमप्युभयत्रापि संभवति’इति स्वोक्तेरसङ्गःतत्वापत्तेः
इहाप्युपमेयसंसारविशेषणतयोपात्तस्य सुखमयत्वस्
सादृश्योपसर्जनेऽपवर्गेऽन्वयाभावात्कथङ्कारं धर्मस्य साधारण्यम्
पुनः दीक्षितमतसमर्थकं पूर्वपक्षमुल्लिख्य निराकरोति-उपमेयगतत्वेनोपमानगतत्वेन वोपात्तस्य धर्मस्य शाब्द उभयान्वयेऽसत्यपि वस्तु
उभयवृत्तित्वज्ञानमेव साधारणताया नियामकमिति चेत्, चन्द्रकलाधरभजनराहित्येऽप
दीयतामेवमेव दृष्टिः
दीक्षितमतसमर्थिकां युक्तिमेकां कथञ्चिदङ्गीकुरुते

यदि चोपमेयतावच्छेदकतयैव चन्द्रकलाधरभजनराहित्यं मम विवक्षितम्, साधारणधर्मश्
स्वात्महिताकरणरूपः स चात्र लुप्त एवेति शपथेन स्वाभिप्रायः प्रकाश्यते तद
निवारितोऽयं दोषः। तुष्यतु भवान्
अन्यदपि दीक्षितोक्तमालोचयन् तत्र व्याकरणाशुद्धिं प्रकाशयति-इदमप्यन्यत्तैरेव वाचकोपमेयलुप्तायामुदाहरणं निरमीयत-‘रूपयौवनलावण्यस्पृहणीयतराकृतिः
पुरतो हरिणाक्षीणामेष पुष्पायुधीयति ॥

इदं च पद्यमपशब्ददुष्टमवैयाकरणतां कर्तुः प्रकाशयति । तथा हि पुरत इति नगरवाचिन
पुरशब्दात्तसिलि हरिणाक्षीणां नगरादित्यर्थस्यासङ्गःतेः। न हि पूर्ववाचकः पुरशब्दः क्वाप
श्रूयते । पूर्वशब्दात्तु ‘पूर्वाधरावराणामसिपुरधवश्चैषाम् ’इत्यसौ पुरादेशे च पुर इति भाव्यम्
न तु पुरत इति । अत एव ‘अमुं पुरः पश्यसि देवदारुम् ’इति प्रायुङ्कृ महाकविः
एवमेव ‘मुखस्य पुरतश्चन्द्रो निष्प्रभः-इत्यप्रस्तुतप्रशंसा’इत
द्वितीयप्रकरणारम्भेऽप्यपशब्दितं तैः। तथा चाहुर्वैयाकरणा:-‘‘पत्या पुरतः परतः’’, ‘आत्मीय
चरणं दधाति पुरतो निम्नोन्नतायां भुवि’,‘पुरतःसुदती समागतं माम् ’इत्यादयः सर्वेऽप
व्याकरणाज्ञानमूला अपशब्दाः ’इति
पुर्वोक्तभेदाया उपमायाः पुनः प्रकारान्तरेण भेदान् वक्ति-इयं चैव भेदोपमा वस्त्वलङ्काररसरूपाणां प्रधानव्यङ्ग्यानां वस्त्वलङ्कार-योर्वाच्ययोश्चोपस्कारकतया पञ्चधा
एषु पञ्चसु प्रकारेषु प्रथमं प्रकारमुदाहर्तुमाह-तत्र व्यङ्ग्यवस्तूपस्कारिका यथा-उदाहरणं निर्दिश्यते-‘अविरतपरोपकरणव्यग्रीभवदमलचेतसां महताम्
आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ॥

उपपादयति-अत्र तादृंशि वचनान्यर्थद्वारा सेवमानस्य मनागप्यक्षुभ्यतः परिणामे परमं सुखं भवतीत
प्राधान्येन व्यङ्ग्यस्य वस्तुन उपस्कारिका भेषजोपमा
द्वितीयं प्रकारमुदाहर्तुमाह

व्यङ्ग्यालङ्कारोपस्कारिका यथा-उदाहरणं निर्दिश्यते-‘अङ्कायमानमलिके मृगनाभिपङ्कःम्
पङ्केरुहाक्षिवदनं तव वीक्ष्य बिभ्रत्
उल्लासपल्लवितकोमलपक्षमूला-श्चञ्चूपुटं चपलयन्ति चकोरपोताः॥

उपपादयति-अत्र प्राधान्येन व्यङ्ग्ये आरोप्यमाणचन्द्रके भ्रान्तिमत्यलङ्कारे उपपादकस्
भालस्थमृगमदपङ्कःविषयकस्याङ्काभेदारोपस्याङ्कःसादृश्यरूपदोषमूलकत्वादु-पमात्रालङ्कारः
तृतीयप्रकारोदाहरणं पूर्वोल्लिखितं स्मारयति-रसोपस्कारिका तु ‘दलदरविन्द- ’इत्यत्र प्रागेवोदाहृता
भेदपरिगणने न्यूनताभ्रमं निराकुरुते-रसपदेनासंलक्ष्यक्रमस्योपलक्षणाद्भावाद्युपस्कारिकाप्यत्रैवान्तर्भाव्या
‘भावाद्युपस्कारिकां ’ इत्यत्रादिपदग्राह्ययोः रसाभासभावाभासयोरुपस्कारिकाया उपमाय
उदाहरणभूतं पूर्वोक्तपद्यद्वयं स्मारयति-यथा-‘नैवापयाति हृदयादधिदेवतेव’, ‘वन्यकुरङ्गीव वेपते नितराम्’इत्यादिषु प्रागुदाहृतेषु
चतुर्थं प्रकारमुदाहर्तुमाह-वाच्यवस्तूपस्कारिका यथा-उदाहरणं निर्दिश्यते-‘अमृतद्रवमाधुरीभृतः सुखयन्ति श्रवसी सखे गिरः
नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव ॥

उपपादयति-अत्र नयनशिशिरीकरणरूपे वस्तुनि वाच्ये मुखस्य शरदिन्दूपमोपस्कारिका
पञ्चमं भेदमुदाहर्तुमाह-वाच्यालङ्कारोपस्कारिका यथा-उदाहरणं निर्दिश्यते-‘शिशिरेण यथा सरोरुहं दिवसेनामृतरश्मिमण्डलम्

न मनागपि तन्वि शोभते तव रोषेण तथेदमाननम् ॥

उपपादयति-अत्र वाच्यस्य दीपकस्योपमोपस्कारिका
ननु वस्त्वलङ्कारयोरिव रसस्यापि वाच्यत्वेन षोढा वक्तुमुचितेयमत आह-रसादिस्तु न वाच्य इति प्रागेवाभिहितम्
आशङ्क्य समाधते-अथ कथमलङ्कारस्यालङ्कारान्तरोपस्कार्यत्वमुच्यते । प्रधानस्यैवालङ्कार्यत्वादिति चेत् मैवम्
अलङ्कारस्योपमादेध्र्वन्यमानतायां प्राधान्याद्रसादिवदलङ्कारान्तरोपस्कार्यत्वे न कोऽप
तावदस्ति विरोधः। एवमेव मुख्यतया वाच्यतायामपि । यथा ह्यापणादौ विक्रीयमाणताया
कनकताटङ्कःस्य रत्नाद्यलङ्कारान्तरोपस्कार्यत्वे तस्यैव च कामिनीकर्णालङ्कारतायां पुन
प्रधानान्तरसान्निध्यात्ताटङ्कःस्य तद्गतरत्नानां च साक्षात्परम्परया च कर्णादिशोभोपस्कारकतय
यथा तदलङ्कारत्वम्, एवमेव रसादिसान्निध्ये रूपकादेस्तदुपस्कारकस्यालङ्कारान्तरस्य
रसाद्यलङ्कारतेति
भेदाः सङ्कःल्यन्ते-एवं च प्राचां मते पञ्चविंशतिभेदायाः पुनः पञ्चविधतायां सपादशतं भेदाः
द्वात्रिंशद्भेदवादिनां तु षष्ट्युत्तरं शतम्
उपमाभेदान्तराणामपि संभावनां सूचयति-इतश्चान्येऽपि प्रभेदाः कुशाग्रीयधिषणैः स्वयमुद्भावनीयाः
स्वयमुद्भावनीयत्वेनोक्तान् उपमायाः प्रभेदान् निर्दिदिक्षुः प्रथमम् समानधर्मवैलक्षण्यमूलान
तान् निर्दिशति-तत्र क्वचिदनुगाम्येव धर्मः। क्वचिच्च केवलं बिम्ब-प्रतिबिम्बभावमापन्नः। क्वचिदुभयम्
क्वचिद्वस्तुप्रतिवस्तुभावेन करम्बितं बिम्ब-प्रतिबिम्बभावम् । क्वचिदसन्नप्युपचरितः
क्वचिच्च केवलशब्दात्मकः
तत्रानुगामिधर्मयुक्तामुपमामुदाहर्तुमाह-तत्राद्यो यथा-उदाहरणं निर्दिश्यते-‘शरदिन्दुरिवाह्लादजनको रघुनन्दनः

वनस्रजा विभातिस्म सेन्द्रचाप इवाम्बुदः॥

उपपादयति-अत्र पूर्वार्धे सकृन्निर्देशाद्धर्मोऽनुगामी
द्वितीयभेदस्योदाहरणभूतं पूर्वोक्तपद्यं स्मारयति-केवलबिम्ब-प्रतिबिम्बभावापन्नः ‘कोमलातपशोणाभ्र-’इत्यत्र बोध्यः
उभयविधधर्मयुक्तामुपमां प्रकटयति-द्वितीयार्धे तूभयम्
तृतीयो भेदः पुनस्त्रिधा विभज्यते-तृतीयोऽपि त्रिविधः-विशेषणमात्रयोर्विशेष्यमात्रयोस्तद्युगलयोर्वा वस्तुप्रतिवस्तुभावे
करम्बितः
तेषु विशेषणमात्रगतवस्तुप्रतिवस्तुभावेन करम्बणमुदाहर्तुमाह-तत्राद्यो यथा-उदाहरणं निर्दिश्यते-‘चलद्भृङ्गःमिवाम्भोजमधीरनयनं मुखम्
तदीयं यदि दृश्येत कामः क्रुद्धोऽस्तु किं ततः॥

उपपादयति-अत्र चलनाधीरत्वयोर्विशेषणयोर्वस्तुत एकरूपयोरपि शब्दद्वयेनोपादाना-द्वस्तुप्रतिवस्तुभावः
तद्विशेषणकयोश्च भृङ्गःनयनयोर्बिम्बप्रतिबिम्बभावः। इति तत्करम्बितोऽयमुच्यते
केवलविशेष्यगतवस्तुप्रतिवस्तुभावकरम्बणमुदाहर्तुमाह-तत्र द्वितीयो यथा-उदाहरणं निर्दिश्यते-‘आलिङ्गिःतो जलधिकन्यकया सलीलं
लग्नः प्रियङ्गुलतयेव तरुस्तमालः
देहावसानसमये हृदये मदीये
देवश्चकास्तु भगवानरविन्दनाभः॥

उपपादयति

अत्रालिङ्गिःतत्वलग्नत्वयोर्वस्तुप्रतिवस्तुभावः। तद्विशेष्यकयोश्च जलधिकन्या-प्रियङ्गुलतयोर्बिम्ब-प्रतिबिम्बभावः। इत्ययमपि तत्करम्बित एव
तृतीयभेदस्य तृतीयमुपभेदमुदाहर्तुमाह-तत्र तृतीयो यथा-उदाहरणं निर्दिश्यते-‘दशाननेन दृप्तेन नीयमाना बभौ सती
द्विरदेन मदान्धेन कृष्यमाणेव पद्मिनी ॥

उपपादयति-अत्र विशेषणयोर्दृप्तत्वमदान्धत्वयोर्विशेष्ययोश्
नीयमानत्वकृष्यमाणत्वयोर्वस्तुप्रतिवस्तुभावेनोभयतः सम्पुटित
दशाननद्विरदयोर्बिम्बप्रतिबिम्बभावः। इत्ययमपि तत्करम्बितः
साधारणधर्मवैचित्र्यमूलका उपमायाः पञ्च भेदाः परिगणिताः, इदानीं तस्यास्तन्मूल
एवारुचिग्रस्तः षष्ठो भेद उच्यते-‘विमलं वदनं तस्या निष्कलङ्कःमृगाङ्कःति’ इत्यत्र वैमल्यनिष्कलङ्कःत्वयोर्वस्तु
एकरूपयोर्बिम्बप्रतिबिम्बभावनिर्मुक्तं वस्तुप्रतिवस्तुभावमापन्नयोरुपमानिष्पादकत्वं यद्यस्त
तदा शुद्धं वस्तुप्रतिवस्तुभावमापन्नोऽप्येष षष्ठो धर्मः
‘विमलं वदनम्-’ इत्यादौ वस्तुप्रतिवस्तुभावाङ्गीकारस्यावश्यकतैव नास्तीत्याशङ्क्
समाधत्ते-न च ‘कोमलातपशोणाभ्रसन्ध्याकालसहोदरः’इत्यादौ यतिसन्ध्याकालयोरुपमाया
धर्मान्तरस्यानवगमात् कुङ्कुमालेपकषायवसनयोः कोमलातपशोणाभ्रयोश्
बिम्बप्रतिबिम्बभावो यथावश्यमभ्युपेयः, प्रकृते तु न तथा वस्तुप्रतिवस्तुभावः
वदनमृगाङ्कःयोः सौन्दर्यरूपसाधारणधर्मस्य प्रतीयमानत्वेन धर्मान्तरानपेक्षणादिति वाच्यम्
एवं तर्हि ‘यान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या’इत
भवभूतिपद्येऽपि प्रतीयमानेन सौन्दर्येणैव सामान्येन निर्वाह
कन्धरावृन्तयोर्बिम्बप्रतिबिम्बभावस्य वलितत्वावृत्तत्वयोर्वस्तुप्रतिवस्तुभावस्य
सकलैरालङ्कारिकैः स्वीकारो विरुद्धः स्यात् । अतो यथास्थितमेव साधु
चतुर्थं भेदमुदाहर्तुमाह

उपचरितो यथा-उदाहरणं निर्दिश्यते-‘शतकोटिकठिनचित्तः सोऽहं तस्याः सुधैकमयमूर्तेः
येनाकारिषि मित्रं विकलहृदयो विधिर्वाच्यः॥

प्रकरणं बोध्यते-एषा सीतां विवासितवतः स्वात्मगता रामस्योक्तिः
उपपादयति-अत्र काठिन्यं पार्थिवो धर्मश्चित्ते उपचरितः
पञ्चमप्रभेदमुदाहर्तुमाह-केवलशब्दात्मको यथा-उदाहरणं निर्दिश्यते-‘यत्र वसन्ति सुमनसि मनुजपशौ च शीलवन्तः सर्वत्र समाना मन्त्रिणो मुनय इव ।
उपपादयति-अत्रोपमानोपमेयगतस्यार्थस्यैकस्याभावाच्छब्द एव धर्मः
धर्मवैचित्र्यमूलकभेदान्तराणामपि सम्भावनां प्रकटयत
एवमेतेषां धर्माणां व्यामिश्रणं च सम्भवति
धर्ममिश्रणप्रयुक्तसम्भावितोपमाप्रभेदोदाहरणं प्रतिज्ञापुरस्सरं निर्दिश्यते-यथा-‘श्यामलेनाङ्किःतं भाले बाले केनापि लक्ष्मणा
मुखं तवान्तरा सुप्तभृङ्गःफुल्लाम्बुजायते ॥

उपपादयति-अत्र भालगताङ्कःप्रसुप्तभृङ्गौ बिम्बप्रतिबिम्बभावमापन्नौ क्यङर्थे आचारेऽनुगामिन्यभेदमापद्
स्थितौ
तथाविधमुदाहरणान्तरमपि दर्शयति-यथा वा-‘सिन्दूरारुणवपुषो देवस्य रदाङ्कुरो गणाधिपतेः
सन्ध्याशोणाम्बरगतनवेन्दुलेखादितःपातु ॥

उपपादयति-अत्र सिन्दूरसन्ध्याभ्यां गणाधिपगगनाभ्यां च बिम्बप्रतिबिम्बभावामापन्नाभ्यां [धर्माभ्यां
सम्पादिताभेदेन विशिष्टधर्मेणाभेदेनावस्थितः क्यङर्थोऽनुगामी
धर्ममिश्रणस्य प्रकारान्तरं दर्शयति-क्वचिद्धेतुहेतुमद्भावेन
उदाहरणं निर्देष्टुमाह-यथा-उदाहरणं निर्दिश्यते-‘खलः कापट्यदोषेण दूरेणैव विसृज्यते
अपायशङ्किःभिर्लोकैर्विषेणाशीविषो यथा ॥

उपपादयति-अत्र कापट्यं विषं च बिम्ब-प्रतीबिम्बतां गतं दूरतो विसर्जनेना-नुगामिनि गेतुः
हेतुहेतुमद्भावेन धर्मयोर्मिश्रणस्योदाहरणान्तरं दर्शयितुमाह-यथा वा-उदाहरणं निर्दिश्यते-‘रूपवत्यपि च क्रूरा कामिनी दुःखदायिनी
अन्तः काटवसम्पूर्णा सुपक्वेवेन्द्रवारुणी ॥

उपपादयति-अत्र रूपवत्त्वदुःखदायित्वयोद्र्वयोरनुगामिनोर्मध्ये क्रौर्यकाटवे बिम्बप्रतिबिम्बभावापन्न
दुःखदायित्वेन सह हेतुहेतुमद्भावेन मिश्रिते, अपरेण तु शुद्धसामानाधिकरण्येन
उपसंहरति-एवमन्यैरपि व्यामिश्रणं बोध्यम्
उपमाया उक्तेभ्यो भेदेभ्योऽन्येऽपि भेदाः संभवन्तीति सूचयितुमाह-प्रकारान्तरं च लक्ष्यानुसारेण सुधीभिः स्वयमुन्नेतुं शक्यम्
स्वयमुन्नेयत्वेनोक्तं प्रकारान्तरमुपमाया दर्शयितुमाह-यथा-उदाहरणं निर्दिश्यते

‘यथा लतायाः स्तबकानतायाः स्तनावनम्रे नितरां समाऽसि
तथा लता पल्लविनी सगर्वे शोणाधरायाः सदृशी तवापि ॥

उपपादयति-अत्र स्तनावनम्राहं स्तबकानताया लताया उपमानमस्मीति गर्वं मा विदध्याः। यत
शोणाधराया उपमेयायास्तवापि पल्लविनी लतोपमानं भवतीति वाक्यार्थ
यथातथापदप्रतिपाद्या कान्तोपमानिका लतोपमेयिकोपमा निष्पादिका । अस्यां चोपमा या
निरूपकतासम्बन्धेनोपमानोपमेयगते द्वे उपमे समसदृशशब्दाभ्यां प्रतिपादिते बिम्ब-प्रतिबिम्बभावमापन्ने साधारणधर्मतया स्थिते । तत्र निरूपकतासम्बन्धे
प्रधानीभूतोपमोपमानकान्तागतायामुपमायां प्रतिबिम्बभूताया
गुच्छस्तनयोर्वस्तुप्रतिवस्तुभावापन्ननमननम्रीभवन-विशेषणयोर्बिम्बप्रतिबिम्बभा-वमापन्नयोः साधारणधर्मत्वम् । एवं तेनैव सम्बन्धेन लतारूपोपमेयगताया
बिम्बभूतायामुपमायामधरपल्लवयोः
आशङ्क्य समाधत्ते-न च तेन सदृश इत्यादौ तन्निरूपितसादृश्याश्रयस्योपमेयस्य, तस्य सदृश इत्यादौ
तत्सम्बन्धिसादृश्याश्रयस्योपमानस्य प्रतीतेः सिद्धत्वात्प्रकृते
सदृशीतिशब्दान्निवेद्यमानेऽप्युपमानभावे कथं नाम लताया उपमेयतेति वाच्यम्
सदृशशब्दप्रतिपाद्यधर्मभूतोपमायामुपमानत्वेऽपि यथातथाशब्दवेद्योपमायां लताय
उपमेयभावे बाधकाभावात्
पुनः प्रकारान्तरं सूचयति-एवमन्येऽपि प्रकाराः
तत्प्रकारान्तरमेवोदाहरणप्रदर्शनेन स्पष्टयति-‘यथा तवाननं चन्द्रस्तथा हासोऽपि चन्द्रिका
यथा चन्द्रसमश्चन्द्रस्तथा त्वं सदृशी तव ॥

उपसंहरति-एभिर्भेदैः प्रागुक्तानां सधर्माणां भेदानां यथासम्भवं गुणने बहुतरा भेदा भवन्ति
पुनः प्रकारान्तरेण उपमाया भेदं कुरुते

तथा धर्माणां वाच्यतायां वाच्यधर्मा बहुधोक्ता । व्यङ्ग्यत्वे व्यङ्ग्यधर्मा धर्मलोपे गदितैव
लक्ष्यतायां यथा-उदाहरणं निर्दिश्यते-‘सर्प इव शान्तमूर्तिः श्वेवायं मानपरिपूर्णः
क्षीब इव सावधानो मर्कट इव निष्क्रियो नितराम् ॥

उपपादयति-इत्यत्रोपमानमहिम्ना शान्तमूत्र्यादिशब्दैर्विरुद्धा धर्मा लक्ष्यन्ते
उपमाया उपस्कारकत्वं पर्यालोचयितुमाह-इयं चोपमा मुख्यार्थस्य क्वचित्साक्षादुपस्कारिणी क्वचिच्चोपस्कारकान्तरोपस्करणद्वारा
तत्र साक्षादुपस्कारिणी प्राग् बहुधोदीरिता
परम्परयोपस्कारिकामुपमामुदाहर्तुमाह-परम्परया यथा-उदाहरणं निर्दिश्यते-‘नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजा
पठन्ति विरुदावलोमहितमन्दिरे बन्दिनः
इदं तदवधि प्रभो यदवधि प्रवृद्धा न त
युगान्तदहनोपमा नयनकोणशोणद्युतिः॥

उपपादयति-अत्र मुख्यार्थस्य राजविषयायाः कविरतेरुपस्कारकस्य यदैव तव कोपोदयस्तदैव रिपूणा
सम्पदो भस्मसाद् भविष्यन्तीति वस्तुन उपस्कारिका नयनकोणशोणद्युतेर्युगान्तदहनोपमा
भेदान्तरप्रतिपादनाय स्पष्टीकुरुते-इयं चेवयथावादिशब्दैर्वाचकैः प्रतिपादिता वाच्यालङ्कारः। लक्ष्यापि चालङ्कुर्वाणा दृश्यते
वाच्योपमाया उदाहरणानि पूर्वोदाहृतानि सर्वाणि पद्यानि । लक्ष्योपमाया उदाहर
प्रदर्शनायाह-यथा-उदाहरणं निर्दिश्यते-‘नीवीं नियम्य शिथिलामुषसि प्रकाश

मालोक्य वारिजदृशः शयनं जिहासोः
नैवावरोहति कदापि च मानसान्म
नाभेर्निभा सरसिजोदरसोदरायाः॥

उपपादयति-अत्रैकोदरप्रभवत्वरूपस्य मुख्यार्थस्य बाधात्तदीयशोभालक्षणसमानांशहरत्वस्य प्रयोजनस्
सत्त्वात्सोदरपदेन सदृशो लक्ष्यते । आर्थी च तत्रोपमा प्रतीयमाना । अवरोहतिलक्ष्यस्
विषयतया स्मृतिशून्यीभवनस्य निषेधेन प्रतीयमानायाः स्मृतेरुपस्कारिका
लक्ष्योपमाबोधशब्दान्तराणि निर्दिश्यन्ते-एवं प्रतिभटप्रतिमल्लादिशब्दानां तदीयन्यग्भवनतदीयशोभारूपसर्वस्वापहरणादे
प्रयोजनस्य सत्त्वात्सादृश्यवति लक्षणैव, न व्यञ्जना । मुख्यार्थस्य बाधात् । प्रयोजन
पुनव्र्यञ्जनैवेति
व्यङ्ग्यत्वेऽप्युपमाया अलङ्कारत्वं समर्थयति-क्वचिद् व्यङ्ग्यापि चेयमुपमालङ्कारः
उदाहरणं निर्देष्टुमाह-यथा-उदाहरणं निर्दिश्यते-‘अद्वितीयं रुचात्मानं मत्वा किं चन्द्र हृष्यसि
भूमण्डलमिदं मूढ केन वा विनिभालितम् ॥

प्रसङ्गःमवगमयति-कस्यचिद्विदेशस्थितस्य किरणैरात्मानं सन्तापयन्तं चन्द्रं प्रत्येषोक्तिः
उपपादयति-अत्र च अस्ति मम प्रियायाः कदापि बहिरनिर्गतायाः, अत एव त्वयाप्यदृष्टाया आनन
त्वत्सदृशमिति प्रतीयमाना उपमा मूढपदेन ध्वन्यमानायां चन्द्रविषयाया
वक्तृगतायामसूयायामलङ्कारः
दीक्षितमतं समीक्षते-एतेनाप्पय्यदीक्षितैरुपमालक्षणे दत्तमव्यङ्ग्यत्वविशेषणमयुक्तमेव। नह
व्यङ्ग्यत्वालङ्कारत्वयोरस्ति कश्चिद्विरोधः। प्राधान्येन व्यङ्ग्यतायां त

प्रधानत्वालङ्कारत्वयोर्विरोधादलङ्कारलक्षणं तत्र मातिप्रसाङ्क्षीदित्युपस्कारकत्वे
पुनिर्विशेषणीयम्, न त्वव्यङ्ग्यत्वेन, प्रागुक्तायामसूयालङ्कारोपमायामव्याप्त्यापत्तेः
विशिष्टोपमादिस्थले विशेषणाद्युपमानां वाच्यसिद्ध्यङ्गःतया गुणीभूतव्यङ्ग्यत्वम्
सिद्धार्थस्योपस्करणाभावात्तु नालङ्कारत्वमिति न काप्यसङ्गःतिः
पुनरन्यामप्पय्यदीक्षितोक्तिं समीक्षते-यच्चापि ‘‘सेयमुपमा संक्षेपतस्त्रिविधा-क्वचित्स्ववैचित्र्यमात्रविश्रान्ता । यथ
‘सच्छिन्नमूलः क्षतजेन रेणुः ’इत्यादौ । क्वचिदुक्तार्थोपपादनपरा । यथ
‘अनन्तरत्नप्रभवस्य ’इत्यादौ । क्वचिद् व्यङ्ग्यप्रधाना सा’’इति तैरे
द्रविडशिरोमणिभिरभ्यधीयत । तदप्यहृद्यमेव । नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुख
तव’इति वाच्यवस्तूपस्कारिकायाः शरदिन्दूपमाया अक्रोडीकरणात् । अलङ्कारभूतोपमास
स्ववैचित्र्यमात्रविश्रान्ताया उपमायाःसङ्ग्रहे को नाम ध्वन्यमानायास्तस्य
निरासायाव्यङ्ग्यत्वविशेषणदानदुराग्रहः? अहो महदेवेदमन्याय्यम्-यदलक्षणीयाया
सङ्ग्रहः, लक्षणीयायाश्चासङ्ग्रह इति । प्राचीनानां तूपमासामान्यं लक्षयतां ध्वन्यमा नय
इवास्या अपि सङ्ग्रहो नानुचितः। न तु स्वस्ययत्नेन ध्वन्यमानोपमां निरस्
कण्ठरवेणालङ्कारभूतोपमालक्षकस्य । यदि च प्रबन्धव्यङ्ग्योपस्कारकत्वेनेयं सङ्गृह्य
इत्युच्यते, तदा ‘स्ववैचित्र्यमात्रविश्रान्ता’’इति स्वोक्तिविरुद्धा स्यात्। ‘अनन्तरत्नप्रभवस्य
इत्यत्र गुणसमूहसमानाधिकरण एको दोषो दोषत्वेन न स्फुरतीत्यस्यार्थस्
पूर्वार्धप्रतिपादितार्थसमर्थनात्मकस्य सामान्यरूपस्य विशेषरूपोदाहरणप्रदर्शनमन्तरे
सम्यगनाकलनादिन्दुकिरणसमानाधिकरणोऽङ्कः उदाहृतः, न तूपमानतया निर्दिष्टः
सामान्याद्विशेषस्य भेदाभावेनोपमितिक्रियाया अनिष्पत्त्य
उपमालङ्कृतेरत्रानवतारादुदाहरणालङ्कारोऽयमतिरिक्तः। यथा ‘इको यणचि’इति वाक्यार्थस्
सामान्यस्य विज्ञानायोदकोकारे दधीकारस्य य इति वाक्यान्तरेण तद्विशेष उदाह्रियत
तद्वदत्रापीति तत्प्रसङ्गे विवेचयिष्यामः
पुनः दीक्षितोक्तिमेवालोचयति-यच्चाप्पय्यदीक्षितैः‘लुप्तायां तु नैवं भेदाः। तस्या
साधारणधर्मस्यानुगामितानियमात्’’इत्युक्तम्, तन्न । ‘मलय इव जगति पाण्डुर्वल्मी

इवाधिधरणिधृतराष्ट्रः’ ’ इत्यत्रानुगामिधर्मस्याप्रत्ययाच्चन्दनानां पाण्डवानाम्, सर्पाणा
दुर्योधनादीनां च बिम्बप्रतिबिम्बभावस्यैव प्रतिपत्तेः
अत्र बिम्बप्रतिबिम्बभावस्यासम्भवमाशङ्क्य समाधत्ते-न च शब्देनोपात्तत्वं बिम्बप्रतिबिम्बभावे तन्त्रमित्याग्रहो विदुषामुचितः। श्रौतत्वाथर्त्वाभ्या
बिम्बप्रतिबिम्बभावस्य द्वैविध्यौचित्यात् । अत एवाप्रस्तुतप्रशंसाद
प्रकृताप्रकृतवाक्यार्थयोरौपम्यमवयव-बिम्बप्रतिबिम्बभावमूलं सङ्गःच्छते
पुनः प्रकारान्तरेणोपमाया अष्टौ भेदान् प्रदर्शयति-इयमपि रूपकवत्केवलनिरवयवा, मालारूपनिरवयवा, समस्तवस्तुविषय-सावयवा
एकदेशविवर्तिसावयवा, केवलश्लिष्टपरम्परिता, मालारूपश्लिष्टपरम्परिता
केवलशुद्धपरम्परिता, मालारूपशुद्धपरम्परिता चेत्यष्टधा
एतद्भेदाष्टकगतं केवलत्वं निरवयवत्वञ्च विवृणुते-तत्रोपमायां केवलत्वं मालानन्तर्गतत्वं निरवयवत्वं चोपमान्तरनिरपेक्षत्वम्
अन्यभेदोदाहरणप्रदर्शनायास्य भेदस्योदाहृतत्वं प्रकटयति-इयं च शतशः प्रागेवोदाहृता
द्वितीयभेदमुदाहर्तुमाह-मालारूपनिरवयवा यथा-उदाहरणं निर्दिश्यते-‘आह्लादिनी नयनयो रुचिरैन्दवी
कण्ठे कृतातिशिशिराम्बुजमालिकेव
आनन्दिनी हृदि गता रसभावने
सा नैव विस्मृतिपथं मम जातु याति ॥

द्वितीयभेदस्यैवोदाहरणान्तरं निर्देष्टुमाह-यथा वा-उदाहरणं निर्दिश्यते-‘कलेव सूर्यादमला नवेन्दोः कृशानुपुञ्जात्प्रतिमेव हैमी
विनिर्गता यातुनिवासमध्यादध्याबभौ राघवधर्मपत्नी ॥

उभयोः पद्ययोर्वक्तव्यमुपपादयति

पूर्वमनुगामिना धर्मेण भिन्नदेशकालावच्छेदेन, अत्र तु बिम्बप्रतिबिम्ब-भावमापन्नेनैकदेशकालावच्छेदेनेति विशेषः। अत्राधिकदीप्तिरूपे वाक्यार्थे उपम
उपस्कारिके । आत्यन्तिकविनाशहेतुत्वेन देदीप्यमानत्वेन च साधारण्येन सूर्यमण्डलस्य
निष्कलङ्कःताभिव्यञ्जकत्वेन भस्मीभवनहेतुत्वेन कृशानुपुञ्जस्य च लङ्काप्रतिबिम्बता
मालारूपत्वं चात्रैकोपमेयकानेकोपमासामानाधिकरण्यात्
तृतीयभेदमुदाहर्तुमाह-समस्तवस्तुविषया सावयवा यथा-उदाहरणं निर्दिश्यते-‘कमलति वदनं यस्यामलयन्त्यलका मृणालतो बाहू
शैवालति रोमावलिरद्भुतसरसीव सा बाला ॥

तस्यैव प्रभेदस्योदाहरणान्तरं दातुमाह-यथा वा-उदाहरणान्तरं निर्दिश्यते-‘ज्योत्स्नाभमञ्जुहसिता सकलकलाकान्तकान्तवदनश्रीः
राकेव रम्यरूपा राघवरमणी विराजते नितराम् ॥

पद्यद्वयेऽपि समासेन वक्तव्यं विवृणोति-अत्र सर्वेषामुपमानानां शब्दैरेवाभिधानात् समस्तवस्तुविषया, अङ्गोपमा-भिनिष्पाद्यमानत्वाच्च साङ्गा भवति
चतुर्थं भेदमुदाहर्तुमाह-एकदेशविवर्तिनी सावयवा यथा-उदाहरणं निर्दिश्यते-‘मकरप्रतिमैर्महाभटैः कविभी रत्नसमैः समन्वितः
कविताऽमृतकीर्तिचन्द्रयोस्त्वमिहोर्वीरमणासि कारणम् ॥

उपपादयति-अत्रोत्तरार्धे उपमितसमास एव, विशेषणसमासवेद्यस्य तादात्म्यस्य प्रकृतेऽनुपयोगात् ।राज्ञ
जलधेरुपमाशब्देनानभिहिताऽप्यङ्गोपमाभिराक्षिप्ता प्रतीयते
इत्येकदेशविवर्तनादेकदेशविवर्तिनी

पञ्चमं भेदमुदाहर्तुमाह-केवलश्लिष्टपरम्परिता यथा-उदाहरणं निर्दिश्यते-‘नगरान्तर्महीन्द्रस्य महेन्द्रमहितश्रियः
सुरालये खलु क्षीबा देवा इव विरेजिरे ॥

उपपादयति-अत्र श्लेषोपस्थापितेन सुमेरुणा मदिरागारस्योपमा क्षीबानां देवोपमाया उपाय इत
श्लिष्टपरम्परिता, अन्योन्योपायतारूपसैव परम्परितत्वस्येह परिभाषणात्
मालारूपताविरहाच्च केवला
षष्टं भेदमुदाहर्तुमाह-मालारूपश्लिष्टपरम्परिता यथा-उदाहरणं निर्दिश्यते-‘महीभृतां खलु गणे रत्नसानुरिव स्थितः
त्वं काव्ये वसुधाधीश वृषपर्वेव राजसे ॥


उपपादयति-अत्र श्लेषोपस्थिताभ्यां पर्वतशुक्राभ्यां राजकाव्ययोरुपमे मेरुवृषपर्वभ्यां राज्
उपमयोरुपायः
आशङ्क्य समाधत्ते-नन्वत्र पर्वतानामिव राज्ञां शुक्र इव कवित्वे इत्येवंरूपा उपमा कथं प्रत्येतुं शक्या
उपमानोपमेयशब्दयोः पार्थक्याभावादिति चेत्, श्लेषे ह्येकशब्दोपात्तत्वे
रूपेणाभेदाध्यवसानस्येव तेनैव सादृश्याध्यवसानस्यापि सुवचत्वात्, तस्यैव च प्रकृत
प्रयोज्योपमानुकूलत्वात्
सप्तमं भेदमुदाहर्तुमाह-केवलशुद्धपरम्परिता यथा-उदाहरणं निर्दिश्यते-‘राजा युधिष्ठिरो नाम्ना सर्वधर्मसमाश्रयः
द्रुमाणामिव लोकानां मधुमास इवाभवत् ॥


अष्टमं भेदमुदाहर्तुमाह-मालारूपशुद्धपरम्परिता यथा-उदाहरणं निर्दिश्यते-‘मृगतां हरयन्मध्ये वृक्षतां च पटीरयन्
ऋक्षतां सर्वभूतानां त्वमिन्दवसि भूतले ॥

विशेषमाह-उपमानयोः परस्परमुपमेययोश्चानुकूल्ये उपमयोरेषोपायता निरूपिता
तथाविधमुदाहरणं प्रदर्शयितुमाह-प्रातिकूल्ये उपायता यथा-उदाहरणं निर्दिश्यते-‘राजा दुर्योधनो नाम्ना सर्वसत्त्वभयङ्कःरः
दीपानामिव साधूनं झञ्झावात इवाभवत् ॥

उपपादयति-अत्रोपमानयोर्दीपझञ्झावातयोरन्योन्यमुपमेययोश्च साधुदुर्योधनयोः प्रातिकूल्येऽप्युपमयो
परस्परमानुकूल्यादुपायतैव
प्रागुदाहृता प्रातिकूल्ये केवलपरम्परितोपमा इदानीं मालारूपा सा प्रातिकूल्ये उदाह्रियते-एवम्- ‘सरोजतामथ सतां शिशिरर्तवताधुना
दर्भतां सर्वधर्माणां राज्ञानेन विदर्भितम् ॥

इत्यादौ मालारूपतायामपि
उपमाया भेदान्तरं विवृणोति-उपमेयानां स्वस्वोपमानानुपमानानामुपमानताया रशनोपमा
रशनोपमामुदाहर्तुमाह-यथा-उदाहरणान्तरं निर्दिश्यते-‘वागिव मधुरा मूर्तिर्मूर्तिरिवात्यन्तनिर्मला कीर्तिः
कीर्तिरिव जगति सर्वस्तवनीय मतिरमुष्य विभोः॥

पूर्वोदाहरणगतं विशेषमाह

इयं धर्मभेदे
धर्मैक्ये रशनोपमामुदाहर्तुमाह-धर्मैक्ये तु-उदाहरणं निर्दिश्यते-‘भूधरा इव मत्तेभा मत्तेभा इव सूनवः
सुता इव भटास्तस्य परमोन्नतविग्रहाः।
रशनोपमां धर्मलुप्तामुदाहर्तुमाह-धर्मलोपे तु तस्येत्यस्यानन्तरम् ‘भटा इव युधि प्रजाः ’इति बोध्यम्
उपसंहरति-इयमेवंभेदा प्राचीनैर्भेदैर्गुणने वागगोचरं भूमानं भजमाना नेयत्तामर्हतीति दिक्
उपमाया ध्वनित्वमाह-एषैव च यदा सकलेन वाक्येन प्राधान्येन ध्वन्यते तदा परिहृतालङ्कार-भाव
ध्वनिव्यपदेशहेतुः
ननु ध्वन्यमानायामपि उपमायाम् ‘अलङ्कारध्वनिः’ इति रीत्याऽलङ्कारव्यवहारो भवति सोऽधुन
कथं सङ्गःच्छतामित्यत आह-अस्यां चालङ्कारव्यपदेशः कदाप्यलङ्कारभावमप्राप्तेषु मञ्जूषादिगतेष
कटकादिष्विवालङ्कुर्वाणगतधर्ममात्रसंस्पर्शनिबन्धनः
उपमाध्वनिं विभजते-क्वचिदसौ शब्दशक्तिमूलानुध्वननविषयः। क्वचिदर्थशक्तिमूलानुध्वननविषयः
प्रथमं प्रकारमुदाहर्तुमाह-आद्यो यथा-उदाहरणं निर्दिश्यते-‘अविरलविगलद्दानोदकधारासारसिक्तधरणितलः
धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमोऽयम् ॥

उपमाध्वनेरुदाहरणान्तरं निर्देष्टुमाह-यथा वा-उदाहरणं निर्दिश्यते

‘विमलतरमतिगभीरं सुपवित्रं सतत्त्ववत्सुरसम्
हंसावासस्थानं मानसमिह शोभते नितराम् ॥

उपपादयति-अत्रानेकार्थानामपि शब्दानां प्रकरणेन कृतेऽपि शक्तिसङ्कोचे तन्मूलकेन ध्वनने
प्रतीयमानस्य, सरोवररूपस्यार्थान्तरस्याप्रस्तुतस्याभिधानं मा भूदित
प्रकृताप्रकृतयोरुपमानोपमेयभावः प्रधानवाक्यार्थतया कल्प्यते
द्वितीयं प्रकारमुदाहर्तुमाह-द्वितीयो यथा-उदाहरणं निर्दिश्यते-‘अद्वितीयं रुचात्मानं दृष्ट्वाकिं चन्द्र दृप्यसि
भूमण्डलमिदं सर्वं केन वा परिशोधितम् ॥

उपपादयति-अत्र मूढादिपदाप्रयोगादसूयादेरप्रत्ययान्मुख्यतयोपमैव व्यङ्ग्या
इदानीमुपमास्थलीयशाब्दबोधविचारमारभते-अथात्र सादृश्यस्य पदार्थान्तरत्वे बोधो विचार्यते-अरविन्दसुन्दरमित्यत्रारविन्दनिरूपितसादृश्यप्रयोजकं लक्ष्यते । तच्च सुन्दरपदार्थैकदेशे
सौन्दर्येणाभेदसंसर्गेणान्वेति । तेनारविन्दनिरूपितसादृश्यप्रयोजकाभिन्नसौन्दर्यवदभिन्नमित
धीः। निपातातिरिक्तनामार्थयोर्भेदान्वयस्याव्युत्पन्नत्वादभेदानुसरणम् । एकदेशान्वयस्त
देवदत्तस्य नप्तेत्यादाविवात्राप्यभ्युपेयः। ‘समासस्यैव विशिष्टार्थे शक्तिः’इत्येके
‘अरविन्दपदमेव लक्षणया सर्वार्थबोधकं सुन्दरपदं तु तात्पर्यग्राहकम् ’इत्यपरे
शाब्दबोधप्रदर्शनपुरस्सरं द्वितीयमुपमाप्रतिपादकं वाक्यमुल्लिखति-तथा अरविन्दमिव सुन्दरमित्यत्रेवार्थे सादृश्येऽरविन्दस्य निरूपितत्वसंसर्गेणान्वयः। तस्य
प्रयोजकतासंसर्गेण सौन्दर्ये एवं चारविन्दनिरूपितसादृश्यप्रयोजकसौन्दर्यवदभिन्नमिति
तदथ तथाविधं तृतीयं वाक्यमुल्लिखति-अरविन्दमिवेत्यत्र त्वरविन्दनिरूपितसादृश्यवदिति
आशंकामेकां मनसिकृत्य समाधत्ते

निपातजन्योपस्थितिप्रयोज्यप्रकारतानिरूपितविशेष्यत
निपातजन्योपस्थितिप्रयोज्यविशेष्यतान्यतरभिन्नविशेष्यतासंसर्गेण नामार्थप्रकारकबोध ए
विशेष्यतया विभक्तिजन्योपस्थितेर्हेतुत्वादिवार्थस्य नञर्थस्येव भेदसंसर्गे
नामार्थविशेष्यत्वे विशेषणत्वे च न दोषः
तथाविधं चतुर्थं वाक्यं समुल्लिखति-अरविन्दमिव भातीत्यत्रारविन्दनिरूपितसादृश्यस्य प्रकारतासम्बन्धे
धात्वर्थेऽन्वयादरविन्दसादृश्यप्रकारकधीविशेष्य इति
पञ्चमं तथाविधं वाक्यमुपदर्शयति-तत्रैव सौन्दर्येणेति धर्मोपादाने तृतीयार्थः प्रयोज्यत्वं धात्वर्थे भाने इवार्थे सा दृश्ये वान्वेत
। तेन सौन्दर्यप्रजोज्यारविन्दनिरूपितसादृश्यप्रकारकधीविशेष्य इति
तथाविधं षष्ठं वाक्यमुपदर्शयति-तथा गज इव गच्छति, पिक इव रौतीत्यादावुपमानपदानां तत्कर्तृकक्रियायां लक्षणय
गजादिगमनादिसदृशगमनाद्यनुकूलकृतिमानिति
आशङ्कःते-ननु घटो न पश्यतीत्यत्र घटान्विताभावस्य दर्शने कर्मतासंसर्गेणान्वयवारणा
धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासंसर्गेण शाब्दबोधं प्रति विशेष्यतय
विभक्त्यर्थोपस्थितेर्हेतुत्वम् । एवं च गज इव गच्छति, पिक इव रौतीत्यादौ नेवाद्यर्थ स्
सादृश्यस्य धात्वर्थेऽन्वयः सम्भवति । तस्माद्गजादिसादृश्यस्य गमनादिकर्तर्येवान्वय
स्वगमनादिसदृशगमनादिकर्तृत्वेन समानधर्मेण । इत्थमे
चाख्यातवादशिरोमणिव्याख्यातृभिरपि सिद्धान्तितमिति चेत्
समाधत्ते-नैवम्, गज इव गच्छतीत्यत्र सादृश्यस्य विधेयतया प्रतीतेरपलापापत्तेः। गज इव यः पुरुष
स गच्छति, पुरुषो यः स गज इव गच्छतीति वाक्याभ्यां भिन्नप्रतीत्योरानुभविकत्वात्
एवं वनं गज इव गृहं देवदत्तो गच्छतीत्यादौ वनादेः सर्वथैवानन्वयापत्तेश्च । एव
बिम्बप्रतिबिम्बभूतस्य कारकमात्रस्यानन्वयो बोध्यः
तस्माद्गजनिरूपितसादृश्यप्रयोजकगमनाश्रय इत्येव गज इव गच्छतीत्यत्र धीः
कारकोपादाने तूपमानपदानां तत्कर्तृकक्रियायां लक्षणेत्येव साधु

पुनः पूर्वोक्तशङ्कासमाधानावान्तरशङ्कासमाधाने आह-न च प्रागुक्तकार्यकारणभावस्य धात्वर्थनिष्ठेत्यादेव्र्यभिचारः, तस्यानङ्गीकारात् । अङ्गीकार
च तूष्णीमारात्पृथगित्याद्यर्थानां धात्वर्थान्वयोऽनुभवसिद्धोऽपलपनीयः स्यात्
पुनरवान्तरशङ्कासमाधान एव तन्यते-कथं तर्हि घटो न पश्यतीत्यादौ घटाभावं पश्यतीति नान्वयबोधः
धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासंसर्गेणान्वयबोधं प्रति नञ्जन्योपस्थितिमात्रस्
प्रतिबन्धकत्वकल्पनात् । धात्वर्थस्य नामार्थभिन्नत्वेन विशेषणं तु द्वयोस्तुल्यम् । तेन पाक
न याग इत्यादौ न व्यभिचारः । इत्यलमप्रसक्तविचारेण
तथाविधं सप्तमं वाक्यं निर्दिशति-अथारविन्दतुल्यो भातीत्यत्र कथं धीः। तुल्यपदार्थस्य निपातभिन्ननामार्थत्वेन धात्वर्थ
भेदेनान्वयायोगात् । तादृशतुल्यत्वादेर्भानोद्देश्यतावच्छेदकत्वे भानमात्रविधेयताया
विवक्षितार्थाप्रतीतिः । न च तुल्यपदेन तुल्यत्वप्रकारको लक्षणयोपस्थापितो ह्यभेदे
धात्वर्थेऽन्वेष्यतीति वाच्यम् । क्रियाविशेषणत्वेनारविन्दतुल्यशब्दस्य नपुंसकत्वापत्तेरित
चेत्, व्याकरणस्य सिद्धानुवादकत्वेन स्तोकं पचतीत्यादिमात्रविषयत्वे
क्रियाव्ययविशेषणानां क्लीबतेष्यते इत्यस्योपपत्तेः । धातोरेव लक्षणय
सकलार्थबोधकत्वमितरस्य तात्पर्यग्राहकतेत्यपि केचित्
तथाविधमष्टमं वाक्यं निर्दिशति-अरविन्दवत्सुन्दरमित्यत्र वतेः ‘तेन तुल्यम्-’ इति विहितस्य सादृश्य- वदर्थकस्
सादृश्ये लक्षणा । तस्य च सुन्दरपदार्थैकदेशेन सुन्दरत्वेनान्वयादरविन्दमिव सुन्दरमित्यत्रे
बोधः। एकत्र शक्त्याऽपरत्र लक्षणया च सादृश्यप्रतिपादनाच्छ्रौत्यार्थी च
तथाविधं नवमं वाक्यं निर्दिशति-अरविन्दवन्मुखमित्यत्र त्वरविन्दनिरूपितसादृश्यवदभिन्नमिति
तथाविधं दशमं वाक्यं समुल्लिखति-अरविन्दवत्सौन्दर्यमस्येत्यत्रारविन्दशब्दस्यारविन्दसौन्दर्यलाक्षणिकतयाऽर-विन्दसौन्दर्यनिरूपितसादृश्याधिकरणमेतत्सम्बन्धि सौन्दर्यमिति मुखारविन्दसौन्दर्ययो
सादृश्यबोधे शाब्दे, तयोरभेदाध्यवसायादभिन्नधर्ममूला पश्चान्मुखारविन्दयोरपि सादृश्यधीः
तथाविधमेकादशवाक्यं विवेचयति

अरविन्देन तुल्यमित्यत्र तृतीयार्थो निरूपितत्वम् । तस्य च सादृश्येऽन्वया-दरविन्दनिरूपितसादृश्याश्रयाभिन्नमिति
तादृशं द्वादशवाक्यं विवेचयितुमवतारयति-तत्रैव सौन्दर्येणेति धर्मनिर्देशे तृतीयार्थः प्रयोज्यत्वम्
तेनारविन्दनिरूपितसौन्दर्यप्रयोज्यसादृश्यवदभिन्नमिति
तथाविधं त्रयोदशवाक्यं विवेचयति-अरविन्दमाननं च सममित्यत्र प्रथमं शब्दात्सादृश्यवदभिन्नमिति बोधे पश्चान्मानस
वैयञ्जनिकी वा परस्परनिरूपितसादृश्यस्य प्रतीतिः प्रसिद्धनिरूपितसादृश्यस्य वा
बिम्बप्रतिबिम्बभावापन्नधर्मकं चतुर्दशवाक्यं विवेचयितुमाह-बिम्बप्रतिबिम्बभावापन्ने तु -तादृशं वाक्यं निर्दिश्य विवेचयति-‘कोमलातपशोणाभ्रसन्ध्याकालसहोदरः
कुङ्कुमालेपनो याति काषायवसनो यतिः॥

इत्यादौ कुङ्कुमालेपनादिविशिष्टो यतिः कोमलातपादिविशिष्टसन्ध्याकालसदृशाभिन्न इत
शक्त्या बोधे पश्चात्सादृश्यप्रयोजकधर्माकाङ्क्षायां श्रुताना
कोमलातपादीनामुपमानोपमेयविशेषणानां सादृश्यमूले तादात्म्याध्यवसान
साधारणत्वनिष्पत्तिः
पाठभेदेन बोधवैचित्र्यं दर्शयितुमाह-कुङ्कुमालेपकाषायवसनाभ्यामयं यतिरित्यत्र कुङ्कुमालेपवसनयोरसाधारणयोरप
साधारणत्वज्ञानजननद्वारा कल्पनीयसादृश्यनिष्पत्तिप्रयोजकत्वात्प्रयोज्यत्वेन सादृश्येऽन्वयः
एकदेशान्वयः पुनरेषु पक्षेष्वगतिकतयाश्रीयत इत्युक्तमेव
सादृश्यस्यातिरिक्तत्वे दिग्दर्शनविधया चतुर्दशोपमाप्रतिपादकवाक्यानां बोधा आलोचिताः
सम्प्रति तस्य समानधर्मरूपत्वे कियतां वाक्यानां बोधानालोचयितुमुपक्रमते-सादृश्यस्य समानधर्मरूपत्वे तु अरविन्दसुन्दरं वदनमित्यत्र लक्षणयाऽ-रविन्दवृत्तिसमानधर्मः प्रतीयते । तस्य चाभेदेन सुन्दरपदार्थैकदेशेन सुन्दरत्वेनान्वयः
तथाविधं द्वितीयवाक्यं प्रदर्शयति

अरविन्दमिव सुन्दरमित्यत्रारविन्दपदार्थ आधेयतया संसर्गेण इवपदार्थेन समानधर्मेणान्वेत
। शेषं प्राग्वत्
तृतीयं तादृशं वाक्यं समुल्लिखति-सौन्दर्येणारविन्देन सममित्यत्र सौन्दर्योत्तरतृतीयया धान्येन धनीत्यत्रेव अभेदार्थिकय
अन्यथा च निरूपितत्वार्थिकया सौन्दर्याभिन्नमरन्दनिरूपितं यत्सादृश्यं तद्वदभिन्नमिति धीः
लुप्तोपमास्थले बोधं विचारयति-क्यङर्थाचारो धर्ममात्रम् । तस्य चोपमानपदेन लक्षणयोपस्थितं तन्निरूपितसादृश्य
प्रयोजकतासंसर्गेणाभेदेन वा विशेषणम् । विशेष्यं चाश्रयतयोपमेयम्
क्यच्प्र्रत्ययविषये विचारयति-क्यजर्थाचारश्चानुरूपक्रियादिः
उपसंहरति-इति दिक्
इवादिरव्ययः सादृश्यद्योतको वाचको वेति विमृशति-तत्रेवादीनां द्योतकत्वमेव न वाचकत्वम्, निपातत्वादुपसर्गवत् । द्योतकत्वं
स्वसमभिव्याहृतपदान्तरेण शक्त्या लक्षणया वा तादृशार्थबोधे
तात्पर्यग्राहकत्वेनोपयोगित्वमिति वैयाकरणाः। उपसर्गाणां द्योतकत्वमावश्यकम् । अ न्यथ
उपास्यते गुरुः, अनुभूयते सुखम्, गुर्वादेर्लेनाभिधानं न स्यात् । धात्वर्थकर्मताविरहात्
इवादीनां तु वाचकत्वम्, बाधकाभात् । प्रागुक्तहेतुस्त्वप्रयोजकत्वान्न साधकः। अन्यथ
अव्ययत्वादिति हेतुना अव्ययमात्रस्यैव द्योतकतापत्तिरिति नैयायिकाः
उपमादोषानाख्यातुं प्रक्रमते-अथास्याश्चमत्कारस्यापकर्षकं यावत्तत्सर्वमपि दोषः। कविसमयप्रसिद्धिराहित्यम्
उपमानोपमेययोर्जात्या प्रमाणेन लिङ्गःसंख्याभ्यां चाननुरूप्यम्, बिम्बप्रतिबिम्बभाव
धर्माणामुपमानोपमेयगतानां न्यूनाधिकत्वम्
अनुगामितायामनुपपद्यमानकालपुरुषविध्याद्यर्थकत्वम्, एवमादि
उपमादोषानुदाहर्तुमाह-क्रमेण यथा-कविसमयप्रसिद्धिराहित्यस्योदाहरणं निर्दिश्यते

‘प्रफुल्लकह्लारनिभा मुखश्री रदच्छदःकुङ्कुमरम्यरागः
नितान्तशुद्धा तव तन्वि वाणी विभाति कर्पूरपरम्परेव ॥


उपमानोपमेययोर्जात्याऽननुरूपत्वस्योदाहरणं निर्दिश्यते-‘मुनिः श्ववदयं भाति सततं पर्यटन् महीम्
विनिवृत्तक्रियाजातः श्वापि लोके शुकायते ॥


उपमानोपमेययोः प्रमाणेनाननुरूपत्वस्योदाहरणं निर्दिश्यते-‘सरसि प्लवदाभाति जम्बीरं सुपचेलिमम्
आदिकारणतोयौघ इव ब्रह्माण्डमण्डलम् ॥


उक्तपद्ये ब्रह्माण्डमण्डलमुपमानं जम्बीरमुपमेयम्, किन्तु तयोः परिवर्तनेऽपि स दोषस्तदवस्
एवेति प्रतिपादयति-एतस्यैव किञ्चित्पदव्यत्यासे ब्रह्माण्डस्योपमेयतायां चायमेव दोषः
उपमानोपमेययोः लिङ्गःसङ्ख्याभ्यामननुरूपताया उदाहरणं निर्दिश्यते-‘द्राक्षेव मधुरं वाक्यं चरितं कौमुदी यथा
सदैवाद्र्राणि चेतांसि सुधेव सुमहात्मनाम् ॥

बिम्बप्रतिबिम्बभावापन्नधर्मस्य न्यूनताया उदाहरणं निर्दिश्यते-‘वामाकल्पितवामाङ्गो भासते भाललोचनः
शम्पया सम्परिष्वक्तो जीमूत इव शारदः॥


उपपादयति-अत्र जीमूतगता भालस्थलोचनप्रतिबिम्बो नोपात्त इति न्यूनत्वम्
दोषपरिहारोपायमाह-‘भगवान् भवः ’ इति कृते तु बिम्बस्यैवाभावान्न प्रतिबिम्बापेक्षेति साधु
बिम्बप्रतिबिम्बभावापन्नत्वयोग्यस्य धर्मस्याधिकताया उदाहरणं निर्दिश्यते-‘विष्णुवक्षःस्थितो भाति नितरां कौस्तुभो मणिः
अङ्गारक इवानेकतारके गगनाङ्गःणे ॥


उपपादयति-अत्र तारकाणां बिम्बाभावादाधिक्यम्
दोषोद्धारप्रकारमाह

‘विष्णोर्वक्षसि मुक्तालिभासुरे भाति कौस्तुभः ’’इत्यर्थे तु न दोषः
परिवर्तितपाठे उपमासिद्धिरीतिं स्फोरयति-अत्र विशेषणयोर्मुक्तालितारकागणयोर्बिम्बप्रतिबिम्बभावे
वक्षोगगनाङ्गःणयोर्विशेषणयोर्बिम्बभावः, तन्मूला चोपमा
अनुगामिधर्मस्थले कालानुपपत्तेरुदाहरणं प्रदर्शयति-‘रराज राजराजस्य राजहंसः करस्थितः
हस्तनक्षत्रसंसक्त इव पूर्णो निशाकरः॥

उपपादयति-अत्र रराजेति प्रतिपाद्ये भूतकालावच्छिन्नक्रियाविशेषे राजहंसस्यान्वय इव
निशाकरस्येत्यनुपपद्यमानकालघटितत्वं धर्मस्य
अनुगामिनः क्रियारूपस्य साधारणधर्मस्यानुपपद्यमानकालघटितत्वमेव पुनरुदाहरति-‘रणाङ्गःणे रावणवैरिणो विभोः शराः समन्ताद् वलिता विरेजिरे
निदाघमध्यं दिनवर्तिनोऽम्बरे सहस्रभानोः प्रखराः करा इव ॥


पुनस्तदेवोदाहर्तुमाह-यथा वा-उदाहरणं निर्दिश्यते-‘आगतः पतिरितीरितं जनैः शृण्वती चकितमेत्य देहलीम्
कौमुदीव शिशिरीकरिष्यते लोचने मम कदा मृगेक्षणा ॥

उपपादयति-अत्र शृण्वतीति शत्रा प्रत्यायितेन श्रवणसमकालमेव प्रियाय
देहल्यागमनमित्यर्थेनातिशयोक्त्यात्मना गमितस्त्वरातिशयस्तद्गतमौत्सुक्यातिशयं पुष्णाति
कौमुद्युपमा तु तत्परिपोषितं प्रधानीभूतं प्रियगतमौत्सुक्यम्। चकितमित्यागमन विशेषणमप
वस्तुतो विचार्यमाणमीक्षणविशेषणीभवत्तस्यैवानुकूलम् । इति स्थित
भविष्यत्कालावच्छिन्नशिशिरीकरणस्य साधारणधर्मस्योपमेयान्वितत्वमिव नोपमानान्वित त्वम

अनुपपद्यमानपुरुषार्थकत्वमुदाहरति-‘एतावति महीपालमण्डलेऽवनिमण्डन

तारकापरिषन्मध्ये राजन्राजेव राजसे ॥


उपपादयति-अत्र क्रियायां सम्बोध्योपमेयान्वय इव नोपमानान्वयः।
विध्यादौत्यादिग्राह्यप्रार्थनानुपपत्तिमुदाहरति-‘राजेव सम्भृतं कोषं केदारमिव कर्षकः
भवन्तं त्रायतां नित्यं भयेभ्यो भगवान् भवः॥


उपपादयति-अत्र प्रार्थ्यमानत्राणकर्तृत्वमुपमेये भव इवोपमानयो राजकर्षकयोर्नास्ति
तयोस्त्राणकर्तृत्वस्य सिद्धत्वात्
दोषोद्धारप्रकारमुपदर्शयति-यदि तु त्रायते इति प्रार्थनानिर्मुक्तं त्राणकर्तृत्वमुच्यते तदा धर्मस्य साधारणत्वान्न दाेषः
लडन्तपाठेऽपि धर्मस्य साधारण्यहानिमाशङ्क्य समाधत्ते-अथ त्रायत इति प्रार्थ्यमानतानिर्मुक्तेऽपि त्राणकर्तृत्वेन साधारणत्वम् । प्रार्थ्यमानताया इ
विधेयतानुवाद्यत्वयोर्भेदकत्वादिति चेत् । सत्यम् । इह हि धर्मलोपरहितायामुपमाया
धर्मवाचकशब्दप्रतिपाद्यै
प्रार्थनाभूतभविष्यद्वर्तमानत्वादिभिर्विशेषणैर्विशिष्टधर्मस्योपमानोपमेयसाधारण्याभाव
प्रयोजकाभावान्नोपमानिष्पत्तिरिति निर्विवादम् । तत्र विधेयत्वानुवाद्यत्वाभ्या
शब्देनानिवेदिताभ्यां विषयताभ्यां विशिष्टस्य धर्मस्य यदि नास्ति साधारण्यं मास्तु नाम ।
ह्युदासीनैर्विशेषणैर्विशिष्टस्य धर्मस्य साधारण्यमपेक्षितम् । अपि त
धर्मवाचकशब्दनिवेदितैः। एवं चन्द्रवत्सुन्दरं मुखमित्यत्रापि सुन्दरत्वस्योपमानेऽनुवाद्यत्व
उपमेये च विधेयत्वेऽपि न साधारण्यहानिः
आशङ्क्य समाधत्ते-ननु-‘नीलाञ्चलेन संवृतमाननमाभाति हरिणनयनायाः
प्रतिबिम्बित इव यमुनागभीरनीरान्तरेणाङ्कःः॥

इत्यत्रोपमाने चन्द्रे योगमर्यादया भासमान एणरूपोऽङ्क
आननरूपोपमेयविशेषणस्वबिम्बाभावात्कस्य प्रतिबिम्बः स्यात् । अत आधिक्यापादकतय
दोषः। न च हरिणनयनसदृशस्य नयनस्योपादानात्तस्यैव बिम्बस्य प्रतिबिम्बः स्यादित

वाच्यम् । तादृशनयनस्य बहुव्रीह्यर्थकान्ताविशेषणतया आननाविशेषणत्वे
बिम्बत्वाभावादिति चेत्, मैवम् । शब्देनाननविशेषणत्वेन तादृशनयनस्याप्रतिपादने ऽप
कान्ताविशेषणत्वेनैवाननवृत्तित्वस्यापि प्रतिपत्तेः। न ह्याननमविषयीकृत्य कान्तां विशेष्टुमीष्ट
नयनम्, अनुभवविरोधात् ।
पुनरन्यथा शङ्कःते-तथापि समभिव्याहारविशेषमापन्नेन शब्देनाप्रतिपादनाच्छाब्दे बोधे नाननस्
नयनविशिष्टत्वेन विषयत्वमिति चेत्
समाधत्ते-संसर्गत्वे बाधकाभावात् स्वविशिष्टाननसंसर्गेण तादृशनयनस्य कान्ताविशेषणत्वात्
यथाकथञ्चिदुपमेयवृत्तिताज्ञानस्य बिम्बताप्रयोजकत्वात्
बिम्बत्वसाधकस्य मुखवृत्तितया नयनविषयकशब्दप्रयोज्यज्ञानस्य प्रकारान्तरमाह-यद्वा कान्ताविशेषणतया तादृशनयनयोः शाब्दे बोधे वृत्ते पश्चादाननस्य तद्विशेष्यतय
वैयञ्जनिके मानसे वा बोधे बाधकाभावात् । एवं च तादृशवाक्यप्रयोज्ये ज्ञान
उपमेयविशेषणतया भानस्य तादृशनयनस्य बिम्बस्य सत्त्वात्तदर्थं
चन्द्रगतस्यैणरूपस्याङ्कःस्य प्रतिबिम्बतयोपादानमावश्यकमेवेति नाधिक्यं दोषः
उक्तपद्ये सम्भावितापरदोषाभावं समुपपादयति-कविसमयसिद्धतया चमत्कारापकर्षकत्वाभावेन लिङ्गःभेदोऽपि नात्र दोषः
एवमन्यत्राप्यपवादमाह-एवं च कविसमयसिद्धतया प्रकारान्तरेण वा प्रागुक्तानां दोषाणां चमत्कारानपकर्षकत्व
नास्त्येव दोषत्वम्
कविसमयसिद्धत्वप्रयुक्तदोषाभावत्वस्य लक्ष्यं दर्शयति-यथा-‘नवाङ्गःनेवाङ्गःणेऽपि गन्तुमेष प्रकम्पते
इयं सौराष्ट्रजा नारी महाभट इवोद्भटा ॥


एवंरीत्या सर्वत्र दोषाभावः समर्थनीय इत्याह-एवमन्यत्रापि ज्ञेयम्
पूर्वोक्तं दोषत्वदूरीकरणनिपुणं प्रकारान्तरं यदुक्तं तत्किमिति जिज्ञासाप्रशमनायाह

शेषं स्मरणालङ्कारप्रकरणे विकल्पप्रकरणे च वक्ष्यामः
परमं प्रकृतमुपसंहरति-इत्युपमानिरूपणसंक्षेपः
उपमेयोपमानिरूपणं प्रतिजानीते-अथास्या एव भेद उपमेयोपमा निरूप्यते-उपमेयोपमायाः लक्षणं लिख्यते-तृतीयसदृशव्यवच्छेदबुद्धिफलकवर्णनविषयीभूतं परस्परमुपमानोपमेयभावमापन्नयोरर्थयो
सादृश्यं सुन्दरमुपमेयोपमा
पदकृत्यप्रदर्शनप्रसङ्गे प्रथमं ‘भूतान्तस्य’उपमानोपमेयभावविशेषणस्य कृत्यं प्रदश्र्यते-‘तडिदिव तन्वी भवती भवतीवेयं तडिल्लता गौरी ’’इत्यत्र परस्परोपमाया-मतिव्याप्तिवारणाय भूतान्तम्
उक्तवाक्येऽतिव्याप्तिमुपपादयितुमाह-अत्र तानवगौरिभ्यामनुगामिधर्माभ्यां प्रयोजितमुपमाद्वयं न तृतीयं सदृशं व्यवच्छिनत्ति
एकेन धर्मेणैकप्रतियोगिके परानुयोगिके सादृश्य
निरूपितेऽपरप्रतियोगिकस्यैकानुयोगिकस्यापि तेन धर्मेण सादृश्यस्यार्थतः सिद्धतया शब्दे
पुनस्तदुक्तिः स्वनैरर्थक्यपरिहाराय तृतीयसदृशव्यवच्छेदमाक्षिपति । प्रकृते चैके
तानवरूपेण धर्मेण तडित्प्रतियोगिके कामिन्यनुयोगिके सादृश्ये निरूपिते तेनैव धर्मे
कामिनीप्रतियोगिकस्य तडिदनुयोगिकस्य सादृश्यस्यार्थतः सिद्धावपि न गौरत्वेन धर्मेण
सिद्धिरिति तदर्थमुपात्तस्य द्वितीयसादृश्यवचनस्य न तृतीयसदृशव्यवच्छेदफलकत्वम्
परस्परपदकृत्यमाह-‘सदृशी तव तन्वि निर्मिता विधिना नेति समस्तसम्मतम्
अथ चेन्निपुणं विभाव्यते मतिमारोहति कौमुदी मनाक् ॥


इति तृतीयसदृशव्यवच्छेदफलकवर्णनविषये सादृश्येऽतिव्याप्तिवारणाय परस्परमिति
सुन्दरपदनिवेशफलमाह-लिङ्गःवचनभेदादिदुष्टसादृश्यवारणाय सुन्दरमिति-उदाहरणप्रदर्शनं प्रतिजानीते-अथेदमुदाह्रियते

उदाहरणं निर्दिश्यते-‘कौमुदीव भवती विभाति मे कातराक्षि भवतीव कौमुदी
अम्बुजेन तुलितं विलोचनं लोचनेन च तवाम्बुजं समम् ॥


उपमेयोपमाया भेदो विधीयते-इयं च तावद्द्विविधा उक्तधर्मा व्यक्तधर्मा च । उक्तधर्मा तावदनुगाम्यादिभि
प्रागुक्तैर्धर्मैरनेकधा
उक्तधर्मायाः प्रथमं प्रकारं निर्देष्टुमाह-अनुगामी धर्मो यथा-उदाहरणं निर्दिश्यते-‘निखिले निगमकदम्बे लोकेष्वप्येष निर्विवादोऽर्थः
शिव इव गुरुर्गरीयान् गुरुरिव सोऽयं सदाशिवोऽपि तथा ॥


उक्तधर्माया द्वितीयं प्रकारं निर्देष्टुमाह-बिम्बप्रतिबिम्बभावमापन्नो यथा-उदाहरणं निर्दिश्यते-‘रमणीयस्तबकयुता विलसितवक्षोजयुगलशालिन्यः
लतिका इव ता वनिता इव रेजिरे लतिकाः॥


उपपादयति-अत्र रमणीयत्वविलसितत्वाभ्यां विशेषणाभ्यां युतत्वशालित्वाभ्यां च विशेष्याभ्यां परस्पर
वस्तुप्रतिवस्तुभावमापन्नाभ्यां पुटितः स्तबकस्तनरूपः परस्परं बिम्बप्रतिबिम्बभावापन्न
धर्मः
तृतीयं प्रकारमुदाहर्तुमाह-उपचरितो यथा-उदाहरणं निर्दिश्यते-‘कुलिशमिव कठिनमसतां हृदयं जानीहि हृदयमिव कुलिशम्
प्रकृतिः सतां सुमधुरा सुधेव हि प्रकृतिरिव च सुधा ॥


चतुर्थं प्रकारमुदाहर्तुमाह-केवलशब्दात्मको यथा

उदाहरणं निर्दिश्यते-‘अविरतचिन्तो लोके वृक इव पिशुनोऽत्र पिशुन इव च वृकः
भारतमिव सच्चित्तं सच्चित्तमिवाथ भारतं सकृपम् ॥

द्विविधयोरुपमेयोपमयोरुक्तधर्माख्यस्य प्रथमभेदस्यावान्तरभेदानां चतुर्णामुदाहरणानि प्रदश्र्य
सम्प्रति द्वितीयभेदस्य व्यक्तधर्माख्यस्योदाहरणं प्रदर्शयितुमाह-व्यक्तधर्मो यथा-उदाहरणं निर्दिश्यते-‘वारिधिराकाशसमो वारिधिसदृशस्तथाऽकाशः
सेतुरिव स्वर्गङ्गा स्वर्गङ्गेवान्तरा सेतुः ॥


उपपादयति-अत्रापारत्वादिव्र्यज्यमानो धर्मः
विशेषमाह-एषा सर्वाऽपि स्फुटे वाक्यभेदे प्रपञ्चिता
पूर्वसम्भावितमुपमेयोपमाप्रकारमुदाहर्तुमाह-आर्थे तु वाक्यभेदे-उदाहरणं निर्दिश्यते-‘अभिरामतासदनमम्बुजानने नयनद्वयं जनमनोहरं तव
इयति प्रपञ्चविषयेऽपि वैधसे तुलनामुदञ्चति परस्परात्मना ॥


उपपादयति-अत्र परस्परात्मना तुलनामुदञ्चतीति संक्षिप्ताद्वाक्यादिदमेतेनैतच्चानेन तुलनामुदञ्चतीत
वाक्यद्वयं विचारकमुल्लसति
अस्या उपमेयोपमाया अपरेऽपि प्रभेदाः सम्भवन्तीति सूचयितुमाह-एवं पूर्णालुप्तादयोऽप्यस्या उपमाया इव प्रायशः सर्वेऽपि भेदाः सम्भवन्ति
ननु सम्भवन्तस्ते भेदाः कुतो नोदाह्रियन्ते इत्यत आह-ते चामुयैव दिशा सुबुद्धिभिरुन्नेतुं शक्या इति नेह निरूप्यन्ते
खण्डयितुमप्पय्यदीक्षितमतमुत्थापयति-चित्रमीमांसाकृतस्तु प्राचीनं लक्षणमव्याप्त्यतिव्याप्त्यादिभिर्दूषयित्वा

‘अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा
एकधर्माश्रया या स्यात्सोपमेयोपमा मता ॥


इति स्वयं लक्षणमाहुः। अस्यार्थः संक्षेपेण सपदकृत्यस्तदुक्तरीत्या सहृदयाना
सौकर्यायोच्यते-अन्योन्येनेति । अन्योन्यप्रतियोगित्वविशिष्टा व्यक्त्या व्यञ्जनाव्यापारे
वृत्त्यन्तरेण शक्त्या वा बोध्या वेद्या एकधर्माश्रया एकधर्मप्रयोज्या या उपमा स
उपमेयोपमा मतेत्यन्वयः। अन्योन्येनेति विशेषणादिदं तच्च सममित्युभयविश्रान्तोपमाय
निरासः। अत्रान्योन्यप्रतियोगिकत्वस्य व्यञ्जनव्यापारमात्रगम्यत्वेनोपमायाश्च शक्तिवेद्यतय
परस्परनिरपेक्षेणैकेन व्यापारेणान्योन्यप्रतियोगिकत्वविशिष्टायास्तस्या अबोधनात्
परस्परनैरपेक्ष्यस्यात्र वाकारेणाभिधानात् । एकधर्माश्रयेति विशेषणात् ‘राजोभिर्भूरि
द्यौर्घनसन्निभैर्गजैश्च द्यौरिव भूः’ इति कस्यचित्पद्यस्यार्थे परस्परोपमायां नातिव्याप्तिः
तत्रोपमाप्रयोजकधर्मैक्याभावात् । भूतलोपमानिकायां प्रयोजकस्य रजसामनुगामिधर्मस्य
नभस्तलोपमानिकायां प्रयोजकस्य घनसदृशगजानां बिम्बप्रतिबिम्बभावापन्नधर्मस्य
भेदात् । व्यक्त्येति च विशेषणं व्यङ्ग्योपमेयोपमासङ्ग्रहार्थमितीदमुपमेयोपमात्वप्रयोजक
लक्षणमिति
खण्डयति-तन्न
‘अहं लतायाः सदृशीत्यखर्वं गौराङ्गिः गर्वं न कदापि यायाः
गवेषणेनालमिहापरेषामेषापि तुल्या तव तावदस्ति ॥

’ अत्रान्योन्यप्रतियोगिकत्वविशिष्टाय
उपमायास्तनुत्वादिरूपैकधर्माश्रयाया वृत्त्यन्तरेण शक्त्या बोधनादुपमेयोपमात्वापत्तेः
आशङ्क्य समाधत्ते-न चात्रान्योन्यप्रतियोगिकत्वमुपमायां न प्रतीयते
लतादिसम्बन्धिसादृश्याश्रयत्वस्यैवास्मत्पदार्थेऽन्वयादिति वाच्यम् । ‘मुखस्य सदृशश्चन्द्रस्
सदृशं मुखम्’’इत्युपमेयोपमायामव्याप्तेः
ननु ‘मुखस्य सदृशः-’इतिवत् ‘अहं लताया:-’इति पद्यमपि लक्ष्यमेवोपमेयोपमायास्तथ
च नातिव्याप्तिः, अलक्ष्ये लक्षणगमनस्यातिव्याप्तिपदार्थत्वादित्यत्राह-न ह्यहं लताया इत्यत्रोपमेयोपमा भवितुमर्हति । गर्वमात्रनिरासपरत्वेनोत्तरा-र्धोपमायास्तृतीयसदृशव्यवच्छेदाप्रतिपत्तेः। अत एव अन्यान्यपि तव सदृशानि सन्त्ये

तेषां गवेषणेन किं फलमित्येतदर्थकं गवेषणेनेत्युत्तरार्धं सङ्गःच्छते
तृतीयसब्रह्मचारिव्यवच्छेदो ह्युपमेयोपमाजीवितमित्यालङ्कारिकसिद्धान्तः। अन्यथ
‘भुवस्तलमिव ब्योम कुर्वन्व्योमेव भूतलम्’ इत्यत्राप्युपमेयोपमात्वनिवारणप्रयासवैयर्थ्यापत्त

दीक्षितमतसमर्थिकां युक्तिमाशङ्क्य समाधत्ते-न च तृतीयसदृशव्यवच्छेदफलकत्वमुपमाविशेषणं वाच्यम्, विशेषणान्तरवैयर्थ्यापत्तेः
विशेषणव्यावत्र्यानामाधुनिकविशेषणेनैव वारणात्
दीक्षितोक्तमन्यदपि दूषयितुमाह-अन्योन्यप्रतियोगिकत्वविशिष्टा उपमा एकवृत्तिमात्रवेद्येत्यप्ययुक्तमेव । ‘खमिव जलं जलमि
खम्’इत्यादौ खजलयोः सादृश्यान्वये प्रतियोगित्वस्य संसर्गत्वेन वृत्यविषयत्वात्
वृत्तिवेद्यानां पदार्थानां संसर्गो वृत्त्यवेद्य इत्यभ्युपगमात् । अन्यथा प्रकारतापत्तेः
अलङ्कारसर्वस्वकारमतमालोचयितुमुपक्रमते-यदप्यलङ्कारसर्वस्वकृतोक्तं ‘द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा
तच्छब्देनोमानोपमेयत्वप्रत्यवमर्शः। पर्यायो यौगपद्याभावः। अत एवात्र वाक्यभेदः ’इति तन्
। अत्र द्वयोरिति व्यर्थम् । एकस्योपमानोपमेयात्मकत्वे ‘गगनं गगनाकारम् ’इत्याद
वाक्यभेदाभावेन पर्यायाभावादेवाप्रसक्तेः
आशयविशेषवर्णनेन ‘द्वयो:’ इत्यस्य सार्थक्ये साधितेऽपि दोषान्तरे
दुष्टमेवैतल्लक्षणमित्याख्यातुं प्रवर्तते-यदि च स्फुटत्वार्थमुपमानोपमेयत्वयोग्यतासम्पादकलिङ्गःवचनभेदराहित्य-प्रतिपत्त्यर्थ
कविसमयसिद्धिस्फोरणार्थं वा द्वयोरिति ग्रहणं स्यात्, अथापि प्रागुदीरिते ‘अहं लताया
सदृशीत्यखर्वम्’ इति पद्ये प्रतिपाद्यायामुपमायामतिव्याप्तेः
‘तद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परस्परतुलामधिरोहतां द्वे
प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥

इति कालिदासपद्ये प्रतिपाद्यायामुपमानोपमेययोर्युगपदुपमेयोपमानभावायामुपमेयोपमाया
वाक्यभेदाभावादव्याप्तेश्च
पुरोदीरिताव्याप्तौ कथञ्चित्समाहितायामपि दोषान्तरं सम्भवतीत्याह-न चात्रापाततः शब्दैक्येऽपि पर्यवसितो वाक्यभेदोऽस्तीति वाच्यम् । तथापि

‘सविता विधवति विधुरपि सवितरति दिनन्ति यामिन्यः
यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥


इति कस्यचित्कवेः पद्ये परस्परोपमायामतिव्याप्तेः। न चेयमुपमेयोपमेति शक्यते व क्तुम्
सुखसमये दुःखदोऽपि सुखयति दुःखसमये च सुखदोऽपि दुःखयत
इत्येतावन्मात्रस्यार्थस्य विवक्षितत्वात्तृतीयसदृशव्यवच्छेदाप्रतिपत्तेः
सर्वस्वकारकृतलक्षणस्यापरत्रापि अतिव्याप्तिमुद्भावयति-एवम्-‘रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसन्निभैः
भुवस्तलमिव व्योम कुर्वन् व्योमेव भुतलम् ॥


इत्यत्र परस्परोपमायामतिव्याप्तिः
विशेषमाह-सदृशान्तरव्यवच्छेदफलकत्वेन विशिष्यमाणे तु तस्मिन्नस्मदुक्त एव पर्यवसानम्
मूलालङ्कारसर्वस्वस्य खण्डनं विधाय सम्प्रति तद्विवरणरूपाया विमर्शिन्या अपि खण्डन
विधातुमाह-यच्च विमर्शिनीकारेणोक्तम् ‘स च वाक्यभेदः शाब्द आर्थश्च । तत्र शाब्दो यथा-‘रजोभि
स्यन्दनोद्धूतैः’इत्यादिः । अस्याश्चोपमानान्तरतिरस्कार एव फलम् । अ
एवोपमेयेनोपमेत्यन्वर्थाभिधत्वम्’इति, तत्तुच्छम् । न हि ‘ रजोभिः स्यान्दनोद्धूतैः
इत्यत्रोपमानान्तरतिरस्कारः प्रतीयते । द्वयोरुपमयोरेकधर्मकत्वाभावात्, आद्याया उपमाय
अनुगामिधर्मप्रयोज्यत्वात्, द्वितीयायाश्च बिम्बप्रतिबिम्बभावापन्नधर्मप्रयोज्यत्वात्
रत्नाकरोक्तं निरसितुमाह-यदपि ‘परस्परमुपमानोपमेयत्वमुपमेयोपमा’इति लक्षणं विधाय ‘सविता विधवति-
इत्यादि प्रागुक्तपद्यं रत्नाकरेणोदाहारि, तच्च तदीयेनैव ‘स चोपमानान्तरनिषेधार्थः’इत
ग्रन्थेन विरुद्धम् । न ह्यस्मिन्पद्ये उपमानान्तरनिषेधः प्रतीयत इति प्रागेवावेदनात् । प्र तीय
एवेति चेत्, पुनरपि पृच्छ हृदयमेव स्वकीयम्
परमतखण्डनप्रसङ्गःमुपसंहर्तुमाह-इत्यलं विवादेन
‘उपमेयोपमा’ अलङ्कारपदवाच्या कदा भवतीति स्पष्टयति

इयं चोपमेयोपमा यदि कस्याप्यर्थस्योक्तर्षाधायिका तदालङ्कारः । अन्यथा त
स्ववैचित्र्यमात्रपर्यवसितेति
अलङ्कारान्तरेष्वपि युक्तेरस्यास्तुल्यत्वमाह-एवमलङ्कारान्तरेऽपि ज्ञेयम्
व्यङ्ग्योपमेयोपमामुदाहर्तुमाह-अथ ध्वन्यमानेयमुदाह्रियते-उदाहरणं निर्दिश्यते-‘गाम्भीर्येणातिमात्रेण महिम्ना परमेण च
राघवस्य द्वितीयोऽब्धिरम्बुधेश्चापि राघवः॥


उपपादयति-द्वितीयशब्दस्य सादृश्यविशिष्टे शक्त्यभावाद् व्यक्तिरेव
उक्तोदाहरणेऽरुचिमुद्भाव्योदाहरणान्तरं प्रदर्शयितुमाह-यदि तु लक्षणा तदेदमुदाहरणम्
उदाहरणं निर्दिश्यते-‘सुधासमुद्रं तव रम्यवाणी वाचं क्षमाचन्द्र सुधासमुद्रः
माधुर्यमध्यापयितुं दधाते खर्वेतरामान्तरगर्वमुद्राम्॥


उपपादयति-अत्र वागादिकर्तृकस्य परस्पराध्यापनस्य बाधान्माधुर्यसंक्रान्तिविशेषस्य लक्षणय
बुध्यमानस्य प्रयोजनं स्वप्रयोज्यान्योन्योपमानोपमेयभावः
दोषनिरूपणं प्रतिजानीते-अथ दोषा:-दोषानाह-तत्र तावत्प्रागुक्ता यावन्त उपमाया दोषाः अनुक्ताश्च विस्तृतिभयात्, त
सर्वेऽप्युपमात्वाक्रान्तत्वादस्यामपि बोध्याः। अयं पुनरन्योऽपि दोष:-यदेकोपमावैलक्षण्यमपरस्यामुपमायाम् । यथा-‘कमलमिव वदनमस्या वदनेन समं तथ
कमलम्’अत्र श्रौत्यार्थीकृतं वैलक्षण्यम् । ‘कमलति वदनं यस्याः कमलं वदनायत
जगति’क्विप्क्यङ्कृतमत्र वैलक्षण्यम् । एवमत्रैव ‘पद्मं वदनायते ’इति निर्माण

‘वक्त्रायते ’इति वा उपमानोपमेयवाचकवैलक्षण्यम् । एवंप्रकारैरनेकैर्वैलक्षण्यं यद
सहृदयोद्वेजकं तदा दोषः
प्रकरणसमाप्तिं सूचयति-इति रसगङ्गाधरे उपमेयोपमाप्रकारणम्
अनन्वयालङ्कारनिरूपणं प्रतिजानीते-अथानन्वय:-लक्षणं लिख्यते-द्वितीयसदृशव्यवच्छेदफलकवर्णनविषयीभूतं यदेकोपमानोपमेयकं सादृश्यं तदनन्वयः
लक्षणेऽनुक्तमपि अलङ्कारेतिसंज्ञासामर्थ्यावगम्यमानं अर्थं स्फुटत्वायाह-स च कस्याप्युपस्कारकत्वेऽलङ्कारः। अन्यथा तु शुद्धः
पदकृत्यं प्रदर्शयितुं प्रत्युदाहरणं निर्दिश्यते-‘लोहितपीतैः कुसुमैरावृतमाभाति भूभृतः शिखरम्
दावज्वलनज्वालैः कदाचिदाकीर्णमिव समये ॥


उपपादयति-अत्र लोहितपीतकुसुमावृतं भूभृतः शिखरं स्वेनैव कस्मिंश्चित् समय
दावज्वालाकीर्णेनोपमीयते, इति तत्सादृश्यवारणाय भूतान्तम्
स्फुटत्वाय प्रत्युदाहरणान्तरमाह-इदं वा प्रत्युदाहरणम्-‘नखकिरणपरम्पराभिरामं किमपि पदाम्बुरुहद्वयं मुरारेः
अभिनवसुरदीर्घिकाप्रवाहप्रकरपरीतमिव स्फुटं चकासे ॥


उपपादयति-अत्रापि नखकिरणपरम्पराभिरामं हरेः पदाम्बुजं स्वात्मनै
सुरदीर्घिकाप्रवाहप्रकरपरीतेनोपमीयते
ननु वर्णनकाले भगवच्चरणयोर्गङ्गाप्रवाहपरीतत्वाभावे तद्विशिष्टत्वेनासत ए
तस्योपमानत्वकल्पने सदुपमानं नास्तीति द्वितीयसदृशव्यवच्छेदः प्रतीयत एवेत्यत आह-सम्प्रति सुरदीर्घिकाप्रवाहेण भगवत्पादाम्बुरुहस्य सम्बन्धाभावात्सुरनिम्न-गोत्पत्तिकालावच्छिन्नस्य तस्योपमानतावगमायाभिनवेति प्रवाहविशेषणम्

ननु पूर्वोक्तपद्ययुगलेऽनन्वयालङ्कारः कुतो नाङ्गीक्रियते इत्यत आह-न ह्यत्र सादृश्यवर्णनस्य फलं द्वितीयसब्रह्मचारिव्यवच्छेदः तस्याप्रतिपत्तेः
एकोपमानोपमेयकेति विशेषणव्यावत्र्यमाह-‘स्तनाभोगे पतन् भाति कपोलात्कुटिलोऽलकः
सुधांशुबिम्बतो मेरौ लम्बमान इवोरगः॥

उपपादयति-इति कल्पितोपमानिकायामुपमायामतिप्रसङ्गःवारणायैकोपमानोपमेयकमिति । अत्रास
उपमानस्य कल्पनया सदुपमानं नास्तीति द्वीतीयसदृशव्यवच्छेदस्यास्ति प्रतीतिः
उदाहरणं दर्शयितुमाह-उदाहरणममृत(पीयूष)लहर्याख्ये मदीये गङ्गास्तवे-उदाहरणं निर्दिश्यते-‘कृतक्षुद्राघौघानथ सपदि सन्तप्तमनसः
समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः
अपि प्रायश्चित्तप्रसरणपथातीतचरितान्
नरानूरीकर्तुं त्वमिव जननि त्वं विजयसे ॥


उदाहरणान्तरं दातुमाह-यथा वा-उदाहरणं निर्दिश्यते-‘इयति प्रपञ्चविषये तीर्थानि कियन्ति सन्ति पुण्यानि
परमार्थतो विचारे देवी गङ्गा तु गङ्गेव ॥


उदाहरणान्तरदाने बीजमाह-पूर्वपद्ये वाच्योऽनुगामी धर्मः। इह तु व्यङ्ग्य इति विशेषः
द्वितीयोदाहरणघटक‘तु’पदप्रतीयमानं विशेषं स्फुटीकर्तुमाह-तुशब्दोऽयं तिर्थान्तरेभ्यो वैलक्षण्यं प्रतिपादयंस्तत्प्रयोजकं भगवद्वासुदेवात्मकत्वं धर्म
श्रीगङ्गायां व्यनक्ति
उपरितनयोरुदाहरणयोर्वर्णितस्यानन्वयस्यालङ्कारत्वं निगमयति-उभयत्रापि श्रीगङ्गाविषयकरत्युपस्कारकत्वादलङ्कारोऽयम्

अनन्वये बिम्बप्रतिबिम्बभावापन्नसाधारणधर्मस्यासम्भावनां सूचयति-बिम्बप्रतिबिम्बभावापन्नो धर्मस्त्वत्र नास्ति। तस्मिंश्च सति किञ्चिद्धर्मावच्छिन्नेन स्वे
सादृश्यस्य धर्मान्तरावच्छिन्ने स्वस्मिन्नन्वय
बाधकाभावात्सदृशान्तरव्यवच्छेदाप्रतिपत्तेश्चानन्वय एव न स्यात्
अनन्वयभेदानाह-स च पूर्णो लुप्तश्चेति तावद्द्विविधः। पूर्णस्तूपमावत् षड्विधोऽपि सम्भवति
पूर्णानन्वयस्य भेदानुदाहर्तुमाह-यथा-उदाहरणानि सार्धपद्येन निर्दिश्यन्ते-‘गङ्गा हृद्या यथा गङ्गा, गङ्गा गङ्गेव पावनी
हरिणा सदृशो बन्धुर्हरितुल्यः परो हरिः

गुरुवद् गुरुराराध्यो गुरुवद् गौरवं गुरोः।
लुप्तानन्वयभेदानाह-लुप्तेष्वपि धर्मलुप्तः पञ्चविधोऽपि सम्भवति, प्रागुक्ते सार्धपद्ये धर्मवाचकपदमपहा
पदान्तरदाने
वाचकलुप्तमनन्वयमुदाहरति-वाचकलुप्त:-‘रामायमाणः श्रीरामः सीता सीतामनोहरा
ममान्तःकरणे नित्यं विहरेतां जगद्गुरू ॥


इत्यत्र क्यङ्समासयोः।
वाचकलुप्तमेव पुनरन्यथोदाहरति-‘लङ्कापुरादतितरां कुपितः फणी
निर्गत्य जातु पृतनापतिभिः परीतः
क्रुद्धं रणे सपदि दाशरथिं दशास्यः
संरब्धदाशरथिदर्शमहो ददर्श ॥


अन्यत्रापि वाचकलुप्तानन्वयलक्ष्यसम्भावनामाह-एवं कर्तृणमुलादावप्यूह्यम्

एकलुप्तमुदाहृत्य सम्प्रत्यनेकलुप्तानन्वयोदाहरणप्रसङ्गे प्रथमं धर्मवाचकोभयलुप्त-मुदाहरति-‘अम्बरत्यम्बरं यद्वत्समुद्रोऽपि समुद्रति
विक्रमार्कमहीपाल तथा त्वं विक्रमार्कसि ॥


उपपादयति-अत्र वाक्यार्थावयवेष्वनन्वयेषु धर्मवाचकयोर्लोपः। मुखवाक्यार्थस्त्वनन्वयफले
निरुपमत्वेन समानधर्मेण प्रयोजितो मालोपमैव । एषा च ज्ञानसौकर्यायात्रैव निरूपिता
त्रिलुप्तमनन्वयमुदाहरति-‘एतावति प्रपञ्चेऽस्मिन् सदेवासुरमानुषे
केनोपमीयतां तज्ज्ञै रामो रामपराक्रमः ॥


उपपादयति-अत्र वाचकधर्मोपमानानां लोपः
न्यूनतां निराचष्टे-अत्र चोपमानलुप्तादयोऽन्ये भेदा असम्भवादहृद्यत्वाच्च नोदाहृताः
खण्डनाय रत्नाकरमतमुत्थापयति-यत्तु-‘‘तेन तदेकदेशेनावसितभेदेन वोपमानतया कल्पितेन सादृश्यमनन्वयः
उपमेयेनैवोपमानतया कल्पितेनोपमेयस्यामुखावभासमानसाधम्र्यापादानमेकोऽनन्वयः
उपमेयैकदेशस्य तथैवोपमानताकल्पनमपरः। उपमेयस्यैव प्रतिबिम्बत्वादिना भेदेनावसितस्
तत्त्वकल्पनं तृतीयः
आद्यो यथा-‘युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापः ’इत्यादि
द्वितीयो यथा-‘एतावति प्रपञ्चे सुन्दरमहिलासहस्त्रभरितेऽपि
अनुहरति सुभग तस्या वामार्धं दक्षिणार्धस्य ॥


तृतीयो यथा-‘गन्धेन सिन्धुरधुरन्धरवक्त्रमैत्री-मैरावणप्रभृतयोऽपि न शिक्षितास्ते

तत्त्वं कथं त्रिनयनाचलरत्नभित्ति-स्वीयप्रतिच्छविषु यूथपतित्वमेषि ॥

एषूपमानान्तरविरहस्त्रिष्वपि भेदेषु गम्यते । इत्यनन्वयस्त्रिविधः।’’’इति रत्नाकरेणोक्तम्
खण्डयति-तन्न । उपमानान्तरविरहप्रतीतिमात्रादेवानन्वयत्वे ‘स्तनाभोगे पतन्भाति’’ इत्यत्रोपदर्शिताया
कल्पितोपमाया अपि तथात्वापत्तेः। यद्यर्थातिशयोक्तावतिप्रसक्तेश्च
तादृशप्रतीतिफलकैकोपमानोपमेयकसादृश्यस्य तत्त्वे पुनः कथं ना
वामार्धदक्षिणार्धयोर्भिन्नयोः सादृश्ये तद्भेदत्वोपन्यासः। न च
तदेकदेशस्तत्प्रतिबिम्बश्चेत्येतदन्यतमप्रतियोगिकसादृश्यमनन्वयः इत
क्वाव्याप्तिरतिव्याप्तिर्वेति वाच्यम् । नास्त्यन्वयोऽस्येति योगार्थविरहे
तदेकदेशसादृश्यस्यानन्वयपदार्थत्वासम्भवात् । अपि चानन्वये ‘गगन
गगनाकारम्’ ’इत्यादावुपमेयस्यैवोपमानत्वेनोपन्यासादुपमेयातिरिक्तोपमानविरहप्रतीतिद्वार
निरुपमत्वमुपमेयगतं सिद्ध्यति । अत्र च वामार्धस्योपमेयस्य दक्षिणार्धरूपोपमानकथने
निरुपमत्वं विरुद्धमेव । कान्तागतनिरुपमत्वप्रत्ययस्तु नानन्वयस्य फलं भवितुमर्हति, तस्य
अनुपमेयत्वात्
अलङ्कारसर्वस्वकारोक्तमुपपाद्य निरस्यति-यदपि चालङ्कारसर्वस्वकृता ‘अनन्वयध्वनित्वमत्र भविष्यति
अन्यथाऽलङ्कारध्वनेर्विषयापहारः स्यात्’ इत्युक्तम्, तदपि तुच्छम् । अस्
ह्युपमाननिषेधफलकमभिन्नोपमानोपमेयकं सादृश्यं स्वरूपमित्युक्तम् । प्रकृते
वामार्धदक्षिणार्धयोस्तद्बाधितमित्युक्तमेव । कान्तायाः पुनरुपमाननिषेधस्य व्यङ्ग्यत्वेऽ प
अभिन्नोपमानोपमेयकसादृश्यस्य स्वरूपस्याप्रत्ययात् । नहि निरुपमत्वप्रतीतिष
सर्वास्वभिन्नोपमानोपमेयकसादृश्यप्रतीतिपूर्वकत्वमिति नियमोऽस्ति
कल्पितोपमातिशयोक्त्योरसमालङ्कारध्वनौ च व्यभिचारात् । तस्मान्नास्त्येवात्रानन्वयगन्धोऽप

अप्पय्यादीक्षितमतमुपपाद्य निरस्यति-यच्च ‘अयमनन्वयो व्यङ्ग्योऽप्यस्ति’
यथा

‘अद्य या मम गोविन्द जाता त्वयि गृहागते
कालेनैषा भवेत् प्रीतिस्तवैवागमनात्पुनः॥

अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्ये इयं त्वदागमनप्रभवप्रीतिर्बहुकालव्यवहितेन पुनरप
त्वदागमनेनैव भवेत् नान्येन, इत्युक्तिभङ्ग्या त्वदागमनप्रभवप्रीतेः सैव सदृशी
त्वितरप्रभवा इति व्यज्यते ’इत्यप्पयदीक्षितैरभिहितं तदपि न । अमुष्यास्त्वदागमनप्रभवाया
प्रीतेर्वारान्तरत्वदागमनप्रभवा प्रीतिः सदृशीति प्रत्ययस्य सर्वजनसिद्धतय
श्रीकृष्णागमनजन्यप्रीतिसामान्यावयवयोद्र्वयोः प्रीतिव्यक्त्यो
सादृश्यस्याबाधितत्वाद्योगार्थाभावेनानन्वय एव नायं भवितुमर्हति । ‘स्वस्मिन
सादृश्यस्यान्वयाभावादनन्वयः’इत्युपमाप्रकरणे स्वयमेवाभिधानात् । उपमेयस्
प्रीतिव्यक्तिविशेषस्य सदृशान्तरव्यवच्छेदबाधात्, तादृशप्रीतिसामान्यस्य चावयविन
निरुपमतया प्रतीयमानस्यानुपमेयत्वात् पूर्वोदाहरणतुल्यमेवैतत्
क्वचिदवयवयोरुपमाप्यवयविगतनिरुपमत्वव्यञ्जिकेति स्थिते सामान्यस्
श्रीकृष्णागमनजन्यप्रीतेः सैव सदृशीति मध्ये स्वसादृश्यप्रत्ययकल्पनं पुनर्
सहृदयहृदयमारोढुमीष्टे । रत्नाकरोक्तस्यैवानन्वयप्रकारस्यात्र व्यङ्ग्यतेत्यपि न युक्तम्,तस्
प्रागेव दूषितत्वात् प्रकृतेऽवाच्यत्वात्, स्वयमनन्वयप्रकरणे तस्य प्रतिपादनविरहाच्च
‘अन्यथालङ्कारध्वनेर्विषयापहारः स्यात्’ इति सर्वस्वकारोक्तिं मनसि निधाय तन्मुखमुद्रणा
स्वाभिमतमनन्वयध्वनिमुदाहर्तुमाह-इदं पुनरनन्वयध्वन्युदाहरणम्-उदाहरणं निर्दिश्यते-‘पुष्टाः खलु परपुष्टाः परितो दृष्टाश्च विटपिनः सर्वे
भेदेन भुवि न पेदे साधम्र्यं ते रसाल मधुपेन ॥

उपपादयति-अत्र भेदेनेत्युक्त्याऽभेदे सादृश्यमनन्वयात्मकं तु पेदे इति ध्वन्यते
उदाहरणान्तरं दर्शयितुमाह-यथा वा-उदाहरणं निर्दिश्यते-‘नगेभ्यो यान्तीनां कथय तटिनीनां कतमय

पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे
कया वा श्रीभर्तुःपदकमलक्षालि सलिलै-स्तुलालेशो यस्यां तव जननि दीयेत कविभिः॥

उपपादयति-अत्र कया वा त्वदितरया श्रीभर्तुः पदं सलिलैरक्षालि यस्यामितरस्यां कविभिस्त
तुलालेशोऽपि दीयेतेत्यर्थेन त्वयि पुनः सलिलक्षालितश्रीरमणचरणायां तव तुल
दीयेतैवेत्यर्थोऽनन्वयात्मा श्रीगङ्गागतनिरुपमत्वपर्यवसायी इतरपदमहिम्ना व्यज्यते
अनन्वयालङ्कारं निरूप्य सम्प्रति असमालङ्गारनिरूपणमारभमाणस्तावत्तल्लक्षणमाह-सर्वथैवोपमानिषेधोऽसमाख्योऽलङ्कारः
विवेचयति-अयं चानन्वये व्यङ्ग्योऽपि तच्चमत्कारानुगुणतया रूपकदीपकादावुपमेव
पृथगलङ्कारव्यपदेशं भजते । वाच्यतायां तु स्वातन्त्र्येण चमत्कारितया पृथक्व्यपदेशभाक्
उदाहरणं निर्देष्टुमाह-यथा-उदाहरणं निर्दिश्यते-भूमीनाथ शहाबदीन भवतस्तुल्यो गुणानां गणै-रेतद्भूतभवप्रपञ्चविषये नास्तीति किं ब्रूमहे
धाता नूतनकारणैर्यदि पुनः सृष्टिं नवां भावये-न्न स्यादेव तथापि तावकतुलालेशं दधानो नरः॥


उदाहरणान्तरं निर्देष्टुमाह-यथा वा-उदाहरणं निर्दिश्यते-‘भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः
न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलापदम् ॥

ननूदाहरणद्वयेऽपि निषेधस्य प्राधान्यात्कथमलङ्कारत्वम्, परपोषकत्वेनाप्रधानस्यैव तत्त्वादित्य
आह-राजस्तुत्युत्कर्षकत्वादत्रासमालङ्कारः

ननूपमानलुप्तोपमयैव गतार्थोऽयमसम इत्याशङ्कां मनसि निधायाह-आत्यन्तिकः क्वाचित्कश्च सदृशनिषेधोऽसमोपमानलुप्तयोर्विषयः। सर्वथैवोपमाननिषेधे
सादृश्याप्रतिष्ठानान्नोपमागन्धोऽपि
रत्नाकरमतमुपपाद्य निरस्यति-यत्तु-‘ढुण्ढुलन्तो मरीहसि कण्टक कलिआइं केअइवणाइं
मालइकुसुमसरिच्छं भमर भमंतो न पावहिसि ॥

इति
नेयमुपमानलुप्तोपमा, तस्याः, सम्भवदुपमानानुपादानविषयत्वात्। अपि त्वसमालङ्कारः’इत
रत्नाकरेणोक्तम्, तदसत् । मालतीकुसुमसदृशं भ्रमर भ्रमन्नपि न प्राप्स्यसीत्युक्त्या वर्त ता
नाम तत्सदृशं क्वापि, त्वया तु दुष्प्रापमेवेत
प्रत्ययादात्यन्तिकोपमाननिषेधाभावादुपमानलुप्तोपमैवेयं भवितुमर्हति, नासमालङ्गारः
अन्यथा मालतीकुसुमसदृशं नास्तीत्येव ब्रूयात्, न तु प्राप्स्यसीति
आशंक्य समाधत्ते-अथासमालङ्कारध्वननेनैव चमत्कारोपपत्तेरनन्वयस्य पृथगलङ्कारता कथमिति चेत्, सत्यम्
दीपकादेरप्युपमाभिव्यक्त्यैव चमत्कारोपपत्तौ कथं नाम पृथगलङ्कारत्वमिति तुल्यम् । न
दीपकादावुपमाया व्यङ्ग्यत्वेऽपि गुणीभावात्प्रकृते तु स्वसादृश्यस्य स्वस्मिन्नतितमा
तिरस्कारेणासमालङ्कारस्यैव मुख्यतया ध्वननाद्वैषम्यमिति वाच्यम् । यथाह
दीपकसमासोक्त्यादौ गुणीभूतव्यङ्ग्यसत्त्वेऽप्यलङ्गारत्वं न हीयते एवमनन्वय
प्रधानव्यङ्ग्यसत्त्वेऽपीति न किञ्चिद्विरुद्धम् । अनन्वयशरीरस्य स्वसादृश्यमात्रस्
वाच्यत्वेन वाच्यालङ्कारव्यपदेशोऽपि सुस्थ एव । दीपकाद्यलङ्कारकाव्ये गुणीभूतस्
व्यङ्ग्यस्य सत्त्वादस्तु नाम गुणीभुतव्यङ्ग्यत्वम् । ध्वनित्वं पुनर्न क्वाप्यलङ्कृतिकाव् य
दृष्टमिति चेत्, पर्यायोक्तसादृश्यमूलाप्रस्तुतप्रशंसादिकाव्ये ध्वनित्वस्य स्फुटत्वात्
मतान्तरमाह-प्राञ्चस्तु नेदमलङ्कारान्तरमित्यप्याहुः
व्यङ्ग्यमसमालङ्कारं दर्शयितुमाह-अयं चासमालङ्कारो व्यज्यमानो यथा-उदाहरणं निर्दिश्यते

मयि त्वदुपमाविधौ वसुमतीश वाचंयम
न वर्णयति मामयं कविरिति क्रुधं मा कृथाः
चराचरमिदं जगज्जनयतो विधेर्मानस
पदं नहि दधेतरां तव खलु द्वितीयो नरः॥

उपपादयति-अत्र य एतावन्तं समयं विधातुर्मानसं नाधिरुढः सोऽग्रेऽपि मानाभावान्नाधिरोहेत्, अत
सर्वथैव नास्तीति गम्यते
व्यङ्ग्यत्वेऽपि कथमत्रासमस्यालङ्काररूपतेत्याह-एवं च व्यज्यमानोऽप्यसमोऽत्र प्रधानीभूतराजस्तुत्युत्कर्षकतयालङ्कार एव
यत्रासम एव मुख्यतयाऽभिव्यज्यते न रसादिस्तादृशमुदाहरणं दर्शयितुमाह-मुख्यतया ध्वन्यमानोऽयं यथा-उदाहरणं निर्दिश्यते-‘सदसद्विवेकरसिकैरालोक्य समस्तलोकमथ कविभिः
गणिता गगनलतादेर्गणनायां तन्वि! तव सदृशी ॥

असमालङ्कारस्य भेदानुपपादयति-अयं क्वचिदुपमानस्य निषेधात्क्वचिच्च साक्षादुपमाया एव । आद्यस्तूपदर्शितः
द्वितीयभेदमुदाहर्तुमाह-द्वितीयो यथा-उदाहरणं निर्दिश्यते-‘पूर्णमसुरै रसातलममरैः स्वर्गो वसुन्धरा च नरैः
रघुवंशवीरतुलना तथापि खलु जगति निरवकाशैव ॥


अन्यभेदानां स्वयमूहनीयतामाह-एवं पूर्णतया लुप्ततया चास्यापि यथासम्भवं भेदा उन्नेयाः
अयोदाहरणालङ्कारनिरूपणमारभमाणस्तावल्लक्षणमाह-सामान्येन निरूपितस्यार्थस्य सुखप्रतिपत्तये तदेकदेशं निरूप्य तयोरवयवावयविभा
उच्यमान उदाहरणम्
लक्षणं विवेचयितुमाह

अर्थान्तरन्यासवारणायोच्यमान इति । वचनं च इव-यथा-निदर्शन-दृष्टा-न्तादिशब्दै
काव्येषु स्फुटम् । न च इवयथाशब्दयोः सादृश्यवचनयोरवयवावयविभाव
विशेषसामान्यात्मके नास्ति वृत्तिरिति वाच्यम् । लक्षणायाः साम्राज्यात् । अन्यथ
ह्युत्प्रेक्षाबोधकतापि दुर्घटा स्यात्
लक्ष्यं दर्शयितुं कथयति-उदाहरणम्-उदाहरणं निर्दिश्यते-‘अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति
निखिलरसायनराजो गन्धेनोग्रेण लशुन इव ॥


आशङ्क्य समाधत्ते-न चात्र पदार्थलशुनयोरुपमा शक्या वक्तुम् । तयोः सामान्यविशेषभावे
सादृश्यस्यानुल्लासात् । तथात्वे तु इवशब्दादीनामिव सदृशादिशब्दानामप्यलङ्कारेऽस्मिन
प्रयोगः स्यात्
इवपदघटितमुदाहरणमुक्त्वा यथापदघटितं तद्दर्शयितुमाह-यथा वा-उदाहरणं निर्दिश्यते-‘अतिमात्रबलेषु चापलं विदधानः कुमतिर्विनश्यति
त्रिपुरद्विषि वीरतां वहन्नवलिप्तः कुसुमायुधो यथा ॥


उपपादयति-अत्र त्रिपुरद्विड्वीरते अतिमात्रबलचापलयोर्विशेषौ । अवलेपकुसुमायुधौ च कुमतिरित्यत्
गुणप्रधानयोः
निदर्शनपदघटितमुदाहरणं दर्शयितुमाह-यथा वा-उदाहरणं निर्दिश्यते-‘उपकारमेव कुरुते विपद्गतः सद्गुणो निरराम्
मूच्र्छां गतो मृतो वा निदर्शंनं पारदोऽत्र रसः ॥

दृष्टान्तपदघटितस्याप्युदाहरणालङ्कारस्योदाहरणमिदमेव पद्यं भवितुमर्हतीति बोधयितु
पाठान्तरमाह-दृष्टान्तो वा-विशेषमाह-इवादिशब्दप्रयोगे सामान्यार्थप्राधान्यं वाक्यैक्यम्, निदर्शनादिशब्दप्रयोगे तु विशेषप्राधान्य
वाक्यभेदश्चेति विशेषः
तमेव विशेषं शाब्दबोधप्रदर्शनेन स्फुटीकरोति-तत्र तावद् ‘अमितगुण:- ’इति पद्ये क्रियाप्रधानमाख्यातमित
नयेऽमितगुणपदार्थकर्तृकमेकदोषहेतुकं निन्दाविषयीभवन
निखिलरसायनराजलशुनकर्तृकोग्रगन्धहेतुकनिन्दाविषयीभवनावयवकमिति घीः
प्रथमान्तविशेष्यकबोधवादिना
तूग्रगन्धहेतुकनिन्दाविषयीभवनाश्रयतादृशलशुनावयवकस्तादृशपदार्
एकदोषहेतुकनिन्दाविषयीभवनाश्रय इति। तत्रापि विशेषवाक्यार्थे क्रियान्वयो मृग्यत
हेत्वन्तरान्वयार्थम् । अन्यथा तादृशलशुनावयवके तादृशपदार्थ एव क्रियान्वयेनोपपत्ति
स्यात् । एवं यथाशब्दस्थलेऽपि । उपकारमेवेत्यत्र तु विपद्गताभिन्नः सद्गु
उपकारानुकूलकृतिमानिति पूर्ववाक्यार्थः, अत्रास्मिन्नर्थे मूच्र्छाङ्गःतो मृतो वा पारद
निदर्शनमेकदेश इत्युत्तरवाक्यार्थे गुण इति केषाञ्चित् । इतरेषां तु तादृशकर्तृक
तादृशक्रियेति पूर्ववाक्यार्थे तादृशः पारद एकदेश इति । प्रधानावयवस्ये
गुणावयवस्यापि विशिष्टार्थावयवत्वात्, घटमानयेत्यत्र नीलघटवत्
चन्द्रालोकोक्तं ‘विकस्वरालंकारं’ गतार्थयितुमाह-‘अर्थिभिश्छिद्यमानोऽपि स मुनिर्न व्यकम्पत
विनाशेऽप्युन्नतः स्थैर्थं न जहाति द्रुमो यथा ॥

उपपादयति-अत्र दधोच्यालम्बनाया
तदीयलोकोत्तरचरितस्मरणोद्दीपितायामेतत्पद्यप्रयोगानुभावितायामेतत्पद्यनिर्मातृगतायां रत
प्रधानीभूतायामर्थ्यालम्बनस्तत्कृतयाच्ञाश्रवणोद्दीपितो गात्रच्छेदाभ्यनुज्ञानानुभावितो धृत्य
सञ्चारिभावेन पोषितो मुनिगत उत्साहो गुणः। तत्

चाध्यर्धतृतीयचरणगतस्यार्थान्तरन्यासस्योत्कर्षकतया स्थितस्य विवेचनद्वारालङ्कःरण
चतुर्थचरणशकलगतमुदाहरणम्
अलङ्कारदृष्ट्या पूर्वोक्तपद्यतुल्यं प्राचीनं पद्यान्तरमुद्धरति-एवमेव-‘अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्
एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कःः॥

इति कालिदासपद्येऽपि बोध्यम्
नन्वेवं साङ्कःर्येऽर्थान्तरन्यासविशेषत्वमेवास्तु उदाहरणत्वेनाभिमतस्थलविशेषस्येत्या-शङ्कायामाह-अस्मिंश्चालङ्कारेऽवयवावयविभावबोधकस्येवशब्दादेः प्रयोगः
सामान्यविशेषयोरेकरूपविधेयान्वयश्चार्थान्तरन्यासभेदाद् वैलक्षण्याधायक इति तत्प्रकरण
निपुणतरमुपपादयिष्यामः
प्राचीनमतमाह-प्राञ्चस्तु ‘नायमलङ्कारोऽतिरिक्तः। उपमयैव गतार्थत्वात् । न च सामान्यविशेषयो
सादृश्यानुल्लासात्कथमुपमेति वाच्यम् । ‘निर्विशेषं न सामान्यम् इति सामान्यस्
तत्किञ्चिद्विशेषं विना प्रकृतत्वायोगात्तादृशविशेषमादाय विशेषान्तरस्य सादृश्योल्लास
बाधकाभावादिवादिभिरामुखे प्रतीयमानस्यापि सामान्यविशेषभावस्य परिणामे सादृश्य ए
विश्रान्तेः॥

’इत्यप्याहुः

अथ स्मरणालंकारनिरूपणमारभमाणस्तावत्तल्लक्षणमाह-सादृश्यज्ञानोद्बुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालङ्कारः
उदाहरणं निर्देष्टुमाह-यथा-उदाहरणं निर्दिश्यते-‘दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डध्वनि-ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम्
वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव-भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीश स्मरेत्’॥

उदाहरणान्तरं दातुमाह-यथा वा-उदाहरणं निर्दिश्यते-‘भुजभ्रमितपट्टिशोद्दलितदृप्तदन्तावल
भवन्तमरिमण्डलक्रथन पश्यतः सङ्गःरे
अमन्दकुलिशाहतिस्फुटविभिन्नविन्ध्याचल
न कस्य हृदयं झगित्यधिरुरोह देवेश्वरः॥


उपपादयति-अनयोः पद्ययोः प्रधानीभूताया राजविषयककविनिष्ठरतेरुत्कर्षकतया स्मरणमलङ्कारः
उदाहरणद्वयप्रदर्शननिदानभूतमुभयोरुदाहरणयोर्वैलक्षण्यं दर्शयति-आद्ये वाच्यम्, द्वितीये तु लक्ष्यमिति विशेषः
ननु वीररसोऽप्यत्र प्रधानतया व्यज्यत इति तद्ध्वनित्वमुक्तपद्ययोः कुतो नाङ्गीक्रिय
इत्याशंकायामाह-वीररसोऽपि चात्र प्रधानोत्क र्षकतयालङ्कार एव
लक्षणे प्रयोज्यत्वनिवेशस्य फलमाह-‘एकीभवत्प्रलयकालपयोधिकल्प-मालोक्य सङ्गःरगतं कुरुवीरसैन्यम्
सस्मार तल्पमहिपुङ्गःवकायकान्त
निद्रां च योगकलितां भगवान् मुकुन्दः॥

अत्र तल्पनिद्रयोः स्मरणं यद्यपि न तल्पनिद्रासादृश्यदर्शनोद्बुद्धसंस्कार-प्रयोज्यम्, तथाप
सैन्यगतपयोधिसादृश्यदर्शनोद्बुद्धपयोधिविषयक-संस्कारजन्यपयोधिस्मरणाधीनत्वाद्भवत्ये
यत्किञ्चित्सादृश्यदर्शनोद्बुद्धसंस्कारप्रयोज्यम् । न हि सादृश्ये स्मर्यमाणसम्बन्धित्व
विवक्षितम् । एवं वाच्ययोस्तल्पनिद्रास्मरणयोः एतत्कारणतया आक्षिप्तस्य पयोधिस्मरणस्
चाविशेषेण सङ्ग्रहाय लक्षणे जन्यत्वमपहाय प्रयोज्यत्वमुपात्तम्
मतान्तरमाह-केचित्तु सदृशज्ञानोद्बुद्धसंस्कारजन्यं सदृशविषयकमेव स्मरणमलङ्कारः
भुजगेन्द्रनिद्रास्मृतिस्तु नालङ्कार इत्याहुः

सादृश्यज्ञाननिवेशफलमाह-‘इत एव निजालयं गताया वनिताया गुरुभिः समावृतायाः
परिवर्तितकन्धरं नतभ्रु स्मयमानं वदनाम्बुजं स्मरामि ॥

उपपादयति-अत्र स्मरणं चिन्तोद्बुद्धसंस्कारप्रयोज्यत्वान्नालङ्कारः व्यङ्ग्यत्वविरहाच्च न भावः
उक्तस्थलसमानं स्थलान्तरमपि दर्शयति-एवम्-‘दरानमत्कन्धरबन्धमीषन्निमीलितस्निग्धविलोचनाब्जम्
अनल्पनिःश्वासङ्ग्याःभरालसाङ्गःयाः स्मरामि सङ्गं चिरमङ्गःनायाः॥


इहापि स्मृतिर्न भावो नाप्यलङ्कारः। व्यङ्ग्यस्यैव व्यभिचारिणो भावत्वात्। यथा-‘सा व
कलङ्कःविधुरा मधुराननश्रीः’। अयं चालङ्कारिकाणां सम्प्रदायो यत्सादृश्यमूलकत्वे स्मरण
निदर्शनादिवदलाङ्कारः। तस्याभावे व्यङ्ग्यतायां भावः। तयोरभावे तु वस्तुमात्रम्
आलोचयितुमप्पय्यदीक्षितमतमुत्थापयति-अप्पय्यदीक्षितास्तु-‘‘स्मृतिः सादृश्यमूला या वस्त्वन्तरसमाश्रया
स्मरणालङ्कृतिः सा स्यादव्यङ्ग्यत्वविशेषिता ॥

यथा-‘अपि तुरगसमीपादुत्पतन्तं मयूर
न स रुचिरकलापं बाणलक्ष्यीचकार
सपदि गतमनस्कश्चित्रमाल्यानुकीर्ण
रतिविगलितबन्धे केशपाशे प्रियायाः॥


यथा वा-‘दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम्
उद्वीक्ष्य श्रियमिव काञ्चिदुत्तरन्तीमस्मार्षीज्जलानिधिमन्थनस्य शौरिः॥

एकत्र सदृशदर्शनात्तत्सदृशकर्मिका स्मृतिः। इतरत्र सदृशदर्शनात्तत्सदृशलक्ष्मीसम्बन्धिन
जलनिधिमन्थनस्य स्मृतिः। उभयत्रापि सादृश्यमूलकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अ
एव सदृशासदृशसाधारण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत्

‘सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भत
चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति
वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यत
क्वासि प्रेयसि हा कुरङ्गःनयने चन्द्रानने जानकि ॥

अत्र श्रुतकुरङ्गःसम्बन्धिनस्तन्नयनस्य स्परणात्तत्सदृशसीतानयनस्मृतिश्चेति । किं त्वेष
व्यङ्ग्या अलङ्कार्यभूता च । तद्व्यावृत्त्यर्थमव्यङ्ग्यत्वविशेषणम्
‘अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाऽम्भोधय-स्तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नमः
आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद् भुव-स्तावद् बिभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः॥

अत्र स्तूयमानभूसम्बन्धिनो भूभृतः स्मृतिर्न सादृश्यमूलेति नात्र स्मरणालङ्कारः। किन्त
स्मृतेः सञ्चारिभावस्य भूभृद्विषयकरतिभावाङ्गःत्वात्प्रेयोऽलङ्कारः। एतद्व्यावृत्तय
सादृश्यमूलेति विशेषणम् ।’ इत्याहुः।’’’
उक्तदीक्षितमतस्य खण्डनात्मिकामालोचनां विधत्ते-तदेतत् सर्वमरमणीयम् । यत्तावदुच्यते सदृशासदृशयोः केशपाशजलनिधिमन्थनयो
सद्ग्रहाय लक्षणे वस्त्वन्तरग्रहणमर्थवदिति । तत्र सादृश्यमूला स्मृतिः स्मरणालङ्का
इत्येतावतैव केशपाशस्मरणस्येव जलनिधिमन्थनस्मरणस्याप
सङ्ग्रहाद्वस्त्वन्तरसमाश्रयत्वविशेषणमनर्थकम् । एकत्
सादृश्यदर्शनोद्बुद्धसंस्कारजन्यत्वेन, अपरत्र
सादृश्यदर्शनोद्बुद्धसंस्कारजलक्ष्मीस्मरणोद्बुद्धसंस्कारजन्यत्वेन
सादृश्यमूलत्वाविशेषात् । नहि सादृश्यमूलेत्युक्ते सदृशविषयेति लभ्यते, ये
जलनिधिमन्थनस्मृतेरसङ्ग्रहः स्यात् । यदपि ‘सौमित्रे ननु सेव्यताम्’-’इत्यत्
स्मृतिव्र्यङ्ग्या अलङ्कार्यभूता च तद्व्यावृत्तयेऽव्यङ्ग्यत्वविशेषणमित्युक्तम् । तत्र नेय
स्मृतिरलङ्कार्यभूता, किन्तु जानक्यालम्बनो निशासमयोद्दीपितः सन्तापादिनानुभावि
उन्मादेन सञ्चारिणा परिपोषितो विप्रलम्भः प्रधानत्वेनालङ्कार्यः। तस्य च-स्मृतिरुत्कर्षहेतुत्वादलङ्कार एव । अतो नितरा
तद्व्यावृत्त्यर्थमव्यङ्ग्यत्वविशेषणदानमनुचितम् । नहि व्यङ्ग्यत्वालङ्कारत्वयोर्विरोध इत

वक्तुं शक्यम् । नित्यव्यङ्ग्यानां रसभावादीनामपि पराङ्गःतायामलङ्कारत्वाभ्युपगमात्
प्रधानव्यङ्ग्यव्यावृत्त्यर्थं पुनरुपस्कारकत्वं सर्वेष्वलङ्कारलक्षणेषु देयमिति प्रागेवावेदितम्
यदप्युक्तम् ‘अत्युच्चाः परितः स्फुरन्ति गिरयः- ’इत्यत्र स्मृतेः सञ्चारिभावस्
भूभृद्विषयरतिभावाङ्गःत्वात्प्रेयोऽलङ्कार इति, तन्न । भावस्य हि भावाद्यङ्गःताया
प्रेयोऽलङ्कारत्वम् । न ह्यत्र स्मुतिर्भावः। तस्याः स्मरतिना वाचकेनाभिधानात् । नह
वाच्यस्य व्यभिचारिणो भावत्वं वक्तुं युक्तम् । ‘व्यभिचार्यञ्जितो भावः ’इत
सिद्धान्तविरोधात् । तथा चोक्तं सर्वस्वकृता-‘प्रेयोऽलङ्कारस्य त
सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः। तत्रापि विभावाद्यागूरितत्वे, यथा ‘अह
कोपेऽपि कान्तं मुखम्’इति। न तु स्वशब्दनिवेद्यत्वे
यथा-‘अत्रानुगोदं मृगयानिवृत्तस्तरङ्गःवातेन विनीतखेदः
रहस्त्वदुत्सङ्गःनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ॥


इत्यादाविति ।’ननु भावाद्यङ्गीभूतभावत्वं न प्रेयोऽलङ्कारलक्षणम् । अपि त
भावाद्यङ्गीभूतसञ्चारित्वमात्रम् । तथा च प्रकृते स्मरणस्य स्वशब्दनिवेद्यत्वे
भावत्वविरहेऽपि सञ्चारित्वानपायात्प्रेयोऽलङ्कारत्वमविरुद्धमेवेति चेत्, एव
तर्हीतराङ्गीभूतस्थायित्वमात्रं रसालङ्कारत्वम्, न तु व्यज्यमानत्वविशिष्टम्, इत्यस्याप
सुवचत्वात्
एवं
‘चराचरोभयाकारजगत्कारणविग्रहम्
कल्पान्तकालसंक्रुद्धं हरं सर्वहरं नुमः॥

इत्यत्र क्रोधस्य स्वशब्दनिवेदितत्वेऽप
देवताविषयकरतिभावाङ्गीभूतस्थायित्वानपायाद्रसालङ्कारता स्यात् । न चेष्टापत्तिः
अपसिद्धान्तात् । तस्माद् व्यज्यमानस्यैव स्थायिनः पराङ्गःत्वे यथा रसालङ्कारत्वमेव
व्यज्यमानस्यैव सञ्चारिणो भावाद्यङ्गःतायां प्रेयोऽलङ्कारत्वमिति नात्र स्मृतिमादा
प्रेयोऽलङ्कारता वाच्या, किन्तु भूविषयकरतेः पूर्वार्धव्यङ्ग्याय
उत्तरार्धव्यङ्ग्यभूभृद्विषयरतिभावाङ्गःत्वाद्युक्ता प्रेयोऽलङ्कारता वक्तुम् । उक्तं च मम्मटभट ्टैः-‘अत्र भूविषयो रत्याख्यो भावो राजविषयरतिभावस्य ’इति । अपि च महदिदमाश्चर्य

यत्स्वेनैव निर्मितः कुवलयानन्दाख्यः सन्दर्भो विस्मृतः। उक्तं च तत्र-‘विभावानुभावाभ्यामभिव्यञ्जितो निर्वेदादिर्भावः, स यत्रापरस्याङ्गं स प्रेयोऽलङ्कारः’ इति
अलंकारसर्वस्वरत्नाकरयोर्मतमनूद्यावद्यति-यदपि ‘सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम्’ इत्यलङ्कारसर्वस्व-रत्नाकरयो
स्मरणालङ्कारलक्षणमुक्तम्, तदपि न । सदृशस्मरणादुद्बुद्धेन संस्कारेण जनित
स्मरणेऽव्याप्तेः
यथा-‘सन्त्येवास्मिञ्जगति बहवः पक्षिणो रम्यरूपा-स्तेषां मध्ये मम तु महती वासना चातकेषु
यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भि
स्मृत्यारूढं भवति किमपि ब्रह्म कृष्णाभिधानम् ॥


अत्र च चातकदर्शनादेकसम्बन्धिज्ञानादुत्पन्नेनापरसम्बन्धिनो जलधरस्य भगवत्सदृशस्
स्मरणेन जनितं भगवतः स्मरणं भगवद्विषयरतिभावाङ्गःम्
यदि च ‘सदृशानुभवात्’इत्यपहाय ‘सदृशज्ञानात्’इति लक्षणे निवेश्यते तदा भवत्यस्याप
सङ्गःग्रह इति दिक्
स्मरणालङ्कारध्वनिं निरूपयितुमाह-अथास्य ध्वनिः
स्मरणालङ्कारध्वनिमुदाहर्तुमाह-यथा-उदाहरणं निर्दिश्यते-‘इदं लताभिः स्तबकानताभिर्मनोहरं हन्त वनान्तरालम्
सदैव सेव्यं स्तनभारवत्यो न चेद्युवत्यो हृदयं हरेयुः॥

उपपादयति-अत्र स्तबकानताभिर्लताभिः स्तनभारवतीनां युवतीना
स्मरणमलङ्कार्यस्यान्यस्याभावादनुपसर्जनम्, स्तनस्तबकरूपस्य बिम्बप्रतिबिम्बभावमापन्नस्
साधारणधर्मस्य वाच्यत्वेऽपि तत्प्रयोजितसादृश्यमूलकस्य स्वस्य शब्दवाच्यत्वविरहाद
व्यङ्ग्यं च

पद्यघटकस्य ‘युवत्यः’ इति पदस्यासाधुतां मनसि कृत्वा समाधत्ते-युवत्य इति च ‘सर्वतोऽक्तिन्नर्थात् ’इति ङीषि साधुः
उदाहरणान्तरं दशयितुमाह-यथा वा-उदाहरणं निर्दिश्यते-‘इदमप्रतिमं पश्य सरः सरसिजैर्वृतम्
सखे मा जल्प नारीणां नयनानि दहन्ति माम् ॥

उपपादयति-अत्रापि सरसिजज्ञानाधीनतत्सदृशस्मृतिः प्राधान्येन ध्वन्यते
अथास्यालङ्कारस्य दोषान् निरूपयति-अथास्मिन् स्मरणालङ्कारे उपमादोषाः प्रायशः सर्व एव दोषाः। विशेषतश्च नियमेनास्मिन
व्यज्यमानसादृश्यके सादृश्यस्य शब्दवाच्यातायां दोषः
यथा-‘उपकारमस्य साधोर्नैवाहं विस्मरामि जलदस्य
दृष्टेन येन सहसा निवेद्यते नवघनश्यामः॥

अत्र स्मृत्यैव घनसादृश्यं भगवतः प्रतीयमानं वाच्यवृत्त्या कदर्थितं निवेद्यते । देवकीतन
इति तु साधु
साधारणधर्ममूलकं विशेषं निरूपयितुमुपक्रमते-अत्र सादृश्यप्रयोजकस्य साधारणधर्मस्य साक्षादुपादानानुपादानयोरुपमा-यामिवात्राप
व्यवस्था । तथा हि उपमायां तावत्क्वचिद्धर्मो नियमेन प्रतीयमानः साक्षान्नोपादेय एव
यथा ‘शङ्खःवत्पाण्डुरच्छविः’इत्यत्र पाण्डुरत्वम् । ‘शङ्खःवत्पाण्डुरोऽयम्’इत्यादौ त
नानाविधेषु धर्मेष्वनेनैव धर्मेण सादृश्यमित्यस्य दुरवगमत्वात्
सर्वत्रोपमानोपमेयसाधारणस्य श्लिष्टशब्दात्मकस्यान्यस्य वा स्वानभिप्रेतस्
साधारणधर्मस्योपमाप्रयोजकत्वसम्भवात्तद्वारणाय पाण्डुरत्वादिधर्मो वाच्यतां नीयते ।यथ
वा ‘अरविन्दमिव सुन्दरं मुखम्’इत्यादौ सुन्दरत्वादिः। न नीयते च क्वचित्
वक्तुरन्यस्यानुपस्थानात्प्रसिद्धेः प्राबल्यात् । यथा ‘अरविन्दमिव मुखम् ’इत्यादौ स एव
अप्रसिद्धश्च धर्मोऽवश्यं साक्षादुपादेयः। अन्यथा तस्याप्रतिपत्त

कवेस्तदुपमानिर्माणप्रयासवैयर्थ्यापत्तेः। यथा ‘नीरदा इव ते भान्ति बलाकाराजिता भटाः
इत्यादौ श्लिष्टशब्दात्मकः। इत्थं च कश्चित्साधारणो धर्मः साक्षादनुपादेय एव
कश्चिदुपादेयानुपादेयश्च । कश्चिदुपादेय एवेति सहृदयसम्मतः समयः
एवमेवोपमाजीवातुकेऽस्मिन् स्मरणालङ्कारेऽपि बोध्यम्
उक्तत्रिविधधर्ममूलकस्मरणालङ्कारोदाहरणप्रदर्शनायाह-तत्रानुगामिनि धर्मे ‘स्मृत्यारूढं भवति किमपि ’इत्यादौ पद्ये निवेदितमेव स्मरणम्
बिम्बप्रतिबिम्बभावापन्नेऽपि धर्मे ‘भुजभ्रमितपट्टिश-’इत्यादि पद्ये निरूपितम्
कुलिशपट्टिशयोर्भूधरदन्तावलयोश्च बिम्बप्रतिबिम्बभावात्
एवंम् नुगामिबिम्बप्रतिबिम्बभावापन्नेति द्विविधधर्ममूलकस्मरणालङ्कारोदाहरणभूतपद्ययुगल
स्मारयित्वोपचरितधर्ममूलकतदुदाहरणं दर्शयितुमाह-उपचरिते यथा-उदाहरणं निर्दिश्यते-‘क्वचिदपि कार्ये मृदुलं क्वापि च कठिनं विलोक्य हृदयं ते
को न स्मरति नराधिप नवनीतं किं च शतकोटिम् ॥


उदाहरणान्तरं दर्शयितुमाह-यथा वा-उदाहरणं निदिश्यते-‘अगाधं परितः पूर्णमालोक्य स महार्णवम्
हृदयं रामभद्रस्य सस्मार पवनात्मजः ॥

उपपादयति-अत्र मृदुलत्वाद्यो धर्मा हृद्युपचरिताः
उदाहरणद्वयदाननिदानभूतं विशेषमाह-इयांस्तु विशेषः-यदेकत्रानुभूयमाने हृदये स्मर्यमाणनवनीतादेः सादृश्यस्य सिद्धिः, अपरत्
तु स्मर्यमाणे हृदयेऽनुभूयमानसमुद्रस्येति, सादृश्यस्योभयाश्रयत्वात्
धर्मान्तरमूलकमुदाहरणं दर्शयितुमाह-केवलशब्दात्मके यथा-उदाहरणं निर्दिश्यते

‘ऋतुराजं भ्रमरहितं यदाहमाकर्णयामि नियमेन
आरोहति स्मृतिपथं तदैव भगवान् मुनिव्र्यासः ॥


उपपादयति-अत्र भ्रमरहितशब्दो व्यासवसन्तयोः साधारणः
उपसंहरन्नाह-एवमन्येऽपि प्रभेदाः सुधीभिरुन्नेयाः। इह पुनर्दिङ्मात्रमुपदर्शितम्
स्मरणालङ्कारनिरूपणानन्तरमिदानीं रूपकालङ्कारनिरूपणं प्रतिजानीते-अथाभेदप्रधानेषु रूपकं तावन्निरूप्यते
लक्षणं तावल्लिख्यते-उपमेयतावच्छेदकपुरस्कारेणोपमेये शब्दान्निश्चीयमानमुपमानतादात्म्यं रूपकम्
तदेवोपस्कारकत्वविशिष्टमलङ्कारः
पदकृत्यं दर्शयति-उपमेयतावच्छेदकपुरस्कारेणेति विशेषणादपह्नुति- भ्रान्तिमदतिशयोक्तिनिदर्शनानां निरासः
अपह्नुतौ स्वेच्छया निषिध्यमानत्वात्, भ्रान्तिमति च तज्जनकदोषेणै
प्रतिबध्यमानत्वादतिशयोक्तिनिदर्शनयोश्च साध्यवसानलक्षणामूलकत्वादुपमेयतावच्छेदकस्
नास्ति पुरस्कारः। शब्दादिति विशेषणात्त् । ‘मुखमिदं चन्द्रः ’इत
प्रात्यक्षिकाहार्यनिश्चयगोचरचन्द्रतादात्म्यव्यवच्छेदः। निश्चीयमानमित
विशेषणात्सम्भावनात्मनो ‘नूनं मुखं चन्द्रः ’ इत्याद्युत्प्रेक्षाया व्यावृत्तिः
उपमानोपमेयविशेषणाभ्यां सादृश्यलाभात् ‘सुखं मनोरमा रामा
इत्यादिशुद्धारोपविषयतादात्म्यनिरासः। सादृश्यमूलकमेव च तादात्म्यं रूपकमामनन्ति
सादृश्यमूलकतादात्म्यस्यैव रूपकत्वे प्रमाणं दर्शयितुं प्राचीनोक्तिमुद्धरति-तथा चाहु:-‘तद्रूपकमभेदो य उपमानोपमेययोः।
‘उपमैव तिरोभूतभेदा रूपकमुच्यते ॥

इति
रूपके तादात्म्यभानं केन रूपेण भवतीति विवेचयितुमाह-तच्च यत्र विषयविषयिणोरेकविभक्त्यन्तत्वेन निर्देशस्तत्र संसर्गः, अन्यत्र तु शब्दार्थतय
क्वचिद् विशेषणं विशेष्यं चेति विवेचयिष्यते

रत्नाकरमतमनूद्य निरस्यति-यत्तु ‘सादृश्यप्रयुक्तः सम्बन्धान्तरप्रयुक्तो वा यावान्भिन्नयोः सामानाधिकरण्यनिर्देशः
सर्वोऽपि रूपकम् । सारोपलक्षणामूलकत्वस्य तुल्यत्वेन सादृश्यप्रयुक्तस्य तादात्म्यस्ये
सम्बन्धान्तरप्रयुक्तस्यापि तादात्म्यस्य सङ्ग्रहीतुमौचित्यात्, तस्मात् दुराग्रह एवायं प्राचाम्-उपमानोपमेययोरभेदो रूपकम्, न तु कार्यकारणयोः’इति रत्नाकरेणोक्तम्, तन्न
अपह्नुत्यादौ भिन्नयोः सामानाधिकरण्यस्य सत्त्वात्तत्रातिव्याप्तेः। किञ्च ‘सादृश्यमूलक
स्मरणं स्मरणालङ्कारः न तु चिन्तादिमूलम्’इति भवतैव पूर्वमुदितम् । तत्र यद
सादृश्यामूलकस्यापि कार्यकारणादिकयोः कल्पितस्य ताद्रूप्यस्य रूपकत्वमभ्युपेयताम् ।
च स्मरणस्य भावत्वमुच्यमानं निर्विषयं स्यदिति वाच्यम्, तस्य व्यज्यमानविषयत्वेनोपपत्तेः
खण्डनार्थं दीक्षितमतमनुवदति-अप्पय्यदीक्षितास्तु-‘‘-बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिह्नुते
उपरञ्जकतामेति विषयी रूपकं तदा ॥


अत्र बिम्बाविशिष्ट इति विषयविशेषणात्
‘त्वत्पादनखरत्नानां यदलक्तकमार्जनम्
इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः॥


इति निदर्शनाया निरासः। तत्र विषयस्य मार्जनस्यालक्तकादिरूपबिम्बविशिष्टत्वात् । निर्दिष्
इति विशेषणान्निगीर्णविषयायां ‘कमलमनम्भसि कमले च कुवलये तान
कनकलतिकायाम्’इत्याद्यतिशयोक्तौ नातिव्याप्तिः। अनिह्नुते निषेधास्पृष्ट इत
विशेषणादपह्नुतौ नातिव्याप्तिः। उपरञ्जकतामाहार्यताद्रूप्यनिश्चयगोचरतामेतीत्यने
सन्देहोत्प्रेक्षासमासोक्तिपरिणामभ्रान्तिमत्स्वतिव्याप्तिनिरासः
ससन्देहोत्प्रेक्षयोर्निश्चयस्यैवाभावात् । समासोक्तिपरिणामयोर्विषयिताद्रूप्यस्यागोचरत्वात्
समासोक्तौ व्यवहारमात्रसमारोपात् । परिणामे चारोप्यमाणस्यैव विषयताद्रूप्यगोचरत्वात्
भ्रान्तिमति च सतः कल्पितस्य वा प्रवृत्त्यादिपर्यन्तिकस्वारसिकभ्रमस्यैव निबन्धने
तस्यानाहार्यत्वात् । ’’ इत्याहुः
प्रागुक्तदीक्षितमतखण्डनप्रसङ्गे तावत् प्रथमविशेषणव्यावत्र्यं खण्डयति

तन्न । ‘त्वत्पादनखरत्नानाम्’इत्यादि निदर्शनाव्यावृत्त्यर्थं बिम्बाविशिष्टत्वं विषयविशेषण
तावदयुक्तमेव । यद्यत्र ‘मुखं चन्द्रः ’ इत्यादि रूपकान्तर इव सत्यपि श्रौतारोपे नेदं रूपकम्
अपि तु निदर्शनेत्युच्यते, तदा ‘मुखं चन्द्रः’ इत्यपि निदर्शनेत्युच्यताम् । निरस्यतां
रूपकदाक्षिण्यकौपीनम् । किं च ‘त्वत्पाद’-इत्यत्र किं पदार्थनिदर्शना
आहोस्विद्वाक्यार्थनिदर्शना? नाद्यः
बिम्बप्रतिबिम्बभावापन्नपदार्थघटितविशिष्टार्थयोरेवात्राभेदप्रतीतेः
कुवलयानन्दगतनिदर्शनाप्रकरणे त्वयोक्तमार्गेण धम्र्यन्तरे पदार्थे तदवृत्तिधर्मस्य पदार्थस्
भेदेनारोपस्याभावाच्च । न द्वितीयः । वाक्यार्थत्वारूपकोच्छित्त्यापत्तेः। इष्टापत्तौ वैपरीत्यस्
सुवचत्वाच्च । अस्माभिर्निदर्शनाप्रकरणे वक्ष्यमाणया सरण्या अभेदस्
श्रौतत्वार्थभ्यामुद्देश्यविधेयभावालिङ्गःनानालिङ्गःनाभ्यां च रूपकनिदर्शनयोर्वैलक्षण्ये
सकलव्यवस्थोपपत्तेः । तस्मादत्र वाक्यार्थरूपकमेव, न वाक्यार्थनिदर्शना
तस्याश्चैवमुदाहरणं निर्मातव्यम्-‘त्वत्पादनखरत्नानि यो रञ्जयति यावकैः
इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः॥


अत्र कत्र्रोरभेदस्य शाब्दत्वेऽपि क्रिययोरभेदस्याशाब्दत्वात्तस्यैव
समग्रभरसहिष्णुत्वान्निदर्शनैव । ननु यदीदमुदाहरणं निदर्शनायां न स्यात्तद
कथमलङ्कारसर्वस्वकृता तत्प्रकरण उदाहृतमिति चेत्, भ्रान्तेनैव प्रतारितोऽसि । नह
प्रामाणिकेन भवता कदापि परेणानुक्तं किञ्चिदुच्यते । यदपि रूपके बिम्बप्रतिबिम्बभाव
नास्तीत्युक्तं तदपि भ्रान्त्यैव । तथा च सर्वस्वटीकायां विमर्शिन्यामुदाहृत
बिम्बप्रतिबिम्बभावेन रूपकम्-‘कन्दर्पद्विपकर्णकम्बुमलिनैर्दानाम्बुभिर्लाञ्छित
संलग्नाञ्जनपुञ्जकालिमकलं गण्डोपधानं रतेः
व्योमानोकहपुष्पगुच्छमलिभिः सञ्छाद्यमानोदर
पश्यैतच्छशिनः सुधासहचरं बिम्बं कलङ्काङ्किःतम् ॥

अत्र कलङ्कःस्य दानाम्ब्वादिभिः प्रतिबिम्बनम्, लाञ्छितत्वाङ्किःतत्वयो
शुद्धसामान्यरूपत्वमित्युक्तं चेत्यास्तां तावत्
द्वितीयविशेषणमेव निरस्यति

तथा निर्दिष्टे शब्देनाभिहिते इत्यस्य येन केनचिद्रूपेण शब्देनाभिहित इत्यर्थः, उताह
उपमेयतावच्छेदकरूपेण शब्देनाभिहिते? आद्ये ‘सुन्दरं कमलं भाति लतायामिदमद्भुतम्
इत्यत्रातिप्रसङ्गःः। सुन्दरपदेन सुन्दरत्वेन रूपेण इदंपदेन च विषयस्याननस्य प्रतिपादनात्
न चात्र सुन्दरपदार्थस्यारोप्यमाणकमलान्वय एव, न तु वदनरूपविषयान्वय इति वाच्यम्
कमलपदेन कमलताद्रूप्येणाननस्यैव लक्षणयोपस्थानात्तत्रैव सुन्दरादिपदार्थान्वयो युक्तः,
तु विशेषणीभूते कमले । अथ तादृशं विषयमुद्दिश्य विषयिताद्रूप्यं यत्र विधीयते इत्यप
लक्षणवाक्यार्थः। प्रकृते च सुन्दरत्वावच्छिन्नमुद्दिश्य कमलताद्रूप्यस्याविधानान्नातिप्रसङ्ग
इति चेत् । न । ‘मुखचन्द्रस्तु सुन्दरः’ इत्यादिरूपके समासगतयोर्विषयविषयिणोः
पृथगविभक्तिमन्तरेणोद्देश्यविधेयभावाभावादव्याप्त्यापत्तेः। द्वितीये त्वनिह्नुत इत
विशेषणवैयर्थ्यम् । अपह्नुतावुपमेयतावच्छेद्यस्य निषिध्यमानतया तेन रूपे
विषयस्यानिर्दिष्टत्वादेव लक्षणस्याप्रसक्तेः। निश्चयगताहार्यत्वविशेषणवैयर्थ्यं च । भ्रान्तिमत
दोषविशेषेण प्रतिबध्यमानतया नास्त्युपमेयतावच्छेदकसंस्पर्श इति तावतैव वारणात्। अप
च ‘नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्’ इति कुवलयानन्द
त्वयोक्तायामपह्नुतावतिप्रसङ्गःः। अत्र सुधांशौ सुधांशुत्वनिह्नुवेऽप्यारोपविषयस्यानिह्नवात् ।
चेदं रूपकमेवेति वाच्यम् । त्वदुक्तिविरोधापत्तेः
चिरमीमांसायामप्पय्यदीक्षितेनोक्तमन्यदपि खण्डयति-यच्चाप्युक्तमव्यङ्ग्यत्वविशेषणाच्चेदमेवालङ्कारभूतस्य रूपकस्य लक्षणमिति, तदपि न । नह
व्यङ्ग्यत्वालङ्कारत्वयोर्विरोधोऽस्ति। प्रधानव्यङ्ग्यरूपकवारणाय पुनरुपस्कारकत्व
विशेषणमुचितमित्यसकृदावेदनात् । अनलङ्कारत्वस्य तुल्यतया प्रधानव्यङ्ग्यरूपकस्ये
प्रधानवाच्यरूपकस्यापि वारणीयत्वेन तद्वारकविशेषणाभावेन तत्रातिप्रसङ्गाच्च
मम्मटभट्टकृतकाव्यप्रकाशोक्तं लक्षणं निरस्यति-यच्च ‘तद्रूपकमभेदो य उपमानोपमेययोः’इत्यादि प्राचीनैरुक्तम्, तच्चिन्त्यम्
अपह्नुत्यादावुपमानोपमेययोरभेदस्य प्रतीतिसिद्धतया तत्रातिप्रसङ्गात्
अथोपमानोपमेययोरित्युक्त्या उपमेयतावच्छेदकं पुरस्कृत्योपमानतावच्छेदकावच्छिन्नाभे
इत्यर्थलाभादह्नुतौ चोपमेयतावच्छेदकस्य पुरस्काराभावान्नातिप्रसङ्गः इति चेत् । न । ‘नून
मुखं चन्द्रः’इत्याद्युत्प्रेक्षायां तथाप्यतिप्रसक्तेः
पूर्वापादितायाम् उत्प्रेक्षायां मम्मटलक्षणीयातिव्याप्तेरभावमाशङ्क्य पुनस्तां द्रढयति

न च-‘प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः।
‘सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् ॥

इत्याद्यपह्नुत्युत्प्रेक्षादीनां बाधकत्वात्तत्परिगृहीतविषयातिरक्तो रूपकस्य ‘मुखं चन्द्रः
इत्यादिर्विषयः स्यात् । यथा ‘शरमयं बर्हिः’इत्येतद्विषयातिरिक्तः ‘कुशमयं बर्हिः। इत्यस्य
यथा वा क्सादेशविषयातिरिक्तो विषयः सिचः। लोकेऽपि यथा ‘ब्राह्मणेभ्यो दधि देयम् ’
तक्रं कोण्डिन्याय ’ इत्यत्र तक्रसम्प्रदानातिरिक्तं दध्नः सम्प्रदानमिति वाच्यम् । वैषम्यात्
विशेषशास्त्रं हि स्वविषयातिरिक्तं विषयं ग्राहयत्सामान्यशास्त्रस्य बाधकमित्युच्यते । प्रकृत
च रूपकस्य लक्षणं धर्मः। स यद्युत्प्रेक्षादिवृत्तिः स्यात् कस्तस्माद्विषयान्निरस्य विषयान्तर
ग्राहयेत् । नहि घटत्वं स्वाधिकरणात् पृथिवीत्वं द्रव्यत्वं वा निरस्य विषयान्तर
ग्राहयितुमीष्टे । तस्मादतिप्रसक्तिर्लक्षणेऽस्मिन्दोषः। ननु सम्भावनात्मिकोत्प्रेक्षा, कथ
तस्यामभेदत्वात्मकरूपकलक्षणातिप्रसक्तिरिति चेत् । न। विनिगमकाभावे
सम्भाव्यमानभेदस्याप्युत्प्रेक्षास्वरूपत्वात्
विषयसम्भावनाऽभेदाभ्यामुत्प्रेक्षायामलङ्कारद्वयव्यवहारापत्तेश्च । निश्चीयमानत्वेनाभेद
विशेषणीय इति चेदस्मदुक्त एव तर्हि पर्यवसतिरिति दिक्
सम्प्रति प्राचीनाभिमतान् रूपकभेदानाचष्टे-तदिदं रूपकं सावयवं परम्परितं चेति तावत्त्रिविधम् । तत्राद्य
समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विविधम् । द्वितीयमपि केवलं मालारूपकं चेत
द्विविधम् । तृतीयं च श्लिष्टपरम्परितं शुद्धपरम्परितं चेति द्विविधं सत्प्रत्येक
केवलमालारूपत्वाभ्यां चतुर्विधमित्यष्टविधमाहुः
उक्तेषु प्रधानभेदेषु लिलक्षितेषु तावत्प्रथमभेदं लक्षयति-तत्र-परस्परसापेक्षनिष्पत्तिकानां रूपकाणां संघातः सावयवम्
सावयवरूपकोपभेदौ लिलक्षयिषुस्तावत् प्रथमोपभेदं लक्षयति-तत्रापि-समस्तानि वस्तून्यारोप्यमाणानि शब्दोपात्तानि यत्र तत्समस्तवस्तुविषयम्
द्वितीयसावयवरूपकोपभेदं लक्षयति

यत्र च क्वचिदवयवे शब्दोपात्तमारोप्यमाणं क्वचिच्चार्थसामर्थ्याक्षिप्तं तदेकदेश
शब्दानुपात्तविषयिके अवयवरूपके विवर्तनात्स्वस्वरूपगोपनेनान्यथात्वे
वर्तनादेकदेशविवर्ति
नामकरणबीजविषयकमतभेदमाह-यद्वा-एकदेशे उपात्तविषयिके अवयवे विशेषेण स्फुटतया वर्तनादेकदेशविवर्ति
उदाहरणं निर्देष्टुमाह-समस्तवस्तुविषयं सावयवं यथा-उदाहरणं निर्दिश्यते-‘सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे
वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र सन्देहः॥

एतदुदाहरणगतं विशेषमाह-अत्र समुदायात्मकस्य सावयवरूपकस्यावयवानां सर्वेषामपि वस्तुत
समर्थ्यसमर्थकभावस्य परस्परं तुल्यत्वेऽपि कवे राकारूपस्यै
समर्थ्यत्वेनाभिप्रेतत्वात्समर्थकतयोपादानमितरेषामिति गम्यते । एवं स्थित
समर्थकरूपकाणां विषयविषयिणोः पृथग्विभक्तेरश्रवणादनुवाद्यत्वेऽपि समर्थ्यरूपकस्
तयोः पृथग्विभक्तिश्रवणाद्विधेयतया तदादाय सङ्घातात्मकस्य सावयवरूपकस्याप
विधेयत्वमत्र व्यपदिश्यते । यथा भटसङ्घातान्तर्गतस्य मुखस्य कस्यापि भटस्य जय-पराजयाभ्यां भटसङ्घातो जितः पराजितश्चेत्युच्यते
उदाहरणान्तरमाह-‘व्योमाङ्गःणे सरसि नीलिमदिव्यतोय
तारावलीमुकुलमण्डलमण्डितेऽस्मिन्
आभाति षोडशकलादलमङ्कःभृङ्ग
सूराभिमुख्यविकचं शशिपुण्डरीकम् ॥


उदाहरणान्तर-दान-निदानभूतं विशेषमाह-अस्य तु सावयवरूपकस्यानुवाद्यत्वमेव

ननु सर्वमेतत्सत्यम्, परन्तु द्वितीयोदाहरणे सूर्याभिमुख्यविकचत्वं चन्द्रमसि वर्णितं कथ
सङ्गःतम्, सूर्याभिमुख्यकाले दिवसे चन्द्रविकासस्यासिद्धत्वादित्यत आह-अत्र वण्र्यस्य पूर्णचन्द्रस्य सूर्याभिमुख्यं ज्योतिःशास्त्रसिद्धम् । तेन सूर्याभिमुख्ये चन्द्रस्
कथं विकास इति न शङ्कःनीयम्
सावयवरूपकस्य द्वितीयं भेदमुदाहर्तुमाह-एकदेशविवर्ति सावयवं यथा-उदाहरणं निर्दिश्यते-‘भव-ग्रीष्म-प्रौढातप-निवह-सन्तप्त-वपुष
बलादुन्मूल्य द्राङ्निगडमविवेक-व्यतिकरम्
विशुद्धेऽस्मिन्नात्मामृतसरसि नैराश्य-शिशिर
विगाहन्ते दूरीकृतकलुषजालाः सुकृतिनः॥


उपपादयति-अत्र सहचरैर्निगडादिरूपकैः सुकृतिषु गजरूपकमाक्षिप्यते
उदाहरणान्तरं दर्शयितुमाह-यथा वा-उदाहरणं निर्दिश्यते-‘रूपजला चलनयना नाभ्यावर्ता कचावलीभुजगा
मज्जन्ति यत्र सन्तः सेयं तरूणीतरङ्गिःणी विषमा ॥

उदाहरणान्तरदाने बीजमुद्भावयति-पूर्वं तु कवेः समर्थ्यत्वेनाभिमतस्य रूपकस्याक्षेपः, इह तु समर्थकत्वेनाभिमतस्
नयनयोर्मीनरूपकस्येति विशेषः
ननु रूपकसंघातात्मकस्यास्य सावयवरूपकस्य कथं रूपकभेदेषु पृथग्गणनेति शङ्का
समाधातुमाह-अत्र च चमत्कारविशेषजनकतया रूपकसंघातात्मकमपि सावयवरूपक
रूपकालंकृतिभेदगणनायां गण्यते । यथा मौक्तिकालंकृतिभेदगणनायामेकं नासामौक्तिकमि
सङ्घातात्मकमौक्तिकमञ्जर्यादयोऽपि गण्यन्ते । अन्यथ
मालारूपस्योपमादेस्तद्भेदगणनेऽगणनप्रसङ्गात् । एतेन ‘गवां सङ्घातो गोभेदानां कपिलादीना

गणनायां यथा न गण्यते तथा रूपकभेदगणनाप्रस्तुतौ न तत्सङ्घातात्मकं सावयव
गणनीयम्’इति परास्तम्
सावयवरूपक-मालारूपकयोरेकतरेणापरस्य गतार्थत्वमाशङ्क्य तद्वारकं तयोर्वैलक्षण्यमाह-एवमस्मात्सङ्घातात्मकात्सावयवान्मालारूपकस्य सङ्घातात्मकत्वेनाविशेषेऽप्येकविषयकत्व-परस्परनिरपेक्षत्वाभ्यामस्ति महान् विशेषः
त्रिधा विभक्तेषु रूपकेषु प्रथमः सावयवात्मको भेदः सोपभेदो निरूपितः इदानीं द्वितीय
निरवयवात्मकं भेदं निरूपयितुमाह-निरवयवं केवलं यथा-उदाहरणं निर्दिश्यते-‘बुद्धिर्दीपकला लोके यया सर्वं प्रकाशते
अबुद्धिस्तामसी रात्रिर्यया किञ्चिन्न भासते ॥

उपपादयति-अत्र रूपकद्वयमपि सापेक्षरूपकसङ्घातात्मकत्वविरहान्निरवयवम् । मालात्मकत्वविरहाच्
केवलम्
निरवयवरूपकस्य द्वितीयमुपभेदमुदाहर्तुमाह-निरवयवं मालारूपकं यथा-उदाहरणं निर्दिश्यते-‘धर्मस्यात्मा भागधेयं क्षमायाः सारः सृष्टेर्जीवितं शारदायाः
आज्ञा साक्षाद् ब्रह्मणो वेदमूत्र्तेराकल्पान्तं राजतामेष राजा ॥


उपपादयति-एकविषयकनानापदार्थारोपरूपत्वान्मालारूपमिदम् । परस्परसापेक्षत्वविरहाच्च निरवयवम्
अथेदानीं निरूपणीयस्य रूपकतृतीयभेदस्य तावल्लक्षणमाह-यत्र चारोप एवारोपान्तरस्य निमित्तं तत्परम्परितम्
प्राग्लक्षितस्य परम्परितस्य द्वौ भेदौ श्लिष्टपरम्परितम्, शुद्धपरम्परितञ्च तत्राद्यस्
लक्षणमाह-तत्रापि समर्थकत्वेन विवक्षितस्यारोपस्य श्लेषमूलकत्वे श्लिष्टपरम्परितम्
श्लिष्ट-परम्परितरूपकमुदाहर्तुमाह

यथा-उदाहरणं निर्दिश्यते-‘अहितापकरणभेषज नरनाथ भवान् करस्थितो यस्य
तस्य कुतो हि भयं स्यादखिलामपि मेदिनीं चरतः॥

उपपादयति-अत्र द्वयोरप्यारोपयोः समर्थ्यसमर्थकभावस्य वस्तुतस्तुल्यत्वेऽप्यहिताना-मपकरणमेवाहीना
तापकरणमिति श्लेषमूलकेनारोपेण राजनि भेषजतादात्म्यारोपस्य समर्थनीयतय
कवेरभिप्रायः। अत एव भङ्गःश्लेषनिवेदितोऽहि भयाभावोऽपि सङ्गःच्छते
श्लिष्टपरम्परितं मालारूपमुदाहर्तुमाह-इदमेव मालारूपं यथा-उदाहरणं निर्देष्टुमाह-‘कमलावासकासारः क्षमाधृतिफणीश्वरः
अयं कुवलयस्येन्दुरानन्दयति मानवान् ॥

परम्परितद्वितीयभेदस्य प्रथममुपभेदमुदाहर्तुमाह-शुद्धपरम्परितं केवलं यथा-उदाहरणं निर्दिश्यते-‘देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता-देवं जल्पन्ति तावत्प्रतिभट-पृतना-वर्तिनः क्षत्र-वीराः
यावन्नायाति राजन्नयनविषयतामन्तकग्रासिमूर्त
मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजङ्गःः॥

उपपादयति-अत्रापि भुजङ्गारोपो दुग्धारोपसमर्थ्यत्वेनाभिमतः
परम्परितद्वितीयभेदस्य द्वितीयमुपभेदमुदाहर्तुमाह-तदेव मालारूपं यथा-उदाहरणं निर्दिश्यते-‘प्राचीसन्ध्या समुद्यन्महिमदिनमणेर्मानमाणिक्यकान्ति-ज्र्वालामाला कराला कवलितजगतः क्रोधकालानलस्य

आज्ञा कान्ता पदाम्भोरुहतलविगलन्मञ्जुलाक्षारसाभ
क्षोणीन्दो सङ्गःरे ते लसति नयनयोरुद्भटा शोणिमश्रीः॥


अथेदानीं सावयवरूपकपरम्परितरूपकयोर्भेदं दर्शयितुमाह-यद्यपि सावयवेऽप्यारोप आरोपान्तरस्योपायस्तथापि तत्रारोपातिरिक्तेन कवि-समय-सिद्ध-सादृस्येनाप्यारोपान्तरसिद्धिः सम्भवति । तथा प्रागुक्ते ‘सुन्दरि राकासि नात्र सन्देहः
इत्यत्र मौक्तिकादीनां तारात्वाद्यारोपं विनाप्यौज्ज्वल्यमात्रेणापि सुन्दर्थां राकारोपसिद्धेः, इ
तु नयनशोणिम्नि ज्वालाद्यारोपोऽनलसमारोपं नियमेनापेक्षते । एवं ‘कारुण्यकुसुमाकाश
खलः’ इत्यत्राकाशखलयोः सादृश्यस्याप्रसिद्धतयाऽऽरोपसिद्ध्यर्थमारोप एवोपाय इत
वैलक्षण्यम् । कश्चित्तु बह्वारोपात्मकात् सावयवादारोपद्वयात्मकमेवास्य वैलक्षण्य
बीजमित्याह
रूपकप्रभेदगणने न्यूनत्वं परिहरति-‘काव्यं सुधा रसज्ञानां कामिनां कामिनी सुधा
धनं सुधा सलोभानां शान्तिः संन्यासिनां सुधा ॥

अत्र विषयमालाकृतो न कश्चिच्चमत्कारविशेष इति न पृथग्भेदगणनायां गण्यते
आरोप्यमाणमाला तु चमत्कारविशेषशालित्वाद्गण्यत एव
सम्प्रति शिष्य-बुद्धि-वैशद्यार्थं परम्परितरूपकसम्बन्धिविशेषे विचारणीये प्रथम
श्लिष्टपरम्परितसम्बन्धिविशेषं विचारयति-अथ कथं नाम श्लिष्टपरम्परिते ‘कमलावासकासारः
इत्यादावेकस्यारोपस्यारोपान्तरोपायत्वम् । यतः श्लेषेण कमलानामावासस्य कमलाय
वासस्य चाभेदमात्रमत्र प्रतीयते, नैकत्रान्यारोपः। तस्य स्वतन्त्रविषयनिर्देशापेक्षत्वात ् । न
शुद्धाभेदप्रत्ययेनात्रार्थः यत्सम्बन्धिनि यत्सम्बन्ध्यभेदस्तस्मिस्तदभेद इत
‘कमलावासकासारः’इत्यादौ राजनि कासारारोपो राजसम्बन्धिनि लक्ष्म्याश्रयत्व
कासारसम्बन्धिसरोजाश्रयत्वाभेदारोपेण समर्थयितुं शक्यः श्लेषेण त
पुनर्लक्ष्म्याश्रयत्वसरोजाश्रयत्वयोरभिन्नत्वेन प्रत्ययादभिन्नधर्मनिबन्धन
राजकासासारयोरप्यभेदप्रत्ययः स्यात्, न तु राजनि विषये कासारविषयिकस्यारोपस्
प्रकृतस्य सिद्धिः। इमावभिन्नावित्याद्याकारस्य शुद्धाभेदप्रत्ययस्याप्रकृतत्वात्प्रागुक्त आरोप
मृग्यः। स च न श्लेषसाध्य इति । सत्यम् । श्लेषेण शुद्धाभेदप्रतीतौ सत्या

प्रकृतारोपसमर्थनायान्तरा मानसस्य राजसम्बन्धिनि कासारसम्बन्ध्यभेदारोपस्
कल्पनान्नानुपपत्तिः
शुद्धपरम्परिते विशेषं विचारयति-कथं तर्हि परम्परितरूपके सौजन्यचन्द्रिकाचन्द्रो राजा’ इत्यादौ रूपकत्वम्
अभेदारोपस्य सत्त्वेऽपि तस्य सादृश्यमूलकत्वाभावादिति चेत्, न । समर्थकारोपे
धर्मैक्यसम्पादने सादृश्यस्य निष्प्रत्यूहत्वात्
पुनरपरविधं रूपकसम्बन्धि-विचार विशेषं विधातुं शङ्कःते-स्यादेतत् । सौजन्यचन्द्रिकाचन्द्र इत्यत्र तत्पुरुषावयवे समानाधिकरणतत्पुरुष
चन्द्रिकायामभेदसंसर्गेण सौजन्यस्य विशेषणत्वात्प्रतीयमानश्चन्द्रिकागतः सौजन्याभेदो
राजनि चन्द्राभेदात्मकं रूपकं समर्थयितुं प्रभवति, यत्सम्बन्धिनि यत्सम्बन्ध्यभे
इत्यादिप्रागुक्तन्यायात् । अपि तु सौजन्ये विषये चन्द्रिकाभेदः। यथा-‘सौजन्यं त
धराशीश! चन्द्रिका त्वं सुधानिधिः।’ स च दुरुपपाद एव । न चानयो
समानवित्तिवेद्यत्वान्नानुपपत्तिरिति शक्यं वक्तुम्, प्रात्यक्षिके हि सामग्रयास्तुल्यत्वात्तत ् ।
तु शाब्दबोधे व्युत्पत्तिवैचित्र्यनियन्त्रिते । एवमन्यत्रापि कथं समासगत-शुद्ध-परम्परित
द्वयोरारोपयोर्निर्वाह्य-निर्वाहकभावः? कथं च शशिपुण्डरीकमित्याद
पुण्डरीकरूपकमुच्यते? पुण्डरीकाभेदात्मकस्य पुण्डरीकताद्रूप्यस्याभानात्
शश्यभेदप्रत्ययाच्च पुण्डरीकं शशीत्यत्रेव शशिरूपकमुच्यताम् । एवं नीलिमदिव्यतोय
तारावलीमुकुलमण्डलमण्डिते षोडशकलादलमङ्कःभृङ्गःमित्यत्राप्युत्तरपदार्थ
पूर्वपदार्थाभेदस्यैव भानात्पूर्वपदार्थरूपकापत्तिः
तथा-‘सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे
वदन-परिपूर्णचन्द्रे सुन्दरि! राकासि नात्र सन्देहः॥

इत्यत्र सुन्दर्यां विषयभूतायां राकातादात्म्यावगमात्स्फुटमेव तावद्राकारूपकम् । तत्
चरणत्रयगतानि रूपकाणि राकारूपकानुगुणतयोपात्तान्यपि नानुगुण्यमाचरन्ति
ताराचन्द्रिका-पूर्णचन्द्राणां मौक्तिक-धवलांशुक-वदनाभिन्नत्वे सिद्धेऽपि न सुंदर्या
राकातादात्म्यं सेद्धुमीष्टे प्रत्युत विपरीतं राकायां सुन्दरीताद्रूप्यं, तेषां राकासम्बन्धित् वात
सर्वमेव व्याकुलमिति

समाधत्ते-अत्र वदन्ति-अभेदस्तावद्विशेषणस्य संसर्गे भवति । स च यथा मुखं चन्द्र इत्याद
वाक्यगते रूपके स्वप्रतियोगिनश्चन्द्रस्य स्वानुयोगिनि मुखे विशेषणताया निर्वाहकस्तथै
समासगते मुखचन्द्र इत्यादौ रूपके स्वानुयोगिनो मुखस्य प्रतियोगिनि चन्द्र
विशेषणतायाः। एवं चोभयत्रापि वस्तुतश्चन्द्राभेद एव संसर्गः। क्वचिदनुयोगित्वमुखः
क्वचिच्च प्रतियोगित्वमुखः, विशेषण-विशेष्यभाववैचित्र्यात् । न तु मुखचन्द्र इत्यत्
मुखाभेदः संसर्गः। तथा सति चन्द्ररूपकतापत्तेः, मुखरूपकापत्तेश्च । स्वप्रतियोगिकाभे
एव विशेषणसंसर्गो न तु स्वानुयोगिकाभेद इति तु दुराग्रहः। एवं च सौजन्यचन्द्रिके त्याद
वस्तुतः सौजन्याभेदो न सौजन्यस्य चन्द्रिकाविशेषणस्य संसर्गः, अपि तु चन्द्रिकाभे
एव । तथा च सौजन्यनिष्ठाभेदप्रतियोगिनी चन्द्रिकेति पर्यवसितेऽर्थे, भङ्ग्यन्तरेण सौजन्य
चन्द्रिकाऽभेदसिद्धौ जातायां राजनि चन्द्राभेदोऽपि निष्पद्यते इति परम्परितेनानुपपत्तिः
शशिपुण्डरीकमित्यादावपि शशिनिष्ठाभेदप्रतियोगिपुण्डरीकमिति पर्यवसितेऽर्थ
पुण्डरीकाभेदस्य भानात्पुण्डरीकरूपकमव्याहतम् । एवमन्येष्वप्यवयवरूपकेषु बोध्यम्, एव
सुविमलमौक्तिकतारे इत्यादावपि ताराद्यभेदा एव मौक्तिकादिगतो मौक्तिकादीना
तारादिविशेषणानां संसर्गोभवन् राकारूपकस्य समर्थको भवतीति सर्वं सुस्थम्
सोऽयमभेदो यत्रानुयोगित्वमुखस्तत्र रूपकस्य विधेयता । यत्र
प्रतियोगित्वमुखस्तत्रानुवाद्यत्वमिति दिक्
परम्परितरूपकस्य प्रभेदान्तरमवतारयति-तत्र ‘प्राची सन्ध्या समुद्यन्महिमदिनमणेः’ इत्यत्रारोप्यमाणयो
परस्परमारोपविषययोश्चानुकूल्ये रूपकयोरनुग्राह्यानुग्राहकभावो दर्शितः
पूर्वावतारणासूचितभेदान्तरं दर्शयितुमाह-प्रातिकूल्ये यथा-उदाहरणं निर्दिश्यते-‘आनन्दमृगदावाग्निः शीलशाखिमदद्विपः
ज्ञानदीपमहावायुरयं खलसमागमः॥

उदाहरणान्तरं निर्देष्टुं कथयति-यथा वा

उदाहरणं निर्दिश्यते-‘कारुण्यकुसुमाकाशः शान्तिशैत्यहुताशनः
यशःसौरभ्यलशुनः पिशुनः केन वण्र्यते ॥

उपपादयति-एकत्र नाश्यनाशकभावरूपमपरत्र चात्यन्तिकसंसर्गशून्यतारूप
प्रातिकूल्यमुपमानयोस्तथैवोपमेययोश्च । अनुग्राह्यानुग्राहकभावः पुनरारोपयोरविशिष्ट एव
परम्परितरूपकस्य भिन्नविधं वैचित्र्यं चित्रयितुमुदाहरणान्तरमाह-तथा-‘अयं सज्जनकार्पासरक्षणैकहुताशनः
परदुःखाग्निशमनमारुतः केन वण्र्यते ॥


उपपादयति-अत्र रक्षणशमनपदे विरोधिलक्षणया विपरीतार्थबोधके
अवान्तरप्रकरणसमाप्तिं सूचयति-एवं पदार्थरूपकं लेशतो निरूपितमेव
वाक्यार्थरूपकं निरूपयिष्यन् तावत्तल्लक्षणमाह-वाक्यार्थे विषये वाक्यार्थान्तरस्यारोपे वाक्यार्थरूपकम्
दृष्टान्तद्वारा वाक्यार्थरूपकगतं विशेषं स्फोरयितुमाह-यथाहि विशिष्टोपमायां विशेषणानामुपमानोपमेयभाव आर्थस्तथात्रापि वाक्यार्थघटकाना
पदार्थानां रूपकमर्थावसेयम्
उदाहरणं निर्दिश्यते-‘आत्मनोऽस्य तपोदानैर्निर्मलीकरणं हि यत्
क्षालनं भास्करस्येदं सारसैः सलिलोत्करैः॥

उपपादयति-अत्रात्मनि तपोदानेषु चारोपविषयविशेषणतया बिम्बभूतेषु, भास्करस्य सलिलोत्करादीनां
विषयि-विशेषणत्वेन प्रतिबिम्बानां रूपकं गम्यमानं प्रधानीभूतविशिष्टरूपकाङ्गःम्
दीक्षितमतमुत्थाय निरस्यति

‘नेदं रूपकम् । रूपके बिम्ब-प्रतिबिम्बभावो नास्ति ’इति केनाप्यालङ्कारिकम्मन्ये
प्रतारितस्य दीर्घश्रवसो द्रविडस्योक्तिरश्रद्धेयैव । ययोरिवादिशब्दप्रयोगे उपम
तयोरेकत्रान्यारोपे रूपकमिति नियमात् । अत्र यदि रूपकं नाङ्गीकुरुषे मैवाङ्गीकुरु, तर्ह
तत्रैव यथादिशब्दप्रयोगे उपमामपि । एवं ‘त्वयि कोपो महीपाल सुधांशाविव पावक :
इत्यादौ स्वकल्पितेन विशिष्टेन धर्मिणा सादृश्यस्य प्रत्ययादुपमां ब्रूषे, ब्रूहि तर्हि तत्रैवेवस्
निरासे ‘त्वयि कोपो महीपाल सुधांशौ हव्यवाहनः ’इत्यादौ रूपकमपि
वाक्यार्थरूपकस्योदाहरणान्तरमाह-तथा-‘कुङ्कुमद्रवलिप्ताङ्गःः काषायवसनो यतिः
कोमलातपबालाभ्रः सन्ध्याकालो न संशयः॥

इत्यादावपि विशिष्टरूपकं बोध्यम्
‘त्वयि कोप’ इत्यतः ‘कुङ्कुम’ इत्यत्र यो भेदस्तमाह-त्वयि कोप इत्यत्र विषयिणः स्वबुद्धिकल्पितत्वात्कल्पितं विशिष्टरूपकम् । इह तु न तथेत
विशेषः
आशङ्क्य समाधत्ते-न चैवमादौ प्रतीयमानोत्प्रेक्षा वक्तुं शक्या, अभेदस्य निश्चीयमानत्वात् । उत्प्रेक्षायां
सत्यां सम्भाव्यमानता स्यात् । अन्यथा मुखं चन्द्र इत्यादावपि प्रतीयमानोत्प्रेक्षापत्त्य
रूपकविलोपापत्तेः
अथ रूपकालङ्कारविशिष्टात्पदाद् वाक्याद्वा जायमानं बोधं विचारयितुं प्रतिजानीते-अथ बोधो विचार्यते-तत्र प्राचीनमतमाह-तत्र प्राञ्च:- ‘विषयिवाचकपदेन विषयिवृत्तिगुणवतो लक्षणया सारोपयोपस्थितौ, विषय
तस्याऽभेदेन संसर्गेण विशेषणतयाऽन्वयः। एवं च मुखं चन्द्र इत्यत्र चन्द्रवृत्तिगुणवदभिन्न
मुखमिति धीः। अत एवालङ्कारभाष्यकारः ‘लक्षणापरमार्थं यावता रूपकम् ’इत्याह । न
चन्द्रसदृशं मुखमित्युपमातोऽस्य को भेदः। बोधवैलक्षण्याभावेन विच्छित्तिवैलक्षण्याभावात
। वृत्तिमात्रवैलक्षण्यस्याप्रयोजकत्वादिति वाच्यम् । लाक्षणिकबोधोत्तरं जायमाने
प्रयोजनीभूतेनाभेदबोधेनैव वैलक्षण्यात् । निरूढलक्षणातिरिक्ताया लक्षणाया

प्रयोजनवत्तानियमात्। अभेदबुद्धेश्च वृत्त्यन्तरवित्तिभाव्यत्वेन न बाधबुद्धिप्रतिबध्यत्वम ्
इत्याहुः
तत्रैव नवीनमतमाह-नव्यास्तु-‘नामार्थयोरभेदसंसर्गेणान्वयस्य व्युत्पत्तिसिद्धत्वाच्चन्द्राभिन्नं मुखमिति लक्षणा
विनैव बोधः। फलस्यान्यथैवोपपत्तेर्लक्षणाकल्पनस्यान्याय्यत्वात् । किञ्च यदि च रूपक
लक्षणा स्यान्मुखचन्द्र इत्यत्रोपमितविशेषणसमासयोरुत्तरपदस्
लाक्षणिकत्वाविशेषादेकस्योपमात्वमन्यस्य रूपकत्वमिति व्याहतं स्यात् । अपि च मुखं
चन्द्रसदृशमपि तु चन्द्र इत्यादौ सादृश्यव्यतिरेकमिश्रिते सादृश्यबुद्धेरयोगात् एव
देवदत्तमुखं चन्द्र एव यज्ञदत्तमुखं तु न तथा, अपि तु चन्द्रसदृशमित्यादौ नञर्थस्
लक्ष्यमाणचन्द्रसदृशान्वयित्वात् ‘न चन्द्रसदृशश्चद्रसदृशम्’ इति बोधकदर्थानापत्तेश्च । नह
नञः फलीभूतज्ञानविषयेणाभेदेनान्वयो युक्तः, एतदन्वयवेलायां तस्यानुपस्थितेः
तादृशाभेदबोधस्य चाहार्यत्वान्न बाधबुद्धिप्रतिबध्यत्वम् । यद्वा आहार्यान्यत्वस्ये
शाब्दान्यत्वस्यापि बाधनिश्च्यप्रतिबध्यतावच्छेदककोटौ निवेशः। सति च बाधनिश्चय
तद्वत्ताशाब्दबुद्धेरनुत्पादः, योग्यताज्ञानविरहात् । सति च क्वचिदाहार्ये योग्यताज्ञान
तद्बद्धेरिष्टत्वात् । अत एव योग्यताज्ञनस्य बाधनिश्चयपराहतस्यापि शाब्दधीहेतुत्वम्
तस्मादन्यतरप्रकारेण काव्ये सर्वत्र बोधोपपत्तिः। अपि च तद्गतधर्मवत्त्वबुद्धेः कथ
तदभेदबुद्धिः फलं स्यात् । नाहि साधारणधर्मावच्छिन्नाभेदज्ञानस्
तत्तदसाधारणधर्मावच्छिन्नाभेदज्ञाने हेतुत्वं क्वाप्यवगतम् । घटपटयोद्र्रव्यत्वेनाभेदग्रहेऽप
घटत्वादिना भेदग्रहात् । तदभिन्नत्वेन ज्ञानस्य पुनस्तद्धर्मप्रतिपत्तिः फलं स्यात्
प्रवाहाभिन्नज्ञानस्येव शैत्यपावनत्वादिप्रतिपत्तिः
अत एव-‘कृपया सुधया सिञ्च हरे मां तापमूच्र्छितम्
जगज्जीवन तेनाहं जीविष्यामि न संशयः॥

इत्यादावमृताभिन्नत्वबोधे सत्येव कृपायाः सेके कारणत्वेनान्वयः। तादृशसेकस्य जीवन
हेतुत्वेन इति दिक्
तृतीयान्तपदबोध्यसाधारणधर्मकरूपकस्थले बोधं विचारयति-अथ कथं ‘गाम्भीर्येण समुद्रोऽयं सौन्दर्येण च मन्मथः’इत्यत्र बोधः

शृणु-प्राचां तावल्लक्ष्यमाणैकदेशे सादृश्ये प्रयोज्यता अभेदस्य वा तृतीयार्थस्यान्वयाद
गाम्भीर्यप्रयोज्यसमुद्रसादृश्यवदभिन्नोऽयम्, गाम्भीर्याभिन्नसमुद्रवृत्तिधर्मवदभिन्नोऽय मिति व
धीः। लक्षणां विनैव अभेदसंसर्गेणान्वयवादिनां पुनरित्थम्-कविना स्वेच्छामात्रादुपकल्पित
असन्तोऽप्यन्तःकरणपरिणामात्मका अर्था उपनिबध्यन्ते मुखचन्द्रादयः। तेषु
साधारणधर्माणामस्त्येव प्रयोजकत्वम्, तद्दर्शनाधीनत्वात्तन्निर्मितेः। एवं
गाम्भीर्यादिप्रयोज्यसमुद्राद्यभिन्न इति बुद्धिरप्रत्यूहेति । यद्वा ज्ञानजन्यज्ञानप्रकारत्व
तृतीयार्थः, वह्निमान् धूमादित्यादौ पञ्चम्यर्थतया तस्य कल्पनात् । एवं
गाम्भीर्यज्ञानजन्यज्ञानप्रकारसमुद्राभिन्न इत्यादिर्बोधः
अभेदात्मकस्यास्य रूपकस्य वाक्यार्थे त्रिधा भानं भवतीति लक्ष्यप्रदर्शनमुखे
स्फोरयितुमाह-तदिदं रूपकं विषयविषयिणोः सामानाधिकरण्ये अपदार्थतया संसर्गः। यथ
‘बुद्धिर्दीपकला ’इत्यादौ
वाक्यार्थेऽभेदात्मकरूपकभानस्य प्रथमां विधां स्फोरयित्वा सम्प्रति द्वितीयां विधा
स्फोरयितुमाह-वैयधिकरण्ये च शब्दार्थतया क्वचिद् विशेष्यम्
यथा-‘कैशोरे वयसि क्रमेण तनुतामायाति तन्व्यास्तना-वागामिन्यखिलेश्वरे रतिपतौ तत्कालमस्याज्ञया
आस्ये पूर्णशशाङ्कःता नयनयोस्तादात्म्यमम्भोरुहा
किं चासीदमृतस्य भेदविगमः साचिस्मिते तात्त्विकः॥

अत्र शशाङ्कःता-तादात्म्य-भेदविगमशब्दैरभिधीयमानं रूपकं प्रथमान्त-विशेष्यतावादिना
मते विशेष्यम् । क्रियाविशेष्यतावादिनां तु तत्रैव किञ्चिद् व्यत्यासेन निष्ठान्तक्रियादा ने
वाक्यार्थेऽभेदात्मकरूपकभानस्य तृतीयां विधां स्फोरयितुमाह-क्वचिच्च विशेषणम्
यथा -‘अविचिन्त्यशक्तिविभवेन सुन्दरि प्रथितस्य शम्बररिपोः प्रभावतः
विधुभावमञ्चतितमां तवाननं नयनं सरोजदलनिर्विशेषताम् ॥

इह द्वितीयार्थे विशेषणीभूतं विधुत्वादि विध्वभेदात्मकतया रूपकम्
समासगतरूपकस्थले बोधप्रकारं सूचयितुमाह-एवं मुखचन्द्र इत्यादावुपमितसमासे तावदुपमैव । विशेषणसमासे तु रूपकम् । बोधश्
शशिपुण्डरीकमित्यादाविव प्राक्प्रतिपादितदिशा बोध्यः
व्याधिकरणरूपकविशेषस्थले शाब्दबोधं दर्शयितुमाह-‘मीनवती नयनाभ्यां करचरणाभ्यां प्रकुल्लकमलवती
शैवालिनी च केशैः सुरसेयं सुन्दरी सरसी ’॥

इत्यादौ तृतीयाया अभेदार्थकत्वात्तस्य च प्रागुक्तदिशा प्रतियोगित्वमुखस्यार्थवशादन्वये
नयननिष्ठाभेदप्रतियोगिमीनवतीति बोधः। मीनवत्त्वं च स्वाभिन्नद्वारकम् । एतत्स्फोरणायै
नयनाभ्यामित्युक्तम् । मीनाभिन्ननयनवतीति तु पर्यवसितम् । नयनाभेदे तु मीनेषु गृह्यमाण
सरसीरूपकापोषणादित्युक्तमेव
रूपके साधारणधर्मस्थितिं विचारयति-साधारणधर्मश्चात्राप्युपमायामिव क्वचिदनुगामी क्वचिद्बिम्बप्रतिबिम्बभावापन्न
क्वचिदुपचरितः क्वचिच्च केवलशब्दात्मा । सोऽपि क्वचिच्छब्देनोपात्तः
क्वचित्प्रतीयमानतया नोपात्तः
उपात्तमनुगामिनं धर्ममुदाहत्र्तुमाह-उपात्तोऽनुगामी यथा-उदाहरणं निर्दिश्यते-‘जडानन्धान्पङ्गून्प्रकृतिबधिरानुक्तिविकलान
ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन्
निलिम्पैर्निर्मुक्तानपि च निरयान्तर्निपतत
नरानम्ब त्रातुं त्वमिह परमं भेषजमसि ॥

उपपादयति-अत्र त्रातुमिति तुमुन्नन्तेन शब्देनोपात्तं जडान्धादित्राणं भेषजभागीरथ्योः। अनुपात्तमनुगामिन
धर्ममुदाहर्तुमाह-अयमेवानुक्तो यथा-उदाहरणं निर्दिश्यते

‘समृद्धं सौभाग्यं सकलवसुधायाः किमपि त-न्महैश्वर्यं लीलाजनितजगतः खण्डपरशोः
श्रुतीनां सर्वस्वं सुकृतमथ मूर्तं सुमनसा
सुधासाम्राज्यं ते सलिलमशिवं नः शमयतु’॥

उपपादयति-अत्र सौभाग्यभागीरथ्योः स्वाभावव्यापकदौर्भाग्यत्व परमोत्कर्षाधायकत्वादिरनुपात्त:-प्रतीयमानो धर्मः। एवमीश्वरासाधारणधर्मत्व-परमगोप्यत्वनिरतिशयसुखजनकत्वान्यापामर-सकलजनजरामृत्युहरणक्षमत्वं चोत्तरोत्तरारोपेष्वनुगामीति
बिम्ब-प्रतिबिम्बभावापन्नं साधारणधर्मं पूर्वमुदाजहारेति स्मारयति-बिम्बप्रतिबिम्बभावमापन्नो विशिष्टरूपकप्रसङ्गे निरूपितः
उपचरितं साधारणधर्ममुदाहर्तुमाह-उपचरितो यथा-उदाहरणं निर्दिश्यते-‘अविरतं पर-कार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम्
अपि च मानसमम्बुनिधिर्यशो विमलशारदचन्दिरचन्द्रिका ॥

उपपादयति-अत्रामृतरूपके विषये वचस्युपचरितो मधुरिमातिशयः शब्देनोपात्तः। अम्बुनिध्यादिरूपके
गाम्भीर्याद्यनुपात्तम्
केवलशब्दात्मकं साधारणधर्ममुदाहर्तुमाह-केवलशब्दात्मको यथा-उदाहरणं निर्दिश्यते-‘अङ्किःतान्यक्षसङ्घातैः सरोगाणि सदैव हि
शरीरिणां शरिराणि कमलानि न संशयः॥

उपपादयति-अत्र सरोगशब्दादिरुपात्त एव प्रतीयते न लुप्तः। आद्यो ह्यभङ्गो द्वितीयस्तु भग्नः
अस्य भेदान्तरमाह-अयमेव साधारणो यत्र युक्तिरूपेणोपन्यस्यते तद्धेतुरूपकम्

उदाहरणं निर्देष्टुमाह-यथा-उदाहरणं निर्दिश्यते-‘पञ्चशाखः प्रभो यस्ते शाखा सुरतरोरसौ
अन्यथाऽनेन पूर्यन्ते कथं सर्वमनोरथाः॥

हेतुरूपकस्योदाहरणान्तरं निर्देष्टुमाह-एवम्-उदाहरणमाह-‘प्राणेशविरहक्लान्तः कपोलस्तव सुन्दरि
मनोभवव्याधिमत्त्वान्मृगाङ्कःः खलु निर्मलः॥

उपपादयति-इह श्लेषेण रसचन्द्रयोः कपोले ताद्रूप्यप्रत्ययाद्द्विरूपकं निरवयवम् । हेतुस्तु त्रिषुश्लिष्
एव
भेदप्रदर्शनसमाप्तिं सूचयन्नाह-एवमन्येऽपि प्रकारा ज्ञेयाः
विशेषमाह-‘उल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पंधयाना
निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम्
उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपात
सङ्घातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ॥

अत्रोपमेय उपमानस्य नारोपः, अपि तु कारणे कार्यस्येति रूपकं न भवतीति प्राञ्चः
एतन्मतानुसारेणैवास्माभिरपि लक्षितम् । उच्छृङ्खःलाः पुनरारोपमात्रं रूपकं वदन्त इहाप
रूपकमेवाचक्षत इति प्रागेव निरूपितम्
स्थलविशेषे साधारणधर्मस्वरूपं स्फोरयितुं शङ्कासमाधाने विधत्ते-ननु-‘यशःसौरभ्यलशुनः शान्तिशैत्यहुताशनः
कारुण्यकुसुमाकाशः पिशुनः केन वण्र्यते ॥

इत्यत्र लशुनहुताशनाकाशैः पिशुनस्य किं साधम्र्यम्, येन तेषामस्मिन् रूपकमुच्यत इत
चेत्, यशःसौरभ्ययोः शान्तिशैत्ययोः कारुण्यकुसुमयोश्च ताद्रूप्य
शब्दादुपस्थापितेऽनन्तरमुपस्थितं यशोरूपसौरभ्याद्यभाववत्त्वमेतत्
एवं स्थितौ अन्योन्याश्रयमाशंक्य समाधत्ते-एवमपि लशुनखलयोस्ताद्रूप्यसिद्धौ सत्यां लशुनरूपखलावृत्तित्वेन यशःसौरभ्ययोस्ताद्रूप्य
सिद्ध्येत्, यशःसौरभ्ययोस्ताद्रूप्यसिद्धौ च यशोरूपसौरभ्यशून्यत्वे
लशुनखलयोस्ताद्रूप्यम्, इत्यन्योन्याश्रयो नाशङ्कःनीयः। सकलसिद्धेः कल्पनामयत्वे
कल्पनायाश्च स्वप्रतिभाधीनत्वात् । शिल्पिभिः परस्परावष्टम्भमात्राधीनस्थितिकाभि
शिलेष्टकाभिर्गृहविशेषनिर्माणाच्च
रूपकध्वनिमुदाहर्तुमाह-अथास्य ध्वनि:-रूपकध्वनेः प्रथमभेदमुदाहर्तुमाह-तत्र शब्दशक्तिमूलो यथा-उदाहरणं निर्दिश्यते-‘विज्ञत्वं विदुषां गणे सुकवितां सामाजिकानां कुल
माङ्गःल्यं स्वजनेषु गौरवमथो लोकेषु सर्वेष्वपि
दुशर्वृत्ते शनितां नृलोकवलये राजत्वमव्याहत
मित्रत्वं च वहन्नकिञ्चनजने देव त्वमेको भुवि ॥

उपपादयति-अत्र शक्तिनियन्त्रणेऽपि बुधत्व-शुक्रत्वादीनि बुधाद्यभेदरूपाणि राजनि व्यज्यन्ते
उदाहरणान्तरं दर्शयितुमाह-यथा वा-उदाहरणान्तरं प्रदर्शयति-‘अविरलविगलद्दानोदकधाराऽऽसारसिक्तधरणितलः
धनदाग्रमहितमूत्र्तिर्देव ! त्वं सार्वभौमोऽसि’॥

अथशक्तिमूलकं रूपकध्वनिमुदाहर्तुमाह-अर्थशक्तिमूलो यथा

उदाहरणं निर्दिशति-‘कस्तूरिकातिलकमालि विधाय साय
स्मेरानना सपदि शीलय सौधमौलिम्
प्रौढिं भजन्तु कुमुदानि मुदामुदारा-मुल्लासयन्तु परितो हरितो मुखानि ॥

उपपादयति-अत्र त्वदीयमाननं कलङ्कः-चन्द्रिका-विशिष्टचन्द्राभिन्नमिति रूपकं कुमुदविकासादिन
ध्वन्यते न तु भ्रान्तिमान् । कुमुदानां हरितां चाऽचेतनत्वात् । न चाऽचेतनेष
मुदामसम्भवादवश्यं कुमुदादिषु चेतनत्वारोपेण भाव्यम्, तेन च भ्रान्तिसिद्धिरिति वाच् यम्
मुत्पदस्य विकासे लाक्षणिकत्वात्
उदाहरणान्तरं दर्शयितुमाह-इदं वा विविक्तमुदाहरणम्-उदाहरणं दर्शयति-‘तिमिरं हरन्ति हरितां पुराः स्थितं तिरयन्ति तापमथ तापशालिनाम्
वदनत्विषस्तव चकोरलोचने! परिमुद्रयन्ति सरसीरुहश्रियः॥

उपपादयति-इहापि वदनं चन्द्र इति गम्यते
ध्वनिकारोक्तं रूपकध्वनिं निरस्यति-आनन्दवर्धनाचार्यास्तु-‘प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्या-न्निद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि
सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात्-स्त्वय्यायाते विकल्पानिति दधत इवाभाति कम्पः पयोधेः॥

अत्र रूपकाश्रयेण काव्यचारुत्वव्यवस्थापनाद्रूपकध्वनिः’इत्याहुः
तच्चिन्त्यम् । अत्र च जलाधिकम्पहेतुत्वेन विकल्पत्रयं कल्प्यते । तच्च प्रकृत
राजविशेष्यिकां जलनिधिगतामनाहार्यविष्णुतादात्म्यज्ञानरूपां भ्रान्तिमेवाक्षिपति, न रू पकम
। तज्जीवातोराहर्यविष्णुतादात्म्यनिश्चयस्य कम्पाजनकत्वात् । कविजलधिगतत्वे

वैयधिकरण्याच्च । अज्ञातमेव केवलं विष्णुतादात्म्यं जलधेः कम्पेऽनुपयुक्तमेव
चमत्कारिण्यपि चात्र भ्रान्तिरेवेति ध्वनिरपि तस्या एव युक्तः
अथास्य दोषं निरूपयति-अथास्यापि कविसमयविरुद्धतया चमत्कारापकर्षका लिङ्गःभेदादयो दोषाः सम्भवन्ति
दोषोदाहरणं दर्शयितुमाह-यथा-उदाहरणं दर्शयति-‘बुद्धिरब्धिर्महीपाल ! यशस्ते सुरनिम्नगा
कृतयस्तु शरत्कालचारुचन्दिरचन्द्रिका ॥

दूषकताबीजमाह-अत्र विषयविषयिणोर्लिङ्गादिकृतं वैलक्षण्यं ततोस्याद्रूप्यबुद्धौ प्रतिकूलम्
दोषत्वेनाभिमतानामपि लिङ्गःभेदादीनां क्वचिददोषतामाह-क्वचित्कविसमयसिद्धतया चमत्कारहानिराहित्ये तु नामी दोषाः
लिङ्गःभेदादेरदोषत्वमुदाहर्तुमाह-यथा-उदाहरणं निर्दिशति-‘सन्ताप-शान्तिकारित्वाद्वदनं तव चन्द्रमाः ’इत्यादौ हेतुरूपके
रूपकनिरूपणान्तरं सम्प्रति ‘परिणाम ’ निरूपणं प्रतिजानीते-अथ परिणाम:-तत्र तावत्तल्लक्षणमाह-विषयी यत्र विषयात्मतयैव प्रकृतोपयोगी न स्वातन्त्र्येण, स परिणामः
रूपक-परिणामयोर्भेदज्ञापनायाह-अत्र च विषयाभेदो विषयिण्युपयुज्यते । रूपके तु नैवमिति रूपकादस्य भेदः
उदाहरणं प्रदर्शयितुमाह-अयमुदाह्रियते-उदाहरणं निर्दिशति-‘अपारे संसारे विषमविषयारण्यसरण

मम भ्रामं भ्रामं विगलितविरामं जडमतेः
परिश्रान्तस्यायं तरणितनयातीरनिलय
समन्तात् सन्तापं हरिनवतमालस्तिरयतु ॥

उपपादयति-अत्र भगवदात्मतयैव तमालस्य संसारतापनिवर्तनक्षमत्वम्
मार्गश्रान्तजनसन्तापहारकत्वाद्रमणीकशोभाधारत्वाच्च तमालो विषयितयोपात्तः। अय
समानाधिकरणो वाक्यगः
समागतं समानाधिकरणं परिणाममुदाहर्तुमाह-समासगोतं यथा-उदाहरणं दर्शयति-‘महर्षेव्र्यासपुत्रस्य श्रावं श्रावं वचःसुधाम्
उप(अभि)मन्युसुतो राजा परां मुदमवाप्तवान् ॥

व्यधिकरणं परिणाममुदाहर्तुमाह-व्यधिकरणो यथा-उदाहरणं समुपस्थापयति-‘अहीनचन्द्रा लसताऽऽननेन ज्योत्स्नावती चापि शुचिस्मितेन
एषा हि योषा सितपक्षदोषा तोषाय केषां न महीतले स्यात् ॥

उपपादयति-अत्र सर्वेषामेव तोषाय स्यादित्यनेन विरहिजनतोषजनकत्वमपि लभ्यते
तच्चारोप्यमाणशुक्लपक्षरजन्याः स्वात्मना बाधितम्, योषारूपेण तु सङ्गःच्छत इति भवत
परिणामः। स च परस्परसापेक्षबहुसङ्घात्मकतया सावयवः। तत्राद्यार्धगतौ द्वाववयव
व्यधिकरणौ द्वितीयार्धगतश्चैकः समानाधिकरणः
निरसनीयमप्पय्यदीक्षितमतमुत्थापयति-यच्चाप्पय्यदीक्षितैर्वैयधिकरण्येन परिणामे उदाहृतम्-‘तारानायकशेखराय जगदाधाराय धाराधर-च्छायाधारककन्धराय गिरिजासङ्गैकश्रृङ्गारिणे
नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिण

नागैः कङ्कःणिने नगेन गृहिणे नाथाय सेयं नतिः॥

यथा वा-‘द्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्प-श्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः
द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व-न्नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः॥

इति

प्रागुंक्त दीक्षितमतं निरस्यति-अत्र चिन्त्यते-तारानायकशेखरायेति पद्ये गिरिजासङ्गैकशृङ्गारिणि भवे कविकर्तृका नति
प्रक्रान्ता । शृङ्गारिता च शेखरादीनि भूषणान्यपेक्षत इति नद्य
आरोप्यमाणशेखररूपतयैवोपयोगः न स्वरूपेण । एवं दृशोऽपि तिलकरूपतयेत
रूपकमेव शुद्धं भवितुमर्हति । ननु परिणामे विषयाभिन्नतया विषय्यवतिष्ठत इत्युक्तम्
प्रकृते च विषयवाचकेभ्यो नद्यादिशब्देभ्यः परस्यास्तृतीयाया अभेदार्थकत्वाच्छेखरादेश्
तदन्वयित्वात्कथं नात्र परिणाम इति चेत्, न । विषयाभिन्नत्वेन विषयिणो भानेऽपि ते
रूपेण तस्यानुपयोगात् । द्विर्भावः पुष्पकेतोरिति पद्येऽपि कोविदानन्दजनन-जगदुत्कर्ष
कथ्येते राज्ञो नृसिंहस्य । तत्र कोविदानन्दजनकत्वमपि राज्
आरोप्यमाणाद्वितीयमन्मथादिताद्रूप्येण यथा सम्भवति न तथा केवलस्वरूपेण । तथाहि-अहो नयनानामस्मदीयानां साफल्यं यदयमपरो मन्मथोऽस्माभिरालोक्यत इति मन्यमानाना
तेषां नयनानन्दस्तावत्पुष्पकेतुनैवोपपाद्यते, न तु राज्ञा । एवमपरोऽय
कल्पतरुश्चिन्तामणिद्वितीयः कर्ण इन्द्रश्च भूगतोऽयमन्यो दारिद्र्यमस्माकं परिहरिष्यति
हरिःखल्वयं संसारं हरिष्यतीत्यभिमानाज्जायमानस्तेषामानन्दोऽप्यारोप्यमाणै
कल्पवृक्षादिभिरेवेति न विषयात्मना विषयिण उपयोगः, अपि तु स्वात्मनैवेति कुत्रास्त
परिणामः
खण्डनाय सर्वस्वकारमतमुपन्यस्यति-अलङ्कारसर्वस्वकारस्तु-‘आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः’इति सूत्रयित्व
‘आरोप्यमाणं रूपके प्रकरणोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते
परिणामे तु प्रकृतात्मतयारोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणतया परिणमति’ इत
व्याख्यातवान्

प्रागुक्तसर्वस्वकारोक्तं खण्डयति-अत्रापि चिन्त्यते-आरोप्यमाणस्य प्रकृतोपयोग इत्यस्य प्रकृतकार्ये उपयोग-आहोस्वित
प्रकृतविषयात्मतया उपयोगोऽर्थः? न तावदाद्यः
‘दासे कृतागसि भवत्युचितः प्रभूणा
पादप्रहार इति सुन्दरि! नास्मि दूये
उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रै-र्यत्खिद्यते तव पदं ननु सा व्यथा मे ॥

इति त्वदुदाहृतरूपकोदाहरणे आरोप्यमाणानां कण्टकानां प्रकृतखेदव्यथारूपकार्य
उपयोगेनातिप्रसङ्गात् न द्वितीयः
‘अथ पक्त्रिमतामुपेयिवद्भिः सरसैर्वक्त्रपथाश्रितैर्वचोभिः
क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरङ्गःमाद्यैः॥


इत्यत्र स्वोक्तव्यधिकरणपरिणामोदाहरणासङ्गत्यापत्तेः। यतो राजसङ्घःटन
ह्युपायनस्यारोप्यमाणस्य स्वात्मनैवोपयोगः न तु विषयवचोरूपया । वचसां त
विषयाणामारोप्यमाणामस्योदाहरणं साधु । इदं तु पुनव्र्यधिकरणरूपकं भवितुमर्हति
तृतीयार्धाभेदोऽपि मीनवतीनयनाभ्यामित्यत्रेव प्रकृत्यर्थानुयोगिको बोध्यः
मतान्तरमाह-केचित्तु क्वचित्केवलो विषयः स्वात्मना न प्रकृतोपयोगीत्ययमारोप्यमाणाभिन्नतयाऽवतिष्ठते
तत्रारोप्यमाणपरिणामः। यथा-‘वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ’। अत्
वदनमिन्द्वभिन्नतयाऽवतिष्ठते, केवलस्य वदनस्य दृक्छिशिरीकारकत्वायोगात्
क्वचिच्चारोप्यमाणः स्वात्मना न प्रकृतकार्योपयोगीत्ययं विषयाभिन्नतयाऽवतिष्ठते, तत्
विषयपरिणामः। यथा- ‘वदनेनेन्दुना तन्वी स्मरतापं विलुम्पति’
अत्रेन्दुर्वदनाभिन्नतयाऽवतिष्ठते, केवलस्येन्दोः स्मरतापापनोदकत्वायोगात् । एवं
परिणामद्वयात्मकमिदं रूपकमेव भवितुमर्हति । विषयतावच्छेदक-विषयितावच्छेदकान्यतरपुरस्कारेण निश्चीयमानविषयिविषयान्यतरत्वस्य तल्लक्षणत्वात् । अ
एवोक्तम्-‘तद्रूपकमभेदो य उपमानोपमेययो:’इति । तस्मान्न रूपकात्परिणामोऽतिरिच्यते
इति वदन्ति
अथ परिणामालङ्कारविशिष्टवाक्यजबोधं विचारयितुं प्रक्रमते

अथ बोध:-कतिपयेषु स्थलविशेषेषु विचारयति-हरिनवतमाल इत्यत्र भगवदभिन्नतमाल इति निर्विवादैव धीः। तथा श्रावं श्राव
वचःसुधामित्यत्र विशेषणसमासगतपरिणामे वचनाभिन्नां सुधामिति, पायं पाय
वचःसुधामितिरूपके तु वचोनिष्ठाभेदप्रतियोगिनीं सुधामिति बुद्धिः। एवं च ‘वदनेने न्दुन
तन्वी स्मरतापं विलुम्पति ’इति व्यस्तपरिणामे ‘वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ ’ इत
व्यस्तरूपके च बोधवैलक्षण्यम्
तथा-‘शान्तिमिच्छसि चेदाशु सतां वागमृतं शृणु
हृदये धारणाद्यस्य न पुनः खेदाम्भवः॥

इति परिणामे, शृण्विति विहाय पिबेति कृते तत्रैव रूपके
‘विद्धा मर्मणि वाग्बाणैर्घूर्णन्ते साधवः खलैः
सद्भिर्वचोऽमृतैः सिक्ता: पुनः स्वस्था भवन्ति ते ॥

इति रुपके च बोधव्यवस्थितिः। तथा ‘अहीनचन्द्रा लसताऽऽननेन ज्योत्स्नावती चाप
शुचिस्मितेन’ इति व्यधिकरणपरिणामेऽभेदस्
तृतीयार्थत्वाल्लसदाननाभिन्नहीनेतरचन्द्रयुक्तेति धीः। मीनवती नयनाभ्यामित्यत्र त
सरसीतादात्म्यारोपो बाधकाभावात्तावत्सिद्धः। तस्य
मीनयोर्नयनाभेदारोपेणासमर्थनान्नयनयोर्मीनाभेदारोपो मृग्यः। स च तृतीयाया
प्रकृत्यर्थाभेदार्थकतायां न सम्भवतीति यथाकथञ्चित्तस्या
प्रकृत्यर्थनिष्ठाभेदप्रतियोगित्वार्थकत्वं वाच्यम् । तेन नयननिष्ठाभेदप्रतियोगिमीनयुक्तेति धीः
एवं चारोप्यमाणे विषयप्रतियोगिकाभेदस्याभानान्न परिणामः, अपि तु रूपकमेव । इयमे
सरणिः ‘नद्या शेखरिणे दृशा तिलकिने-’इति प्रागुक्ताप्पय्यदीक्षितदत्तोदाहरणे
‘वचोभिरुपायनं चकर- ’इत्यलङ्कारसर्वस्वोदाहरणे च बोध्या । पुनरारोप्यमाण
यथाकथञ्चिद्विषयाभेदप्रत्ययमात्रात्परिणामतोच्यते, नाद्रियते च प्रकृतोपयोगस्तद
‘प्रकृतोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम्’इति तदुदाहृतरूपकस्य परिणामतापत्तिः
प्रेमलतिकामिति समासे प्रेम्णो विषयस्य लतिकायामारोप्यमाणायामभेदेन विशेषण त्वादित
दिक्

परिणामालङ्कारध्वनिनिरूपणं प्रतिजानीते-अथ परिणामध्वनिर्विचार्यते-अप्पाय्यदीक्षितोक्तमनूद्य खण्डयति-तत्र यत्तावदप्पय्यदीक्षितैर्विद्याधरोक्तं ध्वन्युदाहरणमनूद्य दूषितम्-‘तथाहि-‘नरसिंह धरानाथ! के वयं तव वर्णने
अपि राजानमाक्रम्य यशो यस्य विजृम्भते ॥

अत्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्रारोप्यमाणस्य नृपस्याक्रमणरूपकार्योपयोगिन
प्रतीतेः परिणामो व्यज्यते इति, तदयुक्तम् । तत्र ह्यारोप्यमाणस्य नृपस्
नृपात्मनैवाक्रमणोपयोगः, न चन्द्रात्मना ’इति । तदसत् । अत्र विजृम्भणं नाम न केवल
प्रागल्भ्यमात्रं कवेरभिप्रेतम्, येन यशःकर्तृकाक्रमणे नृपस्य नृपात्मनैव कर्मतारूपउपयोग
स्यात् । अपि तु निरतिशयनैर्मल्यगुणवत्तायां स्वसमानजातीयद्वितीयराहित्यप्रयुक्त
प्रौढिविशेषः। आक्रमणं तु न्यग्भाव एव । एवं चैवंविधविजृम्भण
चन्द्रकर्मकमेवाक्रमणमुपयुज्यते, न तु नृपकर्मकमिति विषयितया व्यज्यमानस्यापि नृपस्
चन्द्रात्मनैवाक्रमणोपयोग इति रमणीयमेव विद्याधरेणोक्तं परिणामव्यङ्ग्यतायामुदाहरणम्
दीक्षितोक्तमन्यदपि खण्डयति-यद्यपि तैरेव परोक्तिं दूषयित्वा स्वयं परिणामस्य व्यङ्ग्यतायामुक्तम्-‘‘चिराद् विषहसे तापं चित्त! चिन्तां परित्यज
नन्वस्ति शीतलः शौरेः पादाब्जनखचन्द्रमाः॥

अत्र चिरतापार्तं प्रति हरिपादनखचन्द्रसद्भावप्रदर्शनेन तमेव निषेवस्व तन्निषेवणादयं त
तापः शान्तिमेष्यतीति परिणामो व्यज्यते ’’इति, तत्तुच्छम् । ‘आरोप्यमाणस्
विषयात्मकत्वेन प्रकृतकार्योपयोगे परिणामः ’इति स्वयमेवोक्तम् । तत्
प्रकृतकार्योपयोगमात्रं न परिणामशरीरम् । अपि तु विषयिगतायाः प्रकृतकार्योपयोगिताय
अवच्छेदकीभूतं विषयताद्रूप्यम् । एवं चात्र नखचन्द्रसद्भावप्रदर्शनेन तन्निषेवणादयं त
तापः शान्तिमेष्यतीति प्रकृतोपयोगिताया व्यङ्ग्यत्वेऽपि तदवच्छेदकीभूतस्य विषयिण
विषयताद्रूप्यरूपस्य परिणामस्य वाक्यवाच्यत्वात् शक्यसंसर्गत्वाद्वा सर्वथैव न व्यङ्ग्यत्व
वक्तुमुचितम्

स्वसम्मतं परिणामध्वन्युदाहरणं दर्शयितुमाह-इदं तूदाहरणं युक्तम्-उदाहरणं निर्दिशति-‘इन्दुना परसौन्दर्यसिन्धुना बन्धुना विना
ममायं विषमस्तापः केन वा शमयिष्यते ॥

उपपादयति-अत्र वक्तुर्विरहितया व्यज्यमानरमणीवदनाभिन्नत्वेनेन्दुरभिप्रेतः। तेन रूपेणैव तस्
प्रकृतविरहसन्तापशमनहेतुत्वात्
अत्रातिशयोक्तिमाशङ्क्य निराकुरुते-न चात्र विषयनिगरणात्मिकातिशयोक्तिर्वक्तुं शक्या, तस्यां ह्यारोप्यमाणाभिन्नत्वेन विषयस्
प्रत्ययात् । यथा ‘कमलं कनकलतायाम्’ इत्यादौ कनकलताऽभिन्नायां वनिताया
कमलाभिन्नं मुखमिति
ननु प्रकृते कीदृशी प्रतीतिर्याऽतिशयोक्तेः प्रतिकूला परिणामस्य चानुकूलेति चेत ्? तादृशी
प्रतीतिमुपपादयति-इह तु मुखस्य चन्द्राभिन्नत्वेन प्रतत्यये न पुनर्विरहतापशमनरूपप्रकृतकार्यसिद्धिरित
चन्द्रस्यारोप्यमाणस्य मुखरूपविषयाभिन्नत्वं मृग्यम् । तच्च व्यङ्ग्यतायामेव भवतीत
परिणामध्वनिरेवायम्, नातिशयोक्तिः
ध्वनि-विशेषत्वं प्रकृतध्वनेः स्फोरयति-अयं त्वर्थशक्तिमूलः
भेदान्तरमुदाहर्तुमाह-शब्दशक्तिमूलपरिणामध्वनिर्यथा-उदाहरणं निर्दिशति-‘पान्थ मन्दमते किं वा सन्तापमनुविन्दसि
पयोधरं समाशस्वा येन शान्तिमवाप्नुयाः॥

उपपादयति

अत्र झगिति तापशमहेतुत्वेनोपस्थिते पश्चान्मद-(मति-पद)-बोधनीयवि-शेष्यकस्मरतापवत्तावैशिष्ट्यबुद्धौ सत्यां सहृदयस्य तादृशतापशमकरमणी-स्तनरूपविषयताद्रूप्यबुद्धिर्भवति
परिणामगतदोषपरिचायनायाह-दोषाश्चात्रापि पूर्ववदुन्नेयाः
परिणामालङ्कारनिरूपणानन्तरमिदानीं ससन्देहालङ्कारनिरूपणं कर्तव्यत्वेन प्रतिजानीते-अथ ससन्देह:-तत्र तावत्तल्लक्षणमाह-सादृश्यमूला भासमानविरोधका समबला नानाकोट्यवगाहिनी धी रमणीय
ससन्देहालङ्कृतिः
पदकृत्यान्याह-‘अधिरोप्य हरस्य हन्त चापं परितापं प्रशमय्य बान्धवानाम्
परिणेष्यति वा न वा युवाऽयं निरपायं मिथिलाधिनाथपुत्रीम् ॥

अत्र मिथिलास्थजनोक्तौ तच्चिन्ताभिव्यञ्जके संशयमात्रेऽतिव्याप्तिवारणाय सादृश्यमूलेति
सादृश्यज्ञानरूपदोषजन्येत्यर्थः। तेन ‘सिंहवतत्प्रान्तरं गच्छ गृहं सेवस्व वा श्ववत्
इत्युपमाविकल्पे वाकारप्रतीतविरोधकप्रान्तरगमनगृहसेवनरूपनानाधर्मावगाहिन
सादृश्यविषयकेऽपि नातिप्रसङ्गःः। तस्य सादृश्यज्ञानरूपत्वात् । मालारूपकातिप्रसङ्गःवारणा
भासमानविरोधकेति । उत्प्रेक्षाव्यावृत्तये समबलेति समानभासकसामग्रीत्वार्थकम्
एतद्विशेषणद्वयप्राप्तस्यैवानेकत्वस्य स्फुटत्वार्थं नानेति । स्थाणुर्वा पुरुषो वेत
लौकिकसंशयनिवृत्तये रमणीयेति, चमत्कारिणीत्यर्थः। एतच्च विशेषण
सामान्यालङ्कारलक्षणप्राप्तमेव । एवमुपस्कारकत्वमपि बोध्यम् । एतद्विशेषणद्वयस्
सादृश्यमूलत्वस्य चाभावे संशयमात्रमेव
ननु संशये विरोधो न भासते मानाभावात्
किंत्वविरोधित्वज्ञानाभावविशिष्टनानाकोटिकज्ञानमेव संशय इति कुत उक्तलक्षणमित्यता
लक्षणान्तरमाह-यद्वा ‘सादृश्यहेतुका निश्चयसम्भावनान्यतरभिन्ना धी रमणीया संशयालङ्कृतिः’
संशयालङ्कृतिं विभनक्ति

सा च शुद्धा निश्चयगर्भा निश्चयान्ता चेति त्रिविधा
तत्र प्रथमभेदमुदाहर्तुमाह-आद्या यथा-उदाहरणं प्रदर्शयति-‘मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमालः
रघुपतिमवलोक्य-तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे ॥

द्वितीयं भेदमुदाहर्तुमाह-द्वितीया यथा-उदाहरणमाह-‘तरणितनया किं स्यादेषा न तोयमयी हि स
मरकतमणिज्योत्स्ना वा स्यान्न सा मधुरा कुतः
इति रघुपतेः कायच्छायाविलोकनकौतुके-र्वनवसतिभिः कैः कैरादौ न सन्दिदिहे जनैः॥

तृतीयं भेदमुदाहर्तुमाह-तृतीया यथा-उदाहरणमाह-‘चपला जलदाच्युता लता वा तरुमुख्यादिति संशये निमग्नः
गुरुनिःश्वसितैः कपिर्मनीषी निरणैषीदथ तां वियोगिनीति’ ॥

नन्वेषूदाहरणेषु संशयस्यैव प्राधान्येनान्योपस्कारकत्वविरहात्कथमलङ्कारत्वमत आह-एषु संशयेषु मञ्जूषादिगतकटकादिष्विवालङ्कारव्यपदेशः
प्रत्युदाहरणं दर्शयति-एवं च-‘तं दृष्टवान् प्रथममद्भुतधैर्यवीर्य-गाम्भीर्यमक्षणविमुक्तसमीपजानिम्
वीक्ष्याथ दीनमबलाविरहव्यथार्त
रामो न वाऽयमिति संशयमाप लोकः॥

इत्यत्र सत्यपि चमत्कारे सादृश्यमूलत्वाभावान्न संशयस्यालङ्कारत्वम्

विशेषं सूचयति-एवमारोपमूलोऽयं सन्देहालङ्कारः
प्रागुक्तस्य त्रिविधस्यापि ससन्देहालङ्कारस्यान्यमतसिद्धं त्रैविध्यमाशंक्य निरस्यति-अध्यवसानमूलोऽपि दृश्यते
यथा-‘सिन्दूरैः परिपूरितं किमथवा लाक्षारसैः क्षालित
लिप्तं वा किमु कुङ्कुमद्रवभरैरेतन्महीमण्डलम्
सन्देहं जनयन्नृणामिति परित्रातत्रिलोकस्त्विषा
व्रातः प्रातरुपातनोतु भवतां भव्यानि भासां निधेः॥

अयं च संशयः सवितृविषयककविरतिपरिपोषकतया कामिनीकरगतकङ्कःणादिरि
मुख्यतयाऽलङ्कृतिव्यपदेश्यः। अत्र च विवक्षितविवेचने क्रियमाणे किरणव्रात
सिन्दूरत्वादिकोटिकः संशयः पर्यवस्यति । स च न सारोपः
विषयविषयिणोस्तदनुकूलविभक्तेरभावात् । अतः सिन्दूरत्वादिना संशयधर्म
किरणव्रातोऽध्यवसीयत इति । अत्र विचार्यते-सिन्दूरैः परिपूरितं किमथवेति पद्य
तावत्सिन्दूरादिकरणकपरिपूरितत्वादिकोटिको जगन्मण्डलधर्मिकः संशयः शब्दात्प्रतीयते
तस्मिंश्च संशये किमिदं सिन्दूररजो वा स्यात्, आहोस्विल्लाक्षारसः, उताहो कुङ्कुमद्र
इति सूर्यकिरणधर्मिकं संशयान्तरमानुगुण्यमाधत्ते । यथा पुरोवर्तिनि तुरगे स्थाणुर्वा पुरुष
वेति संशयो भूतलमिदं स्थाणुमत्पुरुषवद्वेति संशये । एवञ्च सूर्यकिरणधर्मिकः संशय
गुणीभूतो व्यञ्जनागम्यत्वाद्विषयविषयिणोरारोपानुकूलविभक्तिकतां नापेक्षते । अपेक्षते
साक्षाच्छब्दवेद्यतायामिति कुत्राध्यवसानमूलता संशयस्य? एतेनाध्यवसानमूलतां संशयस्
निरूपयतो विमर्शिनीकारस्योक्तिरपास्ता
अप्पय्यदीक्षितोक्तमनूद्य निरस्यति-अप्पय्यदीक्षितास्तु-‘अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिग्रद
शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः
वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहल
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥

इत्यत्र चन्द्रादीनां सन्देहधर्मिणामेवानेकत्वम् । प्रकारस्त
वर्णनीयवनितास्रष्टत्वमेकमेवेत्यनेककोटिकत्वाभावद्विरोधेन परस्परप्रतिक्षेपकतय
निबद्धानेककोट्यवगाहित्वरूपस्य संशयलक्षणस्याव्याप्तिमाहुः। तन्न । अत्र हि अस्या
सर्गविधौ यः प्रजापतिरभूत्स किं चन्द्रः, किं नु मदनः, किं वा नु वसन्त इति संशय
प्रजापतिधर्मिकश्चन्द्रत्वादिनानाकोटिक एवेति कुत्राव्याप्तिः। न चात्र चन्द्रादिधर्मिकः संशय
युक्तो वक्तुम् । एवं च प्रजापतेः प्रथमोद्देशो न स्यात्
दीक्षिताभिप्रेतमन्यदपि निराचष्टे-यदपि, ‘साम्यादप्रकृतार्थस्य या धीरनवधारणा ’इति प्राचां लक्षणं महता प्रबन्धेन त ए
दूषितवन्त:, तदपि न । साम्यनिमित्ता निश्चयसम्भावनान्यतरभिन्ना या धीरिति तदर्थकरण
दोषाभावात् । निश्चयत्वं तु संशयाघटितमेव निर्वचनीयम्
विशेषमाह-उक्तेषूदाहरणेषु सोऽयं संशयालङ्कारः स्वशब्दवेद्यत्वाद्वाच्यः
लक्ष्य ससन्देहालङ्कारमुदाहर्तुमाह-लक्ष्यो यथा-उदाहरणमुपदर्शयति-‘साम्राज्यलक्ष्मीरियमृष्यकेतोः सौन्दर्यसृष्टेरधिदेवता वा
रामस्य रामामवलोक्य लोकैरिति स्म दोला रुरुहे तदानीम् ॥

उपपादयति-अत्र पर्यायेणोभयकोट्यालम्बनतया दोलासादृश्यात् संशयोऽत्र दोलाशब्देन लक्ष्यते
व्यङ्ग्यं ससन्देहालङ्कारमुदाहर्तुमाह-व्यङ्ग्योऽयं यथा-उदाहरणमुपन्यस्यति-‘तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्विकासम्
आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धालिकिशोरमाला ॥

उपपादयति-अत्र कमलधर्मिकोऽभेदेन संसर्गेण पुरोवर्तिव्यक्तिद्वयप्रकारकः कमलमिदं वेति भ्रमरगत
संशयो व्यङ्ग्यः। न च कमलाभेदबुद्धेभ्र्रमरप्रवृत्त्युपायतयाऽपेक्षणादिद

पदार्थाभेदबुद्धिर्निरर्थिकेति वाच्यम्
एकपदार्थधर्मिकापरपदार्थाभेदबुद्धेरपरपदार्थधर्मिकैकपदार्थाभेदबोधप्रयोजकत्वे
कमलाभेदबोधसाम्राज्यात् । कमलत्वमेतद्वृत्ति तद्वृत्ति वेति संशयाकारः। सोऽय
संशयध्वनिः
सन्देहालङ्कारध्वनेरुदाहरणान्तरन्निरस्यति-‘आज्ञा सुमेषोरविलङ्घःनीया किं वा तदीया नवचापयष्टिः
वनस्थिता किं वनदेवता वा शकुन्तला वा मुनिकन्यकेयम् ॥


यद्यप्यत्रापि वाचकशब्दाभावाद् व्यङ्ग्य एव भवितुमर्हति संशयः, तथापि विषयनिरूपणे
स्फुटमावेदितत्वान्न ध्वनिव्यपदेशहेतुः। अपि तु गुणीभूतव्यङ्ग्यप्रभेदव्यपदेशस्य, अनुगाम
चात्र प्रतिप्रकारं पृथगेव निर्दिष्टः
निरसितुम् अप्पय्यदीक्षितोक्तं सन्देहध्वन्युदाहरणं तद्विवरणञ्चोद्धरति-यत्तु चित्रमीमांसायां संशयध्वन्युदाहरणप्रसङ्गे अप्पय्यदीक्षिता:-‘‘काञ्चित् काञ्चनगौराङ्गी वीक्ष्य साक्षादिव श्रियम्
वरदः संशयापन्नो वक्षःस्थलमवैक्षत ॥

अत्र संशयस्य शब्दोपात्तत्वेऽपि तावन्मात्रस्यानलङ्कारत्वात्तदलङ्कारताप्रयोजकस्य वक्षःस्थल
स्थितैव लक्ष्मीस्ततोऽवतीर्य पुरस्तिष्ठतीत्येवं संशयाकारस्य वक्षःस्थलमवैक्षतेत्यने
व्यङ्ग्यत्वात् सन्देहालङ्कारध्वनिरत्रेति
यथा-‘दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः
वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कान्यपि चकार लज्जया ॥

इत्यत्र कानि कान्यपीति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थं लज्जाशब्दप्रयोगेऽप
तस्याः स्वविभावानुभावाभ्यां रसानुगुणाभिव्यक्तिरूपो ध्वनिः’’इत्याहुः
निरस्यति-तदेतद् ध्वनिमर्मज्ञैरुपहसनीयमेव
उपहसनीयत्वे हेतुमाह-तथाहि संशयाविष्ट इत्यत्र संशयपदेनैकस्मिन् पदार्थे विरुद्धनानापदार्थसम्बन्धावगाहिज्ञान
साक्षादेव निवेद्यते । तत्र कोऽसौ विरुद्धो नानार्थ इति विशेषाकाङ्क्षायां वक्षःस्थलावेक्ष णे

वक्षःस्थलस्थैव लक्ष्मीस्ततोऽवतीर्य किं पुरस्तिष्ठतीत्यादिरर्थो व्यञ्जनाव्यापारेण बोध्यमान
शक्त्या संशयशब्दनिवेदितज्ञानविशेषणीभूतेन सामान्यार्थेन साकमभेदेन पर्यवस्यति । एव
च संशयमात्रस्य शक्त्या बोधनाद्वक्षःस्थलस्थितैवेत्यादिविषयभागस्यापि विरुद्धनानार्थत्वे
सामान्याकारेणावलीढतया तथैव कवलीकरणाद्वाच्यार्थसंशयपर्यवसायकत्वाच्च न कस्याप
ध्वनिव्यपदेशहेतुत्वं युक्तम् । सर्वथा वाच्यवृत्त्यचुम्बितस्यैव तथात्वमिति ध्वनिमार्गप्रवर्तकै
सिद्धान्तितत्वात्
तथा च द्वितीयोद्द्योते-‘‘शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः
यत्राविष्क्रियते स्वोक्त्या साऽन्यैवालङ्कृतिध्र्वनेः॥


इति सूत्रयित्वा
‘सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया
हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥

अत्र सङ्केतकालमनसं ज्ञात्वा लीलापद्मं निमीलितमिति वदता कविन
लीलापद्मनिमीलनस्य प्रदोषाभिव्यञ्जकत्वं स्वोक्त्यैव निवेदितमिति ध्वनिमार्गादयमपर ए
गुणीभूतव्यङ्ग्यस्य मार्गः
यथा वा-‘अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तात
निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथाऽत्र
अस्मिन् पापाहमेका कतिपयदिवसप्रोषितप्राणनाथ
पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ॥

अत्र निःशङ्कं रन्तुमायाहीत्यर्थश्चरणत्रयव्यङ्ग्योऽप्यवसरव्याहृतेव्र्याजत्वं ब्रुवता कविना स्फुट
स्वोक्त्या निवेदित इत्ययमपि न ध्वनेर्मार्गः’ इत्याहुरानन्दवर्धनाचार्याः
तृतीयोद्योते च गुणीभूतव्यङ्ग्यनिरूपणे ‘व्यङ्ग्यस्यार्थस्य यदि मनागप्युक्त्या प्रकाशनं तद
गुणीभाव एव शोभते । तस्माद्यत्रोक्तिं विना व्यङ्ग्योऽर्थस्तात्पर्येण प्रतीयते तत्र तस्
प्राधान्याद् ध्वनित्वम्’इति तद्युक्तिविवेचनेऽभिनवगुप्तपादाचार्याः
एवं चैवंविधेषु विषयेषु व्यञ्जकत्वस्य व्यङ्ग्यस्य वा मनागुक्तिसंस्पर्शमात्रेण ध्वनित्व
निराकुर्वाणाः ‘काञ्चित् काञ्चनगौराङ्गीं-’इति पद्ये शब्दाभिहितव्यङ्ग्ये ध्वनित्वं कथमि

स्वीकुर्वीरन् । एतेन ‘दर्पणे च परिभोरादर्शिनी ’इति प्रागुक्तपद्ये लज्जाध्वनित्व
यद्दीक्षितैरभ्यधीयत तदप्यपास्तमिति दिक्
ससन्देहालङ्कारे साधारणधर्मस्थितिं विचारयति-अस्मिंश्च संशये नानाकोटिषु क्वचिदेक एव समानो धर्मः। क्वचित् पृथक् । सोऽप
क्वचिदनुगामी, क्वचिद् बिम्बप्रतिबिम्बभावमापन्नः, क्वचिदनिर्दिष्ट:, क्वचिन्निर्दिष्टः
क्रमेण तत्तद्धर्मोदाहरणप्रदर्शनप्रसङ्गे प्रथममनुगामिनोऽनिर्दिष्टस्यैस्य तस्योदाहरणमाह-तत्र ‘मरकतमणिमेदिनीधरो वा ’ इति प्रागुदाहृतपद्ये श्यामाभिरामत्वं धर्मिणो रामस्
कोट्योश्च तमाल-मरकत-भूधरयोरेक एवानुगामी धर्मः प्रतीयमानत्वादनिर्दिष्टः
निर्दिष्टमेकमनुगामिनं धर्ममुदाहर्तुमाह-स एव निर्दिष्टो यथा-उदाहरणमुपन्यस्यति-‘नेत्राभिरामं रामाया वदनं वीक्ष्य तत्क्षणम्
सरोजं चन्द्रबिम्बं वेत्यखिलाः समशेरत ॥

उपपादयति-अत्र नेत्राभिरामत्वरूपस्त्रिष्वेक एवानुगामी धर्मो निर्दिष्टः
उक्तभिन्नानुगामिधर्मोदाहरणं स्मारयति-पृथगनुगामी निर्दिष्टो यथा प्रागुदाहृते ‘आज्ञा सुमेषोः ’इत्यादौ
तादृशस्य धर्मस्योदाहरणान्तरं दातुमाह-यथा वा-उदाहरणमुपन्यस्यति-‘सम्पश्यतां तामतिमात्रतन्वीं शोभाभिराभासितसर्वलोकाम्
सौदामिनी वा सितयामिनी वेत्येवं जनानां हृदि संशयोऽभूत् ॥

उपपादयति-अत्रातिमात्रतनुत्वं सौदामिन्या, शोभाभिराभासितसर्वलोकात्वं च सितयामिन्या स
कान्तायाः पृथगनुगामी समानो धर्मः
अनुक्तभिन्नानुगामिसाधारणधर्मोदाहरणप्रदर्शनायाह-अत्रैव पूर्वार्धगतविशेषणद्वयत्यागे स एवानिर्दिष्टः

बिम्बप्रतिबिम्बभावापन्नपृथङ्निर्दिष्टसाधारणधर्मोदाहरणं स्मारयति-बिम्बप्रतिबिम्बभावमापन्नो यथा ‘तीरे तरुण्या वदनं सहासम् ’इत्यादौ प्रागुक्ते
तादृशधर्मोदाहरणान्तरं निर्देष्टुमाह-यथा वा-उदाहरणमुपन्यस्यति-‘सपल्लवा किं नु विभाति वल्लरी सफुल्लपद्मा किमियं नु पद्मिनी
समुल्लसत्पाणिपदां स्मिताननामितीक्षमाणैः समलम्भि संशयः॥

उपपादयति-अत्र पल्लवफुल्लपद्मे पाण्याननयोः प्रतिबिम्बकोट्योः पृथङ् निर्दिष्टे
बिम्बप्रतिबिम्बभावापन्नस्य निर्दिष्टस्योदाहरणं दत्त्वाऽनिर्दिष्टस्य तदाह-‘इदमुदधेरुदरं वा नयनं वाऽत्रेरुतेश्वरस्य मनः
दशरथगृहे तदानीमेवं संशेरते स्म कवयोऽपि ॥

उपपादयति-अत्र तदानीमिति प्रकरणसाहाय्यवशाद्दशरथगृहेण धर्मिणाऽक्षिप्तस्य तत्कालजातस्
भगवतो रामस्य जलध्युदरादिसंशयकोटित्रयाक्षिप्तः साधारणश्चन्द्रः प्रतिबिम्बः। इमौ
बिम्बप्रतिबिम्बावनिर्दिष्टावपि प्रतीयमानौ सादृश्यं प्रयोजयतः। एतेन ‘अनुगाम्येव धर्मो लुप्त
सम्भवति, न तु बिम्बितः’इति वदन्तः परास्ताः। इति दिक्
विशेषमाह-अयं च क्वचिदनाहार्यः, क्वचिदाहर्यः। यत्र हि कविना परनिष्ठः संशयो निबध्यत
प्रायशस्तत्रानाहार्यः। यथा ‘तीरे तरुण्याः’ ‘मरकतमणिमेदिनीधरो वा’ इत्यादिषु प्रागुदाहृतेष
पद्येषु । तत्र भ्रमरादीनां संशयानानां ग्राह्यनिश्चयाभावात् । यत्र च स्वगत एव तत्राऽहायर्ः
यथा-‘अलिर्मृगो वा नेत्रं वा यत्र किञ्चिद् विभासते
अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः॥

अत्र वक्तुः कवेस्तत्त्वज्ञतया संश्यावाहार्यावेव
अपरं विशेषमाह-परम्परितोऽपि चायं सम्भवति

विद्वद्दैन्यतमस्त्रिमूर्तिरथवा वैरीन्द्रवंशाटवी-दावाग्निः किमहो महोज्ज्वलयशःशीतांशुदुग्धाम्बुधिः
किंवाऽनङ्गःभुजङ्गःदष्टवनिताजीवातुरेवं नृणा
केषामेव नराधिपो न जनयत्यल्पेतराः कल्पनाः॥

अत्राप्याहार्यः
‘यत्र स्वगत एव संशयस्तत्राहार्यः’ इति यदुक्तं प्राक् तत्रैवकारेण कृतमवधारणमयुक्तमित
साम्प्रतमाह-क्वचित् परनिष्ठोऽपि कविना निबध्यमान आहार्यो भवति
तादृशमुदाहरणं दर्शयितुमाह-यथा-उदाहरणमुपन्यस्यति-‘गगनाद् गलितो गभस्तिमानुत वाऽयं शिशिरो विभावसुः
मुनिरेवमरुन्धतीपतिः सकलज्ञः समशेत राघवे॥


उपपादयति-अत्र मुनेर्वशिष्ठस्य सर्वज्ञत्वेनोपात्तस्य संशय आहार्य एव
‘गगनात्-’ इति पद्यवर्णितस्य सन्देहस्यानाहार्यतामाशंक्य समाधत्ते-यद्यप्यत्र ‘मुनीनां च मतिभ्रमः ’इत्युक्त्या तस्यानाहार्यं एव संशयो वक्तुं शक्य:, तथाप
कोटितावच्छेदकयो: शिशिरत्वगगनगलितत्वयोरग्निसूर्यरूपकोटिद्वय
आहार्यबोधस्यैवावश्यवाच्यतया पुरोवर्तिनि कोटिद्वयाभेदांशेऽपि तस्यैव न्याय्यत्वात् । इ
च कोट्योर्धर्मिसादृश्यदाढ्र्यायोष्णत्वगगनगतत्वरूप-वैधम्र्यनिरासकमविद्यमानमप
गगनगलितत्वं शिशिरत्वं चारोप्यते वक्त्रा
उपसंहरति-एवमादयोऽन्येऽपि प्रकाराः सुधीभिः स्वयमुन्नेयाः
ससन्देहालङ्कारनिरूपणानन्तरमिदानीं भ्रान्तिमदलङ्कारनिरूपणं प्रतिजानीते-अथ भ्रान्तिमान्-आदौ भ्रान्तिमदलङ्कारस्य लक्षणमाह

सदृशे धर्मिणि तादात्म्येन धम्र्यन्तरप्रकारकोऽनाहार्यो निश्चयः सादृश्यप्रयोज्यश्चमत्का र
प्रकृते भ्रान्तिः। सा च पक्षुपक्ष्यादिगता यस्मिन् वाक्यसन्दर्भेऽनूद्यते स भ्रान्तिमान्
प्रतिज्ञाविरोधाभावायाह-अत्र च भ्रान्तिमात्रमलङ्कारः। भ्रान्तिमानलङ्कार इति व्यवहारस्त्वौपचारिकः। तथा चाहु:-‘प्रमात्रन्तरधीभ्र्रान्तिरूपा यस्मिन्ननूद्यते
स भ्रान्तिमानिति ख्यातोऽलङ्कारे त्वौपचारिक ’ ॥ इति
लक्षणे निविष्टानां विशेषणानां फलान्युपदर्शयति-लक्षणे मीलित-सामान्य-तद्गुण वारणाय धर्मिग्रहणद्वयम् । रूपकवित्तिवारणायानाहार्
इति कविभिन्नगत इति वा । संशयवारण निश्चय इति । इदं रजतमित
रङ्गःविशेष्यकबोधवारणाय चमत्कारीति । कविप्रतिभानिर्वर्तित इत्यर्थः रङ्गे रजतमित
बुद्धेर्लौकिकतया न कविप्रतिभानिर्वर्तित्वम्
‘अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम्
इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ॥

इत्यत्र नायिकासन्देशहारस्योक्तौ व्यज्यमानस्योन्मादस्य वारणाय सादृश्यप्रयोज्य इति ।
चात्रोन्मादस्य प्राधान्यात् सकलालङ्कारसाधारणेनोपस्कारकत्वविशेषणेनैव वारणमित
वाच्यम् । तस्यापि पार्यन्तिकविप्रलम्भोपस्कारकत्वात् । यद्वा सन्देशहरात् संदेशं श्रुतवत
नायकस्य स्वमित्रं प्रति यदेदं वाक्यं ‘अकरुणहृदय- ’इत्यादि तदास्मिन्नेव पद्य
सेतिपदव्यङ्ग्यायाः स्मृतेरुपस्कारके उन्मादे तथाप्यतिप्रसङ्गापत्ते
सादृश्यप्रयोज्यत्वमावश्यकम् । लक्षणे चात्रैकत्वं विवक्षितम् । अन्यथ
वक्ष्यमाणानेकगृहीतृकानेकप्रकारकैकविशेष्यक-भ्रान्तिसमुदायात्मन्युल्लेखेऽतिप्रसङ्गापत्तेः
अत एवैकवचनमपि सार्थकम्
भ्रान्त्यलङ्कारोदाहरणं निर्देष्टुमाह-उदाहरणम्-उदाहरणमुपन्यस्यति-‘कनकद्रवकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया
चपलायुतवारिदभ्रमान्ननृते चातकपोतकैर्वने ॥

उपपादयति

अत्र चातकगतहर्षोपस्कारकतया तद्गता भ्रान्तिरलङ्कारः
किञ्चिद्व्यत्यासेन प्रोक्तपद्यस्यैव भ्रान्तिध्वनेरुदाहरणत्वं दर्शयति-यदि ‘परिफुल्लपतत्त्रपल्लवैर्मुमुदे चातकपोतकैर्वने’ इत्युत्तरार्धं निर्मीयते तदायमे
भ्रान्तिध्वनिः
दीक्षितोक्तं लक्षणमनूद्यावद्यति-यच्चाप्पय्यदीक्षितैर्लक्षणमुक्तम्-‘कविसम्मतसादृश्याद्विषये पिहितात्मनि
आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः॥

इति
‘तत्र कविसम्मतसादृश्यप्रयोज्ये विषये आरोप्यमाणानुभवो यत्र वाक्सन्दर्भे स भ्रान्ति मान्
इति भ्रान्तिमतो लक्षणं विधाय रूपकव्यावृत्त्यर्थं पिहितात्मनीत्युच्यते । न चैतद्युक्तम् । नह
रूपकवाक्ये आरोप्यमाणस्यानुभवो वण्र्यते, किं तु तस्माज्जायते । न चात्रानुभवान्त
भ्रान्तेर्लक्षणमग्रिमं च भ्रान्तिमतः। तत्र भ्रान्तिलक्षणे रूपकेऽतिव्याप्तेर्वारणाय विषय
पिहितात्मनीति विशेषणमिति वाच्यम् । अनुभवत्वघटितस्
भ्रान्तिलक्षणस्यानुभूयमानाभेदात्मके रूपकं कथमप्यप्रवृत्तेः। यदि च रूपकपद
रूपकबुद्धिपरमिति ग्रन्थसामञ्जस्यं विधीयते तदापि विषयतावच्छेदकानवगाहिन
‘मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमालः ’इति संशयेऽतिप्रसङ्गात्
‘कमलमिति चञ्चरीकाश्चन्द्र इति चकोरास्त्वन्मुखमनुधावन्ति’इत
भ्रान्तिसमुदायात्मन्युल्लेखेऽतिव्याप्तेश्च । अत्र भ्रान्त्या सङ्कीर्ण उल्लेख इति चेत्
नह्येतावतोल्लेखांशातिव्याप्तिर्न दोषः। नहि दुग्धजलभागानां व्यामिश्रतास्तीति दुग्धलक्षण
जलांशातिव्याप्तिकं कर्तुं युक्तम्
दीक्षितोद्धृतं भ्रान्तिविशेषोदाहरणमनूद्यालोचयति-यच्चापि भिन्नकर्तृकोत्तरोत्तरभ्रान्तावुदाहृतम्-‘शिञ्जानैर्मञ्जरीति स्तनकलशयुग चुम्बितं चञ्चरीकै-स्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः
तल्लोपायालपन्त्यः पिकनिनदधिया ताडिता काकलोकै-रित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम् ॥

इति

तत्र विचार्यते-स्तनकलशयुगे हि न तावन्मञ्जरीसादृश्यं कविसमयसिद्धम्, येन तन्मूल
चञ्चरीकाणां भ्रान्तिरुपनिबध्येत । दोषान्तरमूला तु सा नालङ्कार इत्यनुपदमेव निरूपितम्
अपि च धर्मिणि कलशरूपकानुवादे
मञ्जरीभ्रान्तिरूपमलङ्कारान्तरमुपनिबध्यमानमुद्वेजकमेव सहृदयानाम् । नह
सादृश्यमूलैकालङ्कारावच्छिन्ने सादृश्यमूलालङ्कारान्तरं शोभते । यथा ‘मुखकमलं त
चन्द्रवत् प्रतीमः’इति प्रागेव निवेदनात् । प्रत्युत कलशरूपके
मञ्जरीसादृश्यतिरस्काराच्च । ‘तत्त्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः
इत्यत्र विधेया-विमर्शाद्विधेयान्तरमाकाङ्क्षितम्। कीरैर्दष्टा इति तु भाव्यम् । जात
इत्यध्याहारेऽपि विवक्षितस्याविधेयत्वमविवक्षितस्य च विधेयत्वं प्रसज्येत। एव
‘तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकैः’इत्यत्र
तावत्पिकनिनदास्ताडनयोग्याः काकानाम्, येन तद्धिया आलपन्त्यस्तैस्ताड्येरन् । नाप
पिकनिनदभ्रम आलपन्तीषु सम्भवति । सम्भावन्वा न सादृश्यमूलः। पिकनिकरधियेति त
भाव्यम्। अथ तदालापेषु पिकनिनदबुद्धेरपि तासु पिकबुद्ध्युत्पादनद्वारा सम्भवत्ये
ताडनोपयोग इति प्रयोज्यत्वार्थकतृतीयय
पिकनिनदधीप्रयोज्यकाककर्तृकताडनकर्मत्वमालपन्तीनां सुप्रतिपादमेवेति चेत्, नैवम्
तथा प्रतीतेरसिद्धेः। ‘चौरबुद्ध्या हतः साधुः ’इत्यादौ चौरबुद्धिहननयोः सामानाधिकरण्ये
हेतुहेतुमद्भावगमकत्वव्युत्पत्तेः। एवं ‘दन्तिबुद्ध्या हतः शूरैर्वराहो वनगोचरः’इत्यत्राप
विशेष्यतया वराहवृत्तेर्दन्तिबुद्धेर्वराहवृत्तिहेतुभावागमः। त्वदुक्तरीत्या दन्तबुद्ध्येतिकृत
बोधकृदर्थेनैव । किं च पिकानां हि कूजितादिशब्दैरेव शब्दो वण्र्यते, न तु निनदादि शब्दै
सिंहदुन्दुभ्यादिशब्दप्रयोगयोग्यैः। तथा प्रथमद्वितीयचरणस्थयोः स्तनपाण्योर्यथाकथञ्चित
व्यवहितमपि जातान्वयमपि त्वदरिमृगदृशामिति षष्ठ्यन्तमन्वेतुं शक्नुयात्, न त
तृतीयचरणस्थे आलपन्त्य इत्यस्मिन् विशेषणे विशेष्यभावेनेति तासां ताटस्थ्यमेव स्यात्
विभक्तिविपरिणतावपि प्रक्रमभङ्गासंष्ठुलत्वाभ्यां स्थितमेवेति पद्यमव्युत्पन्ननिर्मितमेव
दीक्षितैस्तु भ्रान्त्यलङ्कारांशमात्रमादायोदाहृतमिति दिक्
सर्वस्वकारोक्तं लक्षणं परीक्षते-यत्त्वलङ्कारसर्वस्वकृता लक्षितम्, ‘सादृश्याद्वस्त्वन्तरप्रतीतिभ्र्रान्तिमान्’ इति तन्न । प्रागुक्त
संशयालङ्कारे वक्ष्यमाणायामुत्प्रेक्षायां चातिप्रसङ्गात् । प्रतीतिपदस्य निश्चयपरत्व

रूपकवित्तावतिप्रसङ्गात् । विषयतावच्छेदकानवगाहित्वेन निश्चयो विशेषणीय इति चेत्
विशेष्यताम् । तथाप्यतिशयोक्तिवित्तावतिप्रसक्तिरवारितैव । अनाहार्यत्वेन निश्चयविशेषणत्व
एव पर्यवसितिः, मतुबर्थासङ्गःतिश्च
भ्रान्त्यलङ्कारे साधारणधर्मस्थितिं विचारयति-तत्र ‘कनकद्रवकान्तिकान्तया’इत्यत्र सीतातडितोर्बिम्बप्रतिबिम्बभावः। युतत्वमिलितत्वयोश्
शुद्धसामान्यरूपता
‘रामं स्निग्धतरश्यामं विलोक्य वनमण्डले
धाराधरधिया धीरं नृत्यन्ति स्म शिखावलाः॥

अत्र स्निग्धत्वश्यामत्वयोरनुगामित्वम्
भ्रान्तिमदलङ्कारनिरूपणान्तरमिदानीमुल्लेखालङ्कारनिरूपणं प्रतिजानीते-अथोल्लेख:-तल्लक्षणमादौ ब्रूते-एकस्य वस्तुनो निमित्तवशाद् यद्यनेकैग्र्रहीतृभिरनेकप्रकारकं ग्रहणं तदुल्लेखः
लक्षणे योजितानां विशेषणानां फलान्याचष्टे-‘अधरं बिम्बमाज्ञाय मुखमब्जं च तन्वि ! ते
कीराश्च चञ्चरीकाश्च विन्दन्ति परमां मुदम् ॥

अत्र कीरचञ्चरीकाभ्यामधरवदनयोर्बिम्बत्वेन पद्मत्वेन च ग्रहण
भ्रान्तिरूपेऽतिप्रसङ्गःवारणायैकस्य वस्तुन इति । ‘धर्मस्यात्मा भागधेयं क्षमायाः
इत्यादिमालारूपकेऽतिप्रसङ्गःवारणायानेकैग्र्रहीतृभिरित्य-विवक्षितबहुत्वकं ग्रहणविशेषणम्
‘नृत्यत्त्वद्वाजिराजिप्रख्ररखुरपुटप्रोद्धतैर्धूलिजालै-रालोकालोकभूमीधरमतुलनिरालोकभावं प्रयाते
विश्रान्तिं कामयन्ते रजनिरिति धिया भूतले सर्वलोकाः
कोकाः क्रन्दन्ति शोकानलविकलतया किं च नन्दन्त्युलूकाः॥

अत्र धूलिजालरूपस्यैकस्य वस्तुनोऽनेकैर्लोककोकोलूकैग्र्रहीतृभिरेकेनैव रजनीत्वरूपे
प्रकारेण ग्रहणमिति तत्रातिप्रसङ्गःवारणायानेकप्रकारकमिति । ग्रहणमिति ग्रहणसमुदाय
विवक्षितः। एकत्वं जातौ । अनेकग्रहीतृकस्यैकस्य ग्रहणस्याप्रसिद्धेः। तेन द्वयोर्बहू नां व
ग्रहणं निमित्तवशादिति तु वस्तुकथनमात्रम्

उदाहरणं प्रस्तौति-उदाहरणम्-उदाहरणमुपन्यस्यति-‘नरैर्वरगतिप्रदेत्यथ सुरैः स्वकीयापगे-त्युदारतरसिद्धिदेत्यखिलसिद्धसङ्गैरपि
हरेस्तनुरिति श्रिता मुनिभिरस्तसङ्गैरिय
तनोतु मम शंं तनोः सपदि शन्तनोरङ्गःना ॥

उपपादयति-अत्र च लिप्सारुचिभ्यां निमित्ताभ्यामस्त्यनेकग्रहीतृकवरगतिप्रदात्वाद्यनेक-प्रकारकग्रहणसमुदायो गङ्गाविषयकरतिभावोपस्कारकः
विशेषमाह-शुद्ध एवात्रायमुल्लेखालङ्कारः, रूपकाद्यमिश्रणात्
यत्रोल्लेखालङ्कारेऽलङ्कारान्तरयोगो भवति, स सङ्कीर्णः कथ्यते । तादृशमपि लक्ष्य
नालभ्यमित्याह-सङ्कीर्णोऽपि दृश्यते
तादृशमुदाहरणं निर्देष्टुमाह-यथा-उदाहरणं निर्दिशति-‘आलोक्य सुन्दरि! मुखं तव मन्दहास
नन्दन्त्यमन्दमरविन्दधिया मिलिन्दाः
किञ्चालि! पूर्ण-मृग-लाञ्छन-सम्भ्रमे
चञ्चूपुटं चटुलयन्ति चिरं चकोराः॥

उपपादयति-अत्रैकैकग्रहणरूपया भ्रान्त्या समुदायात्मक उल्लेखः सङ्कीर्णः
भ्रान्तिसंकीर्णमुल्लेखमुदाहृत्यापह्नुतिसङ्कीर्णं तमुदाहरति-‘वनितेति वदन्त्येतां लोकाः सर्वे वदन्तु ते
यूनां परिणता सेयं तपस्येति मतं मम ॥

उपपादयति-अत्र विषयतावच्छेदकस्य परसम्मतत्वेन निषेध्यतयोपन्यासादपह्नुत्या सङ्कीर्णः
दीक्षितोक्तमनूद्य निरस्यति-अप्पय्यदीक्षितास्तु-‘‘एवमपि यदि-‘कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे
वक्त्रं तव वयं ब्रूमस्तपसैक्यं गतं द्वयम् ॥

इत्यपह्नवोदाहरणविशेषेऽतिव्याप्तिः शङ्क्या, तदानीमनेकधोल्लेखनं निषेधास्पृष्टत्वे
विशेषणीयम् । तत्राद्योल्लेखनद्वयं परमतत्वोपन्याससामर्थ्याद्गम्यमाननिषेधमित
नातिव्याप्ति:’’इत्याहु:। तन्न । ‘द्विविधश्चायमुल्लेखः शुद्धोऽलङ्कारान्तरसङ्कीर्णश्च’इत्युक्त्व
‘श्रीकण्ठजनपदवर्णने-‘यस्तपोवनमिति मुनिभिरगृह्यत’ इत्यादौ शुद्धः, ‘यमनगरमित
शत्रुभिः वज्रपञ्जरमिति शरणागतैः’इत्यादौ भ्रान्तिरूपकादिसङ्कीर्णः’इत
स्वयमेवोक्तत्वात् । इहाप्यपह्नुत्या सङ्कीर्ण उल्लेख इत्यस्य सुवचत्वात् । यद
चैवंविधापह्नुतिवारणाय निषेधास्पृष्टत्वं विशेषणमुच्यते तदा-‘कपाले मार्जारः पय इति करांल्लेढि शशिन-स्तरुच्छिद्रपोतान् बिसमिति करी सङ्कःलयति
रतान्ते तल्पस्थान् हरति वनिताऽप्यंशुकमित
प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ॥

इति त्वदुदाहृतभ्रान्तावतिप्रसङ्गःः कथं नाम वार्येत । मार्जाराद्यनेकग्रहीतृकानेकधोल्लेखनस्
तत्रापि सत्त्वात् । स्वस्वप्रियाहारलिप्सारूपनिमित्तभेदाच्च । तस्मात् सङ्कीर्णनिवारणा
यत्नोऽनर्थक एव
संशयसङ्कीर्णमुल्लेखमुदाहर्तुमाह-संशयसङ्कीर्णो यथा-उदाहरणं समुपन्यस्यति-‘भानुरग्निर्यमो वाऽयं बलिः कर्णोऽथवा शिबिः
प्रत्यर्थिनश्चार्थिनश्च विकल्पन्त इति त्वयि ॥

उपपादयति

अत्र द्वयोग्र्रहणयोः प्रत्येकं संशयत्वं समुदायस्य तूल्लेखता । भेदान्तरमाख्यातुं पूर्वोदाहृतेष
पद्येषु, भेदस्वरुरूपं विवृणोति -अयं च स्वरूपमात्रोल्लेखे स्वरूपोल्लेखः प्रागेव निरूपितः
भेदान्तरस्य स्वरूपं विवृण्वन् तदुदाहरणं निर्देष्टुमाह-फलानामुल्लेखे फल्लोल्लेखो यथा-उदाहरणमुपन्यस्यति-‘अर्थिनो दातुमेवेति त्रातुमेवेति कातराः
जातोऽयं हन्तुमेवेति वीरास्त्वां देव! जानते ॥

पूर्ववत् पुनरपरस्य भेदस्य स्वरूपं प्रकटयन् तदुदाहरणनिर्देशं प्रतिजानीते-हेतूनामुल्लेखे हेतूल्लेखो यथा-उदाहरणमुपन्यस्यति-‘हरिचरण-नखरसङ्गादेके हरमूर्धस्थितेरन्ये
त्वां प्राहुः पुण्यतमामपरे सुरतटिनि! वस्तुमाहात्म्यात् ॥

प्रथममुल्लेखं निरूप्य द्वितीयमुल्लेखं निरूपयितुमिच्छुस्तावत्तल्लक्षणं सावतरणमाह-अत्र प्रकारान्तरेणाप्युल्लेखो दृश्यते-यत्रासत्यपि ग्रहीत्रनेकत्व
विषयाश्रयसमानाधिकरणादीनां सम्बन्धिनामन्यतमानेकत्वप्रयुक्तमेकस्
वस्तुनोऽनेकप्रकारत्वम्
द्वितीयस्याप्युल्लेखस्य पूर्ववद् भेदमाह-अयमपि द्विविध:,शुद्धोऽलङ्कारान्तरसङ्कीर्णश्च
तत्र प्रथममुदाहर्तुमाह-शुद्धो यथा-उदाहरणमुपन्यस्यति-‘दीनव्राते दयाद्र्रा निखिलरिपुकुले निर्दया किं च मृद्व
काव्यालापेषु तर्कप्रतिवचनविधौ कर्कशत्वं दधाना
लुब्धा धर्मेष्वलुब्धा वसुनि परविपद्दर्शने कांदिशीक
राजन्नाजन्मरम्या स्फुरति बहुविधा तावकी चित्तवृत्तिः॥

उपपादयति

अत्र दीनव्रातादीनां विषयाणामनेकत्वाच्चित्तवृत्तेरनेकविधत्वम्
राजविषयकरतिभावोपस्कारकोऽयमुल्लेखः। यद्यपि चित्तवृत्तिव्यक्तीनामत्रैक्यं नास्ति
तदीयचित्तवृत्तित्वेन सामान्येन तासामेकत्वं विवक्षितम्
तथा लक्षणे विवक्षाया अभावादुदाहरणान्तरं प्रदर्शयितुमाह-यथा वा-उदाहरणमुपन्यस्यति-‘कातराः परदुःखेषु निजदुःखेष्वकातराः
अर्थेष्वलोभा यशसि सलोभाः सन्ति साधवः॥


उपपादयति-अत्रापि साधवः सन्तीत्यनेन मृता अपि न मृतास्ते, इतरे पुनरमृता अपि मृत
एवेत्यर्थाभिव्याक्तिद्वारा व्यज्यमाने साधूत्कर्षविशेषे उपस्कारकोऽयम्
एवंविषयानेकत्वप्रयुक्तमुदाहृत्याश्रयानेकत्वप्रयुक्तमुदाहर्तुमाह-यथा वा-उदाहरणं समुपन्यस्यति-‘तुषारास्तापसव्राते तामसेषु च तापिनः
दृगन्तास्ताडकाशत्रोर्भूयासुर्मम भूतये ॥

पूर्वोदाहरणद्वयाद् वैलक्षण्यं तृतीयोदाहरणे दर्शयति-पूर्वपद्ययोर्विषयानेकत्वप्रयुक्तम्, इह त्वाश्रयानेकत्वप्रयुक्तमनेकविधत्वं दृगन्ताना म्
समानाधिकरणानेकत्वप्रयुक्तमुदाहरति-‘विद्वत्सु विमलज्ञाना विरक्ता यतिषु स्थिता:
स्वीयेषु तु गरोद्गारा नानाकाराः क्षितौ खला:॥

उपपादयति-अत्र विद्वदादिसहचरभेदप्रयुक्तं खलानामनेकविधत्वम्
लक्षणघटके ‘समानाधिकरणादीनाम्’ इत्यत्र वर्तमानेन ‘आदि’ पदेन सङ्गृह्यमाणं स्फोरयति -एवमन्येषां सम्बन्धिनां भेदेऽप्यूह्यम्
अलङ्कारान्तरसङ्कीर्णं द्वितीयमुल्लेखमुदाहर्तुमाह-सङ्कीर्णो यथा

उदाहरणमुपन्यस्यति-‘गगने चन्द्रिकायन्ते हिमायन्ते हिमाचले
पृथिव्यां सागरायन्ते भूपाल! तव कीर्तयः॥

उपपादयति-अत्रोपमया आपाततः प्रतीयमानया, पर्यवसितया चोत्प्रेक्षया
अलङ्कारान्तरसङ्कीर्णस्य द्वितीयोल्लेखस्योदाहरणान्तरं दर्शयति-‘उपरि करवालधाराकाराः क्रूरा भुजङ्गःमपुङ्गःवात्
अन्तः साक्षाद् द्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः॥

उपपादयति-अत्रोपमाव्यतिरेकाभ्यां तयोः समुच्चयेनोत्प्रेक्षया च सङ्कीर्णः । द्वयोरुल्लेखयो
सङ्कःरमादिपदग्राह्यसम्बन्धिभेदप्रयुक्तत्वं च दर्शयितुमाह-‘यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृता
सतां खलु युधिष्ठिरो धनपतिर्धनाकाङ्क्षिणाम्
गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मित
त्वमेक इह भूतले बहुविधो विधात्रा कृतः॥

उपपादयति-अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवतः करणाद्रूपकेण
विपक्षभूपालादीनामेतस्मिन्नायाते यमत्वादिना भ्रान्तिरपि सम्भवतीति भ्रान्तिमता
विपक्षभूपालादिभिरनेकैग्र्रहीतृभिर्यमत्वादिभिरनेकैर्धर्मैरुल्लेखनात् प्रागुक्तोल्लेखप्रकारेण
सह सङ्कीर्णोऽयं सम्बन्धिष्ठ्यन्तभेदप्रयुक्तवण्र्यानेकविधत्वक उल्लेखः
द्वयोरुल्लेखयोर्वैलक्षण्यं दर्शयति-अत्रेदं बोध्यम्-प्रथमनिरूपितोल्लेखप्रकारे ‘यं महाविष्णुरिति वैष्णवाः, शिव इति शैवाः
यज्ञपुरुष इति याज्ञिकाः, स्वभाव इति लौकायतिकाः, ब्रह्मेत्यौपनिषदाः वदन्त
सोऽयमादिपुरुषो हरिः’इत्यादौ तत्तद्ग्रहीतृकतत्तत्प्रकारकज्ञानसमुदायस्
चमत्कारजनकताया अनुभवसिद्धत्वेनालङ्कारत्वम् । द्वितीये तु प्रकारे ‘यः शिष्टेषु सदय
दुष्टेषु करालः’इत्यादौ तत्तद्विषयभेदभिन्नस्य प्रकारसमुदायमात्रस्य तथात्वम् । न त
विद्यमानस्यापि ज्ञानांशस्य, चमत्कारित्वेनाननुभवात् । चमत्कारनिबन्धनो ह्यलङ्कारभा

उपमादीनाम् । अत एवास्माभिः ‘विषयाद्यन्यतमानेकत्वप्रयुक्तमेकस्
वस्तुनोऽनेकप्रकारत्वम्’इति द्वितीय उल्लेखो लक्षितः
एकरूपेण द्वयोरुल्लेखयोरनुगमं दर्शयति-एवं च ‘लक्षणद्वयान्यतरत्वमुल्लेखसामान्यलक्षणतावच्छेदकम्’इत्याहुः। परे त
‘प्रकारद्वयेऽपि वण्र्यवृत्तित्वेन भासमानप्रकारसमुदाय एवोल्लेखः’इत्यपि वदन्ति
व्यङ्ग्यमुल्लेखं निरूपयितुमाह-अथोल्लेखस्य ध्वनिः-व्यङ्ग्यमुल्लेखमुदाहर्तुमाह-यथा-उदाहरणमुपन्यस्यति-‘अनल्पतापाः कृतकोटिपापा गदैकशीर्णा भवदुःखजीर्णाः
विलोक्य गङ्गां विचलत्तरङ्गाममी समस्ताः सुखिनो भवन्ति ॥

उपपादयति-अत्र पूर्वार्धोदीरितानां चतुर्णां विलोकनकतर्ॄणाम् । सुखित्वोक्त्या क्रमेण ताप-पाप-रोग-भव-नाशकत्वप्रकारकाणि ग्रहणान्याक्षिप्यन्ते
विशेषमाह-अयं च शुद्धस्योल्लेखस्य ध्वनिः
सङ्कीर्णोल्लेखध्वनिमुदाहर्तुमाह-सङ्कीर्णस्य यथा-उदाहरणमुपन्यस्यति-‘स्मयमानाननां तत्र तां विलोक्य विलासिनीम्
चकोराश्चञ्चरीकाश्च मुदं वरतरां ययुः ॥

उपपादयति-अत्र ध्वन्यमानया एकैकग्रहणरूपया भ्रान्त्या तदुभयसमुदायात्मा उल्लेखः सङ्कीर्णः
आशङ्क्य समाधत्ते-न चात्र भ्रान्तेरेव चमत्कार इति शक्यापह्नव उल्लेखः। अनेककत्र्तृ-कानेकधाग्रहणस्यालङ्कारान्तरविविक्तविषयस्य चमत्कृतेरिहपि सत्त्वात्

प्रथमोल्लेखस्य शुद्धस्य सङ्कीर्णस्य च ध्वनेरुदाहरणे प्रदश्र्य द्वितीयोल्लेखध्वनिमुदाहर्तुमाह-द्वितीयोल्लेखस्य ध्वनिर्यथा-उदाहरणमुपन्यस्यति-‘भासयति व्योमगता जगदखिलं कुमुदिनीर्विकासयति
कीर्तिस्तव धरणिगता सगरसुतायासमफलतां नयते॥

उपपादयति-अत्राधिकरणभेदप्रयुक्तमेकस्यामेव कीर्तौ चन्द्रिकात्वसागरत्वरूपानेकविधत्वं रूपसङ्कीर्ण
ध्वन्यते
उल्लेखालङ्कारनिरूपणानन्तरमपह्नुत्यलङ्कारनिरूपणं प्रतिजानीते-अथापह्नुतिः-अपह्नुति-निरूपण-प्रसङ्गे तावत्तल्लक्षणमाह-उपमेयतावच्छेदकनिषेधसामानाधिकरण्येनारोप्यमाणमुपमानतादात्म्यमपह्नुतिः
लक्षणं विवेचयति-रूपकवारणाय तृतीयान्तम् । अस्यां चोपमेयतावच्छेदकस्
निषेधादुपमेयतावच्छेदकोपमानतावच्छेदकयोर्विरोधो गम्यते । रूपके तु तयो
सामानाधिकरण्यप्रत्ययात् स निवर्तते
लक्ष्यप्रदर्शनायाह-उदाहरणम्-उदाहरणमुपन्यस्यति-‘स्मितं नैतत् किन्तु प्रकृतिरमणीयं विकसित
मुखं ब्रूते मूढः कुमुदमिदमुद्यत्परिमलम्
स्तनद्वन्द्वं मिथ्याकनकनिभमेतत्फलयुग
लता रम्या सेयं भ्रमरकुलनम्या न रमणी ॥

अत्र स्पष्टत्वाल्लक्षणसमन्वयमुपेक्ष्य भेदमुपपादयति-इयं चानुग्राह्यानुग्राहकभावापन्नावयवकसङ्घातात्मकतया सावयवा
भेदान्तरमुदाहर्तुमाह-निरवयवेयं यथा

उदाहरणमुपन्यस्यति-‘श्यामं सितञ्च सुदृशो न दृशोः स्वरूप
किं तु स्फुटं गरलमेतदथामृतं च
नो चेत् कथं निपतनादनयोस्तदै
मोहं मुदं च नितरां दधते युवानः ॥

अत्रापि निरवयवत्वस्य स्फुटतया तदुपपादनमुपेक्ष्य प्राग्वद् भेदमाह-अत्र प्रतिज्ञानार्थवैपरीत्ये बाधकोपन्यासाद्धेत्वपह्नुतिः
अपह्नुतिभेदानाचष्टे-अस्यां च नञादिभिः साक्षात्, परमतसिद्धत्वाद्युपन्यासैश्च किञ्चिद् व्यवधानेन विषयस्
निषेधे बोध्यमाने प्रायशो वाक्यस्य भेदः। मिषच्छलच्छद्मकपटव्याजवपुरात्मादिशब्दैस्त
तस्मिंस्तस्यैक्यम्। क्वचिदपह्नवपूर्वकत्वं क्वचिच्चारोपपूर्वकत्व
क्वचिद्विषयिताद्रूप्यविषयनिषेधयोरेकस्य शाब्दत्वमेकस्यार्थत्वं क्वचिदुभयो
शाब्दत्वमथोभयोरार्थत्वं विधेयत्वमनुवाद्यत्वं चेति । एवमनेके प्रकाराः सम्भवन्ति
सत्स्वपि पुर्वोक्तेष्वनेकेषु प्रकारेषु न ते सर्वे प्रकारा अलङ्कारत्वेन परिगणयितुमुचिता इत्याह-परं न ते वैचित्र्यविशेषमावहन्तीत्यगणनीयाः
ते प्रकारा भवन्त्येव नेति शङ्कानिरासाया तेषां दिग्दर्शनं कारयति-एवमपि दिङ्मात्रमुपदश्र्यते-तत्र प्रागुक्तायां सावयवापह्नुतौ प्रथमावयवेऽपह्नपूर्वकत्वमुभयो
शाब्दत्वं विधेयत्वं वाक्यभेदश्च । द्वितीयावयवे तु वक्तृगतमूढतोक्त्य
तद्गतभ्रान्तिप्रतिपत्तिव्यवहिता निषेधप्रतिपत्तिरिति निषेध आर्थः। ताद्रूप्यं शाब्दम्
विधेयवाक्यभेदापह्नुवपूर्वकत्वानि पूर्ववत् । चतुर्थावयवे पुनरारोपपूर्वकोऽपह्नवः
उभयोःशाब्दत्वविधेयत्वे वाक्यभेदश्च प्रथमवदेव
‘वदने विनिवेशिता भुजंगी पिशुनानां रसनामिषेण धात्रा
अनया कथमन्यथाऽवलीढा नहि जीवन्ति जना मनागमन्त्राः॥

अत्रैकवाक्यत्व निषेधताद्रूप्ययोरार्थत्वमनुवाद्यत्वं च, निवेशनस्य विधेयत्वात्
भेदविचारं समापयन्नाह-एवमन्यदप्यूहम्-लक्षणघटकाहार्यपदार्थं विवृण्वन् तत्फलमाह

अत्र च लक्षणे आरोप्यमाणमित्यस्याहार्यनिश्चयविषयीक्रियमाणमित्यर्थः । तेन-‘सङ्ग्रामाङ्गःणसम्मुखाहतकियद्विश्वम्भराधीश्वर-व्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा
अङ्गारप्रखरैः करैः कवलयन् सद्यो जगन्मण्डल
मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः॥

अत्र च विरहिजनवाक्ये नायं शशाङ्कःः, अपि तु सच्छिद्रो मार्तण्ड इति च्छायामात्रमपह्नुतेः
न त्वपह्नुत्यलङ्कारः। तज्ज्ञानस्य दोषविशेषजन्यत्वेनानाहार्यत्वात्, किं तु भ्रान्त्यलङ्कार एव
‘अलिर्मृगो वा नेत्रं वा यत्र किञ्चिद्विभासते
अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः॥

इत्यत्र मुखमरविन्दं वेति कविनिष्ठाहार्यसंशये मुखनिषेधसामानाधिकरण्ये
विषयीभवतोऽरविन्दतादात्म्यस्य निश्चयविषयत्वाभावान्न सङ्ग्रहः। न चात्
विषयनिषेधस्यापदार्थत्वं शङ्क्यम्, वाशब्दार्थत्वात्
दीक्षितमतमनूद्य खण्डयति-यत्तु कुवलयानन्दाख्ये सन्दर्भे अप्पय्यदीक्षितैरपह्नुतिप्रभेदकथनप्रस्तावे पर्यस्तापह्नुत्याख्य
भेदं निरूपयद्भिरभिहितम्-‘अन्यत्र तस्यारोपार्थः पर्यस्तापह्नुतिस्तु सः
नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥

इति
अत्र चिन्त्यते- नायमपह्नुतेर्भेदो वक्तुं युक्तः, अपह्नुतिसामान्यलक्षणानाक्रान्तत्वात् । तथ
हि ‘प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः, ’उपमेयमसत्यं कृत्वा उपमानं सत्यतय
यत्स्थाप्यते साऽपह्नुतिः’इति काव्यप्रकाशोक्तलक्षणबहिर्भावस्तावत् स्फृट एव । एव
‘विषयापह्नवे वस्त्वन्तरप्रतीतावपह्नुतिः’इत्यलङ्कारसर्वस्वोक्तं लक्षणमपि नात्र प्रवर्तते
‘प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम्
साम्यादपह्नुतिर्वाक्यभेदाभेदवती द्विधा ॥

इति चित्रमीमांसागतं तन्निर्मितमपि लक्षणमिह तथैव । तस्मात् ‘नायं सुधांशुः किं तर्ह
सुधांशुः प्रेयसीमुखम्’ इत्यत्र दृढारोपं रूपकमेव भवितुमर्हति, नापह्नुतिः
उपमेयतोपमानतावच्छेदकयोः सामानाधिकरण्यस्य निष्प्रत्यूहं भानात् । तदुक्त
विमर्शिन्याम्-‘‘न विषं विषमित्याहुब्र्रह्मस्वं विषमुच्यते । ’अत्र विषस्य निषेधपूर्व

ब्रह्मस्वविषये आरोप्यमाणत्वाद् दृढारोपं रूपकमेव, नापह्नुतिः। ’’इति । यदि
प्राचीनमतमुपेक्ष्यालङ्काररत्नाकरेणेव मयाऽप्ययं प्रकारोऽपह्नुतिमध्ये गणित इत्युच्यते, तद
आहार्यताद्रूप्यनिश्चयस्य समानत्वाद्रूपकभेद एवापह्नुतिरित्यप्युच्यताम् । निरस्यतां
प्राचीनमुखदाक्षिण्यम् । एवमपि चित्रमीमांसागतत्वन्निर्मितापह्नुतिलक्षणस्यात्राव्याप्ति
स्थितैव । अपि च यदि ‘नायं सुधाशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ’इत्यत्
पर्यस्तापह्नुतिरित्युच्यते, तदा तस्यामेव त्वत्कृतचित्रमीमांसागतस्य-‘बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिह्नुते
उपरञ्जकतामेति विषयी रूपकं तदा ॥


इति रूपकलक्षणस्यातिव्याप्तिर्वज्रलेपायिता स्यात्, विषयिणो निह्नवेऽप
विषयस्यानिह्नुतत्वात् । अथापि चित्रमीमांसायां प्राचीनमतानुसारेण रूपकलक्षणम्
कुवलयानन्दे च रत्नाकराद्यनुसारेणापह्नुतित्वोक्तिरिति यथाकथञ्चित् सामञ्जस्यं विधेयमित
दिक्
भेदान्तरमुदाहरति-‘अनल्पजाम्बूनददानवर्षं तथैव हर्षं जनयञ्जनेषु
दारिद्र्य घर्म-क्षपणक्षमोऽयं धाराधारो नैव धराधिनाथः॥

भेदं स्फुटयति-सावयवारोपेयमपह्नुतिः
पुनर्भेदान्तरमाह-आरोपमात्रोपायत्वे परम्परिताप्येषा सम्भवति
उदाहर्तुमाह-यथा-उदाहरणमुपन्यस्यति-‘मनुष्य इति मूढेन खलः केन निगद्यते
अयं तु सज्जनाम्भोजवनमत्तमतङ्गःजः॥

अपह्नुतिध्वनिमुदाहर्तुमाह-अस्याश्च ध्वनिर्यथा-उदाहरणमुपन्यस्यति

‘दयिते रदनत्विषां मिषादयि! तेऽमी विलसन्ति केसराः
अपि चालकवेषधारिणो मकरन्दस्पृहयालवोऽलयः॥

उपपादयति-अत्र ‘नैता रदनत्विषः, किंतु किञ्जल्कपरम्पराः। न चैतेऽलकाः, अपि त्वलय्ः’ इत
पूर्वोत्तरार्धाभ्यां द्वे अपह्नुती तावत्प्राकट्येनैव निवेदिते । ताभ्यां च ‘न त्वं नारी, किं त
कमलिनी’इति तृतीयापह्नुतिव्र्यञ्जनव्यापारेण प्राधान्येन निवेद्यते
तत्सम्बन्धिवस्तुनिषेधारोपयोस्तन्निषेधारोपनिवेदकत्वस्य न्याय्यत्वात् । तुल्ययोगिता त
गुणतया स्थिता
खण्डनाया दीक्षितोक्तमुद्धरति-यत्त्वप्पय्यदीक्षितैरपह्नुतिध्वनावुक्तम्

‘त्वदालेख्ये कौतूहलतरलतन्वी विरचित
विधायैका चक्रं रचयति सुपर्णीसुतमपि
अपि स्विद्यत्पाणिस्त्वरितमपमृज्यैतदपर
करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति ॥

इत्यादावपह्नुतिध्वनिरुदाहर्तव्यः। अत्र हि चक्रसुपर्णलेखनेन ‘नायं साधारणः पुरुषः, किन्त
पुण्डरीकाक्षः’इति कयाचिद् व्यञ्जितम् । अन्यया तु - तस्याप्येतादृशं रूपं
सम्भवतीत्याशयेन ‘नायं पुण्डरीकाक्षोऽपि, किन्तु-मन्मथः’इति तदुभयमपमृज्
पुष्पसायकमकरध्वजलेखनेन व्यञ्जितम् ।’’इति
खण्डयति-तदेतदापातरमणीयम् । यत्तावदुच्यते-‘चक्रसुपर्णलेखनेन नायं साधारणः पुरुषः, किन्त
पुण्डरीकाक्षः’ इति कयाचिद् व्यञ्जितमिति । तत्रापह्नुतेद्र्वौ भागौ उपमेयनिषेधः
उपमानारोपश्चेति । तयोस्तावदुपमानारोपभाग
पुण्डरीकाक्षोऽयमित्याकारश्चक्रसुपर्णलेखनेनाभिव्यङ्क्तुं शक्यः
चक्रसुपर्णयोस्तत्सम्बन्धित्वात् । न तु नायं साधारणः पुरुष इत्युपमेयनिषेधभागोऽपि
व्यञ्जकस्यारोपमात्रव्यञ्जनसमर्थस्य तादृशनिषेधव्यञ्जने सामर्थ्याभावात्
नाप्यनुभवसिद्धः सः, येन तद्व्यञ्जनोपायो गवेष्येत । नापि गवेष्यमाणोऽप
तद्व्यञ्जनोपायः शब्दोऽर्थो वा उपलभ्यते, येनानुभवकलहोऽपि स्यात् । न

साधारणपुरुषनिषेधमन्तरेण पुण्डरीकाक्षतादात्म्यारोपो दुर्घट इति सोऽपि व्यज्यत इत
वाच्यम्, रूपकोच्छेदापतेः। मुखं चन्द्र इत्यादौ मुखनिषेधमन्तरेण चन्द्रत्व
दुरारोपमित्यस्यापि सुवचत्वात् । तत्रापि मुखनिषेधावगमे जितमपह्नुत्या
अथ मुखं चन्द्र इति रूपके मुखत्वसामानाधिकरण्येन चन्द्रताद्रूप्यस्यारोप्यमाणतया
मुखनिषेधापेक्षेति चेत्, प्रकृतेऽपि तर्हि तादृशसाधारणपुरुषत्वसामानाधिकरण्ये
पुण्डरीकाक्षतादात्म्यारोपरूपमसौ राजा पुण्डरीकाक्ष इत्याकारकरूपकमेव भवितुमीष्टे
नापह्नुतिः
यदपि चोच्यते ‘नायं पुण्डरीकाक्षः, अपि तु मन्मथः ’इत्यादि । तत्र यद्यप
चक्रसुपर्णदूरीकरणेन नायम् पुण्डरीकाक्ष इति निषेधः, पुष्पचाप-ध्वजगतमकरयोर्लेखने
च मन्मथोऽयमित्युपमानारोपश्च व्यङ्ग्यो भवितुमर्हति, तथापि नासावपह्नुतिः। ‘प्रकृतस्
निषेधेन यदन्यत्वप्रकल्पनम् ’ इति त्वत्कृतलक्षणस्याप्यत्रासत्त्वात् । अत्र हि निषेध्यस्
भगवतः पुण्डरीकाक्षस्यावण्र्यत्वेनाप्रकृततया प्रकृतनिषेधाभावात् । नहि पूर्वारोपिततमात्रे
प्रकृतत्वं वक्तुं शक्यम् । प्रकृतपदस्यारोपविषयपरताया ‘निषिध्य विषयम्’ इत्यादिन
क्त्वाप्रत्ययफलं ब्रुवता भवतैव तत्र स्फुटीकरणात् । काव्यप्रकाशकृतापि ‘प्रक्रुत
यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः ’इति सूत्रं व्याचक्षाणेन ‘उपमेयमसत्यं कृत्वा
इत्यादिना प्रकृतपदस्योपमेयपरतयैव व्याख्यानाच्च
प्राचीनमतसिद्धेयमपह्नुतिव्र्यङ्ग्यत्वेनास्माभिरिहोच्यत इत्यपि कुशकाशावलम्बनमात्रम ्
‘प्रकृतस्य निषेधेन ’इत्यादिलक्षणं कुर्वता भवतैव तस्या बहिःकरणात्
एवमप्युक्तपद्ये कोऽलङ्कारो व्यङ्ग्य इति चेत्? विच्छित्तिवैलक्षण्येऽतिरिक्तः, अन्यथ
त्वपह्नुतिरेवास्तु । लक्षणं तु तदा प्रसक्तयक्तिञ्चिद्वस्तुनिषेधसामानाधिकरण्ये
क्रियमाणवस्त्वन्तरारोपत्वमेव । तस्मान् सर्वमेवेदमहृदयङ्गःमं सहृदयानाम्
अपह्नुतिनिरूपणानन्तरमुत्प्रेक्षाप्रकरणं प्रारब्धव्यतया प्रतिजानीते-अथोत्प्रेक्षाप्रकरणम्-तत्रादौ तल्लक्षणमाह-तद्भिन्नत्वेन तदभाववत्त्वेन वा प्रमितस्य पदार्थस्य रमणीयतद्वृत्ति-तत्समानाधिकरणान्यतरतद्धर्मसम्बन्धनिमित्तकं तत्त्वेन तद्वत्त्वेन वा सम्भावनमुत्प्रेक्षा
लक्षणघटकपदकृत्यान्याह

‘लोकोत्तरप्रभाव! त्वां मन्ये नारायणं परम् ’इत्यत्र तादृशप्रभावस्
नारायणत्वव्याप्यतासम्भावनादशायां सामग्रयभावेनानुमित्यनुदयाज्जायमानायां नारायणेनाने
प्रायशो भवितव्यमिति सम्भावनायामतिप्रसङ्गःवारणाय तद्भिन्नत्वेन प्रमितस्येत
सम्भावनायामाहार्यतां गमयति
एतेन-‘रामं स्निग्धतरश्यामं विलोक्य वनमण्डले
प्रायो धाराधरोऽयं स्यादिति नृत्यन्ति केकिनः॥

इत्यत्र सम्भावनायाम्, ‘धाराधरधिया धीरं नृत्यन्ति स्म शिखावलाः ’ इत्यत्र भ्रान्तौ
नातिप्रसङ्गःः
‘वदनकमलेन बाले स्मितसुषमलेशमावहसि यदा
जगदिह तदैव जाने दशार्धबाणेन विजितमिति ॥

अत्र जगज्जयसम्भावनायामतिप्रसङ्गःवारणाय रमणीयतद्धर्मनिमित्तकमिति । स्मितस्
सम्भावनोत्थापकत्वेऽपि जगद्विजितरूपविषयविषयिसाधारणत्वाभावान्न दोषः
एतेन-‘प्रायः पतेद् द्यौः शकलीभवेद् ग्लौः सहाचलैरम्बुधिभिः स्खलेद् गौः
नूनं ज्वलिष्यन्ति दिशः समस्ता यद् द्रौपदी रोदिति हा हतेति ॥

अत्रापि रोदनकारणीभूतकेशग्रहणादिजन्यपापनिमित्तोत्थापितायां स्वर्गपतनसम्भावनाया
नातिप्रसङ्गःः। प्रायः स्थाणुनाऽनेन भवितव्यम्, नूनं पुरुषेणानेन भाव्यम्, दूरस्थोऽ यं देवदत्
इवाभाति, इत्यादी निश्चलत्वचञ्चलत्वादिसाधारणधर्मनिमित्तायां सम्भावनायामतिप्रसङ्गः
स्यात्, अतो रमणीयत्वं धर्मगतमुपात्तम् । रूपकवित्तावतिप्रसङ्गःवारणाय सम्भावनमिति
नन्वेवमपि तदभाववत्त्वेनेत्याद्यधिकमत आह-अत्र च तादात्म्येन संसर्गेण धम्र्युत्प्रेक्षायाः, संसर्गान्तरेण धर्मोत्प्रेक्षायाश्
सङ्ग्रहायैकोक्त्या लक्षणद्वयं विवक्षितम्
उत्प्रेक्षां विभजते-सा चोत्प्रेक्षा द्विविधा-वाच्या, प्रतीयमाना च । इव, नूनम्, मन्ये, जाने, अवैमि, ऊहे
तर्कयामि, शङ्के, उत्प्रेक्षे इत्यादिभिः क्यङाचारक्विबादिभिः प्रतिपादकैः सहित
यत्रोत्प्रेक्षासामग्री, तत्र वाच्योत्प्रेक्षा । यत्र च प्रतिपादकशब्दरहितं तत्सामग्रीमात्रम ्, तत्

प्रतीयमाना । यत्र तत्सामग्रीरहितं प्रतिपादकमात्रम् तत्र सम्भावनमात्रमेव, नोत्प्रेक्षा । साप
प्रत्येकं त्रिविधा-स्वरूपोत्प्रेक्षा, हेतूत्प्रेक्षा, फलोत्प्रेक्षा चेति । तत्
जातिगुणक्रियाद्रव्यरूपाणां तदभावरूपाणां च पदार्थानां तादात्म्येनेतरेण वा सम्बन्धे
जातिगुणक्रियाद्रव्यात्मकैव्र्यस्तैः समुच्चितैरुपात्तैरनुपात्तैर्निष्पन्नैर्निष्पाद्यैर्व
निमित्तभूतैर्धर्मैर्यथासम्भवं जातिगुणक्रियाद्रव्यात्मकेषु विषयेषूत्प्रेक्षणं स्वरूपोत्प्रेक्षा
तत्राभेदेन संसर्गेण धर्मिस्वरूपोत्प्रेक्षासंसर्गान्तरेण धर्मस्वरूपोत्प्रक्षेति चोच्यते ।उक्तविधेष
पदार्थेषु प्रागुक्तप्रकाराणां पदार्थानां तथाविधैरेव निमित्तैर्यथासम्भवं हेतुत्वेन फलत्वेन
सम्भावनं हेतूत्प्रेक्षा फलोत्प्रेक्षा चोच्यते। एताश्च क्वचिन्निष्पन्नशरीरा
क्वचिन्निष्पाद्यशरीराश्चेत्येवमाद्यनल्पविकल्पाः सम्पद्यन्ते । तथापि दिङ्मात्रमुपदश्र्यते
उदाहरणप्रदर्शनप्रसङ्गे प्रथमं जातिस्वरूपोत्प्रेक्षोदाहरणप्रदर्शनायाह-आख्यायिकायां जात्यवच्छिन्नस्वरूपोत्प्रेक्षा यथा-उदाहरणमुपन्यस्यति-‘तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्या
सखी’ इति
उपपादयति-अत्र भागीरथ्यां द्रव्ये जातौ वा हिमगिरिसम्बन्धी भुजत्वजात्यवच्छिन्नस्तादात्म्येनोत्प्रेक्ष्यते
तत्र च भागीरथीगतानां श्वैत्यशैत्यलम्बत्वजलधिजठरप्रविष्टत्वानां धर्माणां निमित्ततासिद्धय
विषयिहिमगिरिभुजगत्वमश्यं सम्पादनीयम् । तेषां च मध्येऽनुपात्तयो
श्वैत्यशैत्ययोर्हिमगिरिसम्बन्धित्वादेव भुजगतत्वं सम्पन्नम् । इतरयोरपि सम्पादना
तनयमैनाकगवेषणं फलमुत्प्रेक्षितम्, तत्साधनताज्ञानस्
लम्बत्वजलधिजठरप्रवेशानुकूलयत्नजनकत्वात् । एवं
विषयिगततादृशगवेषणफलकलम्बत्वजलधिजठरप्रविष्टत्वाभ्यां विषयगतयो
साहजिकलम्बत्वजलधिजठरप्रविष्टत्वयोरभेदाध्यवसानातिशयोक्त्या साधारण्यसम्पत्त
निमित्तता । न चात्र फलस्याप्युत्प्रेक्षेति वक्तुं शक्यम्
उत्प्रेक्ष्यमाणफलनिष्पादितनिमित्तोत्थापितायां स्वरूपोत्प्रेक्षायामे
विधेयत्वाच्चमत्कृतेर्विश्रमात्, उत्प्रेक्षाप्रतिपादकस्य प्रत्ययस्य फलेनानन्वयाच्च, तयैवा त्

व्यपदेशो युक्तः। अनिगीर्णविषया चेयमुपात्तानुपात्तगुणक्रियात्मकनिमित्ता
निष्पाद्यविशिष्टशरीराजात्युत्प्रेक्षा, हिमगिरिभुजस्य कविनैव निष्पादितत्वात्
भेदान्तरमुदाहर्तुमाह-तादात्म्येन गुणस्वरूपोत्प्रेक्षा यथा-उदाहरणमुपन्यस्यति-‘अम्भोजिनीबान्धवनन्दनायां कूजद्बकानां समजो विरेजे
रूपान्तराक्रान्तगृहः समन्तात् पुञ्जीभवञ्शुक्ल इवाश्रयार्थी ॥

उपपादयति-अत्रैकाधिकरण्यापन्ने कूजनविशिष्टे बकत्वजात्यवच्छिन्ने विषये पुञ्जीभवनविशिष्ट
शुक्लगुणस्तादात्म्येनोत्प्रेक्ष्यते । तत्र बकगतानां कूजननैर्मल्यपुञ्जीभवनाना
शुक्लगुणतत्वमन्तरेण बकशुक्लयोरभेदस्य दुरुपपादत्वात्तत्सिद्धये तेषां विषयिगतत्व
साध्यम् । तत्र नैर्मल्यस्यानुपात्तस्य यथाकथञ्चिदुत्प्रेक्ष्यमाणे विषयिणि सिद्धत्वात
कूजनपुञ्जीभवनयोर्निष्पादनाय रूपान्तराक्रान्तगृहत्वमाश्रयार्थित्वं च हेतुत्वेनोत्प्रेक्षितम्
इहापि प्राग्वत् साहजिकयोः कल्पिताभ्यामभेदाध्यवसानात् साधारण्यम् । एवमन्यत्राप्यूह्यम
। पूर्वं हि यथा फलस्योत्प्रेक्षणेऽपि न फलोत्प्रेक्षा तथेहापि हेतोरिति
भेदान्तरमुदाहर्तुमाह-क्रियास्वरूपोत्प्रेक्षा यथा-उदाहरणमुपन्यस्यति-‘कलिन्दजानीरभरेऽर्धमग्ना बकाः प्रकामं कृतभूरिशब्दाः
ध्वान्तेन वैराद् विनिगीर्यमाणाः क्रोशन्ति मन्ये शशिनः किशोराः।
शाब्दबोधप्रदर्शनपुरस्सरमुपपादयति-अत्र प्रथनान्तविशेष्यकबोधवादिनामभेदसंसर्गे
कलिन्दजानीरार्धमग्नकृतभूरिशब्दोभयविशिष्टेषु बकेषु विषयेष
ध्वान्तकर्तृकवैरहेतुकनिगरणकर्माभिन्नोत्प्रेक्षितशशिकिशोरतादात्म्योत्प्रेक्षणपूर्वक
क्रोशनकर्तृत्वं धर्म उत्प्रेक्ष्यते । तत्र तादात्म्योत्प्रेक्षणे धम्र्युत्प्रेक्षायां साधारणो धर्मः
सम्बन्धान्तरेणोत्प्रेक्षणे धर्मोत्प्रेक्षायां तत्समानाधिकरणो धर्मश्च विषयगतो निमित्तमित
स्थिते प्रकृते क्रोशनकर्तृत्वरूपधर्मोत्प्रेक्षायां तत्समानाधिकरणनिगरणकर्मत्वरूपधर्मस्

विषयगतत्वसिद्धयेऽनुवाद्यतया शशिकिशोरतादात्म्यमनुपात्तश्वैत्यनिमित्तकमुत्प्रेक्ष्यते । तत्
यथा विशिष्टोपमायामुपमानोपमेयविशेषणतद्विशेषणानामार्थमौपम्यम्, एवमत्राप
विषयबकविशेषणतद्विशेषणयोरर्धमज्जनयमुनाजलयोर्मूलोत्प्रेक्षाविषयि-शशिकिशोरविशेषणतद्विशेषणाभ्यां निगरणध्वान्ताभ्यामभेद आर्थः, ततश्
ध्वान्तकर्तृकनिगरणे सिद्धे मुख्योत्प्रेक्षानिर्वाहः। क्रोशनशब्दयोरप
बिम्बप्रतिबिम्बभावेनाभेदः। तेन कलिन्दजानीरार्धमग्नकृतभूरिशब्दोभयाभिन्ना बक
ध्वान्तनिगीर्यमाणशशिकिशोरोभयाभिन्नाः क्रोशनक्रियानुकूलव्यापारवन्त इवेति बोधाकारः
आख्याते भावप्राधान्ये त्वभेदेन क्रोशनक्रियोत्प्रेक्षा । तत्र शाब्दे वृत्ते बकविशेषणतय
प्रतीयमानमपि शब्दनं विषयतयाऽवतिष्ठते, अध्यवसानवशात् । क्रोशनक्रियायां
तादृशबका विशेषणम्, तादृशबकेषु चाभेदेन तादृशशशिकिशोराः, न तु शशिकिशोराए
साक्षात्क्रियायाम् । एवं च बकानामनन्वयापत्तेः विषयविषयिविशेषणानां प्राग्वदे
बिम्बप्रतिबिम्बभावेनाभेदप्रतिपत्तिः
क्रियास्वरूपोत्प्रेक्षाया एवोदाहरणान्तरमुपदर्शयितुमाह-तथा-उदाहरणमुपन्यस्यति-‘राज्याभिषेकमाज्ञाय शम्बरासुरवैरिणः
सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः॥

उपपादयति-अत्रापि चन्द्रे विषये तादृशलेपनकर्तृत्वरूपधर्मोत्प्रेक्षेत्येकं दर्शनम् । किरणव्यापनेविषय
चन्द्रकर्तृकसुधाकरणकलेपनस्य तादात्म्येनोत्प्रेक्षणमिति द्वितीयम् । तत्र प्रथमे मत
धवलीकारकत्वरूपनिमित्तानुपादानादनुपात्तनिमित्ता, विषयस्योपादानादुपात्तविषया। द्वितीयेऽप
तस्यैव निमित्तस्यानुपादानादनुपात्तनिमित्ता, विषयस्य निगीर्णतयानुपात्तविषयेति विशेषः
भेदान्तरमुदाहर्तुमाह-तादात्म्येन द्रव्यस्वरूपोत्प्रेक्षा यथा-उदाहरणमुपन्यस्यति-‘कलिन्दशैलादियमाप्रयागं केनापि दीर्घा परिखा निखाता
मन्ये तलस्पर्शविहीनमस्यामाकाशमानीलमिदं विभाति ॥

उपपादयति-अत्र यमुनायां नीलत्वदीर्घत्वनिमित्तकमाकाशतादात्म्योत्प्रेक्षणम् । आकाशस्
स्वरूपात्मकत्वाद् द्रव्यस्वरूपोत्प्रेक्षेयम् । अ
एवाकाशपदाच्छब्दाश्रयत्वाद्यनुपस्थितिदशायामप्याकाशधीः। नीलत्वरूपनिमित्तस्य विषयिण
सिद्ध्यर्थं तृतीयचरणोपादानम् । दीर्घत्वरूपनिमित्तसिद्ध्यर्यं च पूर्वार्धम्
भेदान्तरमुदाहर्तुमाह-जात्यादीनामभावोत्प्रेक्षा यथा-उदाहरणमुपन्यस्यति-

‘बाहुजानां समस्तानामभाव इव मूर्तिमान्
जयत्यतिबलो लोके जामदग्न्यः प्रतापवान् ॥

उपपादयति-अत्र जात्यवच्छिन्नाभावो विरोधित्वनिमित्तेन तादात्म्येनोत्प्रेक्ष्यते
पाठभेदेन भेदान्तरतामापादिते प्रकृतपद्ये विशेषमुपपादयति-विनाश इवेत्युक्तौ तु ध्वंसः। ‘समस्तलोकदुःखानाम् ’इति प्रथमचरणे कृते गुणाभावः
क्रियाभावोत्प्रेक्षोदाहरणमाह-

‘द्यौरञ्जनकालीभिर्जलदालीभिस्तथा वव्रे
जगदखिलमपि यथासीन्निर्लोचनवर्गसर्गमिव ॥

उपपादयति-अत्रापि चाक्षुषज्ञानशून्यत्वेन निमित्तेन पार्यन्तिकः क्रियाभावो धर्मः
अभावोत्प्रेक्षोदाहरणदानप्रसङ्गःमुपसंहरन्नाह-एवं द्रव्याभावोत्प्रेक्षाऽपि स्वयमूह्या
विशेषमाह-मालारूपाऽप्येषा सम्भवति
उदाहर्तुमाह-यथा-उदाहरणमुपन्यस्यति-

‘द्विनेत्र इव वासवः करयुगो विवस्वानि
द्वितीय इव चन्द्रमाः श्रितवपुर्मनोभूरिव
नराकृतिरिवाम्बुधिर्गुरुरिव क्षमामागत
नुतो निखिलभूसुरैर्जयति कोऽपि भूमीपतिः॥

शङ्कासमाधानपुरस्सरमुपपादयति-अत्र राजगतानां द्विनेत्रत्वादीनां वासवादितादात्म्यविरोधिनां विरोधनिवर्तनाय विषयिष
वासवादिष्वारोपेण साधारणीकरणम् । न चात्रोपमा शक्यनिरूपणा
द्विनेत्रत्वादीनामुक्तेर्निष्प्रयोजनकत्वापत्तेः। न चोपमाया निष्पादकं तेषां साधारण्यं
तदभावेऽपि परमैश्वर्यादिभिः प्रतीयमानैस्तस्या निष्पत्तेः। असुन्दरत्वादुपमानिष्पादकत्वे
कवेरनभिप्रेतत्वाच्च । नह्यत्र द्विनेत्रत्वादिभिर्धर्मैर्वासवादिसादृश्यं राज्ञः कवेरभिप्रायविषयः
एवं द्वितीयत्वादीनां चन्द्रादिष्वारोपोऽप्युपमायां सत्यामनर्थक एव स्यात् । अभेदप्रतिप त्तौ त
सहस्रनेत्रेण सहस्रकरेण विधिसृष्टावेकेन वपुविहीनेन जलाकारेण स्वर्गगतेन च तेनते
कथमस्याभेदः स्यादिति प्रतिकूलधियमपसारयतां विषयिगताना
द्विनेत्रत्वाद्यारोपाणामस्त्येवोपयोगः। अत्रैवेवशब्दस्याभावे दृढारोपं रूपकम्
विषयिगतविशेषणानामभावे उपमा। उभयेषामेकतरस्याप्यभावे शुद्धरूपकमिति विवेकः
उपसंहरति-एवं स्वरूपोत्प्रेक्षा दिगुपदर्शिता
अवान्तरभिन्नप्रकरणारम्भं सूचयति-अथ हेतूत्प्रेक्षा
उदाहर्तुमाह-यथा-उदाहरणमुपन्यस्यति-

‘त्वत्प्रतापमहादीपशिखाविपुलकज्जलैः
नूनं नभस्तले नित्यं नीलिमा नूतनायते ॥

उपपादयति-अत्र नीलिमसामानाधिकरण्येनोत्प्रेक्षितस्य हेतुत्वेनोत्प्रेक्षणम्
पाठान्तरेऽस्यैव पद्यस्य हेतूत्प्रेक्षाप्रभेदान्तरोदाहरणता संभवतीत्याह-कज्जललेपनैः इति कृते इयमेव क्रियाहेतूत्प्रेक्षा

हेतूत्प्रेक्षाप्रभेदान्तरमुदाहर्तुमाह-गुणहेतूत्प्रेक्षा यथा-उदाहरणमुपन्यस्यति-

‘परस्परासङ्गःसुखान्नतभ्रुवः पयोधरौ पीनतरौ बभूवतुः
तयोरमृष्यन्नयमुन्नतिं परामवैमि मध्यस्तनिमानमञ्चति ॥

उपपादयति-अत्र पूर्वार्धे सुखस्य गुणस्य हेतुत्वं तावत् पञ्चम्यैव निर्दिष्टम् । अपरार्धे धामविशेषणतय
अनूद्यमानस्य गुणाभावस्य त्वार्थम् । यथा ‘भोक्ता भुञ्जानो वा तृप्यति इत्यादौ भोजनादेः
उत्प्रेक्षाप्रकरणे नैयायिकोक्तगुणानामेव गुणपदेन ग्रहणं न, अपि तु, दार्शनिकान्तर
भिमतगुणानामपीति स्फुटयितुमुदाहरणान्तरमाह-यथा वा-

‘व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीतामाकण्र्य स्तुतिमुदयत्त्रपातिरेकात्
आभूमीतलनतकन्धराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि॥

हेतूत्प्रेक्षायाः प्रभेदान्तरमुदाहर्तुमाह-क्रियाहेतूत्प्रेक्षा यथा-गद्यात्मकमुदाहरणमुपन्यस्यति-‘महागुरुकलिन्दमहीधरोदरविदारणाविर्भवन्महापातकावलिवेल्लनादिव श्यामलिता’ इति
हेतूत्प्रेक्षाया एवावशिष्टं भेदमुदाहर्तुमाह-द्रव्यहेतूत्प्रेक्षा यथा-उदाहरणमुपन्यस्यति-

‘वराका यं राकारमण इति वल्गन्ति सहस
सरः स्वच्छं मन्ये मिलदमृतमेनन्मखभुजाम्
अमुष्मिन्या कापि द्युतिरतिघना भाति मिषता-मियं नीलच्छायादुपरि निरपायाद्गगनतः॥

उपपादयति

अत्रामृतसरोरूपत्वेनोत्प्रेक्षिते चन्द्रमसि नीलत्वेनाध्यवसिते कलङ्क
उपरिवर्तिनभोहेतुकत्वमुत्प्रेक्ष्यते । एतेन द्रव्यस्य हेतुत्वेनोत्प्रेक्षणं नास्तीति प्राचां प्रवाद
निरस्तः
अभावहेतूत्प्रेक्षामुदाहर्तुमाह-एषामेवाभावानां हेतुत्वोत्प्रेक्षा यथा-तत्र प्रथमं जात्यभावस्य हेतुत्वेनोत्प्रेक्षाया उदाहरणमुपन्यस्यति-

‘नितान्तरमणीयानि वस्तूनि करुणोज्झितः
कालः संहरते नित्यमभावादिव चक्षुषः॥

उपपादयति-अत्र कालस्य साहजिके संहारकत्वे चक्षुरभावस्य हेतुत्वेनोत्प्रेक्षा
गुणाभावहेतुत्वोत्प्रेक्षोदाहरणमुपन्यस्यति-

‘निःसीमशोभा सौभाग्यं नताङ्ग्या नयनद्वयम्
अन्योन्यालोकनानन्दविरहादिव चञ्चलम् ॥

उपपादयति-अत्र गुणाभावस्य
क्रियाभावहेतुत्वोत्प्रेक्षोदाहरणमुपन्यस्यति-

‘जनमोहकरं तवालि मन्ये चिकुराकारमिदं घनान्धकारम्
वदनेन्दुरुचामिहाप्रचारादिव तन्वङ्गिः नितान्तकान्तिकान्तम् ॥

उपपादयति-इह द्वितीयार्धे क्रियाभावस्य । प्रथमार्धे तु जात्यवच्छिन्नस्य जात्यवच्छिन्नाभावस्य व
स्वरूपोत्प्रेक्षैव
द्रव्याभावहेतुत्वोत्प्रेक्षोदाहरणमुपन्यस्यति-

‘न नगाः काननगा यद्रुदतीषु त्वदरिभूपसुदतीषु
शकलीभवन्ति शतधा शङ्के श्रवणेन्द्रियाभावात् ॥

उपपादयति-इह श्रोत्रत्वस्य जातिगुणक्रियाभ्योऽतिरिक्तस्य विवेके क्रियमाणे आकाश-स्वरूपतय
तदवच्छिन्नाभावस्य द्रव्याभावस्य हेतुत्वेनोत्प्रेक्षा । निमित्तं क्रियाभावः

उपसंहरति-एवं हेतूत्प्रेक्षादिक्
अवान्तरमन्यत् प्रकरणमारभते-अथ फलोत्प्रेक्षा-तत्र प्रथमं जातिफलोत्प्रेक्षोदाहरणमुपन्यस्यति-

‘दिवानिशं वारिणि कण्ठदघ्ने दिवाकराराधनमाचरन्ती
वक्षोजतायै किमु पक्ष्मलाक्ष्यास्तपश्चरत्यम्बुजपङ्क्तिरेषा॥

उपपादयति-अत्र वक्षोजत्वमवयववृत्ति । जातिस्तल्प्रत्ययार्थः। त्वतलोः प्रकृतिप्रवृत्तिनिमित्ते भाव
विधानात् । स एव चात्र तपश्चरणक्रियायाः साहजिकजलावस्थानभिन्नतयाऽध्यवसिताया
फलत्वेनोत्प्रेक्ष्यते
आशङ्क्य समाधत्ते-न चात्र प्राप्तिक्रियामन्तरेण जातेः शुद्धाया अफलत्वात् क्रियाया एव फलत्वमिति वाच्यम्
प्राप्तेः संसर्गतया तद्द्वारैव जात्यादेः फलत्वोपपत्तेः। अन्यथा फलत्वबोधकचतुर्थ्य
अनुपपत्तेः। अत एव-‘ब्राह्मण्याय तपस्तेपे विश्वामित्रः सुदारुणम्’ इत्यादयः प्रयोगाः
फलोत्प्रेक्षायाः प्रभेदान्तरमुदाहर्तुमाह-गुणफलोत्प्रेक्षा यथा-उदाहरणमुपन्यस्यति-

‘वियोगवह्निकुण्डेस्मिन् हृदये ते वियोगिनि
प्रियसङ्गःसुखायैव मुक्ताहारस्तपस्यति ॥

फलोत्प्रेक्षाया एव प्रभेदान्तरमुदाहर्तुमाह-क्रियाफलोत्प्रेक्षा यथा-उदाहरणमुपन्यस्यति-

‘हालाहलकालानलकाकोदरसङ्गःतिं करोति विधुः
अभ्यसितुमिव तदीयां विद्यामद्यापि हरशिरसि ॥

उपपादयति-अत्र विरहिवाक्येऽभ्यसनक्रियायास्तुमुना फलत्वं लभ्यते

उपसंहरति-एवं लक्ष्यानुसारेण यथासम्भवमन्यदप्युदाहार्यम्
स्वमतसिद्धं विशेषमाह-इह जात्यादयो हि भेदाः प्राचामनुरोधादुदाहृताः। वस्तुतस्तु नैषां चमत्कार
वैलक्षण्यमस्तीत्यनुदाहार्यतैव । चमत्कारवैलक्षण्यं पुनर्हेतुफलस्वरूपात्मकानां त्रयाणा
प्रकाराणामेवेति
अपरं विशेषमाह-प्रागुदाहृतेष्वेव पद्येषु वाचकानामिवादीनां त्यागे प्रतीयमाना, अर्थसामर्थ्यावसेयत् वात् । न त
व्यङ्ग्येति भ्रमितव्यम्, तस्याः प्रकृते प्रसङ्गाभावात्
धर्मिस्वरूपोत्प्रेक्षामुदाहृत्य धर्मस्वरूपोत्प्रेक्षामुदाहर्तुमाह-धर्मस्वरूपोत्प्रेक्षा यथा
उदाहरणमुपन्यस्यति-

‘निधिं लावण्यानां तव खलु मुखं निर्मितवत
महामोहं मन्ये सरसिरुहसूनोरुपचितम्
उपेक्ष्य त्वां यस्माद्विधुमयमकस्मादिह कृत
कलाहीनं दीनं विकल इव राजानमतनोत्॥

उपपादयति-पूर्वार्धोत्प्रेक्षितमोहरूपधर्मसिद्धये द्वितीयार्धेऽविचार्यकारित्वं तत्सामानाधिकरण्येनोपात्तम्
निमित्तांशे प्रागनुक्तं विशेषमुपदर्शयति-अस्यां च स्वरूपस्य विषयित्वे निमित्तभूतो धर्म उपमायामिव बिम्बप्रतिबिम्बभावादिभिर्भिन्
उपात्तोऽनुपात्तश्च । हेतुफलयोर्विषयित्वे तु यं प्रति हेतुफले निरूपिते स धर्म
कल्प्यमानोऽपि विषयगतसाहजिकधर्मा-भिन्नतयाऽध्यवसीयमानो निमित्तं सम्पद्यते ।
चोपात्त एव भवति । अन्यथा कं प्रति हेतुफलयोरनन्वयः स्यादिति सङ्क्षेपः
शाब्दबोधप्रकारज्ञानाय प्राचीनार्वाचीनभेदेन मतद्वयसत्ताः सामान्यतः सूचयित्वा प्रथम
प्राचीनमतमुपदर्शयति-अत्र च प्राचामर्वाचां चानेकधा दर्शनं व्यवस्थितम् । तत्र प्राचामित्थम्, सर्वत्राभेदेनै
विषयिणो विषये उत्प्रेक्षणम्, न सम्बन्धान्तरेण । तथाहि धर्मिस्वरूपोत्प्रेक्षायाम् ‘मुखं चन्द्र

मन्ये’ इत्यादौ तावद्विषयिणश्चद्रस्याभेदो विषये मुखे स्फुट एव, नामार्थयोर्भेदे
साक्षादन्वयस्याव्युत्पत्तेः। उपात्तविषया चेयम् । एवम् ‘अस्यां मुनीनामपि मोहमूहे’इत्यत्
नैषधपद्ये(७/६४) धर्मस्वरूपोत्प्रेक्षायामपि मुनिसम्बन्धिनि धर्मान्तरे विषय
दमयन्तीविषयकमोहस्य विषयिणोऽभेदेनैवोत्प्रेक्षा । उत्प्रेक्षायाश्
साध्यवसानत्वाद्विषयस्यानुपादानं सङ्गःच्छते । निमित्तधर्मश्च तत्तदङ्गासक्तवृत्तित्वम् । एवम
‘लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ’ इत्यादौ कस्यापि पद्ये न प्रथमान्तार्थे कर्तर
लेपनकर्तृत्वादेरुत्प्रेक्षणं, तस्याख्यातार्थविशेषणत्वेनैकदेशत्वात् । नापि लेपनादिकर्तुरभेदेन
तस्या क्रियाविशेषणत्वेनाप्राधान्यात् । किन्तु तमःकर्तृकमङ्गःकर्मकं लेपनमुत्प्रेक्ष्य ते
तमःकर्तृकमङ्गःकर्मकं वर्षणं च । उत्प्रेक्ष्यमाणाभ्यां च ताभ्यां विषयस्य तम
कर्तृकव्यापनस्य निगीर्णत्वादनुपादानम् । अत एव एवमादावियमनुपात्तविषयोच्यते
निमित्तधर्मश्च श्यामीकारकत्वादिरनुपात्त एव । अत एव ‘सम्भावनमथोत्प्रेक्षाप्रकृतस्य समे
यत्’इति लक्षणं विधायोक्तम् ‘व्यापनादि लेपनादिरूपतया सम्भावितम् ’इति मम्मटभट्टैः
एवम्-

‘उन्मेषं यो मम न सहते जातिवैरी निशाया-मिन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः
नीतः शान्तिं प्रसभमनया वक्रकान्त्येति हर्षा-ल्लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः॥

इत्यादौ प्राचीनपद्ये हेतूत्प्रेक्षायामपि न हर्षरूपं हेतुमात्रमुत्प्रेक्ष्यते लक्ष्मीरूपे विषये, किन्त
तद्धेतुकं कार्यं लगनादिरूपं विषयि तादात्म्येन साहजिकलगनादौ विषये । कार्यस्
निमित्ततावादिनामपि विषयगततत्समानजातीयेनाभेदाध्यवसानस्यावश्यवाच्यत्वात् । अन् यथ
हेतुरूपविषयिधर्मसमानाधिकरणधर्मस्य कार्यरूपस्य विषयावृत्तित्वेनोत्प्रेक्षैव न स्यात्
एवम्-

‘चोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः
अद्यापि किं वानुभविष्यतीति व्यपाटयन् द्रष्टुमिवाक्षराणि ॥

इत्यादिपरपद्ये फलोत्प्रेक्षायां कण्टकिषु वनान्तेषु विषयेषु न केवलं भालत्वग्विपाट ननिमित्त
ललाटाक्षरदर्शनं फलमुत्प्रेक्ष्यते । किन्तु तत्फलकं भालत्वग्विपाटनादिरूपं विषय

कण्टकजविपाटनादौ विषये तादात्म्येनेति सर्वत्राभेदेनैव विषये विषयिण उत्प्रेक्षणमित
दर्शनम्
प्राचीनमतमालोचयितुं प्रक्रममाणस्तदुक्तयुक्तीर्निरस्यति-तत्र विचार्यते-न सर्वत्राभेदेनैवोत्प्रेक्षणमिति नियमे किञ्चिदस्ति प्रमाणम्, लक्ष्येष
भेदेनाप्युत्प्रेक्षणस्य दर्शनात्-‘अस्यां मुनीनामपि मोहमूहे ’ इत्यादौ । न च मुनिसम्बन्धिन
धर्मविशेषे मोहस्याभेदेनोत्प्रेक्षणमिति वाच्यम् । भेदेनोत्प्रेक्षणे बाधकाभावेनेदृशकल्पनाय
निरर्थकत्वात् । न ह्यभेदेनैवोत्प्रेक्षणमिति वेदेन बोधितम्, यदर्थमयमाग्रहः स्यात्
लक्षणनिर्माणस्य पुरुषाधीनत्वात् । ‘लिम्पतीव तमोऽङ्गानि’इत्यत्रापि लेपनादिकर्तृत्व
तमआदिषु विषयेषूत्प्रेक्ष्यत इत्येव युक्तम् । अनुकूलव्यापारात्मकस्
कर्तृत्वस्यैवाख्यातार्थत्वात् । तस्य च प्रथमान्ते विशेष्ये आश्रयतासंसर्गेणान्वयान्न दोषः
‘भावप्रधानमाख्यातम्’इत्यस्य ‘भावो व्यापारस्तदर्थकमाख्यातं तिङ्’इत्यर्थकरणान्
विरोधः। ‘सत्त्वप्रधानानि नामानि’इत्युत्तरवाक्यस्थप्रधानशब्दस्याभिधेयपरत्वात्
फलमात्रार्थस्यापि धातोराख्यातार्थव्यापारव्यधिकरणत्वसमानाधिकरणत्वाभ्यामर्थगताभ्या
सकर्मकाकर्मकत्वव्यवहारः। नामार्थयोर्भेदेनान्वयाभावाच्च भावकृदर्थव्यापारस्य
नामार्थेऽन्वयः। अत एव च ‘कर्तरि कृत् ’इत्यनेन विशिष्टशक्तिबोधकेन न घञादिष
भावग्रहणस्य विशेषणशक्तिबोधकस्य गतार्थत्वम्, शब्दानुवृत्तिपक्षस्वीकाराच्च ‘कर्तरि कृ त्
इत्यत्र धर्मिपरस्यापि कर्तृग्रहणस्य ‘लः कर्मणि-’इत्यत्र धर्मपरतायामपि न दोषः। यद्व
आस्तां फलव्यापारौ, धातोः, आश्रयश्च तिङोऽर्थः। परं तु देवदत्तः पचमान इत्यादावि
देवदत्तः पचतीत्यादिष्वपि प्रथमान्तार्थ एव तिङर्थस्याभेदेन विशेषणत्वं युक्तम् न तु भेदे
धात्वर्थभावनायाम् । सर्वजनसिद्धस्योद्देश्यविधेयभावस्य भङ्गापत्तेः। सत्यां हि गत
‘प्रत्ययार्थे प्रकृत्यर्थो विशेषणम्’ इत्यस्योत्सर्गस्याप्यनुग्रह एव न्याय्यः
‘भावप्रधानमाख्यातम् ’इत्यस्य ‘भावनार्थको धातुः’इत्यर्थकरणान्न विरोधः। न
वैयाकरणमतविरोधो दूषणमिति वाच्यम्, स्वतन्त्रत्वेनालङ्कारिकतन्त्रस्य तद्विरोधस्यादूषणत्वात
। प्रपञ्चयिष्यते चैतदधिकमुपरिष्टादिति प्रकृतमनुसरामः। एवं च ‘लिम्पतीव-’इत्याद
भेदेनाभेदेन वा तिङर्थस्यैव प्रथमान्तार्थ एवोत्प्रेक्षणम् । न तु धात्वर्थस्य स्वनिगीर्ण
व्यापनादौ, सर्वजनसिद्धाया इवार्थस्य विधेयताया अनुपपत्तेः। तमःकर्तृक
लेपनमिवेत्यस्मादपि उद्देश्यविधेयभावशून्यवाक्यादुत्प्रेक्षाप्रतीत्यापत्तेश्च । यदि

विषयिसम्बन्धिना लेपनादिना विषयसम्बन्धिनो व्यापनादेर्निमित्ततासम्पत्तय
स्वताद्रूप्यसम्पादनेन निगीर्णत्वादनुपात्तविषयत्वमध्यवसानमूलत्वं चोच्यते तद
रूपकेऽप्यनुपात्तविषयत्वमुच्यतामध्यवसानमूलत्वं च । ‘लोकान् हन्ति खलो विषम्’इत्याद
खलसम्बन्धिनो दुःखदानादेर्विषसम्बन्धिहननात्मनाऽध्यवसानात्
तस्मान्निमित्तांशेऽतिशयोक्तिरेव । एवम् ‘उन्मेषं यो मम न सहते ’इत्यत्र लक्ष्मीरूपे विषय
लगनहेतुत्वेन हर्ष उत्प्रेक्ष्यते । तत्र साहजिकसम्बन्धे तादात्म्येनाध्यवसितं लगनमे
निमित्तम् । तथा-

‘सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नपुरमेकमुव्र्याम्
अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥

अत्रापि मौनहेतुत्वेन नूपुरे विश्लेषदुःखमुत्प्रेक्ष्यते । तत्
निश्चलत्वनिमित्तकनिःशब्दत्वाध्यवसितं मौनं निमित्तम्, विश्लेषदुःखसमानाधिकरणत्वे सत
नूपुरवृत्तित्वात् । न तु निश्चलत्वनिमित्तके निःशब्दत्वे विषये विश्लेषदुःखहेतुकमौ नमभेदे
उत्प्रेक्षायामिवशब्दान्वितस्योत्प्रेक्ष्यताया उत्सर्गसिद्धत्वात् । विषयस्य निगीर्णतया विष यिण
विधेयत्वानुपपत्तेश्च । निमित्तान्तरगवेषणापत्तेश्च । यद्यप्येककालप्रभवत्वादिरस्ति साधार ण
धर्मो निमित्तम् । तथापि तस्याचमत्कारित्वादुपमायामिवोत्प्रेक्षायामप्यप्रयोजकत्वात् ॥ एव
फलोत्प्रेक्षायामपि बोध्यम् । एतेन ‘यद्वा हेतुफलधर्मस्वरूपोत्प्रेक्षोदाहरणेष्वप
तादात्म्येनैवोत्प्रेक्षा ’ इति प्राचां मतमनुसरता द्रविडपुङ्गःवेन यदुक्तं तदपि परास्तम्
पूर्वसूचितमर्वाचां मतमुत्थापयति-अलङ्कारसर्वस्वकृता तावदुत्प्रेक्षाया लक्षणमित्थं निगदितम्-विषयनिगरण
नाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः। स च द्विविधः-सिद्धः, साध्यश्च । तत्र साध्यत्वप्रतिप त्त
व्यापारप्राधान्ये उत्प्रेक्षा इति । ’अस्यार्थ:-सिद्धत्वं निगीर्णविषयत्वम् । साध्यत्वं
निगीर्यमाणविषयत्वम् । यत्रा हि सिद्धत्वं तत्राध्यवसितप्राधान्यम्-यथाऽतिशयोक्त्यादौ। यत्
हि सिद्धत्वं तत्राध्यवसितप्राधान्यम्-यथाऽतिशयोक्त्यादौ । यत्र साध्यत्वं तत्
व्यापारस्याध्यवसानक्रियायाः प्राधान्ये उत्प्रेक्षा इति । एवमभेदगर्भमुत्प्रेक्षालक्षणं विधाय-‘‘-‘सैषा स्थली यत्र ’ इत्यत्र नूपुरगतस्य मौनित्वस्य हेतुत्वेन दुःखं गुण उत्प्रक्ष्यते । तत्
मौनित्वमेव
नूपुरगतनिःशब्दत्वाभेदेनाध्यवसितं निमित्तम् । ’इत्युक्तम् । एवं ‘यत्र धर्म एव धर्मिगतत्वे’ इत्यादिना धर्मोत्प्रेक्षाप्रसङ्गे ‘‘-‘लिम्पतीव तमोऽङ्गानि’इत्यत्
लेपनक्रियाकर्तृत्वोत्प्रेक्षणे व्यापनादि निमित्तम्।’इत्युक्तम्
उक्तमलङ्कारसर्वस्वकारमतमालोचयति-तदेतत्सर्वं परस्परविरुद्धम् । नहि दुःखगुणोत्प्रेक्षायामभेदगर्भोऽध्यवसायोऽस्ति । मौनांश
सन्नप्यध्यवसायः सिद्धत्वादतिशयोक्तेरेव विषयो भवितुमर्हति, नोत्प्रेक्षायाः। त्वन्मतेमौनस्
निमित्तत्वेनानुत्प्रेक्ष्यत्वाच्च। एवं ‘लिम्पतीव’इत्यत्र लेपनाध्यवसायोऽपि । तस्याप
व्यापनरूपतया स्थितस्य त्वया कर्तृत्वोत्प्रेक्षानिमित्तत्वेनोक्तत्वाच्च । ‘व्यापनादौ तूत्प्रेक्षाविषय
निमित्तमन्यदन्वेष्यं स्यात्’इति त्वयैव बाधकोपन्यासात् । निमित्तांशाध्यवसानं तूपमादावप
स्थितम् । किञ्च, ‘नूनं मुखं चन्द्रः ’इत्यादौ कुत्राध्यवसायः, विषयस्य जागरूकत्वात् ।
च सिद्धेऽध्यवसाये विषयस्य जठरवर्तित्वम्, साध्ये तु निगीर्यमाणत्वात्पृथगुपलब्धिरित
वाच्यम्, साध्याध्यवसाये मानाभावात् । अन्यथा रूपकादेरप्यध्यवसायगर्भत्वापत्तेः। किञ्च
अध्यवसानं लक्षणाभेदः। न चात्र विधेयांशे लक्षणास्ति । अभेदादिसंसर्गैराहार्यबोधस्यै
स्वीकारात् । तस्मात्प्राचीनानामाधुनिकानां चोक्तयो न क्षोदक्षमाः
प्राचीनानामाधुनिकानाञ्च मतान्युपपाद्य सामान्यतः समालोच्य च सम्प्रति तद्विषये स्व सम्मत
निष्कर्षमाह-एवं प्राप्ते ब्रूम:-तत्र तावद्धम्र्युत्प्रेक्षानिष्कर्षः प्राचीनमतपरीक्षावसरे कृत एव । हेतूत्प्रेक्षाया
पञ्चम्यन्तार्थो हेतुः, अभेदश्च प्रकृतिप्रत्ययार्थयोः संसर्ग इति पक्षे विश्लेषदुःखाभिन्नहेतु
पञ्चम्यन्तार्थः। तस्य च प्रयोज्यतासंसर्गेणोत्प्रेक्षणमिवादिना बोध्यते । प्रयोज्यत्व
पञ्चम्यर्थ इति दर्शने निरूपितत्वं प्रकृतिप्रत्ययार्थयोः संसर्गः। आश्रयतासंसर्गेणोत्प्रेक्षणम
। उभयथापि पञ्चम्यर्थ एवोत्प्रेक्ष्यः, तेनैवे वाद्यार्थान्वयात्
उत्प्रेक्ष्यतावच्छेदकसंबन्धेनोत्प्रेक्ष्यसमानाधिकरणश्च धर्मोऽतिशयोक्त्य
मौनाभिन्नत्वेनाध्यवसितनिश्चलत्वादिर्निमित्तम् । बद्धमौनं च विषयः। मौनद्वारकं
बद्धमौनस्य प्रयोज्यत्वं सम्भाव्यते । एवं प्रयोज्यधर्मके धर्मिणि सर्वत्रापि धर्मद्वारक ए
पञ्चम्यर्थान्वयः। यत्र तु धर्म एव किञ्चिद्धर्माभिन्नत्वेनाध्यवसितः साक्षाद्विषयस्तत्
विषयतावच्छेदकधर्मो निमित्तम् । यथा तत्रैव ‘विश्लेषदुःखादिव मौनमस्य’इति निर्माण
मौनत्वम् । एवं तृतीयार्थेऽपि बोध्यम्
फलोत्प्रेक्षास्थलीयं निष्कर्षमाह

फलोत्प्रेक्षायां तुमुन्नादेरर्थः फलम् । प्राग्वत्प्रकृत्यर्थप्रत्ययार्थयोरभेदः संसर्गः। तच्
साधनतासंसर्गेणान्वेतीति तेनैव संसर्गेणोत्प्रेक्ष्यते, यत्र चोत्प्रेक्ष्यते तदंशे विशेषणतय
भासमानो धर्मो निमित्तम् । स च धर्मिणि विषये अभिन्नत्वेनाध्यवसितो धर्मः, तथाभूते
धर्मे विषये तद्विशेषणीभूतोऽन्य इति विवेकः
इदानीं हेतुफलोत्प्रेक्षासाधारणं स्पष्टीकरणं कुरुते-एवं च यत्र समासप्रत्ययगुणीभूते विषये हेतुफलान्वयो न साक्षात् सम्भवति तत्र प ्रधा
एव विषये तादृशविशेषणद्वारकप्रयोज्यत्वप्रयोजकत्वाभ्यां ससंर्गाभ्यां हेतुफलयोरुत्प्रेक्ष
बोध्या
आशङ्क्य समाधत्ते-यद्यपि विशेषणेऽपि यथाकथंचिद्धेतुफलयोरन्वयाद्विशेषणस्यापि विषयत्वमुचितम् । तथाप
विषयविषयिणोरुद्देश्यविधेयभावप्रत्ययस्यानुरोधादियं सरणिराश्रिता । यदि च तस्
नास्त्येवानुरोधस्तदा प्राचां दर्शनमेव रमणीयं स्यात्
प्राचीनमते न केवलमुद्देश्यविधेयभावभङ्गापत्तिरेव दोषः, अपि तु दोषान्तरमपीत्या ह-किञ्च प्राचां मते हेतुफलोत्प्रेक्षास्थले तद्धेतुकतत्फलकयोः कार्यकारणयोरेव निगी र्ण
विषये उत्प्रेक्षणात् स्वरूपोत्प्रेक्षायामेव पर्यवसानम्, न हेतुफलयोः। एवं
विभागश्चिरन्तनानामुच्छिन्नः स्यात् । अथ स्वरूपतादात्म्याविशेषेऽप
हेतुफलाविशेषणकशुद्धस्वरूपोत्प्रेक्षाया हेतुफलविशेषणकस्वरूपोत्प्रेक्षायामस्त
हेतुफलकृत एव भेद इति चेत
‘तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्या
सखी’इति प्रागुदाहृतायां स्वरूपोत्प्रेक्षायां तनयमैनाकगवेषणरूपस्
फलस्योत्प्रोक्ष्यविशेषणकोटिप्रविष्टत्वात्फलोत्प्रेक्षात्वापत्तेः, उत्प्रेक्ष्ये साक्षाद्विशेषणताय
अप्रयोजकत्वात् । इत्यलं स्वगोत्रकलहेन
अथेदानीमुत्प्रेक्षाणां साङ्कःर्ये कयोत्प्रेक्षया व्यपदेश इति वक्तुं प्रयतते-उत्प्रेक्ष्यमाणेष्वपि यस्य विषयिण उत्प्रेक्षा विधेयतया भासते तदीयोत्प्रेक्षयैव व्यपदे शः
प्राधान्यात् । तेन ‘विश्लेषदुःखादिव बद्धमौनम्’इत्यत्र नूपुरगतत्वेन दुःखस्योत्प्रेक्षणेऽपि
तदुत्प्रेक्षया व्यपदेशो न्याय्यः, तस्या अङ्गःत्वेनानुवाद्यत्वात् । किन्तु पञ्चम्यर्थोत्प्रेक्ष या
तस्या एव इवशब्दवेद्यत्वेन विधेयत्वात् । तथा ‘चोलस्य ’इति पद्येऽपि वनान्तगतत्वेन

ललाटाक्षरदर्शनोत्प्रेक्षयाऽपि, अपि तु तुमुन्नर्थोत्प्रेक्षया । एवं ‘तनयमैनाक- ’इत्यादिगद्ये
फलोत्प्रेक्षया व्यपदेशः। नापि ‘कलिन्दजानीरभरेऽर्धमग्ना’इत्यत्
शशिकिशोरतादात्म्योत्प्रेक्षया, तदुत्थापितय
ध्वान्तकर्तृकवैरहेतुकनिगरणकर्मतादात्म्योत्प्रेक्षया वा, प्रागुक्तादेव हेतोरिति दिक्
उत्प्रेक्षानिमित्तभूतधर्मसम्बन्धिविशेषमाह-द्विविधो हि तावद्धर्मोऽपि-स्वत एव साधारणः साधारणीकरणोपायेनासाधारणोऽप
साधारणीकृतश्च । च चोपायः क्वचिद्रूपकम्, क्वचिच्छ्लेषः, क्वचिदपह्नुतिः
क्वचिद्बिम्बप्रतिबिम्बभावः, क्वचिदुपचारः, क्वचिदभेदाध्यवसायरूपोऽतिशयः
उपायेन साधारणीकृतानां धर्मणामुदाहरणेषु निर्देष्टव्येषु प्रथमं रूपकोपायसाधारणीकृत
धर्ममुदाहरति-यथा-‘नयनेन्दिन्दिरानन्दमन्दिरं मिलदिन्दिरम्
इदमिन्दीवरं मन्ये सुन्दराङ्गिः तवाननम् ।
उपपादयति-अत्र प्रथमार्धगतः प्रथमो धर्मो रूपकेण विषयविषयिसाधारणीकृतः। द्वितीयश्
विलक्षणशोभयोरभेदाध्यवसायेन
सोदाहरणमुक्तप्रकारातिरिक्तमेकं निमित्तधर्मप्रकारं प्रकटयति-केवलशब्दात्मकोऽप्ययं सम्भवति
‘अङ्किःतान्यक्षसङ्घातैः सरोगाणि सदैव हि
शङ्के पङ्केरुहाणीति शरीराणि शरीरिणाम् ॥

शब्दात्मके निमित्तधर्मे यो विशेषस्तमाह-अयमुपात्त एव भवति
प्रसङ्गाच्छब्दात्मकेतरेषु धर्मेषु ततो वैलक्षण्यं दर्शयति-अर्थमयोऽनुपात्तश्चापि भवति । यथा ‘द्वनेत्र इव वासवः’इत्यादौ जगदीश्वरत्वादिः। न चात्
द्विनेत्रत्वादिरूप उपात्त एव साधारणो धर्मः। साधारण्यार्थमेव तस्य विषयिण्यारोपादित
वाच्यम् । तस्यारोपेण साधारणत्वे कृतेऽपि असुन्दरत्वेनोत्प्रेक्षोत्थापकत्वविरहात्
साधारणीकरणं तु प्रतिबन्धकनिरासार्थमित्युक्तमेव

श्लेषरूपेणोपायेन साधारणीकृतं धर्ममुदाहरति-

‘दृष्टिः सम्भृतमङ्गःला बुधमयी देव त्वदीया सम
काव्यस्याश्रयभूतमास्यमरुणाधारोऽधरः सुन्दरः
क्रोधस्तेशनिभूरनल्पधिषण स्वान्तं तु सोमास्पद
राजान्नूनमनूनविक्रम भवान् सर्वग्रहालम्बनम् ॥

उपपादयति-अत्रोत्प्रेक्ष्यमाणस्य सर्वग्रहालम्बनस्य धर्मेषु तत्तद्ग्रहाश्रिताङ्गःकत्वेष
विशेषणीभूतैस्तत्तद्ग्रहैर्विषयस्य राज्ञो धर्मेषु कल्याणाश्रयत्वादिषु विशेषणाना
कल्याणादीनां श्लेषेण तादात्म्यसम्पादनद्वारा तादृशधर्माणां साधरणतासम्पत्तिः
श्लेषेण साधारणीकृतस्यैव धर्मस्योदाहरणान्तरं दर्शयितुमाह-यथा वा-उदाहरणमुपन्यस्यति-

‘विभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मीः
कपोलपालिं तव तन्वि मन्ये नरेन्द्रकन्ये दिशमुत्तराख्याम् ॥

उपपादयति-इहापि विषयविषयिधर्मविशेषणयोरलकालकयोः श्रवणवैश्रवणयोश्च श्लेषेणाभेदे धर्मस्
साधारण्यम्
पुनः श्लेषेण साधारणीकृतस्यैव धर्मस्योदाहरणान्तरं प्रदर्शयितुमाह-यथा वा-उदाहरणमुपन्यस्यति-

‘नासत्ययोगो वचनेषु कीर्तौ तथार्जुनः कर्मणि चापि धर्मः
चित्ते जगत्प्राणभवो यदास्ते वशंवदास्ते किमु पाण्डुपुत्राः॥

उपपादयति-अत्र पाण्डुपुत्रेषु विषयेषु राजवशंवदतादात्म्योत्प्रेक्षायां राजाश्रितत्वरूपो विषयिधर्मः श्लेषे
विषयाणां तदाश्रितानां चासत्याभावशुक्लगुणपुण्यपरमेश्वराणामभेदसम्पादनद्वार
विषयसाधारणीकृतः
अपह्नुतिरूपेणोपायेन साधारणीकृतं धर्ममुदाहरति

‘स्तनान्तर्गतमाणिक्यवपुर्बहिरुपागतम्
मनोऽनुरागि ते तन्वि मन्ये वल्लभमीक्षते ॥

उपपादयति-अत्र वल्लभेक्षणस्य मनस्युत्प्रेक्षायां तन्निमित्तमन्तःप्रदेशाद्बहिरागमनमपेक्ष्यम् । तच्
बहिःप्रदेशसम्बन्धरूपं माणिक्यमात्रवृत्ति मनसो न सम्भवतीति माणिक्यापह्नुत्या मनोगत
क्रियते
बिम्बप्रतिबिम्बभावात्मकेनोपायेन साधारणीकृतं धर्ममुदाहर्तुं प्रागुक्तं पद्यं स्मारयति-बिम्बप्रतिबिम्बभावस्तु ‘कलिन्दजानीरभरेऽर्धमग्ना’इत्यत्रैव निरूपितः
उपचारात्मकेनोपायेन साधारणीकृतं धर्ममुदाहरति-

माधुर्यपरमसीमा सारस्वतजलधिमथनसम्भूता
पिबतामनल्पसुखदा वसुधायां ननु सुधा कविता ॥

उपपादयति-अत्र कवितायां माधुर्यपानयोर्मुख्ययोरसम्भवादास्वादश्रवणयोरमुख्ययोरुपचारेण मुखाभ्या
साधारणीकरणम् । लक्षणया शक्याभेदेन लक्ष्यबोधनात्
अभेदाध्यवसायरूपेणातिशयेन साधारणीकृतस्य धर्मस्योदाहरणभूतं पूर्वोल्लिखितं पद्य
स्मारयित्वोपपादयति-अभेदाध्यवसायमात्रं यथा प्रागुदाहृतायां हेतूत्प्रेक्षायाम्
‘व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीताम्’ इत्यत्र शाखानीचत्वकन्धरानमनयोरभेदाध्यवसाय ए
त्रपाहेतूत्प्रेक्षानिमित्ततयोपात्तस्य कन्धरानमनस्य नीचशाखनतकन्धरोभयसाधारण्ये बी जम्
पर्यवसितार्थामाह-एवं सर्वत्र हेतुफलयोरुत्प्रेक्षणे यस्य हेतुः फलं वोत्प्रेक्ष्यते सोऽनेन प्रकारेण साधारणीकृत
निमित्तमित्यसकृदावेदितम्
निमित्तधर्मे विशेषमाह-एवं क्वचिदुपात्तो धर्मो विषयविषयिसाधारण्याभावादसुन्दरत्वाद्वा स्वयमुत्प्रेक्षण
साक्षादुत्थापयितुमसमर्थोऽपि तदुत्थापनक्षमधर्मान्तरोत्थापनेनानुकूल्यविधानादुपयुज्यते
तत्राद्योदाहरणं सोपपादनमाह

यथा ‘द्यौरञ्जनकालीभिः- ’इति प्रागुदाहृते पद्ये दिवो जलदालीसमावृतत्वरूपो धर्
उपात्तो जगतो निर्लोचनवर्गसर्गत्वोत्प्रेक्षायां वैयधिकरण्यादप्रयोजकोऽप
स्वप्रयोज्यनिबिडान्धकारप्रयुक्तचाक्षुषज्ञानशून्यत्वस्य तथाविधोत्प्रेक्षानिमित्तस्योत्थापनेन
विषयगतं विशेषं स्फोरयति-विषयोऽप्युपात्तो निरूपित एव । क्वचिदयमपह्नुतोऽपि भवति
अपह्नुतं विषयमुदाहर्तुमाह-यथा-उदाहरणमुपन्यस्यति-

जगदन्तरममृतमयैरंशुभिरापूरयन्नयं नितराम्
उदयति वदनव्याजात् किमु राजा हरिणशावनयनायाः॥

समाप्तश्चाऽयं द्वितीयाननस्योत्प्रेक्षान्तो भागः

स्रोत[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=रसगङ्गाधरः/आनन_२&oldid=41870" इत्यस्माद् प्रतिप्राप्तम्