रसगङ्गाधरः/आनन १
रसगङ्गाधरः आनन १ जगन्नाथः |
आनन २ → |
स्मृतापि तरुणातपं करुणया हरन्ती नृणाम्
अभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम् ।
कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी
मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी ।।
श्रीमज्ज्ञानेंद्रभिक्षोरधिगतसकलब्रह्मविद्याप्रपञ्चः
काणादीराक्षपादीरपि गहनगिरो यो महेन्द्रादवेदीत् ।
देवादेवाध्यगीष्ट स्मरहरनगरे शासनं जैमिनीयं
शेषाङ्कप्राप्तशेषामलभणितिरभूत्सर्वविद्याधरो यः ।।
पाषाणादपि पीयूषं स्यन्दते यस्य लीलया ।
तं वन्दे पेरुभट्टाख्यं लक्ष्मीकान्तं महागुरुम् ।।
निमग्नेन क्लेशैर्मननजलधेरन्तरुदरं
मयोन्नीतो लोके ललितरसगङ्गाधरमणिः ।
हरन्नन्तर्ध्वान्तं हृदयं अधिरूढो गुणवताम्
अलंकारान्सर्वानपि गलितगर्वान्रचयतु ।।
परिष्कुर्वन्त्वर्थान्सहृदयधुरीणाः कतिपये
तथापि क्लेशो मे कथं अपि गतार्थो न भविता ।
तिमीन्द्राः संक्षोभं विदधतु पयोधेः पुनरिमे
किं एतेनायासो भवति विफलो मन्दरगिरेः ।।
निर्माय नूतनं उदाहरणानुरूपं
काव्यं मयात्र निहितं न परस्य किंचित् ।
किं सेव्यते सुमनसां मनसापि गन्धः
कस्तूरिकाजननशक्तिभृता मृगेणा ।।
मननतरितीर्णविद्यार्णवो जगन्नाथपण्डितनरेन्द्रः
रसगङ्गाधरनाम्नीं करोति कुतुकेन काव्यमीमांसाम्
रसागङ्गाधरनामा संदर्भोऽयं चिरं जयतु ।
किं च कुलानि कवीनां निसर्गसम्यञ्चि रञ्जयतु ।।
तत्र कीर्तिपरमाह्लादगुरुराजदेवताप्रसादाद्यनेकप्रयोजनकस्य काव्यस्य
व्युत्पत्तेः कविसहृदययोरावश्यकतया गुणालंकारादिभिर्निरूपणीये तस्मि-
न्विशेष्यतावच्छेदकं तदितरभेदबुद्धौ साधनं च तल्लक्षणं तावन्निरूप्यते--
रमणीयार्थप्रतिपादकः शब्दः काव्यम् ॥
रमणीयता च लोकोत्तराह्लादजनकज्ञानगोचरता । लोकोत्तरत्वं चाह्लादगतश्चमत्कारत्वापरपर्यायोऽनुभवसाक्षिको जातिविशेषः । कारणां च तदवच्छिन्ने भावनाविशेषः पुनःपुनरनुसंधानात्मा । 'पुत्रस्ते जातः,' 'धनं ते दास्यामि' इति वाक्यार्थधीजन्यस्याह्लादस्य न लोकोत्तरत्वम् । अतो न तस्मिन्वाक्ये काव्यत्वप्रसक्तिः । इत्थं च चमत्कारजनकभावनाविषयार्थप्रतिपादकशब्दत्वम्, यत्प्रतिपादितार्थविषयकभावनात्वं चमत्कारजनकतावच्छेदकं तत्त्वम्, स्वविशिष्टजनकतावच्छेदकार्थप्रतिपादकतासंसर्गेणा चमत्कारत्ववत्त्वं एव वा काव्यत्वं इति फलितम् । यत्तु प्राञ्चः 'अदोषौ सगुणौ सालंकारौ शब्दार्थौ काव्यम्' इत्याहुः, तत्र विचार्यते-- शब्दार्थयुगलं न काव्यशब्दवाच्यम्, मानाभावात् । काव्यं उच्चैः पठ्यते, काव्यादर्थोऽवगम्यते, कव्यं श्रुतं अर्थो न ज्ञातः, इत्यादिविश्वजनीनव्यवहारतः प्रत्युत शब्दविशेषस्यैव काव्यपदार्थत्वप्रतिपत्तेश्च । व्यवहारः शब्दमात्रे लक्षणयोपपादनीय इति चेत्, स्यादप्येवम्, यदि काव्यपदार्थतया पराभिमते शब्दार्थयुगले काव्यशब्दशक्तेः प्रमापकं दृढतरं किं अपि प्रमाणां स्यात् । तदेव तु न पश्यामः । विमतवाक्यं त्वश्रद्धेयं एव । इत्थं चासति काव्यशब्दस्य शब्दार्थयुगलशक्तिग्राहके प्रमाणे, प्रागुक्ताद्व्यवहारतः शब्दविशेषे सिद्ध्यन्तीं शक्तिं को नाम निवारयितुं ईष्टे । एतेन विनिगमनाभावादुभयत्र शक्तिरिति प्रत्युक्तम् । तदेवं शब्दविशेषस्यैव काव्यपदार्थत्वे सिद्धे तस्यैव लक्षणं वक्तुं युक्तम्, न तु स्वकल्पितस्य काव्यपदार्थस्य । एषैव च वेदपुराणादिलक्षणेष्वपि गतिः । अन्यथा तत्रापीयं दुरवस्था स्यात् । यत्त्वास्वादोद्बोधकत्वं एव काव्यत्वप्रयोजकं तच्च शब्दे चार्थे चाविशिष्टं इत्याहुः, तन्न । रागस्यापि रसव्यञ्जकताया ध्वनिकारादिसकलालंकारिकसंमतत्वेन प्रकृते लक्षणीयत्वापत्तेः । किं बहुना नाट्याङ्गानां सर्वेषां अपि प्रायशस्तथात्वेन तत्वापात्तिर्दुर्वारैव । एतेन रसोद्बोधसमर्थस्यैवात्र लक्ष्यत्वं इत्यपि परास्तम् । अपि च काव्यपदप्रवृत्तिनिमित्तं शब्दार्थयोर्
व्यासक्तम्, प्रत्येकपर्याप्तं वा । नाद्यः । एको न द्वाविति व्यवहारस्येव श्लोकवाक्यं न काव्यं इति व्यवहारस्यापत्तेः । न द्वितीयः । एकस्मिन्पद्ये काव्यद्वयव्यवहारापत्तेः । तस्माद्वेदशास्त्रपुराणलक्षणस्येव काव्यलक्षणस्यापि शब्दनिष्ठतैवोचिता ।
लक्षणे गुणालङ्कारादिनिवेशोऽपि न युक्तः । 'उदितं मण्डलं विधोः' इति काव्ये दूत्यभिसारिकाविरहिण्यादिसमुदीरितेऽभिसरणविधिनिषेधजीवनाभावादिपरेः 'गतोऽस्तं अर्कः' इत्यादौ चाव्याप्त्यापत्तेः । न चेदं अकाव्यं इति शक्यं वदितुम् । काव्यतया पराभिमतस्यापि यथा वक्तुं शक्यत्वात् । काव्यजीवितं चमत्कारित्वं चाविशिष्टं एव । गुणत्वालङ्कारत्वादेरननुगमाच्च । दुष्ट काव्यं इति व्यवहारस्य बाधकं विना लाक्षणिकत्वायोगाच्च । न च संयोगाभाववान्वृक्षः संयोगीतिवदंशभेदेन । दोषरहितं दुष्टं इति व्यवहारे बाधकं नास्तीति वाच्यम् । 'मूले महीरूहो विहंगमसंयोगी, न शाखायाम्' इति प्रतीतेरिवेदं पद्यं पूर्वार्धे काव्यं उत्तरार्धे तु न काव्यं इति स्वरसवाहिनो विश्वजनीनानुभवस्य विरहादव्याप्यवृत्तिताया अपि तस्यायोगात् । शौर्यादिवदात्मधर्माणां गुणानाम्, हारादिवदुपस्कारकाणां अलंकाराणां च शरीरघटकत्वानुपपत्तेश्च । यत्तु 'रसवदेव काव्यम्' इति साहित्यदर्पणे निर्णीतम्, तन्न । वस्त्वलंकारप्रधानानां काव्यानां अकाव्यत्वापत्तेः । न चेष्टापत्तिः, महाकविसंप्रदायस्याकुलीभावप्रसङ्गात् । तथा च जलप्रवाहवेगनिपतनोत्पतनभ्रमणानि कविभिर्वर्णितानि कपिबालादिविलसितानि च । न च तत्रापि यथाकथंचित्परम्परया रसस्पर्शोऽस्त्येवेति वाच्यम् । ईदृशरसस्पर्शस्य 'गौश्चलति', 'मृगो धावति' इत्यादावतिप्रसक्तत्वेनाप्रयोजकत्वात् । अर्थमात्रस्य विभावानुभावव्यभिचार्यन्यतमत्वादिति दिक् ।
तस्य च कारणं कविगता केवला प्रतिभा । सा च काव्यघटनानुकूलशब्दार्थोपस्थितिः । तद्गतं च प्रतिभात्वं काव्यकारणतावच्छेदकतया सिद्धो जातिविशेष उपाधिरूपं वाखण्डम् । तस्याश्च हेतुः क्वचिद्देवतामहापुरुषप्रसादादिजन्यं अदृष्टम् । क्वचिच्च विलक्षणव्युत्पत्तिकाव्यकरणाभ्यासौ । न तु त्रयं एव । बालादेस्तौ विनापि केवलान्महापुरुषप्रसादादपि प्रतिभोत्पत्तेः । न तत्र तयोर्जन्मान्तरीययोः कल्पनं वाच्यम् । गौरवान्मानाभावात्कार्यस्यान्यथाप्युपपत्तेश्च । लोके हि बलवता प्रमाणेनागमादिना सति कारणातानिर्णाये पश्चादुपस्थितस्य व्यभिचारस्य वारणाय जन्मान्तरीयं अन्यथानुपपत्त्या कारणं धर्माधर्मादि कल्प्यते । अन्यथा तु व्यभिचारोपस्थित्या पूर्ववृत्तकारणतानिर्णाये भ्रमत्वप्रतिपत्तिरेव जायते । नापि केवलं अदृष्टं एव कारणं इत्यपि शक्यं वदितुम् । कियन्तंचित्कालं काव्यं कर्तुं अशक्नुवतः कथं अपि संजातयोर्व्युत्पत्त्यभ्यासयोः प्रतिभायाः प्रादुर्भावस्य दर्शनात् । तत्राप्यदृष्टस्याङ्गीकारे प्रागपि ताभ्यां तस्याः प्रसक्तेः । न च तत्र प्रतिभायाः प्रतिबन्धकं अदृष्टान्तरं कल्प्यं इति वाच्यम् । तादृशानेक स्थलगतादृष्टद्वयकल्पनापेक्षया क्ल्प्तव्युत्पत्त्यभ्यासयोरेव प्रतिभाहेतुत्वकल्पने लाघवात् । अतः प्रागुक्तसरणिरेव ज्यायसी । तादृशादृष्टस्य तादृशव्युत्पत्त्यभ्यासयोश्च प्रतिभागतं वैलक्षण्यं कार्यतावच्छेदकम्, अतो न व्यभिचारः । प्रतिभात्वं च कवितायाः कारणातावच्छेदकं, प्रतिभागतवैलक्षण्यं एव वा विलक्षणकाव्यं प्रतीति नात्रापि सः । न च सतोरपि व्युत्पत्यभ्यासयोर्यत्र न प्रतिभोत्पत्तिस्तत्रान्वयव्यभिचार इति वाच्यम् । तत्र तयोस्तादृशवैलक्षण्ये मानाभावेन कारणतावच्छेदकानवच्छिन्नत्वात् । पापविशेषस्य तत्र प्रतिबन्धकत्वकल्पनाद्वा न दोषः । प्रतिबन्धकाभावस्य च कारणता समुदितशक्त्यादित्रयहेतुतावादिनः शक्तिमात्रहेतुतावादिनश्चाविशिष्टा । प्रतिवादिना मन्त्रादिभिः कृते कतिपयदिवसव्यापिनि वाक्स्तम्भे विहितानेकप्रबन्धस्यापि कवेः काव्यानुदयस्य दर्शनात् ।
तच्चोत्तमोत्तमोत्तममध्यमाधमभेदाच्चतुर्धा ।
शब्दार्थौ यत्र गुणीभावितात्मानौ कमप्यर्थं अभिव्यङ्क्तस्तदाद्यम् ।।
कमपीति चमत्कृतिभूमिम् । तेनातिगूढस्फुटव्यङ्ग्ययोर्निरासः । अपराङ्गवाच्यसिद्ध्यङ्गव्यङ्ग्यस्यापि चमत्कारितया तद्वारणाय गुणीभावितात्मानाविति स्वापेक्षया व्यङ्ग्यप्राधान्याभिप्रायकम् ।
उदाहरणम्--
दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षयते ।।'
अत्रालम्बनस्य नायकस्य, सविधशयनाक्षिप्तस्य रहःस्थानादेरुद्दीपनस्य च विभावस्य, तादृशनिरीक्षणादेरनुभावस्य, त्रपौत्सुक्यादेश्च व्यभिचारिणः, संयोगाद्रतिरभिव्यज्यते । आलम्बनादीनां स्वरूपं वक्ष्यते । न च यद्ययं शयितः स्यात्तदास्याननाम्बुजं चुम्बेयं इति नायिकेच्छाया एव व्यङ्गयत्वं अत्रेति वाच्यम् । मनोरथान्सफलीकर्तुं असमर्थेत्यनेन मनोरथाः सर्वेऽस्या हृदि तिष्टन्ति इति प्रतीतेः स्वशब्देन मनोरथपदेन सामान्याकारेण तादृशेच्छाया अपि निवेदनात् । न च मनोरथपदेन मनोरथत्वाकारेणा सामान्येच्छाया अभिधानेऽपि चुम्बेयं इति विषयविशेषविशिष्टेच्छात्वेन व्यङ्ग्यत्वे किं बाधकं इति वाच्यम् । चमत्कारो न स्यादित्यस्यैव बाधकत्वात् । न हि विशेषाकारेण व्यङ्ग्योऽपि सामान्याकारेणाभिहितोऽर्थः सहृदयानां चमत्कृतिं उत्पादयितुं ईष्टे । कथं अपि वाच्यवृत्त्यनालिङ्गितस्यैव व्यङ्ग्यस्य चमत्कारित्वेनालंकारिकैः स्वीकारात् । चुम्बनेच्छाया रत्यनुभावतयैव सुन्दरत्वेन तदव्यञ्जने चुम्बामीति शब्दबलाच्चुम्बनेच्छावदचमत्कारित्वाच्च । एवं त्रपाया अपि न प्राधान्येन व्यङ्ग्यत्वम् । अनुवाद्यतावच्छेदकतया प्रतीतायां तस्यां मुख्यवाक्यार्थत्वायोगात् । न च दरमीलन्नयनात्वविशिष्टनिरीक्षणं विधेयं इति नानुवाद्यतावच्छेदकत्वं तस्या इति वाच्यम् । एवं अपि नयनगतदरमीलनस्य तत्कार्यत्वेऽपि दरमीलन्नयनात्वविशिष्टनिरीक्षणस्य रतिमात्रकार्यत्वात् । त्रपाया एव मुख्यत्वेन व्यङ्ग्यत्वे निरीक्षणोक्तेरनतिप्रयोजनकत्वापत्तेः । वाच्यवृत्त्या रतेरनुभावे निरीक्षणो त्रपाया अनुभावस्य दरमीलनस्येव व्यञ्जनया तस्यां तस्या अपि गुणीभावप्रत्ययौचित्यात् ।
यथा वा--
दरकुण्डलताण्डवं नतभ्रूलतिकं मां अवलोक्य घूर्णितासीत् ।।'
अत्र घूर्णितासीदित्यनेनासमीक्ष्यकारिन्किमिदं अनुचितं कृतवानसीत्यर्थसम्वलितोऽमर्षश्चर्वणाविश्रान्तिधामत्वात्प्राधान्येन व्यज्यते । तत्र शब्दोऽर्थश्च गुणः ।
यथा वा--
सम्प्रति सा हृदयगतं प्रियपाणिं मन्दं आक्षिपति ।।'
इदं च पद्यं मन्निर्मितप्रबन्धगतत्वेन पूर्वसाकाङ्क्षं इति दिङ्मात्रेण व्याख्यायते --- या नववधूः पल्यङ्कशयिता श्वासस्यासङ्गमात्रेणापि संकुचदङ्गलतिकाभूत्सा सम्प्रति प्रस्थानपूर्वरजन्यां प्रवत्स्यत्पतिका प्रियेण सशङ्केन समर्पितं हृदि पाणिं नववधूजातिस्वाभाव्यादाक्षिपति, परं तु मन्दम् । अत्र शनैः स्वस्थानप्रापणात्मना मन्दाक्षेपेण रत्याख्यः स्थायी संलक्ष्यक्रमतया व्यज्यते । उपपादयिष्यते च स्थाय्यादीनां अपि संलक्ष्यक्रमव्यङ्गयत्वम् । अमुं एव च प्रभेदं ध्वनिं आमनन्ति । यत्तु चित्रमीमांसायां अप्पय्यदीक्षितैः 'निःशेषच्युतचन्दनम्' इति पद्यं ध्वन्युदाहरणप्रसङ्गे व्याख्यातम्-- उत्तरीयकर्षणेन चन्दन-च्युतिरित्यन्यथासिद्धिपरिहाराय निःशेषग्रहणम् । ततश्चन्दनच्युतेः स्नानसाधारण्यव्यावर्तनेन संभोगचिह्नोद्धाटनाय तटग्रहणम् । स्नाने हि सर्वत्र चन्दन च्युतिः स्यात्, तव तु स्तनयोस्तट उपरि भाग एव दृश्यते । इयं आश्लेषकृतैव । तथा निर्मृष्टरागोऽधर इत्यत्र ताम्बूलग्रहणविलम्बात्प्राचीनरागस्य किंचिन्मृष्टतेत्यन्यथासिद्धिपरिहाराय निर्मृष्टराग इति रागस्य निःशेषमृष्टतोक्ता । पुनः स्नानसाधारण्यवर्तनेन संभोगचिह्नोद्घाटनायाधर इति विशिष्य ग्रहणम् । उत्तरोष्ठे सरागेऽधरोष्ठमात्रस्य निर्मृष्टरागता चुम्बनकृतैव इत्यादिना, 'इदं अपि ध्वनेरुदाहरणम्' इत्यन्तेन सन्दर्भेण । 'तटादिघटिता वाक्यार्थाः स्नानव्यावृत्तिद्वारा संभोगाङ्गानां आश्लेषचुम्बनादीनां प्रतिपादनेन प्रधानव्यङ्ग्यव्यञ्जने साहायकं आचरन्ति इति, तदेतदलंकारशास्त्रतत्त्वानवबोधनिबन्धनम् । प्राचीनसकलग्रन्थविरुद्धत्वादुपपत्तिविरोधाच्च । तथा हि-- पञ्चमोल्लासशेषे 'निःशेषेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरतोऽपि भवन्ति । यतश्चात्रैव स्नानकार्यत्वेनोपात्तानीति नोपभोग एव प्रतिबद्धानीत्यनैकान्तिकानि इति काव्यप्रकाशकृतोक्तम् ।
तथा तत्रैव तेन--
गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण ।।'
इत्यादौ लिङ्गजलिङ्गिज्ञानरूपेणानुमानेन व्यक्तिं गतार्थयतो व्यक्तिविवेककृतो मतं प्रत्याचक्षाणेन व्यभिचारित्वेनासिद्धत्वेन च संदिह्यमानादपि लिङ्गाद्व्यञ्जनं अभ्युपगतम् । इत्थं एव च ध्वनिकृतापि प्रथमोद्द्योते । एवं च व्यञ्जकानां साधारण्यं प्रतिपादयतां प्रामाणिकानां ग्रन्थैः सहासाधारण्यं प्रतिपादयतस्तव ग्रन्थस्य विरोधः स्फुटः । किं च यदिदं निःशेषेत्याद्यवान्तरवाक्यार्थानां वापीस्नानव्यावृत्तिद्वारेण व्यङ्ग्यासाधारण्यं संपाद्यते तत्किं अर्थं इति पृच्छामः । व्यङ्ग्यस्य व्यञ्जनार्थं इति चेन्न । व्यञ्जकगतासाधारण्यस्य व्यञ्जनानुपायत्वात् ।
मह मन्दभाइणीए केरं सहि तुह परिभवै ।।'
इत्यादौ साधारणानां एवौन्निद्र्यादीनां वक्त्रादिवैशिष्ट्यवशादर्थविशेषव्यञ्जकताया अभ्युपगतेः । प्रत्युतासाधारण्यस्य व्याप्त्यपरपर्यायस्यानुमानानुकूलतया व्यक्तिप्रतिकूलत्वाच्च । अथ तटादिघटितत्वेऽपि न निःशेषेत्यादिवाक्यार्थानां असाधारण्यम् । सलिलार्द्रवसनकरणकप्रोञ्छनादिनापि तत्सम्भवादिति चेत्तर्हि वापीस्नानव्यावर्तनेन कः पुरुषार्थः । एकत्रानैकान्तिकत्वस्येव बहुष्वनैकान्तिकताया अपि ज्ञाताया अनुमितिप्रतिकूलत्वाद्व्यक्त्यप्रतिकूलत्वाच्च । अपि चात्र हि तदन्तिकं एव रन्तुं गतासीति व्यङ्ग्यशरीरे तदन्तिकगमनं रमणरूपफलांशश्चेति द्वयं घटकम् । तत्र तावत्तदन्तिकं गतासीत्यंशस्य त्वन्मते व्यङ्ग्यत्वं दुरुपपादम् । त्वदुक्तरीत्या विशेषणवाक्यार्थानां निःशेषेत्यादिप्रतिपाद्यानां वाच्यार्थे वापीस्नाने बाधितत्वाद्वाच्यकक्षागतप्रधानवाक्यार्थीभूतविधिनिषेधप्रतिपादकाभ्यां गता न गतेति शब्दाभ्यां विरोधिलक्षणया निषेधस्य विधेश्च प्रतीतेरुपपत्तेः । न हि मुख्यार्थबाधेनोन्मीलितेऽर्थे व्यक्तिवेद्यतोचिता । यथा 'अहो पूर्णं सरो यत्र लुठन्तः स्नान्ति मानवाः' इत्यत्र कर्तृविशेषणानुपपत्त्यधीनोल्लासे पूर्णत्वाभावे ।
अथ तदन्तिकगमनस्य लक्षणावेद्यत्वेऽपि रमणस्य फलांशस्य लक्ष्यशक्तिमूलध्वननवेद्यत्वं अव्याहतं एवेति चेत्, 'अधमत्वं अप्रकृष्टत्वं तच्च जात्या कर्मणा वा भवति । तत्र जात्यापकर्षं नोत्तमनायिका नायकस्य वाक्ति' इत्यादिना संदर्भेण भवतैवार्थापत्तिवेद्यतायाः स्फुटं वचनात् । अन्यलभ्यस्यच शब्दार्थताया अस्वीकृतेः । अन्यच्च यथा कथंचिदङ्गीकुरु वात्र व्यञ्जनाव्यापारं तथापि न तवेष्टसिद्धिः । वाच्यानां
निःशेषच्युतचन्दनस्तनतटत्वादीनां अधमत्वस्य च त्वदुक्तरीत्या प्रकारान्तरेणानुपपद्यमानतया दूतीसंभोगमात्रनिष्पाद्यत्वेन गुणीभूतव्यङ्ग्यत्वप्रसङ्गात् । एवं चोपपत्तिविरोधोऽपि स्फुटतर एव । तस्माद्वाच्यार्थसाधारण्यं एवोचितं अतिविदग्धनायिकानिरूपितानां विशेषणवाक्यार्थानाम् । तथा हि-- अयि बान्धवजनस्याज्ञातपीडागमे स्वार्थपरायणे स्नानकालातिक्रमभयवशेन नदीमदीयप्रिययोरन्तिकं अगत्वैव वापीं स्नातुं इतो ममान्तिकाद्गतासि, न पुनस्तस्य परवेदनानभिज्ञतया दुःखदातृत्वेनाधमस्यान्तिकम् । यतो निःशेषच्युतचन्दनं स्तनयोस्तटं एव नोरःस्थलम्, वापीगतबहुलयुवजनत्रपापारवश्यादंशद्वयलग्नाग्रस्वस्तिकीकृतभुजलतायुगलेन तटस्यैवोन्नततया मुहुरामर्षात् । एवं त्वरया सम्यगक्षालनेनोत्तरोष्ठो न निर्मृष्टरागोऽधरस्तु तदपेक्षया गण्डूषजलरदनशोधनाङ्गुल्यादीनां अधिकसंमर्दं आवहतीति तथा । किं च सम्यगक्षालनेन नेत्रे जलमात्रसंसगद्दूरं उपरिभाग एवानञ्जने । शीतवशात्तानवाच्च तव तनुः पुलकितेति । एवं तस्या विदग्धाया गूढतात्पर्यैवोक्तिरुचिता, अन्यथा वैदग्ध्यभङ्गापत्तेः । एवं साधारणोष्वेषु वाक्यार्थेषु मुख्यार्थे बाधाभावात्तात्पर्यार्थस्य झटित्यनाकलनात्कुतोऽत्र लक्षणावकाशः । अनन्तरं च वाच्यार्थप्रतिपत्तेर्वक्तृबोद्धव्यनायकादीनां वैशिष्ट्यस्य प्रतीतौ सत्यां अधमपदेन स्वप्रवृत्तिप्रयोजको दुःखदातृत्वरूपो धर्मः साधारणात्मा वाच्यार्थदशयां अपराधान्तरानिमित्तकदुःखदातृत्वरूपेण स्थितो व्यञ्जनाव्यापारेण दूतीसंभोगनिमित्तकदुःखदातृत्वाकारेण पर्यवस्यतीत्यालंकारिकसिद्धान्तनिष्कर्षः । एतेन 'अधमत्वं अपकृष्टत्वं तच्च जात्या कर्मणा वा भवति । तत्र जात्यापकर्षं नोत्तमनायिका नायकस्य वक्ति । नापि स्वापराधपर्यवसायिदूतीसंभोगादिहीनकर्मातिरिक्तेन कर्मणा । तादृशं च दूतीसंप्रेषणात्प्राचीनं सोढं एवेति नोद्घाटनार्हं इतीतरव्यावृत्या संभोगरूपं एव पर्यवस्यति' इति यदुक्तम्, तदपि निरस्तम् ।विदग्धोत्तमनायिकायाः सखीसमक्षं तदुपभोगरूपस्य स्वनायकापराधस्य स्फुटं प्रकाशयितुं अतितमां अनौचित्येन प्राचीनानां एव सोढानां अप्यपराधानां असह्यतया दूतीं प्रति प्रतिपिपादयिषितत्वादिति दिक् ।
यत्र व्यङ्ग्यं अप्रधानं एव सच्चमत्कारकारणं तद्द्वितीयम् ।।
वाच्यापेक्षया प्रधानीभूतं व्यङ्ग्यान्तरं आदय गुणीभूतं व्यङ्ग्यं आदायातिव्याप्तिवारणायावधारणम् । तेन तस्य ध्वनित्वं एव । लीनव्यङ्ग्यवाच्यचित्रातिप्रसङ्गवारणाय चमत्कारेत्यादि । यत्तु 'अतादृशि गुणीभूतव्यङ्ग्यम्' इत्यादि काव्यप्रकाशगतलक्षणे चित्रान्यत्वं टीकाकारैर्दत्तम्, तन्न । पर्यायोक्तसमासोक्त्यादिप्रधानकाव्येष्वव्याप्त्यापत्तेः । तेषां गुणीभूतव्यङ्गतायाश्चित्रतायाश्च सर्वालंकारिकसंमतत्वात् ।
उदाहरणम्--
शिशिरे सुखं शयानाः कपयः कुप्यन्ति पवनतनयाय ।।'
अत्र जानकीकुशलावेदनेन राघवः शिशिरीकृत इति व्यङ्ग्यं आकस्मिककपिकर्तृकहनुमद्विषयककोपोपपादकतया गुणीभूतं अपि दुर्दाइववशतो दास्यं अनुभवद्राजकलत्रं इव कां अपि कमनीयतां आवहति । नन्वेवं प्रागुक्तं आक्षेपगतं मान्द्यं अपि नववधूप्रकृतिविरोधादनुपपद्यमानं व्यङ्ग्येनैवोपपाद्यत इति कथं उत्तमोत्तमता तस्य काव्यस्येति चेत्, न । यतो ह्यनुदिनसख्युपदेशादिभिरनतिचमत्कारिभिरप्युपपद्यमानं मान्द्यं इदं प्रथमचित्तचुम्बिनीं विप्रलम्भरतिं अप्रकाशयन्न प्रभवति स्वातन्त्र्येण परनिर्वृतिचर्वणागोचरतां आधातुम् । इत्थं एव निःशेषच्युतचन्दनं इत्यादिपद्येष्वधमत्वादीनि वाच्यानि व्यङ्ग्यातिरिक्तेनार्थेनापाततो निष्पन्नशरीराणि व्यञ्जकानीति न तत्रापि गुणीभावः शङ्कनीयः । अनयोर्भेदयोरनपह्नवनीयचमत्कारयोरपि प्राधान्याप्राधान्याभ्यां अस्ति कश्चित्सहृदयवेद्यो विशेषः । यत्तु चित्रमीमांसाकृतोक्तम्--
किं उत सकले याते वाह्नि प्रिय त्वं इहैष्यसि ।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
इत्यत्र सकलं अहः परमावधिस्ततः परं प्राणान्धारयितुं न शक्नोमीति व्यङ्ग्यं प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गं अतो गुणीभूतव्यङ्ग्यम्' इति । तन्न । स बाष्पगलज्जलानां प्रहरविरतावित्याद्यालापानां एव प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गतया व्यङ्ग्यस्य गुणीभावाभावात् । आलापैरिति तृतीयया प्रकृत्यर्थस्य हरणक्रियाकरणतायाः स्फुटं प्रतिपत्तेः । न च व्यङ्ग्यस्यापि वाच्यसिद्ध्यङ्गतात्र संभवतीति तथोक्तं इति वाच्यम् । निःशेषच्युतचन्दं इत्यादाविवाधमत्वरूपवाच्यसिद्ध्यङ्ग्यताया दूतीसंभोगादौ संभवाद्गुणीभावापत्तेः । अस्तु वा ततः परं प्राणान्धारयितुं न शक्नोमीति व्यङ्ग्यस्य वाच्यसिद्ध्यङ्गतया गुणीभावस्तथापि नायकादेर्विभावस्य बाष्पादेरनुभावस्य चित्तावेगादेश्च संचारिणः संयोगादभिव्यज्यमानेन विप्रलम्भेन ध्वनित्वं को निवारयेत् ।
यत्र व्यङ्ग्यचमत्कारासमानाधिकरणो वाच्यचमत्कारस्तत्तृतीयम् ।।
यथा यमुनावर्णने--'तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी' इति । अत्रोत्प्रेक्षा वाच्यैव चमत्कृतिहेतुः । श्वैत्यपातालतलचुम्बित्वादीनां चमत्कारो लेशतया सन्नप्युत्प्रेक्षाचमत्कृतिजठरनिलीनो नागरिकेतरनायिकाकल्पितकाश्मीरद्रवाङ्गरागनि गीर्णो निजाङ्गगौरिं एव प्रतीयते । न तादृशोऽस्ति कोऽपि वाच्यार्थो यो मनागनामृष्टप्रतीयमान एव स्वतो रमणीयतां आधातुं प्रभवति । अनयोरेव द्वितीयतृतीयभेदयोर्जागरूकाजागरूकगुणीभूतव्यङ्ग्ययोः प्रविष्टं निखिलं अलंकारप्रधानं काव्यम् ।
यत्रार्थचमत्कृत्युपस्कृता शब्दचमत्कृतिः प्रधानं तदधमं चतुर्थम् ।।
यथा--
गोत्रारिगोत्रजत्राय गोत्रात्रे ते नमो नमः ।।' इति ।
अत्रार्थचमत्कृतिः शब्दचमत्कृतौ लीना । यद्यपि यत्रार्थचमत्कृतिसामान्यशून्या शब्दचमत्कृतिस्तत्पञ्चमं अधमाधमं अपि काव्यविधासु गणयितुं उचितम्, यथैकाक्षरपद्यार्धावृत्तियमकपद्मबन्धादि, तथापि रमणीयार्थप्रतिपादकशब्दतारूपकाव्यसामान्यलक्षणानाक्रान्ततया वस्तुतः काव्यत्वाभावेन महाकविभिः प्रचीनपरम्परां अनुरुन्धानैस्तत्र तत्र काव्येषु निबद्धं अपि नास्माभिर्गणितम्, वस्तुस्थितेरेवानुरोध्यत्वात् । केचिदिमानपि चतुरो भेदानगणयन्त उत्तममध्यमाधमभावेन त्रिविधं एव काव्यं आचक्षते । तत्रार्थचित्रशब्दचित्रयोरविशेषेणाधमत्वं अयुक्तं वक्तुम्, तारतम्यस्य स्फुटं उपलब्धेः । को ह्येवं सहृदयः सन्'विनिर्गतं मानदं आत्ममन्दिरात्', 'स च्छिन्नमूलः क्षतजेन रेणुः' इत्यादिभिः काव्यैः 'स्वच्छन्दोच्छलद्' इत्यादीनां पामरश्लाघ्यानां अविशेषं ब्रूयात् । सत्यपि तारतम्ये यद्येकभेदत्वं कस्तर्हि ध्वनिगुणीभूतव्यङ्ग्योरीषदन्तरयोर्विभिन्नभेदत्वे दुराग्रहः । यत्र च शब्दार्थचमत्कृत्योरैकाधिकरण्यं तत्र तयोर्गुणप्रधानभावं पर्यालोच्य यथालक्षणं व्यवहर्तव्यम् । समप्राधान्ये तु मध्यमतैव ।
यथा--
निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम् ।
उत्पातस्तामसानां उपहतमहसां चक्षुषां पक्षपातः
अत्र वृत्त्यनुप्रासप्राचुर्यादोजोगुणप्रकाशकत्वाच्च शब्दस्य, प्रसादगुणयोगादनन्तरं एवाधिगतस्य रूपकस्य हेत्वलंकारस्य वा वाच्यस्य, चमत्कृत्योस्तुल्यस्कन्धत्वात्समं एव प्राधान्यम् ।
तत्र ध्वनेरुत्तमोत्तमस्यासंख्यभेदस्यापि सामान्यतः केऽपि भेदा निरूप्यन्ते-- द्विविधो ध्वनिः, अभिधामूलो लक्षणामूलश्च । तत्राद्यास्त्रिविधः । रसवस्त्वलंकारध्वनिभेदात् । रसध्वनिरित्यलक्ष्यक्रमोपलक्षणाद्रसभावतदाभासभावशान्तिभावोदयभावसंधिभावशबलत्वानां ग्रहणम् । द्वितीयश्च द्विवीधः । अर्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्च । एवं पञ्चात्मके ध्वनौ परमरमणीयतया रसध्वनेस्तदात्मा रसस्तावदभिधीयते--
समुचितललितसंनिवेशचारुणा काव्येन समर्पितैः सहृदयहृदयं प्रविष्टैस्तदीयसहृदयतासहकृतेन भावनाविशेषमहिम्ना विगलितदुष्यन्तरमणीत्वादिभिरलौकिकविभावानुभावव्यभिचारिशब्दव्यपदेश्यैः शकुन्तलादिभिरालम्बनकारणैः, चन्द्रिकादिभिरुद्दीपनकारणैः, अश्रुपातादिभिः कार्यैः, चिन्तादिभिः सहकारिभिश्च संभूय प्रादुर्भावितेनालौकिकेन व्यापारेण तत्कालनिवर्तितानन्दांशावरणाज्ञानेनात एव प्रमुष्टपरिमितप्रमातृत्वादिनिजधर्मेण प्रमात्रा स्वप्रकाशतया वास्तवेन निजस्वरूपानन्देन सह गोचरीक्रियमाणः प्रग्विनिविष्टवासनारूपो रत्यादिरेव रसः ।।
(१) तथा चाहुः- 'व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः' इति । व्यक्तो व्यक्तिविषयीकृतः । व्यक्तिश्च भग्नावरणा चित् । यथा हि शरावादिना पिहितो दीपस्तन्निवृत्तौ संनिहितान्पदार्थान्प्रकाशयति स्वयं च प्रकाशते, एवं आत्मचैतन्यं विभावादिसंवलितान्रत्यादीन् । अन्तःकरणधर्माणां साक्षिभास्यत्वाभ्युपगतेः । विभावादीनां अपि स्वप्नतुरगादीनां इव रङ्गरजतादीनां इव साक्षिभास्यत्वं अविरुद्धम् । व्यञ्जकविभावादिचर्वणाया आवरणभङ्गस्य वोत्पत्तिविनाशाभ्यां उत्पत्तिविनाशौ रसे उपचर्येते वर्णनित्यतायां इव व्यञ्जकताल्वादिव्यापारस्य गकारादौ । विभावादिचर्वणावधित्वादावरणभङ्गस्य, निवृत्तायां तस्यां प्रकाशस्यावृतत्वाद्विद्यमानोऽपि स्थायी न प्रकाशते ।
यद्वा विभावादिचर्वणामाहिम्ना सहृदयस्य निजसहृदयतावशोन्मिषितेन तत्तत्स्थाय्युपहितस्वस्वरूपानन्दाकारा समाधाविव योगिनश्चित्तवृत्तिरुपजायते, तन्मयीभवनं इति यावत् । आनन्दो ह्ययं न लौकिकसुखान्तरसाधारणः, अनन्तःकरणवृत्तिरूपत्वात् । इत्थं चाभिनवगुप्तमम्मटभट्टादिग्रन्थस्वारस्येन भग्नावरणचिद्विशिष्टो रत्यादिः स्थायी भावो रस इति स्थितम् ।
वस्तुतस्तु वक्ष्यमाणश्रुतिस्वारस्येन रत्याद्यवच्छिन्न भग्नावरणा चिदेव रसः । सर्वथैव चास्या विशिष्टात्मनो विशेषणं विशेष्यं वा चिदंशं आदाय नित्यत्वं स्वप्रकाशत्वं च सिद्धम् । रत्याद्यंशं आदाय त्वनित्यत्वं इतरभास्यत्वं च । चर्वणा चास्य चिद्गतावरणभङ्ग एव प्रागुक्ता, तदाकारान्तःकरणवृत्तिर्वा । इयं च परब्रह्मास्वादात्समाधेर्विलक्षणा, विभावादिविषयसंवलितचिदानन्दालम्बनत्वात् । भाव्या च काव्यव्यापारमात्रात् । अथास्यां सुखांशभाने किं मानं इति चेत्समाधावपि तद्भाने किं मानं इति पर्यनुयोगस्य तुल्यत्वात् । 'सुखं आत्यन्तिकं यत्तद्बुद्धिग्राह्यं अतीन्द्रियम्', इत्यादिः शब्दोऽस्ति तत्र मानं इति चेत्, अस्त्यत्रापि 'रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति' इति श्रुतिः, सकलसहृदयप्रत्यक्षं चेति प्रमाणद्वयम् । येयं द्वितीयपक्षे तदाकारचित्तवृत्त्यात्मिका रसचर्वणोपन्यस्ता सा शब्दव्यापारभाव्यत्वाच्छाब्दी । अपरोक्षसुखालम्बनत्वाच्चापरोक्षात्मिका । तत्त्वं वाक्यजबुद्धिवत् । इत्याहुरभिनवगुप्ताचार्यपादाः ।
(२) भट्टनायकास्तु 'ताटस्थ्येन रसप्रतीतावनास्वाद्यत्वम् । आत्मगतत्वेन तु प्रत्ययो दुर्घटः । शकुन्तलादीनां सामाजिकान्प्रत्यविभावत्वात् । विना विभावं अनालम्बनस्य रसादेरप्रतिपत्तेः । न च कान्तात्वं साधारणविभावतावच्छेदकमत्राप्यस्तीति वाच्यम् । अप्रामाण्यनीश्चयानालिङ्गितागम्यात्वप्रकारकज्ञानविरहस्य विशेष्यतासंबन्धावच्छिन्नप्रतियोगिताकस्य विभावतावच्छेदककोटाववश्यः निवेश्यत्वात् । अन्यथा स्वस्रादेरपि कान्तात्वादिना तत्त्वापत्तेः । एवं अशोच्यत्वकापुरुषत्वादिज्ञानविरहस्य तथाविधस्य करुणरसादौ ।
तादृशज्ञानानुत्पादस्तु तत्प्रतिबन्धकान्तरनिर्वचनं अन्तरेण दुरुपपादः । स्वात्मनि दुष्यन्ताद्यभेदबुद्धिरेव तथेति चेत्, न । नायके धराधौरेयत्वधीरत्वादेरात्मनि चाधुनिकत्वकापुरुषत्वादेर्वाइधर्म्यस्य स्फुटं प्रतिपत्तेरभेदबोधस्यैव दुर्लभत्वात् । किं च केयं प्रतीतिः । प्रमाणन्तरानुपस्थानाच्छाब्दीति चेत्, न । व्यावहारिकशब्दान्तरजन्यनायकमिथुनवृत्तान्तवित्तीनां इवास्या अप्यहृद्यत्वापत्तेः । नापि मानसी । चिन्तोपनीतानां तेषां एव पदार्थानां मानस्याः प्रतीतेरस्या वैलक्षण्योपलम्भात् । न च स्मृतिः । तथा प्रागननुभवात् । तस्मादभिधया निवेदिताः पदार्था भावकत्वव्यापारेणागम्यात्वादिरसविरोधिज्ञानप्रतिबन्धद्वारा कान्तात्वादिरसानुकूलधर्मपुरस्कारेणावस्थाप्यन्ते । एवं साधारणीकृतेषु दुःष्यन्तशकुन्तलादेशकालवयोवस्थादिषु, पङ्गौ पूर्वव्यापारमहिमनि, तृतीयस्य भोगकृत्त्वव्यापारस्य महिम्ना निगीर्णयो रजस्तमसोरुद्रिक्तसत्त्वजनितेन निजचित्स्वभावनिर्वृतिविश्रान्तिलक्षणेन साक्षात्कारेण विषयीकृतो भावनोपनीतः साधारणात्मा रत्यादिः स्थायी रसः । तत्र भुज्यमानो रत्यादिः, रत्यादिभोगो वेत्युभयं एव रसः । सोऽयं भोगो विषयसंवलनाद्ब्रह्मास्वादसविधवर्तीत्युच्यते । एवं च त्रयोऽम्शाः काव्यस्य-- 'अभिधा भावना चैव तद्भोगीकृतिरेव च' इत्याहुः । मतस्यैतस्य पूर्वस्मान्मताद्भावकत्वव्यापारान्तरस्वीकार एव विशेष । भोगस्तु व्यक्तिः । भोगकृत्त्वं तु व्यञ्जनादविशिष्टम् । अन्या तु सैव सरणिः ।
(३) नव्यास्तु 'काव्ये नाट्ये च कविना नटेन च प्रकाशितेषु विभावादिषु व्यञ्जनव्यापारेण दुष्यन्तादौ शकुन्तलादिरतौ गृहीतायां अनन्तरं च सहृदयतोल्लासितस्य भावनाविशेषरूपस्य दोषस्य महिम्ना कल्पितदुष्यन्तत्वावच्छादिते स्वात्मन्यज्ञानावच्छिन्ने शुक्तिकाशकल इव रजतखण्डः समुत्पद्यमानोऽनिर्वचनीयः साक्षिभास्यः शकुन्तलादिविषयकरत्यादिरेव रसः । अयं च कार्यो दोषविशेषस्य । नाश्यश्च तन्नाशस्य । स्वोत्तरभाविना लोकोत्तराह्लादेन भेदाग्रहात्सुखपदव्यपदेश्यो भवति । स्वपूर्वोपस्थितेन रत्यादिना तदग्रहात्तद्रतित्वेनैकत्वाध्यवसानाद्वा व्यङ्ग्यो वर्णनीयश्चोच्यते । अवच्छादकं दुष्यन्तत्वं अप्यनिर्वचनीयं एव । अवच्छादकत्वं च रत्यादिविशिष्टबोधे विशेष्यतावच्छेदकत्वम् । एतेन दुष्यन्तादिनिष्ठस्य रत्यादेरनास्वाद्यत्वान्न रसत्वम् । स्वनिष्ठस्य तु तस्य शकुन्तलादिभिरतत्संबन्धिभिः कथं अभिव्यक्तिः । स्वस्मिन्दुष्यन्ताद्यभेदबुद्धिस्तु बाधबुद्धिपराहतेत्यादिकं अपास्तम् । यदपि विभावादीनां साधारण्यं प्राचीनैरुक्तं तदपि काव्येन शकुन्तलादिशब्दैः शकुन्तलात्वादिप्रकारकबोधजनकैः प्रतिपाद्यमानेषु शकुन्तलादिषु दोषविशेषकल्पनं विना दुरुपपादम् । अतोऽवश्यकल्प्ये दोषविशेषे तेनैव स्वात्मनि दुष्यन्ताद्यभेदबुद्धिरपि सूपपादा । नन्वेवं अपि रतेरस्तु नाम दुष्यन्त इव सहृदयेऽपि सुखविशेषजनकता करुणरसादिषु तु स्थायिनः शोकादेर्दुःखजनकतया प्रसिद्धस्य कथं इव सहृदयाह्लादहेतुत्वम् । प्रत्युत नायक इव सहृदयेऽपि दुःखजननस्यैवौचित्यात् । न च सत्यस्य शोकादेर्दुःखजनकत्वं क्ल्प्तं न कल्पितस्येति नायकानां एव दुःखम्, न सहृदयस्येति वाच्यम् । रज्जुसर्पादेर्भयकम्पाद्यनुत्पादकतापत्तेः । सहृदये रतेरपि कल्पितत्वेन सुखजनकतानुपपत्तेश्चेति चेत् । सत्यम् । शृङ्गारप्रधानकाव्येभ्य इव करुणप्रधानकाव्येभ्योऽपि यदि केवलाह्लाद एव सहृदयहृदयप्रमाणकस्तदा कार्यानुरोधेन कारणस्य कल्पनीयत्वाल्लोकोत्तरकाव्यव्यापारस्यैवाह्लादप्रयोजकत्वं इव दुःखप्रतिबन्धकत्वं अपि कल्पनीयम् । अथ यद्याह्लाद इव दुःखं अपि प्रमाणसिद्धं तदा प्रतिबन्धकत्वं न कल्पनीयम् । स्वस्वकारणवशाच्चोभयं अपि भविष्यति । अथ तत्र कवीनां कर्तुम्, सहृदयानां च श्रोतुम्, कथं प्रवृत्तिः । अनिष्टसाधनत्वेन निवृत्तेरुचितत्वात् । इति चेत् । इष्टस्याधिक्यादनिष्टस्य च न्यूनत्वाच्चन्दनद्रवलेपनादाविव प्रवृत्तेरुपपत्तेः । केवलाह्लादवादिनां तु प्रवृत्तिरप्रत्यूहैव । अश्रुपातादयोऽपि तत्तदानन्दानुभवस्वाभाव्यात् । न तु दुःखात् । अत एव भगवद्भक्तानां भगवद्वर्णनाकर्णनादश्रुपातादय उपपद्यन्ते । न हि तत्र जात्वपि दुःखानुभवोऽस्ति । न च करुणरसादौ स्वात्मनि शोकादिमद्दशरथादितादात्म्यारोपे यद्याह्लादस्तदा स्वप्नादौ संनिपातादौ वा स्वात्मनि तदारोपेऽपि स स्यात् । आनुभविकं च तत्र केवलं दुःखम् । इतीहापि तदेव युक्तं इति वाच्यम् । अयं हि लोकोत्तरस्य काव्यव्यापारस्य महिमा, यत्प्रयोज्या अरमणीया अपि शोकादयः पदार्था आह्लादं अलौकिकं जनयन्ति । विलक्षणो हि कमनीयः काव्यव्यापारज आस्वादः प्रमाणान्तरजादनुभवात् । जन्यत्वं च स्वजन्यभावनाजन्यरत्यादिविषयकत्वम् । तेन रसास्वादस्य काव्यव्यापाराजन्यत्वेऽपि न क्षतिः । शकुन्तलादावगम्यात्वज्ञानोत्पादस्तु स्वात्मनि दुष्यन्ताद्यभेदबुद्ध्या प्रतिबध्यते' इत्याहुः ।
(४) परे तु 'व्यञ्जनव्यापारस्यानिर्वचनीयख्यातेश् चानभ्युपगमेऽपि प्रागुक्तदोषमहिम्ना स्वात्मनि दुष्यन्तादितादात्म्यावगाही शकुन्तलादिविषयकरत्यादिमदभेदबोधो मानसः विलक्षणविषयिताशाली रसः । स्वाप्नादिस्तु तादृशबोधो न काव्यार्थचिन्तनजन्मेति न रसः । तेन तत्र न तादृशाह्लादापत्तिः । एवं अपि स्वस्मिन्नविद्यमानस्य रत्यादेरनुभवः कथं नाम स्यात् । मैवम् । न ह्ययं लौकिकसाक्षात्कारो रत्यादेः, येनावश्यं विषयसद्भावोऽपेक्षणीयः स्यात् । अपि तु भ्रमः । आस्वादनस्य रसविषयकत्वव्यवहारस्तु रत्यादिविषयकत्वालम्बनः' इत्यपि वदन्ति ।
एतैश्च स्वात्मनि दुष्यन्तत्वधर्मितावच्छेदकशकुन्तलादिविषयकरतिवैशिष्ट्यावगाही, स्वात्मत्वविशिष्टे कुन्तलादिविषयकरतिविशिष्टदुष्यन्ततादात्म्यावगाही, स्वात्मत्वविशिष्टे दुष्यन्तत्वशकुन्तलाविषयकरत्योर्वाइशिष्ट्यावगाही, वा त्रिविधोऽपि बोधो रसपदार्थतयाभ्युपेयः । तत्र 'रतेर्विशेषणीभूतायाः शब्दादप्रतीतत्वाद्व्यञ्जनायाश्च तत्प्रत्यायिकाया अनभ्युपगमाच्चेष्टादिलिङ्गकं आदौ विशेषणज्ञानार्थं अनुमानं अभ्युपेयम् ।
(५) 'मुख्यतया दुष्यन्तादिगत एव रसो रत्यादिः कमनीयविभावाद्यभिनयप्रदर्शनकोविदे दुष्यन्ताद्यनुकर्तरि नटे समारोप्य साक्षात्क्रियते' इत्येके । मतेऽस्मिन्साक्षात्कारो दुष्यन्तोऽयं शकुन्तलादिविषयकरतिमान्' इत्यादिः प्राग्वद्धर्म्यंशे लौकिक आरोप्यांशे त्वलौकिकः ।
(६) दुष्यन्तादिगतो रत्यादिर्नटे पक्षे दुष्यन्तत्वेन गृहीते विभावादिभिः कृत्रिमैरप्यकृत्रिमतया गृहीतैर्भिन्ने विषयेऽनुमितिसामग्र्या बलवत्त्वादनुमीयमानो रसः' इत्यपरे । (७) 'विभावादयस्त्रयः समुदिता रसाः' इति कतिपये ।(८) 'त्रिषु य एव चमत्कारी स एव रसोऽन्यथा तु त्रयोऽपि न' इति बहवः । (९) 'भाव्यामानो विभाव एव रसः इत्यन्ये । (१०) 'तथा अनुभावस्तथा इतीतरे । (११) 'तथा व्यभिचार्येव तथा परिणमति' इति केचित् ।
तत्र 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति सूत्रं तत्तन्मतपरतया व्याख्यायते-- 'विभावानुभावव्यभिचारिभिः संयोगाद्व्यञ्जनाद्रसस्य चिदानन्दविशिष्टस्थाय्यात्मनः स्थाय्युपहितचिदानन्दात्मनो वा निष्पत्तिः स्वरूपेण प्रकाशनम्' इत्याद्ये ।
'विभावानुभावव्यभिचारिणां सम्यक्साधारणात्मतया योगाद्भावकत्वव्यापारेण भावनाद्रसस्य स्थाय्युपहितसत्त्वोद्रेकप्रकाशितस्वात्मानन्दरूपस्य निष्पत्तिर्भोगाख्येन साक्षात्कारेण विषयीकृतिः' इति द्वितीये ।
'विभावानुभावव्यभिचारिणां संयोगाद्भावनाविशेषरूपाद्दोषाद्रसस्यानिर्वचनीयदुष्यन्तरत्याद्यात्मनो निष्पत्तिरुत्पत्तिः' इति तृतीये । 'विभावादीनां संयोगाज्ज्ञानाद्रसस्य ज्ञानविशेषात्मनो निष्पत्तिरुत्पत्तिः' इति चतुर्थे । विभावादीनां संबन्धाद्रसस्य रत्यादेर्निष्पत्तिरारोपः इति पञ्चमे ।
विभावादिभिः कृत्रिमैरप्यकृत्रिमतया गृहीतैः संयोगादनुमानाद्रसस्य रत्यादेर्निष्पत्तिरनुमितिर्नटादौ पक्ष इति शेषः' इति षष्ठे । 'विभावादीनां त्रयाणां संयोगात्समुदायाद्रसनिष्पत्ती रसपदव्यवहारः' इति सप्तमे । 'विभावादिषु सम्यग्योगाच्चमत्कारात्' इत्यष्टमे । तदेवं पर्यवसितस्त्रिषु मतेषु सूत्रविरोधः । विभावानुभावव्यभिचारिणां एकस्य तु रसान्तरसाधारणतया नियतरसव्यञ्जकतानुपपत्तेः सूत्रे मिलितानां उपादानम् । एवं च प्रामाणिके मिलितानां व्यञ्जकत्वे यत्र क्वचिदेकस्मादेवासाधारणाद्रसोद्बोधस्तत्रेतरद्वयं आक्षेप्यम् । अतो नानैकान्तिकत्वम् । इत्थं नानाजातीयाभिः शेमुषीभिर्नानारूपतयावसितोऽपि मनीषिभिः परमाह्लादाविनाभावितया प्रतीयमानः प्रपञ्चेऽस्मिन्रसो रमणीयतां आवहतीति निर्विवादम् ।
स च--
हास्यो भयानकश्चैव बीभत्सश्चेति ते नव ।।'
इत्युक्तेर्नवधा । मुनिवचनं चात्र मानम् ।
केचित्तु--
अष्टावेव रसा नाट्ये न शान्तस्तत्र युज्यते ।।'
इत्याहुः । तच्चापरे न क्षमन्ते । तथा हि-- नटे शमाभावादिति हेतुरसंगतः । नटे रसाभिव्यक्तेरस्वीकारात् । सामाजिकानां शमवत्त्वेन तत्र रसोद्बोधे बाधकाभावात् । न च नटस्य शमाभावात्तदभिनयप्रकाशकत्वानुपपत्तिरिति वाच्यम् । तस्य भयक्रोधादेरप्यभावेन तदभिनयप्रकाशकताया अप्यसंगत्यापत्तेः । यदि च नटस्य क्रोधादेरभावेन वास्तवतत्कार्याणां वधबन्धादीनां उत्पत्त्यसंभवेऽपि कृत्रिमतत्कार्याणां शिक्षाभ्यासादित उत्पत्तौ नास्ति बाधकं इति निरीक्ष्यते, तदा प्रकृतेऽपि तुल्यम् ।
अथ नाट्ये गीतवाद्यादीनां विरोधिनां सत्त्वात्सामाजिकेष्वपि विषयवैमुख्यात्मनः शान्तस्य कथं उद्रेक इति चेत्, नाट्ये शान्तरसं अभ्युपगच्छद्भिः फलबलात्तद्गीतवाद्यादेस्तस्मिन्विरोधिताया अकल्पनात् । विषयचिन्तासामान्यस्य तत्र विरोधित्वस्वीकारे तदीयालम्बनस्य संसारानीत्यत्वस्य तदुद्दीपनस्य पुराणश्रवणसत्सङ्गपुण्यवनतीर्थावलोकनादेरपि विषयत्वेन विरोधित्वापत्तेः । अत एव चरमाध्याये संगीतरत्नाकरे--
तदचारु यतः कंचिन्न रसं स्वदते नटः ।।'
इत्यादिना नाट्येऽपि शान्तो रसोऽस्तीति व्यवस्थापितम् । यैरपि नाट्ये शान्तो रसो नास्तीत्यभ्युपगम्यते तैरपि बाधकाभावान्महाभारतादिप्रबन्धानां शान्तरसप्रधानतया अखिललोकानुभवसिद्धत्वाच्च काव्ये सोऽवश्यं स्वीकार्यः । अत्र एव 'अष्टौ नाट्ये रसाः स्मृताः' इत्युपक्रम्य 'शान्तोऽपि नवमो रसः' इति मम्मटभट्टा अप्युपसमहार्षुः ।
अमीषां च--
हासो भयं जुगुप्सा च स्थायिभावाः क्रमादमी ।।'
रसेभ्यः स्थायिभावानां घटादेर्घटाद्यवच्छिन्नाकाशादिव प्रथमद्वितीययोर्मतयोः, सत्यरजतस्यानिर्वचनीयरजतादिव तृतीये, विषयस्य (रजतादेः) ज्ञानादिव चतुर्थे भेदो बोध्यः । तत्र आ प्रबन्धं स्थिरत्वादमीषां भावानां
स्थायित्वम् । न च चित्तवृत्तिरूपाणां एषां आशुविनाशित्वेन स्थिरत्वं दुर्लभम्, वासनारूपतया स्थिरत्वं तु व्यभिचारिष्वतिप्रसक्तं इति वाच्यम् । वासनारूपाणां अमीषां मुहुर्मुहुरभिव्यक्तेरेव स्थिरपदार्थत्वात् । व्यभिचारिणां तु नैव, तदभिव्यक्तेर्विद्युदुद्द्योतप्रायत्वात् ।
यदाहुः--
आत्मभावं नयत्याशु स स्थायी लवणाकरः ।।
चिरं चित्तेऽवतिष्ठन्ते संबध्यन्तेऽनुबन्धिभिः ।
चिरं इति व्यभिचारिवारणाय । अनुबन्धिभिर्विभावाद्यैः ।
तथा--
यावद्रसं वर्तमानः स्थायिभाव उदाहृतः ।।' इति ।
केचित्तु रत्याद्यन्यतमत्वं स्थायित्वं आहुः । तन्न । रत्यादीनां एकस्मिन्प्ररूढेऽन्यस्याप्ररूढस्य व्यभिचारित्वोपगमात् । प्ररूढत्वाप्ररूढत्वे बह्वल्पविभावजत्वे ।
तदुक्तं रत्नाकरे--
स्तोकं विभावैरुत्पन्नास्त एव व्यभिचारिणः ।। इति ।
एवं च वीररसे प्रधाने क्रोधो, रौद्रे चोत्साहः, शृङ्गारे हासो व्यभिचारी भवति, नान्तरीयकश्च । यदा तु प्रधानपरिपोषार्थं सोऽपि बहुविभावजः क्रियते तदा तु रसालंकार इत्यादि बोध्यम् ।
तत्र--
स्त्रीपुंसयोरन्योन्यालम्बनः प्रेमाख्यश्चित्तवृत्तिविशेषो रतिः स्थायिभावः ।।
गुरुदेवतापुत्राद्यालम्बनस्तु व्यभिचारी ।
पुत्रादिवियोगमरणादिजन्मावैक्लव्याख्यश्चित्तवृत्तिविशेषः शोकः ।।
स्त्रीपुंसयोस्तु वियोगे जीवितत्वज्ञानदशायां वैक्लव्यपोषिताया रतेरेव प्राधान्याच्छृङ्गारो विप्रलम्भाख्यो रसः । वैक्लव्यं तु संचारिमात्रम् । मृतत्वज्ञानदशायां तु रतिपोषितस्य वैक्लव्यस्येति करुण एव । यदा तु सत्यपि मृतत्वज्ञाने देवताप्रसादादिना पुनरुज्जीवनज्ञानं कथंचित्स्यात्, तदालम्बनस्यात्यन्तिकनिरासाभावाच्चिरप्रवास इव विप्रलम्भ एव, न स करुणः । यथा चन्द्रापीडं प्रति महाश्वेतावाक्येषु । केचित्तु रसान्तरं एवात्र करुणविप्रलम्भाख्यं इच्छन्ति ।
नित्यानित्यवस्तुविचारजन्मा विषयविरागाख्यो निर्वेदः ।।
गृहकलहादिजस्तु व्यभिचारि ।
गुरुबन्धुवधादिपरमापराधजन्मा प्रज्वलनाख्यः क्रोधः ।।
अयं च परविनाशादिहेतुः । क्षुद्रापराधजन्मा तु परुषवचनासंभाषणा-
दिहेतुः । अयं एवामर्षाख्यो व्यभिचारीति विवेकः ।
परपराक्रमदानादिस्मृतिजन्मा औन्नत्याख्य उत्साहः ।।
अलौकिकवस्तुदर्शनादिजन्मा विकासाख्यो विस्मयः ।।
वागङ्गादिविकारदर्शनजन्मा विकासाख्यो हासः ।।
व्याघ्रदर्शनादिजन्मा परमानर्थविषयको वैक्लव्याख्यः स भयम् ।।
परमानर्थविषयकत्वाभावे तु स एव त्रासो व्यभिचारि । अपरे तु
औत्पातिकप्रभवस्त्रासः, स्वापराधद्वारोत्थं भयं इति भयत्रासयोर्भेदं आहुः ।
कदर्यवस्तुविलोकनजन्मा विचिकित्साख्यश्चित्तवृत्तिविशेषो जुगुप्सा ।।
एवं एषां स्थायिभावानां लोके तत्तन्नायकगतानां यान्यालम्बनतयोद्दीपनतया वा कारणत्वेन प्रसिद्धानि तान्येषु काव्यनाट्ययोर्व्यज्यमानेषु विभावशब्देन व्यपदिश्यन्ते ।।
विभावयन्तीति व्युत्पत्तेः ।
यानि च कार्यतया तान्यनुभावशब्देन ।।
अनु पश्चाद्भाव उत्पत्तिर्येषाम् । अनुभावयन्तीति वा व्युत्पत्तेः ।
यानि सह चरन्ति तानि व्यभिचारिशब्देन ।।
तत्र शृङ्गारस्य स्त्रीपुंसावालम्बने । चन्द्रिकावसन्तविविधोपवनरहःस्थानादय उद्दीपनविभावाः । तन्मुखावलोकनतद्गुणश्रवणकीर्तनादयोऽन्ये सात्त्विकभावाश्चानुभावाः । स्मृतिचिन्तादयो व्यभिचारिणः ।
करुणस्य बन्धुनाशादय आलम्बनानि । तत्सम्बन्धिगृहतुरगाभरणदर्शनादयस्तत्कथाश्रवणादयश्चोद्दीपकाः । गात्रक्षेपाश्रुपातादयोऽनुभावा ग्लानिक्षयमोहविषादचिन्तौत्सुक्यदीनताजडतादयो व्यभिचारिणः ।
शान्तस्यानित्यत्वेन ज्ञातं जगदालम्बनम् । वेदान्तश्रवणतपोवनतापसदर्शनाद्युद्दीपनम् । विषयारुचिशत्रुमित्त्राद्यौदासीन्यचेष्टाहानिनासाग्रदृष्ट्यादयोऽनुभावाः । हर्षोन्मादस्मृतिमत्यादयो व्यभिचारिणः ।
रौद्रस्यागस्कृत्पुरुषादिरालम्बनम् । तत्कृतोऽपराधादिरुद्दीपकः । वधबन्धादिफलको नेत्रारुण्यदन्तपीडनपरुषभाषणशस्त्रग्रहणादिरनुभावः । अमर्षवेगौग्र्यचापलादयः संचारिणः ।
एवं यस्याश्चित्तवृत्तेर्यो विषयः स तस्या आलम्बनम् । निमित्तानि चोद्दीपकानीति बोध्यम् ।
तत्र शृङ्गारो द्विविधः । संभोगो विप्रलम्भश्च । रतेः संयोगकालावच्छिन्नत्वे प्रथमः । वियोगकालावच्छिन्नत्वे द्वितीयः । संयोगश्च न दंपत्योः सामानाधिकरण्यम् । एकतल्पशयनेऽपीर्ष्यादिसद्भावे विप्रलम्भस्यैव वर्णनात् । एवं वियोगोऽपि न वैयधिकरण्यम् । दोषस्योक्तत्वात् । तस्माद्द्वाविमौ संयोगवियोगाख्यावन्तःकरणवृत्तिविशेषौ । यत्संयुक्तो वियुक्तश्चास्मीति धीः । तत्राद्यो यथा 'शयिता सविधेऽप्यनीश्वरा' इत्यत्र निरूपितः ।
यत्तु चित्रमीमांसायाम्-- 'वागर्थाविव संपृक्तौ' इत्यत्र रसध्वनिः । निरतिशयप्रेमशालिताव्यञ्जनात्' इतितद्ध्वनिमार्गानाकलननिबन्धनम् । पार्वतीपरमेश्वरविषयककविरतौ प्रधाने निरतिशयप्रेम्णो गुणीभावात् । न हि गुणीभूतस्य रत्यादे रसध्वनिव्यपदेशहेतुत्वं युक्तम् । 'भिन्नो रसाद्यलंकारादलंकार्यतया स्थितः' इति सिद्धान्तात् ।
द्वितीयो यथा--
केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्राम्बुजा ।
निःश्वासग्लपिताधरोपरिपतद्बाष्पार्द्रवक्षोरुहा
अत्राप्यालम्बनस्य नायकस्य, निःश्वासाश्रुपातादेरनुभावस्य, विषादचिन्तावेगादेश्च व्यभिचारिणः, संयोगाद्रतिरभिव्यज्यमाना वियोगकालावच्छिन्नत्वाद्विप्रलम्भरसव्यपदेशहेतुः ।
यथा वा--
कान्तिः काचिन्निखिलनयनाकर्षणे कार्मणज्ञा ।
श्वासो दीर्घस्तदवाधि मुखे पाण्डिमा गण्डयुग्मे
यथा वा--
आलिङ्गितापि जोषं तस्थौ सा गन्तुकेन दयितेन ।।'
इहापि सहजचाञ्चल्यनिवृत्तिर्जडता चानुभावव्यभिचारिणौ । इमं च पञ्चविधं प्राञ्चः प्रवासादिभिरुपाधिभिरामनन्ति । ते च प्रवासाभिलाषविरहेर्ष्याशापानां विशेषानुपलम्भान्नास्माभिः प्रपञ्चिताः ।
करुणो यथा--
हा तनय विनयशालिन्कथं इव परलोकपथिकोऽभूः ।।'
अत्र प्रमीततनय आलम्बनम् । तत्कालावच्छिन्नबान्धवदर्शनाद्युद्दीपनम् । रोदनं अनुभावः । दैन्यादयः संचारिणः ।
शान्तो यथा--
श्वपनात्मभुवोर्निरन्तरा मम जाता परमात्मनि स्थितिः ।।'
अत्र प्रपञ्चः सर्वोऽप्यालम्बनम् । सर्वत्र साम्यं अनुभावः । मत्यादयः संचारिणः । यद्यपि प्रथमार्धे उत्तमाधमयोरुपक्रमा द्वितीयार्धेऽधमोत्तमवचनं क्रमभङ्गं आवहति, तथापि वक्तुर्ब्रह्मात्मकतयोत्तमाधमज्ञानवैकल्यं संपन्नं इति द्योतनाय क्रमभङ्गो गुण एव ।
इदं पुनर्नोदाहार्यम्--
विधायान्तर्मुद्रां अथ सपदि विद्राव्य विषयान् ।
विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा
अत्रापि यद्यपि विषयगणालम्बनः सुरस्रोतस्विनीतटाद्युद्दीपितो नयननिमीलनादिभिरनुभावितः स्थायि निर्वेदः प्रतीयते, तथापि
भगवद्वासुदेवालम्बनायां कविरतौ गुणीभूत इति न शान्तरसध्वनिव्यपदेशहेतुः । इदं च पद्यं मन्निर्मितायां भगवद्भक्तिप्रधानायां करुणालहर्यां उपनिबद्धं इति तत्प्रधानभावप्राधान्यं एवार्हति । शान्तरसाननुगुणश्चायं ओजस्वी गुम्फ इति चानुदाहार्यं एवैतत् । पूर्वपद्ये तु 'परमात्मनि स्थितिः' इत्यनेन तत्ताद्रूप्यावगमाद्रतेरप्रतिपत्तिः ।
रौद्रो यथा--
मदीयगुरुकार्मुकं गलितसाध्वसं वृश्चति ।
अयं पततु निर्दयं दलितदृप्तभूभृद्गल-
अत्र तदानीं रामत्वेनाज्ञातो गुरुकार्मुकभञ्जक आलम्बनम् । अत एव विशेष्यानुपादानम् । गुरुद्रुहो नामग्रहणानौचित्यात्, क्रोधाविष्काराद्वा । ध्वनिविशेषानुमितो निःशङ्कधनुर्भङ्ग उद्दीपकः । परुषोक्तिरनुभावः । गर्वोग्रत्वादयः संचारिणः । एषा च धनुर्भङ्गध्वनिभग्नसमाधेर्भार्गवस्योक्तिः ।
वृत्तिरप्यत्र महोद्धता रौद्रस्य परमौजस्वितां परिपुष्णाति । अन्यत्र गुरुस्मरणे सत्यहंभावविगमस्यावश्यकतया प्रकृते चाजहत्स्वार्थलक्षणामूलध्वननेन मदीयेत्यनेन गर्वोत्कर्षस्यैव प्रकाशनात्स्फुटं गम्यमानेन विवेकशुन्यत्वेन क्रोधस्याधिक्यं गम्यते ।
इदं तु नोदाहार्यम्--
महागुरुवधस्मृतिः श्वसनवेगधूताधरः ।
विलोचनविनिःसरद्बहलविस्फुलिङ्गव्रजो
अत्राप्यपराधास्पदेन रघुनन्दनेनालम्बितो धनुर्विदलनध्वनिश्रवणेनोद्दीपितो निःश्वासनेत्रज्वलनादिभिरनुभावितो महागुरुवधस्मृतिगर्वोग्रत्वादिभिश्च संचारितः क्रोधो यद्यपि व्यज्यते, तथाप्यसौ तत्प्रभाववर्णनबीजभूतायां कविरतौ गुणीभूत इति न रौद्ररसध्वनिव्यपदेशहेतुः । काव्यप्रकाशगतरौद्ररसोदाहरणे तु 'कृतं अनुमतं दृष्टं वा यैरिदं गुरुपातकम्' इति पद्ये रौद्ररसव्यजनक्षमा नास्ति वृत्तिः, अतस्तत्कवेरशक्तिरेव ।
वीरश्चतुर्धा । दानदयायुद्धधर्माइस्तदुपाधेरुत्साहस्य चतुर्विधत्वात् ।
तत्राद्यो यथा--
कवचं अरमरमणीयं कुण्डले चार्पयामि ।
अकरुणं अवकृत्त्य द्राक्कृपाणेन निर्यद्-
एषा द्विजवेषायेन्द्राय कवचकुण्डलदानोद्यतस्य कर्णस्य तद्दानविस्मितान्सभ्यान्प्रत्युक्तिः । अत्र याचमान आलम्बनम् । तदुदीरिता स्तुतिरुद्दीपिका । कवचादिवितरणं तत्र लघुत्वबुद्ध्यादिकं चानुभावः । मे इत्यर्थान्तरसंक्रमितवाच्यध्वन्युत्थापितो गर्वः स्वकीयलोकोत्तरपितृजन्यत्वादिस्मृतिश्च संचारिणौ । वृत्तिरप्यत्र तत्तदर्थानुरूपोद्गमविरामशालितया सहृदयैकचमत्कारिणी । तथा हि--उत्साहपोषकं कवचकुण्डलार्पणयोर्लघुत्वनिरूपणं विधातुं पूर्वार्धे तदनुकूलशिथिलबन्धात्मिका । उत्तरार्धे तु मौलितः प्राग्वक्तृगतगर्वोत्साहपरिपोषणायोद्धता । ततः परं ब्राह्मणे सविनयत्वं प्रकाशयितुं तन्मूलीभूतं गर्वराहित्यं ध्वनयितुं पुनः शिथिलैव । अत एवावेदयामीत्युक्तम् । न तु ददामि वितरामीति वा ।
इदं तु नोदाहरणीयम्--
आकर्ण्यावनिमण्डलागतवियद्बन्दीन्द्रवृन्दाननात् ।
ईर्ष्यानिर्भरफुल्लरोमनिकरव्यावल्गदूधःस्रवत्-
अत्रेन्द्रसभामध्यगतसकलनिरीक्षकालम्बनः अवनिमण्डलागतविषयवन्दीन्द्रवदनविनिर्गतराजदानवर्णनोद्दीपितः, ऊधःप्रस्नुतपीयूषप्रकरैरनुभावितः, असूयादिभिः संचारिभिः परिपोषितोऽपि कामगवीगत उत्साहो राजस्तुतिगुणीभूत इति न रसव्यपदेशहेतुः ।
अत एवेदं अपि नोदाहरणम्--
सर्वां द्यां अपि सुस्मितेन हरिणा मन्दं समालोकितः ।
प्रादुर्भूतपरप्रमोदविदलद्रोमाञ्चितस्तत्क्षणं
इह च भगवद्वामनालम्बनः तत्कर्तृकमन्दनिरीक्षणोद्दीपितः, रोमाञ्चादिभिरनुभावितः, हर्षादिभिः पोषितः, उत्साहो व्यज्यमानोऽपि गुणः । प्रागन्यगतस्येव प्रकृते राजगतस्यापि तस्य राजस्तुत्युत्कर्षकत्वात् । एतेन
'त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः' इति श्रीवत्सलाञ्छनोक्तं उदाहरणं परास्तम् । तस्य गुणीभूतव्यङ्ग्यत्वेन रसध्वनिप्रसङ्गेऽनुदाहरणीयत्वात् । ननु 'अकरुणं अवकृत्य-' इत्यत्रापि प्रतीयमानस्य दानवीरस्य कर्णस्तुत्यङ्गत्वात्कथं ध्वनित्वं इति चेत्, सत्यम् । अत्र कवेः कर्णवचनानुवादमात्रतात्पर्यकत्वेन कर्णस्तुतौ तात्पर्यविरहात् । कर्णस्य च महाशयत्वेनात्मस्तुतौ तात्पर्यानुपपत्तेः स्तुतिरवाक्यार्थ एव । परं तु वीररसप्रत्ययानन्तरं तादृशोत्साहेन लिङ्गेन स्वाधिकरणे सानुमीयते । राजवर्णनपद्ये तु राजस्तुतौ तात्पर्याद्वाक्यार्थतैव तस्याः ।
द्वितीयो यथा--
इदं अद्य मया तृणीकृतं भवदायुःकुशलं कलेवरम् ।।'
अथवैवं विन्यासः--
इदं अद्य मया समर्पितं भवते चारुतरं कलेवरम् ।।'
एषा शिवेः कपोतं श्येनं प्रति चोक्तिः । अत्र कपोत आलम्बनम् । तद्गतं व्याकुलीभवनं उद्दीपनम् । तस्य कृते स्वकलेवरार्पणं अनुभावः । न चात्र शरीरदानप्रत्ययाद्दानवीरध्वनित्वापत्तिरिति वाच्यम् । श्येनकपोतयोर्भक्ष्यभक्षकभावापन्नत्वेन शिबिशरीरस्यार्थिनोऽभावात्तदप्रतिपत्तेः । श्येन शरीरनिवेदनस्य कपोतशरीरत्राणोपाधिकतया विनिमयपदवाच्यत्वात् ।
तृतीयो यथा--
प्रभावप्रागल्भ्यं त्वयि तु मम कोऽयं परिकरः ।
ललाटोद्यज्ज्वालाकवलितजगज्जालविभवो
एषा दशवदनं प्रति भगवतो रामस्योक्तिः । इह भव आलम्बनम् । रणदर्शनं उद्दीपनम् । दशवदनावज्ञानुभावः । गर्वः संचारी । वृत्तिरत्र देवानां प्रस्तावे तद्गतकातर्यप्रकाशनद्वारा वीररसानालम्बनत्वावगतयेऽनुद्धतैव । दशवदनप्रस्तावे तु देवदर्पदमनवीरत्वप्रतिपादनायोद्धतापि
तस्यावज्ञया रामगतोत्साहानालम्बनत्वेन तदालम्बनस्य रसस्याप्रत्ययान्न प्रकर्षवती । भगवतो भवस्य तु परमोत्तमालम्बनविभावत्वात्तत्प्रस्तावे तदालम्बनस्यौजस्विनो वीररसस्य निष्पत्तेः प्रकृष्टोद्धता ।
चतुर्थो यथा--
'सपदि विलयं एतु राज्यलक्ष्मीरुपरि पतन्त्वथवा कृपाणधाराः ।
अपहरतुतरां शिरः कृतान्तो मम तु मतिर्न मनागपैति धर्मात् ।।'
एषाधर्मेणापि रिपुर्जेतव्य इति वदन्तं प्रति युधिष्ठिरस्योक्तिः । अत्र धर्मविषय आलम्बनम् । 'न जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवीतस्यापि हेतोः' इत्यादिवाक्यालोचनं उद्दीपनम् । शिरश्छेदाद्यङ्गीकारोऽनुभावः । धृतिः संचारिणी । इत्थं वीररसस्य चातुर्विध्यं प्रपञ्चितं प्राचां अनुरोधात् ।
वस्तुतस्तु बहवो वीररसस्य शृङ्गारस्येव प्रकारा निरूपयितुं शक्यन्ते । तथा हि--प्राचीन एव 'सपदि विलयं एतु' इत्यादि पद्ये 'मम तु मतिर्न मनागपैति सत्यात्' इति चरमपादव्यत्यासेन पद्यान्तरतां प्रापिते सत्यवीरस्यापि संभवात् । न च सत्यस्यापि धर्मान्तर्गततया धर्मवीररस एव तद्वीरस्याप्यन्तर्भाव इति वाच्यम् । दानदययोरपि तदन्तर्गततया तद्वीरयोरपि धर्मवीरात्पृथग्गणनानौचित्यात् ।
एवं पाण्डित्यवीरोऽपि प्रतीयते ।
यथा--
अयं अस्मि पुरो हयाननस्मरणोल्लङ्घितवाङ्मयाम्बुधिः ।।'
अत्र बृहस्पत्याद्यालम्बनः सभादिदर्शनोद्दीपितो निखिलविद्वत्तिरस्कारानुभावितो गर्वेण संचारिणा पोषित उत्साहो वक्तुः प्रतीयते । ननु चात्र युद्धवीरत्वम् । युद्धत्वस्य वादसाधारणस्य वाच्यत्वादिति चेत् । क्षमावीरे किं ब्रूयाः ।
यथा--
पातयतु वासिधारां अहं अणुमात्रं न किंचिदाभाषे ।।'
क्षमावत उक्तिरियम् ।
बलवीरे वा किं समादध्याः ।
यथा--
'परिहरतु धरां फणिप्रवीरः सुखमयतां कमठोऽपि तां विहाय ।
अहं इह पुरुहूत पक्षकोणे निखिलं इदं जगदक्लमं वहामि ।।'
पुरुहूतं प्रत्येषा गरुत्मत उक्तिः । ननु 'अपि वक्ति-'परिहरतु धराम्-' इति पद्यद्वये गर्व एव नोत्साहः । मध्यस्थपद्ये तु धृतिरेव ध्वन्यते इति भावध्वनय एवैते न रसध्वनय इति चेत्तर्हि युद्धवीरादिष्वपि गर्वादिध्वनितां एव किं न ब्रूयाः । रसध्वनिसामान्यं एव वा किं न तद्व्यभिचारध्वननेन गतार्थयेः । स्थायिप्रतीतिर्दुरपह्नवा चेत्तुल्यं प्रकृतेऽपि । अनन्तरोक्तपद्ये तु नोत्साहः प्रतीयते । दयावीरादिषु प्रतीयत इति तु राजाज्ञामात्रम् ।
अद्भुतो यथा--
गलद्गगनगाम्भीर्यं वीक्ष्यास्मि हृतचेतना ।।'
कदाचिद्भगवतो वासुदेवस्य वदनं आलोकितवत्या यशोदाया इयं उक्तिः । अत्र वदनं आलम्बनम् । अन्तर्गतचराचरजगज्जालदर्शनं उद्दीपनम् । हृतचेतनत्वम्, तेन गम्यं रोमाञ्चनेत्रस्फारणादि चानुभावः । त्रासादयो व्यभिचारिणः । नैवात्र विद्यमानापि पुत्रगता प्रीतिः प्रतीयते । व्यञ्जकाभावात् । प्रतीतायां वा तस्यां विस्मयस्य गुणत्वं न युज्यते । एवं कश्चिन्महापुरुषोऽयं इति भक्तिरपि तस्याः ममायं बाल इति निश्चयेन प्रतिबन्धादुत्पत्तं एव नेष्टे । अतस्तस्यां अपि विस्मयस्य गुणीभावो न शङ्क्यः ।
यत्तु सहृदयशिरोमणिभिः प्राचीनैरुदाहृतम्--
लोकोत्तरं धैर्यं अहो प्रभावः काप्याकृतिर्नूतन एष सर्गः ।। इति,
तत्रेदं वक्तव्यम्-- प्रतीयतां नामात्र विस्मयः परं त्वसौ कथंकारं अद्भुतरस] ध्वनिव्यपदेशहेतुः । प्रतिपाद्यमहापुरुषविशेषविषयायाः प्रधानीभूतायाः स्तोतृगतभक्तः प्रकर्षकत्वेनास्य गुणीभूतत्वात् । यथा महाभारते गीतासु विश्वरूपं दृष्टवतः पार्थस्य 'पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान्' इत्यादौ वाक्यसंदर्भे । इत्थं चास्य रसालंकारत्वं उचितम् । भक्तिर्नैवात्र प्रतीयत इति चेद्दरमुकुलितलोचनं विदांकुर्वन्तु सहृदयाः ।
हास्यो यथा--
अङ्गं गवां पूर्वं अहो पवित्रं न वा कथं रासभधर्मपत्न्याः ।।'
तार्किकपुत्रोऽत्रालम्बनम् । तदीया निःशङ्कोक्तिरुद्दीपिका । रदनप्रकाशादिरुद्वेगादयश्चानुभावव्यभिचारिणः ।
अत्राहुः-
आत्मस्थो द्रष्टुरुत्पन्नो विभावेक्षणमात्रतः ।।
हसन्तं अपरं दृष्ट्वाविभावः चोपजायते ।
योऽसौ हास्यरसस्तज्ज्ञैः परस्थः परिकीर्तितः ।।
उत्तमानां मध्यमानां नीचानां अप्यसौ भवेत् ।
त्र्यवस्थः कथितस्तस्य षड्भेदाः सन्ति चापरे ।।
स्मितं च हसितं प्रोक्तं उत्तमे पुरुषे बुधैः ।
भवेद्विहसितं चोपहसितं मध्यमे नरे ।।
नीचेऽपहसितं चातिहसितं परिकीर्तितम् ।
ईषफुल्लकपोलाभ्यां कटाक्षैरप्यनल्बणैः ।।
अदृश्यदशनो हासो मधुरः स्मितं उच्यते ।
वक्त्रनेत्रकपोलैश्चेदुत्फुल्लैरुपलक्षितः ।।
किंचिल्लक्षितदन्तश्च तदा हसितं इष्यते ।
सशब्दं मधुरं कायगतं वदनरागवत् ।।
आकुञ्चिताक्षि मन्द्रं च विदुर्विहसितं बुधाः ।
निकुञ्चितांसशीर्षश्च जिह्मदृष्टिविलोकनः ।।
उत्फुल्लनासिको हासो नाम्नोपहसितं मतम् ।
अस्थानजः साश्रुदृष्टिराकम्पस्कन्धमूर्धजः ।।
शार्ङ्गदेवेन गदितो हासोऽपहसिताह्वयः ।
स्थूलकर्णकटुध्वानो बाष्पपूरप्लुतेक्षणः ।
भयानको यथा--
कम्पमानतनुराकुलेक्षणाः स्पन्दितुं न हि शशाक लावकः ।।'
अत्र श्येन आलम्बनम् । सवेगापतनं उद्दीपनम् । आननशोषादयोऽनुभावाः । दैन्यादयः संचारिणः ।
बीभत्सो यथा--
आननेष्वनुलिम्पन्ति हृष्टा वेतालयोषितः ।।'
शवा इहालम्बनम् । अन्त्रविदारणाद्युद्दीपनम् । आक्षिप्ता रोमाञ्चनेत्रनिमीलनादयोऽनुभावाः । आवेगादयः संचारिणः ।
ननु रतिक्रोधोत्साहभयशोकविस्मयनिर्वेदेषु प्रागुदाहृतेषु यथालम्बनाश्रययोः संप्रत्ययः न तथा हासे जुगुप्सायां च । तत्रालम्बनस्यैव प्रतीतेः । पद्यश्रोतुश्च रसास्वादाधिकरणत्वेन लौकिकहासजुगुप्साश्रयत्वानुपपत्तेरिति चेत् । सत्यम् । तदाश्रयस्य द्रष्टृपुरुषविशेषस्य तत्राक्षेप्यत्वात् । तदनाक्षेपे तु श्रोतुः स्वीयकान्तावर्णनपद्यादिव रसोद्बोधे बाधकाभावात् ।
एवं संक्षेपेण निरूपिता रसाः । एषां प्राधान्ये ध्वनिव्यपदेशहेतुत्वं गुणीभावे तु रसालंकारत्वम् । केचित्तु 'प्राधान्य एवैषां रसत्वं अन्यथालंकारत्वं एव । रसालंकारव्यपदेशस्त्वलंकारध्वनिव्यपदेशवत्,
ब्राह्मणश्रमणन्यायात् । एवं असंलक्ष्यक्रमतायां एव । अन्यथा तु वस्तुमात्रम्' इत्याहुः । एते चासंलक्ष्यक्रमव्यङ्ग्याः सहृदयेन रसव्यक्तौ झगिति जायमानायां विभावानुभावव्यभिचारिविमर्शक्रमस्य सतोऽपि सूचीशतपत्त्रशतवेधक्रमस्येवालक्षणात्, न त्वक्रमव्यङ्ग्यः, व्यक्तेस्तद्धेतूनां च हेतुहेतुमद्भावासंगत्यापत्तेः ।
अथ कथं एत एव रसाः । भगवदालम्बनस्य रोमाञ्चाश्रुपातादिभिरनुभावितस्य हर्षादिभिः परिपोषितस्य भागवतादिपुराणश्रवणसमये भगवद्भक्तैर्
अनुभूयमानस्य भक्तिरसस्य दुरपह्नवत्वात् । भगवदनुरागरूपा भक्तिश्चात्र स्थायिभावः । न चासौ शान्तरसेऽन्तर्भावं अर्हति । अनुरागस्य वैराग्यविरुद्धत्वात् । उच्यते-- भक्तेर्देवादिविषयरतित्वेन भावान्तर्गततया रसत्वानुपपत्तेः ।
भावः प्रोक्तस्तदाभासा ह्यनौचित्यप्रवर्तिताः ।।'
इति हि प्राचां सिद्धान्तात् । न च तर्हि कामिनीविषयाया अपि रतेर्भावत्वं अस्तु, रतित्वाविशेषात् । अस्तु वा भगवद्भक्तेरेव स्थायित्वम्, कामिन्यादिरतीनां च भावत्वं विनिगमकाभावात्, इति वाच्यम् । भरतादिमुनिवचनानां एवात्र रसभावत्वादिव्यवस्थापकत्वेन स्वातन्त्र्ययोगात् ।
अन्यथा पुत्रादिविषयाया अपि रतेः स्थायिभावत्वं कुतो न स्यात् । न स्याद्वा कुतः शुद्धभावत्वं जुगुप्साशोकादीनां इत्यखिलदर्शनं व्याकुली स्यात् । रसानां नवत्वगणना च मुनिवचननियन्त्रिता भज्येत, इति यथाशास्त्रं एव ज्यायः ।
एतेषां परस्परं कैरपि विरोधः । तत्र वीरशृङ्गारयोः, शृङ्गारहास्ययोः, वीराद्भुतयोः, वीररौद्रयोः, शृङ्गाराद्भुतयोश्चाविरोधः । शृङ्गारबीभत्सयोः शृङ्गारकरुणयोः, वीरभयानकयोः, शान्तरौद्रयोः, शान्तशृङ्गारयोश्च विरोधः । अत्र कविना प्रकृतरसं परिपोष्टुकामेन तदभिव्यञ्जके काव्ये तद्विरुद्धरसाङ्गानां निबन्धनं न कार्यम् । यथा हि सति तदभिव्यक्तौ विरुद्धः प्रकृतं बाधेत । सुन्दोपसुन्दन्यायेन वोभयोरुपहतिः स्यात् । यदि तु विरुद्धयोरपि रसयोरेकत्र समावेश इष्यते तदा विरोधं परिहृत्य विधेयः । तथा हि-- विरोधस्तावद्द्विविधः । स्थितिविरोधो ज्ञानविरोधश्च । आद्यस्तदधिकरणावृत्तितारूपः । द्वितीयस्तज्ज्ञानप्रतिबद्धज्ञानकत्वलक्षणः । तत्राधिकरणान्तरे विरोधिनः स्थापने प्रथमो निवर्तते । यथा नायकगतत्वेन वीररसे वर्णनीये प्रतिनायके भयानकस्य । रसपदेनात्र प्रकरणे तदुपाधिः स्थायिभावो गृह्यते । रसस्य सामाजिकवृत्तित्वेन नायकाद्यवृत्तित्वात् । अद्वितीयानन्दमयत्वेन विरोधासम्भवाच्च ।
उदाहरणम्--
मृगारातेरिव मृगाः परे नैवावतस्थिरे ।।'
रसान्तरस्याविरोधिनः संधिकर्तुरिवान्तरालेऽवस्थाने द्वितीयोऽपि निवर्तते । यथा मन्निर्मितायां आख्यायिकायां कण्वाश्रमगतस्य श्वेतकेतोर्महर्षेः शान्तरसप्रधाने वर्णने प्रस्तुते 'किं इदं अनाकलितपूर्वं रूपम्, कोऽयं अनिर्वाच्यो वचनरचनाया मधुरिमा' इत्यद्भुतस्यान्तरवस्थापनेन वरवर्णिनीं प्रत्यनुरागवर्णने ।
यथा वा--
विलोकन्ते निजान्देहान्फेरुनारीभिरावृतान् ।।'
यथा--
स्मेरैः स्मरस्य सचिवैः सरसावलोकैः ।
मां अद्य मञ्जुरचनैर्वचनैश्च बाले
इयं च पुरो निपतितां प्रमीतां नायिकां प्रति नायकस्योक्तिः । इह नायिकालम्बना, अश्रुपातादिभिरनुभावैरावेगविषादादिभिः संचारिभिश्च व्यज्यमाना नायकगता रतिस्तुल्यसामग्र्यभिव्यक्ते प्रकृतत्वात्प्रधानीभूते तद्गत एव शोके प्रकर्षकत्वादङ्गम् । यदि तु नायकगता रतिर्नात्र प्रतीयते, किं तु निरुक्तसामग्र्या शोक एव प्रकृतत्वादित्यागृह्यते तदा नायकालम्बना प्रत्युद्गमाद्यनुभाविता हर्षादिभिः पोषिता नायिकाश्रया रतिरेव तत्राङ्गं अस्तु । नायिकागतरतेर्नायकशोकप्रकर्षहेतुतायाः सर्वसंमतत्वात् । न च नायिकाया नाशात्तद्गताया रतेरसंनिधानात्कथं अङ्गतेति वाच्यम् । संनिधानस्याङ्गतायां अतन्त्रत्वेन स्मर्यमाणायास्तस्या अङ्गत्वोपपत्तेः ।
अङ्गयोर्यथा--
पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम् ।
गृह्णन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां
अत्र समासोक्त्यवयवाभ्यां तरुकामिकर्तृकरिपुकामिनीकबर्यादिग्रहणरूपाभ्यां प्रकृताप्रकृतव्यवहाराभ्यां व्यक्तयोः करुणशृङ्गारयो राजविषयकरतिभावाङ्गत्वम् । किं च प्रकृतरसपरिपुष्टिं इच्छता विरोधिनोऽपि रसस्य बाध्यत्वेन निबन्धनं कार्यं एव । तथा हि सति वैरिविजयकृता वर्ण्यस्य कापि शोभा संपद्यते । बाध्यत्वं च रसस्य प्रबलैर्विरोधिनो रसस्याङ्गैर्विद्यमानेष्वपि स्वाङ्गेषु निष्पित्तेः प्रतिबन्धः । व्यभिचारिणो बाध्यत्वं तु तदीयरसनिष्पत्तिप्रतिबन्धमात्रात्, न त्वनभिव्यत्तया । आभिव्यक्तौ बाधकाभावात् । न च विरोध्यङ्गाभिव्यत्या प्रतिबन्धान्नाभिव्यक्तिरिति वाच्यम् । तद्व्यञ्जकशब्दार्थज्ञानसमये विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानस्यासंनिधानात् । प्रतिबध्यप्रतिबन्धकभावकल्पने मानाभावात्, भावशबलताया उच्छेदापत्तेश्च । रसनिष्पत्तेः प्रतिबन्धस्त्वनुभवसिद्ध इति तां प्रत्येव विरोध्यङ्गानां बलवतां अभिव्यक्तेः प्रतिबन्धकत्वं न्याय्यम् । अपि च यत्र साधारणविशेषणमहिम्ना विरुद्धयोरभिव्यक्तिस्तत्रापि विरोधो निवर्तते ।
यथा--
वसुन्धरां समालिङ्ग्य शेरते वीर तेऽरयः ।।'
इत्थं अविरोधसंपादनेनापि निबध्यमानो रसो रसशब्देन शृङ्गारादिशब्दैर्वा नाभिधातुं उचितः, अनास्वाद्यतापत्तेः । तदास्वादश्च व्यञ्जनमात्रनिष्पाद्य इत्युक्तत्वात् । यत्र विभावादिभिरभिव्यक्तस्य रसस्य स्वशब्देनाभिधानं तत्र को दोष इति चेत्, व्यङ्ग्यस्य वाच्यीकरणे सामान्यतो वमनाख्यदोषस्य वक्ष्यमाणत्वात् । आस्वाद्यतावच्छेदकरूपेण प्रत्ययाजनकतया रसस्थले वाच्यवृत्तेः कापेयकल्पत्वेन विशेषदोषत्वाच्च । एवं स्थायिव्यभिचारिणां अपि शब्दवाच्यत्वं दोषः । एवं विभावानुभावयोरसम्यक्प्रत्यये विलम्बेन प्रत्यये वा न रसास्वाद इति तयोर्दोषत्वम् । समबलप्रबलप्रतिकूलरसाङ्गानां निबन्धनं तु प्रकृतरसपोषप्रातीपिकं इति दोषः । प्रबन्धे प्रकृतस्य प्रसङ्गान्तरेण विच्छिन्नस्य पुनर्दीपने सामाजिकानां न सामग्र्येण रसास्वाद इति विच्छिन्नदीपनं दोषः । तथा तत्तद्रसप्रस्तावनानर्हेऽवसरे प्रस्तावः,
विच्छेदानर्हे च विच्छेदः । यथा सन्ध्यावन्दनदेवयजनादिधर्मवर्णने प्रसक्ते कयापि कामिन्या सह कस्यचित्कामुकस्यानुरागवर्णने । यथा च समुपस्थितेषु महाहवदुर्मदेषु प्रतिभटेषु मर्मभिन्दि वचनान्युद्गिरत्सु नायकस्य संध्यावन्दनादिवर्णने चेत्युभयं अनुचितम् । एवं अप्रधानस्य प्रतिनायकादेर्नानाविधानां चरितानां अनेकविधायाश्च संपदो नायकसम्बन्धिभ्यस्तेभ्यो नातिशयो वर्णनीयः । यथा सति वर्णयितुमिष्टो नायकस्योत्कर्षो न सिद्ध्येत् । तत्प्रयुक्तो रसपोषश्च न स्यात् । न च प्रतिनायकोत्कर्षस्य तदभिभावकनायकोत्कर्षाङ्गत्वात्कथं अवर्णनीयत्वं इति वाच्यम् । यादृशस्य प्रतिनायकोत्कर्षवर्णनस्य तदभिभावकनायकोत्कर्षाङ्गतासंपादकत्वं तादृशस्येष्टत्वात् । तद्विरोधिन एव निषेध्यत्वात् । न च प्रतिपक्षस्य प्रकृतापेक्षया वर्ण्यमानोऽप्युत्कर्षः स्वाश्रयहन्तृतामात्रादेव प्रकृतगतं उत्कर्षं अतिशाययेत्, अतो न दोषावह इति वाच्यम् । एवं हि सति महाराजं कं अपि विषशरक्षेपमात्रेण व्यापादितवतो वराकस्य शबरस्येव प्रकृतस्य नायकस्य न कोऽप्युत्कर्षः स्यादिति । तथा रसालम्बनाश्रययोरनुसंधानं अन्तरान्तरा विरता न चेद्, दोषः । तदनुसंधानाधीना हि रसप्रतिपत्तिधारा तदननुसंधाने विरता स्यात् । एवं प्रकृतरसानुपकारकस्य वस्तुनो वर्णनं अपि प्रकृतरसविरामहेतुत्वाद्दोष एव ।
अनौचित्यं तु रसभङ्गहेतुत्वात्परिहरणीयम् । भङ्गश्च पानकादिरसादौ सिकतादिनिपातजनितेवारुंतुदता । तच्च जातिदेशकालवर्णाश्रमवयोवस्थाप्रकृतिव्यवहारादेः प्रपञ्चजातस्य तस्य यस्य यल्लोकशास्त्रसिद्धं उचितद्रव्यगुणक्रियादि, तद्भेदः । जात्यादेरनुचितं यथा--गवादेस्तेजोबलकार्याणि पराक्रमादीनि, सिंहादेश्च साधुभावादीनि । स्वर्गे जराव्याध्यादि, भूलोके सुधासेवनादि । शिशिरे जलविहारादीनि, ग्रीष्मे वह्निसेवा । ब्राह्मणस्य मृगया, बाहुजस्य प्रतिग्रहः, शूद्रस्य निगमाध्ययनम् । ब्रह्मचारिणो यतेश्च ताम्बूलचर्वणम्, दारोपसंग्रः । बालवृद्धयोः स्त्रीसेवनम्, यूनश्च विरागः । दरिद्राणां आढ्याचरणम्, आढ्यानां च दरिद्राचारः । प्रकृतयो दिव्याः,
अदिव्याः, दिव्यादिव्याश्च । धीरोदात्तधीरोद्धतधीरललितधीरशान्ता उत्साहक्रोधकामिनीरतिनिर्वेदप्रधाना उत्तममध्यमाधमाश्च । तत्र रत्यादीनां भयातिरिक्तस्थायिभावानां सर्वत्र समत्वेऽपि रतेः संभोगरुपाया मनुष्येष्विवोत्तमदेवतासु स्फुटीकृतसकलानुभाववर्णनं अनुचितम् ।
क्रोधस्य च लोकभस्मीकरणपटोर्दिनरात्रिव्यत्ययाद्यनेकाश्चर्यकारिणो दिव्येष्विवादिव्येषु । आलम्बनगताराध्यत्वस्यानुभावगतमिथ्यात्वस्य च प्रतीत्या रसानुल्लासापत्तेः । न च साधारणीकरणादाराध्यत्वज्ञानानुत्पत्तिरिति वाच्यम् । यत्र सहृदयानां रसोद्बोधः प्रमाणसिद्धस्तत्रैव साधारणीकरणस्य कल्पनात् । अन्यथा स्वमातृविषयकस्वपितृरतिवर्णनेऽपि सहृदयस्य रसोद्बोधापत्तेः । जयदेवादिभिस्तु गीतगोविन्दादिप्रबन्धेषु सकलसहृदयसंमतोऽयं समयो मदोन्मत्तमतङ्गजैरिव भिन्न इति च तन्निदर्शनेनेदानींतनेन तथा वर्णयितुं सांप्रतम् । तथा विद्यावयोवर्णाश्रमतपोभिरुत्कृष्टैः स्वतोऽपकृष्टेषु न सबहुमानेन वचसा व्यवहर्तव्यम् । व्यवहर्तव्यं चापकृष्टैरुत्कृष्टेषु । तत्रापि तत्रभवन्भगवन्नित्यादिभिः संबोधनैर्मुनिगुरुदेवताप्रभृतय एव न राजादयः, जात्योत्तमैर्द्विजैरेव, नाधमैः शूद्रादिभिः, परमेश्वरेत्यादिसंबोधनैश्चक्रवर्तिन एव, न मुनिप्रभृतयः संबोध्याः ।
तथा नाहुः--
प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ।।' इति ।
यावता त्वनौचित्येन रसस्य पुष्टिस्तावत्तु न वार्यते, रसप्रतिकूलस्यैव तस्य निषेध्यत्वात् । अत एव--
स्वल्पं जल्प बृहस्पते जडमते नैषा सभा वज्रिणः ।
वीणां संहर नारद स्तुतिकथालापैरलं तुम्बुरो
इति कस्यचिन्नाटकस्य पद्ये विप्रलम्भशृङ्गाराङ्गीभूतवीररसाक्षेपकपरमैश्वर्यपरिपोषकतया स्थितदौवारिकवचनस्य ब्रह्माद्यधिक्षेपपरस्यानौचित्यं न दोषः । एवं एव 'अले ले सद्दःसमुप्पाडिअ हरियकुसग्गंथिमयाच्छमालापै वित्तिविस्सम्भिअ बालविहवंदःकाणा बम्हणा' इत्यादिविदूषकवचनेऽपि रेशब्दादिप्रयोगस्य तत्तथा, हास्यानुगुणत्वात् । एषा हि दिगुपदर्शिता । अनया सुधीभिरन्यदप्यूह्यम् ।रसेषु चैतेषु निगदितेषु माधुर्यौजःप्रसादाख्यांस्त्रीन्गुणानाहुः । तत्र 'शृङ्गारे संयोगाख्ये यन्माधुर्यं ततोऽतिशयितं करुणे, ताभ्यां विप्रलम्भे , तेभ्योऽपि शान्ते । उत्तरोत्तरं अतिशयितायाश्चित्तद्रुतेर्जननात् । संयोगशृङ्गारात्करुणशान्तयोस्ताभ्यां अपि विप्रलम्भे' त्यपरे।संयोगशृङ्गारात्करुणविप्रलम्भशान्तेष्वतिशयितं एव न पुनस्तत्रापि तारतम्यम्' इत्यन्ये । तत्र प्रथमचरमयोर्मतयोः 'करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम्' इति प्राचां सूत्रं अनुकूलम् । तस्योत्तरसूत्रगतस्य क्रमेणेति पदस्यापकर्षानपकर्षाभ्यां व्याख्याद्वयस्य संभवात् । मध्यस्थे तु मते करुणशान्ताभ्यां विप्रलम्भस्य माधुर्यातिशये यदि सहृदयानां अनुभवोऽस्ति साक्षी तदा स प्रमाणम् ।वीरबीभत्सरौद्रेष्वोजसो यथोत्तरं अतिशयः, उत्तरोत्तरं अतिशयितायाश्चित्तदीप्तेर्जननात् । अद्भुतहास्यभयानकानां गुणद्वययोगित्वं केचिदिच्छन्ति । अपरे तु प्रसादमात्रम् । प्रसादस्तु सर्वेषु रसेषु सर्वासु रचनासु च साधारणः ।
गुणानां चैषां द्रुतिदीप्तिविकासाख्यास्तिस्रश्चित्तवृत्तयः क्रमेण प्रयोज्याः । तत्तद्गुणविशिष्टरसचर्वणाजन्या इति यावत् । एवं एतेषु गुणेषु रसमात्रधर्मेषु व्यवसितेषु मधुरा रचना, ओजस्वी बन्ध इत्यादयो व्यवहारा आकारोऽस्य शूर इत्यादिव्यवहारवदौपचारिका इति मम्मटभट्टादयः ।
येऽमी माधुर्यौजः प्रसादारसमात्रधर्मतयोक्तास्तेषां रसधर्मत्वे किं मानम्? प्रत्यक्षं एवेति चेत्, न । दाहादेः कार्यादनलगतस्योष्णस्पर्शस्य यथा भिन्नतयानुभवस्तथा द्रुत्यादिचित्तवृत्तिभ्यो रसकार्येभ्योऽन्येषां रसगतगुणानां अननुभवात् । तादृशगुणविशिष्टरसानां द्रुत्यादिकारणत्वात्कारणतावच्छेदकतया गुणानां अनुमानं इति चेत्, प्रातिस्विकरूपेणैव रसानां कारणतोपपत्तौ गुणकल्पने गौरवात् । शृङ्गारकरुणशान्तानां माधुर्यवत्त्वेन द्रुतिकारणत्वं, प्रातिस्विकरूपेण कारणत्वकल्पनापेक्षया लघुभूतं इति तु न वाच्यम् । परेण
मधुरतरादिगुणानां पृथग्द्रुततरत्वादि कार्यतारतम्यप्रयोजकतयाभ्युपगमेन माधुर्यवत्त्वेन कारणताया गडुभूतत्वात् । इत्थं च प्रातिस्विकरूपेणैव कारणत्वे लाघवम् । किं चात्मनो निर्गुणतयात्मरूपरसगुणत्वं माधुर्यादीनां अनुपपन्नम् । एवं तदुपाधिरत्यादिगुणत्वं अपि, मानाभावात्, पररीत्या गुणे गुणान्तरस्यानौचित्याच्च । अथ शृङ्गारो मधुर इत्यादिव्यवहारः कथं इति चेत्, एवं तर्हि द्रुत्यादिचित्तवृत्तिप्रयोजकत्वम्, प्रयोजकतासंबन्धेन द्रुत्यादिकं एव वा माधुर्यादिकं अस्तु । व्यवहारस्तु वाजिगन्धोष्णेतिव्यवहारवदक्षतः । प्रयोजकत्वं चादृष्टादिविलक्षणं शब्दार्थरसरचनागतं एव ग्राह्यम् । अतो न व्यवहारातिप्रसक्तिः । तथा च शब्दार्थयोरपि माधुर्यादेरीदृशस्य सत्त्वादुपचारो नैव कल्प्य इति तु मादृशाः ।
जरत्तरास्तु--
अर्थव्यक्तिरुदारत्वं ओजःकान्तिसमाधयः ।।'
इति दशा शब्दगुणान्, दशैव चार्थगुणानामनन्ति । नामानि पुनस्तान्येव, लक्षणं तु भिन्नम् ।
तथा हि--
शब्दानां भिन्नानां अप्येकत्वप्रतिभानप्रयोजकः संहितयैकजातीयवर्णविन्यासविशेषो गाढत्वापरपर्यायः श्लेषः ।।
यदाहुः- 'श्लिष्टं अस्पष्टशैथिल्यम्' इति । यथा--'अनवरतविद्वद्द्रुमद्रोहिदारिद्र्यमाद्यद्द्विपोद्दामदर्पौघविद्रावणप्रौढपञ्चाननः इति ।
गाढत्वशैथिल्याभ्यां व्युत्क्रमेण मिश्रणं बन्धस्य प्रसादः ।।
यथा--
क्रीडाकुण्डलितभ्रुशोणनयने दोर्मण्डलं पश्यसि ।
माणिक्यावलिकान्तिदन्तुरतरैर्भूषासहस्त्रोत्सरैर्
अत्र यस्मिन्नित्यन्तं शैथिल्यम्, भ्रुशब्दान्तं गाढत्वम्, पुनर्नयनेत्यन्तं प्रथमं इत्यादि बोध्यम् ।
उपक्रमादासमाप्ते रीत्यभेदः समता ।।
यथा वक्ष्यमाणमाधुर्योदाहरणे । तत्र ह्युपनागरिकयैवोपक्रमसंहारौ ।
संयोगपरह्रस्वातिरिक्तवर्णघटितत्वे सति पृथक्पदत्वं माधुर्यम् ।।
यथा--
यदि कोमलता तवाङ्गकानां अथ का नाम कथापि पल्लवानाम् ।।'
अपरुषवर्णघटितत्वं सुकुमारता ।।
यथा--
दोलायितश्रवणकुण्डलवन्दनीया ।
आनन्दं अङ्कुरयति स्मरणेन कापि
अत्र पूर्वार्धे । उत्तरार्धे तु माधुर्यं अपि ।
झगिति प्रतीयमानार्थान्वयकत्वं अर्थव्यक्तिः ।।
यथा 'नितराम्' इत्यादौ ।
कठिनवर्णघटनारूपविकटत्वलक्षणोदारता ।।
यथा--
विनोदिनि विनायके डमरुडिण्डिमध्वानिनि ।
ललाटतटविस्फुटन्नवकृपीटयोनिच्छटो
'पदानां नृत्यत्प्रायत्वं विकटता' इति काव्यप्रकाशटीकाकारा व्याचक्षते । उदाहरन्ति च 'स्वचरणविनिविष्टैर्नूपुरैर्नर्तकीनां झटिति रणितं आसीत्' इत्यादि । तत्र तेषां एतादृशीं विकटत्वलक्षणां उदारतां ओजस्य् अन्तर्भावयन्काव्यप्रकाशकारः कथं अनुकूल इति त एव जानन्ति । न ह्यत्रौजसो वैपुल्येन प्रतिभानं अस्ति ।'विनिविष्टैर्नूपुरैर्नर्त-' इत्यत्र सन्नप्योजसो लवो न चमत्कारी । नापि तत्र नृत्यत्प्रायत्वं वर्णानां अनुभवन्ति सहृदयाः । अंशान्तरे तु माधुर्यं एव ।
संयोगपरह्रस्वप्राचुर्यरूपं गाढत्वं ओजः ।।
यथा--
क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वंकषाः ।
तृष्णाताम्यदमन्दतापसकुलैः सानन्दं आलोकिता
यथा वा 'अयं पततु निर्दयम्' इत्यादिप्रागुदाहृते ।
अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्यमानेषु पदेषु लोकोत्तरशोभारूपं औज्ज्वल्यं कान्तिः ।।
यथा 'नितराम्' इत्यादि प्रागुदाहृते ।
बान्धगाढत्वशिथिलत्वयोः क्रमेणावस्थापनं समाधिः ।।
अनयोरेव प्राचीनैरारोहावरोहव्यपदेशः कृतः । क्रम एव हि तयोः प्रसादादस्य भेदकः । तत्र हि तयोर्व्युत्क्रमेण वृत्तेः ।
यथा--
केवलामृतमुचां वचनानां यस्य लास्यगृहं आस्यसरोजम् ।।'
अत्रारोहः प्रथमेऽर्धे । तृतीयचरणे त्ववरोहः । गङ्गेत्यादौ माधुर्यस्य व्यञ्जकेषु वर्णेषु सत्स्वपि दीर्घसमासान्तःपातितयान तस्य प्ररोहः । उत्तरार्धे तु सोऽपि । एते दश शब्दगुणाः ।
एवं क्रियापरम्परया विदग्धचेष्टितस्य तदस्फुटत्वस्य तदुपपादकयुक्तेश्च सामानाधिकरण्यरूपः संसर्गः श्लेषः ।।
यावदर्थकपदत्वरूपं अर्थवैमल्यं प्रसादः ।।
यथा-- 'कमलानुकारि वदनं किल तस्याः' इत्यादि । प्रत्युदाहरणं तु 'कमलकान्त्यनुकारि वक्त्रम्' इत्यादि ।
प्रक्रमाभङ्गेनार्थघटनात्मकं अवैषम्यं समता ।।
यथा--
हरिं सर्वत्र पश्यामि हरेरन्यन्न भाति मे ।।'
अत्र विष्णुर्भ्रातेत्यादिनिर्माणे प्रक्रमभङ्गात्मकं वैषम्यम् ।
एकस्या एवोक्तेर्भङ्ग्यन्तरेण पुनः कथनात्मकं उक्तिवैचित्र्यं माधुर्यम् ।।
यथा--
'विधत्तां निःशङ्कं निरवधिसमाधिं विधिरहो
सुखं शेषे शेतां हरिरवीरतं नृत्यतु हरः ।
कृतं प्रायश्चित्तैरलं अथ तपोदानयजनैः
सवित्री कामानां यदि जगति जागर्ति भवती ।।'
अत्र विध्यादिभिर्नास्ति किं अपि प्रयोजनं इत्येषोऽर्थः समाधिविधानादिप्रेरणारूपेणोक्तिवैचित्र्येणाभिहितः । अन्यथानवीकृतत्वापत्तेः ।
अकाण्डे शोकदायित्वाभावरूपं अपारुष्यं सुकुमारता ।।
यथा-- 'त्वरया याति पान्थोऽयं प्रियाविरहकातरः' ।
'प्रियामरणकातरः' इत्यत्र तु शोकदायिनो मरणशब्दस्य सत्त्वात्पारुष्यम् । इदं चाश्लीलतादोषव्याप्यम् ।
वस्तुनो वर्णनीयस्यासाधारणक्रियारूपयोर्वर्णनं अर्थव्यक्तिः ।।
यथा--
'गुरुमध्ये कमलाक्षी कमलाक्षेण प्रहर्तुकामं माम् ।
रदयन्त्रितरसनाग्रं तरलितनयनं निवारयांचक्रे ।।'
अयं एवेदानींतनैःस्वभावोक्त्यलंकार इति व्यपदिश्यते ।
'चुम्बनं देहि मे भार्ये कामचाण्डालतृप्तये' इत्यादिग्राम्यार्थपरिहार उदारता ।।
एकस्य पदार्थस्य बहुभिः पदैरभिधानं, बहूनां चैकेन, तथैकस्य वाक्यार्थस्य बहुभिर्वाक्यैः, बहुवाक्यार्थस्यैकवाक्येनाभिधानं, विशेषणानां साभिप्रायत्वं चेति पञ्चविधं ओजः ।।
यदाहुः--
प्रौढिर्व्याससमासौ च साभिप्रायत्वं अस्य च ।। इति ।
पूर्वार्धप्रतिपाद्यं द्वयं व्याससमासौ चेति चतुष्प्रकारा प्रौढिः, साभिप्रायत्वं चेति पञ्चप्रकारं ओज इत्यर्थः । प्रौढिः प्रतिपादनवैचित्र्यम् ।
यथा--
रजनिरमणराज्ये नाशं आशु प्रयाति ।
परमपुरुषवक्त्रादुद्गतानां नराणां
अत्रोषसीत्येकपदार्थस्याभिधानाय प्रथमचरणः । इत्याद्यग्रेऽपि बोध्यम् ।
मण्डिताखिलदिक्प्रान्ताश्चण्डांशोर्भान्ति भानवः ।।'
अत्र 'यस्याः पराङ्गनागेहात्पतिः प्रातर्गृहेऽञ्चति' इति वाक्यार्थे खण्डितापदाभिधानम् ।
सर्वस्वं चापि हरते विधिरुच्छृङ्खलो नृणाम् ।।'
अत्र दैवाधीनं सर्वं इत्येकस्मिन्वाक्यार्थे नानावाक्यरचनात्मको व्यासपदवाच्यो विस्तरः ।
वासुदेवनिविष्टात्मा विवेश परं पदम् ।।'
अत्र 'मुनिस्तपस्यति', 'तद्वक्त्रात्स वेदार्थं अधिगतवान्', 'तदनन्तरं वासुदेवे परब्रह्मणि मनः प्रावेशयत्', 'ततश्च मुक्तोऽभूद्' इति वाक्यार्थकलापः शतृ-क्त्वा-बहुव्रीहिभिस्तिङन्तेन चानुवाद्यविधेयभावेनैकवाक्यार्थीकृतः ।
साभिप्रायत्वं चप्रकृतार्थपोषकता ।
यथा--
सीदन्भवमरुगर्ते करुणामूर्ते न सर्वथोपेक्ष्यः ।।'
अत्रोपेक्षाभावे करुणामूर्तित्वं पोषकम् । पापिष्ठवात्करुणाया अभावे प्रकृतेऽस्याः संपादनाय गणिकेत्यादि सीदन्निति च ।
दीप्तरसत्वं कान्तिः ।।
तच्च स्फुटप्रतीयमानरसत्वम् । उदाहरणं च वर्णितं एव रसप्रकरणे, वर्णयिष्यते च ।
अवर्णितपूर्वोऽयं अर्थः पूर्ववर्णितच्छायो वेति कवेरालोचनं समाधिः ।।
ज्ञानस्य विषयतासंबन्धेनार्थनिष्ठत्वादर्थगुणता ।
आद्यो यथा-- 'तनयमैनाकगवेषण' इत्यादौ, द्वितीयस्तु प्रायशः सर्वत्रैवेत्याहुः । अपरे त्वेषु गुणेषु कतिपयान्प्रागुक्तैस्त्रिभिर्गुणैर्वक्ष्यमाणदोषाभावालंकारैश्च गतार्थयन्तः कांश्चिद्वैचित्र्यमात्ररूपतया, क्वचिद्दोषतया च मन्यमाना न तावतः स्वीकुर्वन्ति । तथा हि-- श्लेषोदारताप्रसादसमाधीनां ओजोव्यञ्जकघटनायां अन्तर्भावः । न च श्लेषोदारतयोः सर्वांशे गाढबन्धात्मनोरोजोव्यञ्जकघटनान्तर्भावोऽस्तु नाम, प्रसादसमाध्योस्तु गाढशिथिलात्मनोरंशेनौजोव्यञ्जकान्तर्भावेऽप्यंशान्तरेण कुत्रान्तर्भाव इति वाच्यम् । माधुर्याभिव्यञ्जके प्रसादाभिव्यञ्जके वेति सुवचत्वात् । माधुर्यं तु परेषां अस्मदभ्युपगतमाधुर्यव्यञ्जकं एव । एवं च सर्वत्र व्यञ्जके व्यङ्ग्यशब्दप्रयोगो भाक्तः । समता तु सर्वत्रानुचितैव । प्रतिपाद्योद्भटत्वानुद्भटत्वाभ्यामेकस्मिन्नेव पद्ये मार्गभेदस्येष्टत्वात् ।
यथा--
न्मृद्वीकामधुमाधुरीमदपरीहारोद्धुराणां गिराम् ।
काव्यं तर्हि सखे सुखेन कथय त्वं संमुखे मादृशां
अत्र पूर्वार्धे तृतीयचरणे च लोकोत्तरनिर्माणप्रतिपादके यो मार्गो न स चतुर्थचरणे कदर्यकाव्यप्रतिपादक इति वैषम्यं एव गुणः । ग्राम्यत्वकष्टत्वयोस्त्यागात्कान्तिसौकुमार्ययोर्गतार्थता । प्रसादेन चार्थव्यक्तेरिति ।
अर्थगुणेष्वपि-- श्लेषः ओजस आद्याश्चत्वारो भेदाश्च उक्तिवैचित्र्यमात्ररूपा इति न गुणान्तर्भावं अर्हन्ति । अन्यथा प्रतिश्लोकं अर्थवैचित्र्यवैलक्षण्याद्गुणभेदापत्तेः । अनधिकपदत्वात्मा प्रसादः, उक्तिवैचित्र्यवपुर्माधुर्यम्, अपारुष्यशरीरं सौकुमार्यम्, अग्राम्यरूपोदारता, वैषम्याभावलक्षणा समता, साभिप्रायत्वात्मकः पञ्चम ओजसः प्रकारः, स्वभावस्फुटत्वात्मिकार्थव्यक्तिः, स्फुटरसत्वरूपा कान्तिश्च, अधिकपदत्वानवीकृतत्वामङ्गलरूपाश्लीलत्वग्राम्य-भग्नप्रक्रमापुष्टार्थरूपाणां दोषाणां निराकरणेन स्वभावोक्त्यलंकारस्य रसध्वनिरसवदलंकारयोश्च स्वीकरणेन च गतार्थानि । समाधिस्तु कविगतः काव्यस्य कारणं न तु गुणः, प्रतिभाया अपि काव्यगुणत्वापत्तेः । अतस्त्रय एव गुणा इति मम्मटभट्टादयः ।
तत्र टवर्गवर्जितानां वर्गाणां प्रथमतृतीयैः शर्भिरन्तस्थैश्च घटिता, नैकट्येन प्रयुक्तैरनुस्वारपरसवर्णाइः शुद्धानुनासिकैश्च शोभिता, वक्ष्यमाणैः सामान्यतो विशेषतश्च निषिद्धैः संयोगाद्यैरचुम्बिता, अवृत्तिर्मुदुवृत्तिर्वा रचनानुपूर्व्यात्मिका माधुर्यस्य व्यञ्जिका । द्वितीयचतुर्थास्तु वर्ग्या गुणस्यास्य नानुकूलाः, नापि प्रतिकूलाः, दूरतया संनिवेशिताश्चेत् । नैकट्येन तु प्रतिकूला अपि भवन्ति, यदि तदायत्तो नानुप्रासः । अन्ये तु वर्गस्थानां पञ्चानां अप्यविशेषेण माधुर्यव्यञ्जकतां आहुः ।
उदाहरणम्--
स्वान्त मे कलय शान्तये चिरं नैचिकीनयनचुम्बितां श्रियम् ।।'
यथा वा--
कपोलपालिरन्तःस्मितालसविलोकनवन्दनीया ।
आनन्दं अङ्कुरयति स्मरणेन कापि
प्रथमे पद्येऽतिशयोक्त्यलंकृतस्य भगवद्ध्यानौत्सुक्यस्य भगवद्विषयकरतेर्वा ध्वन्यमानायाः शान्त एव पर्यवसानात्तद्गतमाधुर्यस्याभिव्यञ्जिका रचनेयम् । द्वितीये तु स्मृत्युपष्टब्धशृङ्गारगतस्य ।
नैकट्येन द्वितीयचतुर्थवर्गवर्णटवर्गजिह्वामूलीयोपध्मानीयविसर्गसकारबहुलैर्वर्णाइर्घटितो झय्रेफान्यतरघटितसंयोगपरह्रस्वैश्च नैकट्येन प्रयुक्तैरालिङ्गितो दीर्घवृत्त्यात्मा गुम्फ ओजसः । अस्मिन्पतिताः प्रथमतृतीयवर्ग्या गुणस्यास्य नानुकूला नापि प्रतिकूलाः संयोगाघटकाश्चेत् ।
तद्घटकास्त्वनुकूला एव । एवं अनुस्वारपरसवर्णा अपि । यथा-- 'अयं पततु निर्दयं दलितदृप्त-'(४४ पृष्ठे) इत्यादौ प्रागुदाहृते ।
श्रुतमात्रा वाक्यार्थं करतलबदरं इव निवेदयन्ती घटना प्रसादस्य । अयं च सर्वसाधारणो गुणः । उदाहरणान्यत्र प्रायशो मदीयानि सर्वाण्येव पद्यानि ।
तथापि यथा--
प्राणेशः प्रणयाकुलः पुनरसावास्तां समस्ता कथा ।
एतत्त्वां विनिवेदयामि मम चेदुक्तिं हितां मन्यसे
अत्र सर्वावच्छेदेन प्रसादाभिव्यञ्जकत्वं अंशभेदेन तु माधुर्यौजोभिव्यञ्जकत्वं अपि, मनसिजान्तस्य मा कुर्वादेश्च माधुर्याभिव्यक्तिहेतुत्वात् । सख्य इत्यादेरोजोगमकत्वात् । नन्वत्र शृङ्गाराश्रयस्य माधुर्यस्याभिव्यक्तये तदनुकूलास्तु नाम रचना, ओजसस्तु कः प्रसङ्गो यदर्थं तदनुकूलवर्णविन्यास इति चेत् ।नायिकामानोपशान्तये कृतानेकयत्नायास्तदीयं हितं उपदिशन्त्याः सख्याः सक्रोधत्वस्य व्यञ्जनीयतया तथाविन्यासस्य साफल्यात् । किं बहुना रसस्यौजस्विनोऽमर्षादेर्भावस्य चाविवक्षायां अपि वक्तरि क्रुद्धतया प्रसिद्धे वाच्ये वा क्रूरतरे आख्यायिकादौ प्रबन्धे वा, परुषवर्णघटनेष्यते । यथा वा--
तां स्वप्नेऽपि न संस्पृशाम्यहं अहंभावावृतो निस्त्रपः ।
इत्यागःशतशालिनं पुनरपि स्वीयेषु मां बिभ्रतस्
अत्र गुणान्तरासमानाधिकरणः प्रसादः ।
इदानीं तत्तद्गुणव्यञ्जनक्षमाया निर्मितेः परिचयाय सामान्यतो विशेषतश्च वर्जनीयं किंचिन्निरूप्यते-- वर्णानां स्वानन्तर्यं सकृदेकपदगतत्वे किंचिदश्रव्यम् । यथा-- 'ककुभसुरभिः, विततगात्रः, पललं इवाभाति' इत्यादौ । असकृच्चेदधिकम् ।। यथा-- 'वितततरस्तरुरेष भाति भूमौ' । एवं भिन्नपदगतत्वेऽपि । यथा-- 'शुक करोषि कथं विजने रुचिम्' इत्यादौ । असकृद्भिन्नपदगतत्वे ततोऽप्यधिकम् । यथा-- 'पिक ककुभो मुखरीकुरु प्रकामम्' । एवं स्वसमानवर्ग्यानन्तर्यं सकृदेकपदगतत्वे किंचिदश्रव्यम् । यथा-- 'वितथस्ते मनोरथः' । असकृच्चेदधिकम् । यथा-- 'वितथतरं वचनं तव प्रतीमः' । एवं भिन्नपदगतत्वे । यथा-- 'अथ तस्य वचः श्रुत्वा' इत्यादौ । असकृद्भिन्नपदगतत्वे तु ततोऽप्यधिकम् । 'अथ तथा कुरु येन सुखं लभे' । एतच्च वर्गाणां प्रथमद्वितीययोस्तृतीयचतुर्थयोरानन्तर्यम् । प्रथमतृतीययोर्द्वितीयतृतीययोर्वानन्तर्यं तु तथा नाश्राव्यम् । किं त्वीषत्, निर्माणमार्मिकैकवेद्यम् । एतदप्यसकृच्चेत्ततोऽधिकत्वात्साधारणैरपि वेद्यम् । यथा-- 'खग कलानिधिरेष विजृम्भते' । 'इति वदति दिवानिशं स धन्यः' । पञ्चमानां मधुरत्वेन स्ववर्ग्यानन्तर्यं न तथा । यथा-- 'तनुते तनुतां तनौ' । स्वानन्तर्यं त्वश्रव्यं एव । यथा-- 'मम महती मनसि व्यथाविरासीत्' । एतानि चाश्रव्यत्वानि गुरुव्यवायेनापोद्यन्ते । 'संजायतां कथंकारं काके केकाकलस्वनः' ।
यथा वा--
तथा तथा तत्त्वकथेव सर्वतो विकृष्य मां एकरसं चकार सा ।।'
इदं तु दीर्घव्यवाये । संयोगपरव्यवाये तु--
रङ्गाङ्गाणं इवाभाति तत्तत्तुरगताण्डवैः ।।'
इदं तु बोध्यम्-- गुरुर्ययोर्व्यवधायकस्तयोरेव वर्णयोरानन्तर्यकृतं अश्रव्यत्वं अपवदति । तेनात्र थकारतकारानन्तर्यकृतदोषापवादेऽपि
तकारथकारानन्तर्यकृतं अश्रव्यत्वं अनपोदितं एव । एवं त्र्यादीनां संयोगोऽपि प्रायेणाश्रव्यः । 'राष्ट्रे तवोष्ट्र्यः परितश्चरन्ति' इत्येवमादयः शृउतिकाटवभेदा अन्येऽप्यनुभवानुसारेण बोध्याः । अथ दीर्घानन्तर्यं संयोगस्य भिन्नपदगतस्य सकृदप्यश्रव्यम्, असकृत्तु सुतराम् ।
सेवितं सर्वसंपद्भिरपि तद्भवनं वनम् ।।'
एकपदगतस्य तु तथा नाश्रव्यत्वम् । यथा-- 'जाग्रता विचितः पन्थाः शात्रवाणां वृथोद्यमः' । परसवर्णकृतस्य तु संयोगस्य सर्वथा दीर्घाद्
भिन्नपदगतत्वाभावान्मधुरत्वाच्चानन्तर्यं न मनागप्यश्रव्यम् । यथा-- 'तांतमालतरुकान्ति-' इत्यादिपद्ये । अत्र तां इत्यत्र नीं इत्यत्र च परसवर्णस्य पूर्वपदभक्ततया न संयोगो भिन्नपदगतः । प्रत्येकं संयोगसंज्ञेति पक्षेऽपि भिन्नपदगतः संयोगो न दीर्घादव्यवहितपरः । नवाम्बुदेत्यत्र त्वेकादेशस्य पदद्वयभक्ततया दीर्घाद्भिन्नपदगतत्वे सत्यव्यवहितोत्तरत्वं यद्यपि परसवर्णकृतसंयोगस्य भवति तथाप्यत्र भिन्नपदगतत्वं एकपदगतभिन्नत्वं विवक्षितं इत्यदोषः । असकृत्तु सुतराम् । यथा-- 'एषां प्रिया मे क्व गता त्रपाकुला' । इदं चाश्रव्यत्वं काव्यस्य पङ्गुत्वं इव प्रतीयते । अथ स्वेच्छया संध्यकरणं सकृदप्यश्रव्यम् । यथा-- 'रम्याणि इन्दुमुखि ते किलकिञ्चितानि । प्रगृह्यताप्रयुक्तं त्वसकृदेव । अहो अमी इन्दुमुखीविलासाः' । एवं एव च य-व-लोपप्रयुक्तं 'अपर इषवएते कामिनीनां दृगन्ताः' ।
कथं तर्हि--
तारा इव तुरगा इव सुखलीना मन्त्रिणो भवतः ।।'
इति भवदीयं काव्यं इति चेदकृत्वैव यलोपं पाठान्न दोषः । एवं रोरुत्वस्य हलि लोपस्य यण्गुणवृद्धिसवर्णदीर्घपूर्वरूपादीनां नैकट्येन बाहुल्यं अश्रव्यताहेतुः । एवं इमे सर्वेऽप्यश्रव्यभेदाः काव्यसामान्ये वर्जनीयाः ।
अथ विशेषतो वर्जनीयाः । तत्र मधुररसेषु ये विशेषतो वर्जनीया अनुपदं वक्ष्यन्ते त एवौजस्विष्वनुकूलाः, ये चानुकूलतयोक्तास्ते प्रतिकूला इति सामान्यतो निर्णयः । मधुररसेषु दीर्घसमासं झय्घटितसंयोगपरह्रस्वस्य विसर्जनीयादेशसकारजिह्वामूलीयोपध्मानीयानां टवर्गझयां रेफहकारान्यतरघटितसंयोगस्य हलां ल-म-न-भिन्नानां स्वात्मना संयोगस्य झय्द्वयघटितसंयोगस्य चासकृत्प्रयोगं नैकट्येन वर्जयेत् । सवर्णझय्द्वयघटितसंयोगस्य शर्भिन्नमहाप्राणघटितसंयोगस्य सकृदपीति संक्षेपः ।
दीर्घसमासो यथा--
लीलावशंवदितलोकविलोचनायाः ।
सायाहनि प्रणयिनो भवनं व्रजन्त्या-
झय्घटितसंयोगपरह्रस्वानां प्राचुर्यं नैकट्येन यथा--
सान्द्रामृतं वदनं एणविलोचनायाः ।
वेधा विधाय पुनरुक्तं इवेन्दुबिम्बं
अत्र भ्रिशब्दपर्यन्तं शृङ्गाराननुगुणम् । शिष्टं तु रमणीयम् । उत्तरार्धे ककारतकाररूपझय्द्वयसंयोगस्य सत्त्वेऽपि प्राचुर्याभावान्न दोषः । यदि तु 'दन्तांशुकान्तं अरविन्दरमापहारि सान्द्रामृतम्, इत्यादि क्रियते तदा सर्वं एव रमणीयम् ।
विसर्गप्राचुर्यं यथा--
हरन्ति हृदयं हन्त कान्तायास्स्वान्तवृत्तयः ।।'
अत्र शकारद्वयसंयोगान्तं पूर्वार्धं माधुर्याननुगुणम् ।
जिह्वामूलीप्राचुर्यं यथा--
कुशलं इह कथं वा जायतां जीविते मे ।
अयं अपि बत गुञ्जन्नालि माकन्दमौलौ
अत्र द्वितीयजिह्वामूलीयपर्यन्तं अननुगुणं माधुर्यस्य । यदि च 'कथय कथं इवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः' इति विधीयते, तथा नायं दोषः ।
उपध्मानीयप्राचुर्यं यथा--
'अलकाÜ फणिशावतुल्यशीला नयनान्ताÜ परिपुङ्खितेषु लीलाः ।
चपलोपमिता खलु स्वयं या बत लोके सुखसाधनं कथं सा ।।'
अत्र द्वावुपध्मानीयावेव न शान्तानुगुणौ ।
टवर्गझयां प्राचुर्यं यथा--
अधुना हरिणाक्षि हा कथं वा कटुता तत्र कठोरताविरासीत् ।।'
'अधुना सखि तत्र हा कथं वा गतिरन्यैव विलोक्यते गुणानाम्' इति त्वनुगुणम् ।
रेफघटितसंयोगस्यासकृत्प्रयोगो यथा--
लसन्ति नानाफलभारवत्यो लताः कियत्यो गहनान्तरेषु ।।'
यदि तु 'तुलां अनालोक्य महीतलेऽस्मिन्' इति निर्मीयते तथा साधु ।
हलां ल-म-न-भिन्नानांस्वात्मना संयोगस्यासकृत्प्रयोगो यथा-- 'विगणय्य मे निकाय्यं तां अनुयातोऽसि नैव तन्न्याय्यम् ।' ल-म-नानां स्वात्मना संयोगस्तु न तथा पारुष्यं आवहति ।यथा--
जलदालिं अयं जगद्वितन्वन्कलितः क्वापि किं आलि नीलमेघः ।।'
झय्द्वयघटितसंयोगस्य यथा--
अधुनाब्जेन मनाक्तव मानिनि तुलना मुखस्याप्ता ।।'
अत्र द्वितीयार्धं अरम्यम् । 'सरसिजकुलेन संप्रति भामिनि ते मुखतुलाधिगता' इति तु साधु ।
सवर्ण झय्द्वयघटितसंयोगस्य सकृत्प्रयोगो यथा--
अधुनैव कलय शमितं राकारमणस्य हन्त साम्राज्यम् ।।'
नन्वत्र ककारद्वयसंयोगस्य हल्घटितस्वात्मसंयोगत्वेनैव निषेधात्क-खसंयोगस्य महाप्राणसंयोगनिषेधविषयत्वात्तृतीयसंयोगस्य चासंभवात्सवर्णझय्द्वयसंयोगनिषेधो निरवकाश इति चेत्, न । सकृत्प्रयोगविषयत्वेनास्य पार्थक्यात् । आन्यथा 'मनाक्कुरुषे' इति निर्दोषं स्यात् ।
महाप्राणघटितसंयोगो यथा--
'अयि मृगमदबिन्दुं चेद्भाले बाले समातनुषे ।'
उत्तरार्धं तु प्राचीनं एव ।
एवं त्वप्रत्ययं, यङन्तानि, यङलुगन्तान्यन्यानि च शाब्दिकप्रियाण्यपि मधुररसे न प्रयुञ्जीत । एवं व्यङ्ग्यचर्वणातिरिक्तयोजनाविशेषापेक्षानापाततोऽधिकचमत्कारिणोऽनुप्रासनिचयान्यमकादींश्च संभवतोऽपि कविर्न निबध्नीयात् । यतो हि ते रसचर्वणायां अनन्तर्भवन्तः सहृदयहृदयं स्वाभिमुखं विदधाना रसपराङ्मुखं विदधीरन् ।विप्रलम्भे तु सुतराम् । यतो मधुरतमत्वेनास्य निर्मलसितानिर्मितपानकरसस्येव तनीयानपि स्वातन्त्र्यं आवहन्पदार्थः सहृदयहृदयारुंतुदतयान सर्वथैव सामानाधिकरण्यं अर्हति ।
यदाहुः--
शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ।।'
ये तु पुनरक्लिष्टतयानुन्नतस्कन्धतया च न पृथग्भावनां अपेक्षन्ते, किं तु रसचर्वणायां एव सुसुखं गोचरीकर्तुं शक्याः, न तेषां अनुप्रासादीनां त्यागो युक्तः ।
यथा--
स्मेरानना सपदि शीलय सौधमौलिम् ।
प्रौढिं भजन्तु कुमुदानि मुदां उदारां
इत्थं एते प्रसङ्गतो मधुररसाभिव्यञ्जिकायां रचनायां संक्षेपेण निरूपिता दोषाः ।
माधुर्यभारभङ्गुरसुन्दरपदवर्णविन्यासा ।।
व्युत्पत्तिं उद्गिरन्ती निर्मातुर्या प्रसादयुता ।
अस्यां उदाहृतान्येव कियन्त्यपि पद्यानि ।
यथा वा--
भामिन्यो भवनेषु भूषणगणैरुल्लासयन्ति श्रियम् ।
वामे मानं अपाकरोषि न मनागद्यापि रोषेण ते
अस्याश्च रीतेर्निर्माणे कविना नितरां अवहितेन भाव्यम् । अन्यथा तु परिपाकभङ्गः स्यात् ।
यथामरुककविपद्ये--
निद्राव्याजं उपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
विस्त्रब्धं परिचुम्ब्य जातपुलकां आलोक्य गण्डस्थलीं
अत्रोत्थाय किंचिच्छनैरित्यत्र सवर्णझय्द्वयसंयोगस्तत्रापि नैकट्येनेति सुतरां अश्रव्यः । एवं
झय्घटितसंयोगपरह्रस्वस्यापि । तथा शनैर्निद्रेत्यत्र, निर्वर्ण्य पत्युर्मुखं इत्यत्र च रेफघटितसंयोगस्य, झय्घटितसंयोगपरह्रस्वस्य च प्राचुर्यम् । विस्त्रब्धं इत्यत्र महाप्राणघटितस्य, लज्जेत्यत्र स्वात्मसवर्णझय्द्वयघटितस्य, मुखी प्रियेणेत्यत्र भिन्नपदगतदीर्घानन्तरस्य संयोगस्य, तथा क्त्वाप्रत्ययस्य पञ्चकृत्वः, लोकतेश्च धातोर्द्विः प्रयोगः कवेर्निर्माणसामग्रीदारिद्र्यं प्रकाशयति । इत्यलं परकीयकाव्यविमर्शनेन । इति संक्षेपेण निरूपिता रसाः ।
अथ भावध्वनिर्निरूप्यते --
अथ किं भावत्वम् । विभावानुभावभिन्नत्वे सति रसव्यञ्जकत्वं इति चेत्, रसकाव्यवाक्येऽतिव्याप्त्यापत्तेः । अर्थद्वारा शब्दस्यापि व्यञ्जकत्वात् । द्वारान्तरनिरपेक्षत्वेन व्यञ्जकत्वे विशेषिते त्वसंभवः प्रसज्येत । भावस्यापि भावनाद्वारैव व्यञ्जकत्वात्, भावनायां अतिव्याप्त्यापत्तेश्च । अत एव च विभावानुभावभिन्नत्वस्येव शब्दभिन्नत्वस्यापि तद्विशेषणत्वे न निस्तारः । प्रधानध्वन्यमानभावे रसव्यञ्जकताभावादव्याप्त्यापत्तेश्च ।
न च तत्रापि प्रान्ते रसोऽभिव्यज्यत एवेति वाच्यम्, भावध्वनिविलोपप्रसङ्गात् । भावचमत्कारप्रकर्षाद्भावध्वनित्वम् । रसस्तु तत्र व्यज्यमानोऽप्यचमत्कारित्वान्न ध्वनिव्यपदेशहेतुरित्यपि न शक्यं वदितुम् । चमत्काररहितरसव्यक्तौ मानाभावात् । रसे हि धर्मिग्राहकमानेनानन्दांशाविनाभावस्य प्रागेवावेदनात् ।
अस्तु वा प्राधान्येन ध्वन्यमानस्यापि भावस्य प्रान्ते रसाभिव्यञ्जकत्वम् । तथापि देशकालवयोवस्थादिनानापदार्थघटिते पद्यवाक्यार्थे तथाप्यतिव्याप्तिः । तस्य विभावानुभावभिन्नत्वे सति रसाभिव्यञ्जकत्वात् । नापि रसाभिव्यञ्जकचर्वणाविषयचित्तवृत्तित्वं तत्त्वम् ।भावादिचर्वणायां अतिप्रसङ्गवारणाय चर्वणाविषयेति चित्तवृत्तिविशेषणं इति वाच्यम् ।
अपि नीलोत्पलमालां बाला व्यालावलिं किलामुनते ।।'
इत्यत्र हालाहलसदृशत्वप्रकारज्ञाने अतिव्याप्तेः । तस्य विप्रलम्भानुभावत्वेन रसाभिव्यञ्जकचर्वणाविषयत्वात्, चित्तवृत्तित्वाच्च । नाप्यखण्डम् । तत्त्वे मानाभावात् । अत्रोच्यते--
विभावादिव्यज्यमानहर्षाद्यन्यतमत्वं तत्त्वम् ।।
यदाहुः-- 'व्यभिचार्यञ्जितो भावः' इति । हर्षादीनां च सामाजिकगतानां एव स्थायिभावन्यायेनाभिव्यक्तिः । सापि रसन्यायेनेति केचित् । व्यङ्ग्यान्तरन्यायेनेत्यपरे मन्यन्ते ।
विभावानुभावौ चात्र व्यञ्जकौ । न त्वेकस्मिन्व्याभिचारिणि ध्वन्यमाने व्यभिचार्यन्तरं व्यञ्जकतयावश्यं अपेक्ष्यते, तस्यैव प्राधान्यापत्तेः । वस्तुतस्तु प्रकरणादिवशात्प्राधान्यं अनुभवति कस्मिंश्चिद्भावे तदीयसामग्रीव्यङ्ग्यत्वेन नान्तरीयकतया तनिमानं आवहतो व्यभिचार्यन्तरस्याङ्गत्वेऽपि न क्षतिः । यथा गर्वादावमर्षस्य, अमर्षादौ वा गर्वस्य । न चैवं सति गुणीभूतव्यङ्ग्यत्वापत्तिः । पृथग्विभावानुभावाभिव्यक्तस्यैव (भावस्य), गुणीभूतव्यङ्ग्यव्यपदेशहेतुत्वात् । अत एव नान्तरीयकस्य भावस्य ध्वननं भवति । अन्यथा गर्वादिध्वनेरुच्छेद एव भवेत् । विभावस्त्वत्र व्यभिचारिणो निमित्तकारणसामान्यम् । न तु रसस्येव सर्वथैवालम्बनोद्दीपने अपेक्षिते । यदि तु क्वचित्संभवतस्तदा न वार्येते ।
हर्षादयस्तु--
हर्षस्मृतिव्रीडामोहधृतिशङ्काग्लानिदैन्यचिन्तामदश्रमगर्वनिद्रामतिव्याधित्राससुप्तविबोधामर्षावहित्थोग्रतोन्मादमरणवितर्कविषादौत्सुक्यावेगजडतालस्यासूयापस्मारचपलताः । प्रतिपक्षकृतधिक्कारादिजन्मा निर्वेदश्चेति त्रयस्त्रिंशद्व्यभिचारिणः । गुरुदेवनृपपुत्रादिविषया रतिश्चेति चतुस्त्रिंशत् ।
एतेन वात्सल्याख्यं पुत्राद्यालम्बनं रसान्तरं इति परास्तम् । उच्छृङ्खलताया मुनिवचनपराहतत्वात् ।
तत्र
इष्टप्राप्त्यादिजन्मा सुखविशेषो हर्षः ।।
तदुक्तम्--
मनोरथाप्तिरप्राप्यमनोहरधनागमः ।
तथोत्पत्तिश्च पुत्रादेर्विभावो यत्र जायते ।
नेत्रवक्त्रप्रसादश्च प्रियोक्तिः पुलकोद्गमः ।।
उदाहरणम्--
अवलोक्य समागतं तदा मां अथ रामा विकसन्मुखी बभूव ।।'
अत्रावधिकाले प्रियागमनं विभावः । मुखविकासोऽनुभावः ।
संस्कारजन्यं ज्ञानं स्मृतिः ।।
यथा--
सा वै कलङ्कविधुरा मधुराननश्रीः ।
अद्यापि मे हृदयं उन्मदयन्ति हन्त
चिन्ताविशेषोऽत्र विभावः । भ्रून्नतिगात्रनिश्चलत्वादय आक्षेपगम्या अनुभावाः । यद्यप्यत्रास्या एव स्मृतेः संचारिण्याः, नायिकारूपस्य विभावस्य, हन्तपदगम्यस्य हृदयवैकल्यरूपानुभावस्य संयोगाद्विप्रलम्भरसाभिव्यक्ते रसध्वनित्वं शक्यते वक्तुं तथापि स्मृतेरेवात्र पुरःस्फूर्तिकत्वाच्चमत्कारित्वाच्च तद्ध्वनित्वम् उक्तम् । तदादेर्बुद्धिस्थप्रकारावच्छिन्ने शक्तिरिति नये बुद्धेः शक्यतावच्छेदकानुगमकतया न वाच्यतासंस्पर्शः । बुद्धिस्थत्वं शक्यतावच्छेदकं इति नयेऽपि स्मृतित्वेन स्मृतेर्व्यक्तिवेद्यतैव । तस्याश्चात्र वाक्यवेद्यत्वेऽपि पदस्यैव कुर्वद्रूपत्वात्पदध्वनिविषयत्वम् । एतेन भावानां पदव्यङ्गत्वे न वैचित्र्यं इति परास्तम् । सायंतनाम्बुजोपमानेन नयनयोरुत्तरोत्तराधिकनिमीलनोन्मुखत्वध्वननद्वारा तस्या आनन्दमग्नताप्रकाशः ।
अनल्पनिःश्वासभरालसाङ्गं स्मरामि सङ्गं चिरं अङ्गनायाः ।।'
इत्यत्र स्मृतिर्न भावः, स्वशब्देन निवेदनादव्यङ्ग्यत्वात् । नापि स्मरणालंकारः, सादृश्यामूलकत्वात् । सादृश्यमूलकस्यैव स्मरणस्यालंकारत्वम्, अन्यस्य तु व्यञ्जितस्य भावत्वं इति सिद्धान्तात् । किं तु विभाव एव सुन्दरत्वात्कथंचिद्रसपर्यवसायी ।
स्त्रीणां पुरुषमुखावलोकनादेः पुंसां च प्रतिज्ञाभङ्गपराभवादेरुत्पन्नो वैवर्ण्याधोमुखत्वादिकारणीभूतश्चित्तवृत्तिविशेषो व्रीडा ।।
यथा--
सपुलकतनु मन्दं मन्दं आलोकमाना ।
विनिहितवदनं मां वीक्ष्य बाला गवाक्षे
अत्र प्रियस्य दर्शनं, तेन नायिकाकर्तृकतत्कुचान्तर्वर्तिप्रियनखक्षतावलोकनजन्यहर्षावेदकतत्पुलकादेर्दर्शनं च विभावः । सद्यः सदनप्रवेशो
ऽनुभावः ।
यथा वा--
मयि स्मितार्द्रं वदनारविन्दं सा मन्दमन्दं नमयांबभूव ।।'
पूर्वत्र त्रास इवात्रापि हर्षो लेशतया सन्नपि व्रीडाया अनुगुण एव । प्रिय कर्तृकं कपोतस्याग्रे कपोत्याः समर्पणं विभावः । वदननमनं अनुभावः ।
भयवियोगादिप्रयोज्या वस्तुतत्त्वानवधारिणी चित्तवृत्तिर्मोहः ।
'अवस्थान्तरशबलिता सा तथा' इति तु नव्याः ।
उदाहरणम्--
आगतं अपि तं सविधे परिचयहीनेव वीक्षते बाला ।।'
अत्र कान्तवियोगो विभावः । इन्द्रियवैकल्यं लज्जाद्यभावश्चानुभावः ।
यथा वा--
'शुण्डादण्डं कुण्डलीकृत्य कूले कल्लोलिन्याः किंचिदाकुञ्चिताक्षः ।
नैवाकर्षत्यम्बु नैवाम्बुजालिं कान्तापेतः कृत्यशून्यो गजेन्द्रः ।।'
लोभशोकभयादिजनितोपप्लवनिवारणकारणीभूतश्चित्तवृत्तिविशेषो धृतिः ।।
उदाहरणम्--
अस्ति मम शिरसि सततं नन्दकुमारः प्रभुः परमः ।।'
अत्र विवेकश्रुतसंपत्त्यादिर्विभावः । चापलाद्युपशमोऽनुभावः । ननु चोत्तरार्धे चिन्ता नास्तीति वस्तुनोऽभिव्यक्तेः कथं अस्य धृतिभावध्वनित्वं इति चेत्, तस्य धृत्युपयोगितयैवाभिव्यक्तेः ।
किं अनिष्टं मम भविष्यतीत्याकारश्चित्तवृत्तिविशेषः शङ्का ।।
उदाहरणम्--
अधुना बत किं विधातुकामो मयि कामो नृपतिः पुनर्न जाने ।।'
अत्र राजापराधो विभावः । मुखवैवर्ण्यादय आक्षेप्या अनुभावाः । इयं तु भयाद्युत्पादनेन कम्पादिकारिणी, न तु चिन्ता ।
आधिव्याधिजन्यबलहानिप्रभवो वैवर्ण्यशिथिलाङ्गत्वदृग्भ्रमणादिहेतुर्दुःखविशेषो ग्लानिः ।
यथा--
प्रियं आगतं अपि सविधे सत्कुरुते मधुरवीक्षणैरेव ।।'
अत्र प्रियविरहो विभावः । मधुरवीक्षणैरेवेत्येवकारेण बोध्यमाना प्रत्युद्गमचरणनिपतनाश्लेषादीनां निवृत्तिरनुभावः । न चात्र श्रमः शङ्क्यः, कारणाभावात् । केचित्तु व्याध्यादिप्रभवबलनाशं ग्लानिं आहुः । तेषां मते चित्तवृत्त्यात्मकेषु भावेषु नाशरूपाया ग्लानेः कथं समावेश इति ध्येयम् । यद्यपि 'बलस्यापचयो ग्लानिराधिव्याधिसमुद्भवः' इति लक्षणवाक्यादपचयशब्देन नाश एव प्रतियते, तथापि प्रागुक्तानुपपत्त्या बलनाशजन्यं दुःखं एव बलापचयशब्देन विवक्षितम् ।
दुःखदारिद्र्यापराधादिजनितः स्वापकर्षभाषणादिहेतुश्चित्तवृत्तिविशेषो दैन्यम् ।।
उदाहरणम्--
अधुना मम कुत्र सा सती पतितस्येव परा सरस्वती ।।'
सीतां परित्यक्तवतो भगवतः श्रीरामभद्रस्येयं उक्तिः । अत्र सीतापरित्यागरूपोऽपराधस्तज्जन्यं दुःखं वा विभावः । पतितसाम्यरूपस्वापकर्षभाषणं अनुभावः ।
यदाहुः--
अनुभावात्तु शिरसोऽभ्यावृत्तेर्गात्रगौरवात् ।।
देहोपस्करणत्यागाद्दैन्यं भावं विभावयेत् ।।' इति ।
अत्र हतकेन मया विवासिता न तु विधिनेत्येतस्यार्थस्य पतितोपमयैव परिपोषः, न तु शूद्राद्युपमया । यतः शूद्रस्य जात्यैव श्रुतिदौर्लभ्यं विधिना कृतम् । पतितस्य तु ब्राह्मणादेर्विधिना श्रुतिसुलभत्वे स्वभावेन कृतेऽपि तेनैव तथाविधं पापं आचरता स्वतः श्रुतिर्दूरीकृतेति तस्य पतितेन साम्यम्, तस्याश्च श्रुत्येत्युपमालंकारो दैन्यं एवालंकुरुते । तथा मयेति सेति चोपादानलक्षणामूलध्वनिभ्यां कृतघ्नत्वकृतज्ञात्वनिर्दयत्वदयावतीत्वाद्यनेकधर्मप्रकाशनद्वारा तदेव परिपोष्यते, सेति स्मृत्या च लेशतः प्रतीयमानया ।
इष्टाप्राप्त्यनिष्टप्राप्त्यादिजनिता ध्यानापरपर्याया वैवर्ण्यभूलेखनाधोमुखत्वादिहेतुश्चित्तवृत्तिविशेषश्चिन्ता ।।
यदाहुः--
इष्टार्थापहृतिः शश्वच्छ्वासोच्छ्वासावधोमुखम् ।।
संतापः स्मरणं चैव कार्श्यं देहानुपस्कृतिः ।
अधृतिश्चानुभावाः स्युः सा चिन्ता परिकीर्तिता ।।
वितर्कोऽस्याः क्षणे पूर्वे पाश्चात्त्ये वोपजायते ।।' इति ।
उदाहरणम्-
अकृतप्रतिमा तनुः कृता विधिना कस्य कृते मृगीदृशः ।।'
अत्र तदप्राप्तिर्विभावः । अनुतापादय आक्षेप्या अनुभावाः । न चात्रौत्सुक्यध्वनिरिति वाच्यम् । कस्य कृतैत्यनिर्धारितधर्म्यालम्बनायाश्चिन्ताया एव प्रतीयमानतया सतोऽप्यौत्सुक्यस्यैतद्वाक्येन प्राधान्येनाऽबोधनात् ।
मद्याद्युपयोगजन्मा उल्लासाख्यः शयनहसितादिहेतुश्चित्तवृत्तिविशेषो मदः ।।
यदाहुः--
'संमोहानन्दसंदोहो मदो मद्योपयोगजः ।' इति । तत्रोत्तमे पुरुषे स्वापोऽनुभावः । मध्यमे हसितगाने । नीचे तु रोदनपरुषोक्त्यादि । अयं मदस्त्रिविधः, तरुणमध्यमाधमभेदात् । अव्यक्तासंगतवाक्यैः सुकुमारस्खलद्गत्या च योऽभिनीयते स आद्याः । भुजाक्षेपस्खलितघूर्णितादिभिर्मध्यमः । गतिभङ्गस्मृतिनाशहिक्काच्छर्द्याभिरधमः ।
उदाहरणम्--
कोकनदयंस्त्रिलोकीं आलम्बनशून्यं ईक्षते क्षीबः ।।'
अत्र मादकद्रव्यसेवनं विभावः । अव्यक्तालापाद्यनुभावः । अत्र मत्तस्वभाववर्णनस्य तन्निष्ठमदव्यञ्जनार्थत्वान्मदभाव एव प्रधानं इति न स्वभावोक्त्यलंकारस्यप्राधान्यम्, अपि तु तद्ध्वन्युपस्कारकत्वं एव ।
इदं वा पुनरुदाहरणम्--
मम गृहाण करेण कराम्बुजं पपपतामि हहा भभभूतले ।।'
अत्रापि स एव विभावः । अधिकवर्णोच्चारणादिरनुभावः । पूर्वार्धगता ग्राम्योक्तिरुत्तरार्धे च तरुणीकरेऽम्बुजोपमेयतया निरूपणीये स्वकरस्य तदुपमेयतया निरूपणं च मदं एव पोषयतः ।
बहुतरशारीरव्यापारजन्मा निःश्वा साङ्गसंमर्दनिद्रादिकारणीभूतः खेदविशेषः श्रमः ।।
यदहुः--
गात्रसंवाहनैरास्य संकोचैरङ्गमोटनैः ।।
निःश्वासैर्जृम्भितैर्मन्दैः पादोत्क्षेपैः श्रमो मतः ।।' इति ।
अयं च सत्यपि बले जायते, शारीरव्यापारादेव च जायते, न तु ग्लानिः । अतो ग्लानेः श्रमस्य भेदः ।
उदाहरणम्--
चिराय चित्रे लिखितेव तन्वी न स्पन्दितुं मन्दं अपि क्षमासीत् ।।'
अत्र विपरीतसुरतरूपः शारीरव्यापारो विभावः । स्पन्दराहित्यशयनादयोऽनुभावाः । न चात्र निद्राभावध्वननेन गतार्थतेति शङ्क्यम् । सुषुप्तौ हि ज्ञानराहित्येनैव यत्नराहित्यान्मन्दं अपि स्पन्दितुं न क्षमासीदित्यस्यानतिप्रयोजनकत्वापत्तेः, शीङाभिहिततया तस्या व्यङ्ग्यत्वानुपपत्तेश्च । श्रमे त्वानुगुण्यं उचितम् ।
रूपधनविद्यादिप्रत्युक्तात्मोत्कर्षज्ञानाधीनपरावहेलनं गर्वः ।।
उदाहरणम्--
यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु ।
मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाग्यभाजां
अत्र स्वकीयकविताया अनन्यसाधारणताज्ञानं विभावः । पराधिक्षेपपरैतादृशवाक्यप्रयोगोऽनुभावः । इमं चासूयापि लेशतः पुष्णाति । उत्साहप्रधानो गूढगर्वो हि वीररसध्वनिः, अयं तु गर्वप्रधान इति तस्मादस्य विशेषः । तथा हि वीररसप्रसङ्गे प्रागुदाहृते 'यदि वक्ति-'इत्यादि पद्ये गीष्पतिनागिरां अधिदेवतयापि साकं अहं वदिष्यामीति वचनेनाभिव्यक्तस्योत्साहस्य परिपोषकतया स्थितः सर्वेभ्यः पण्डितेभ्योऽहं अधिक इति गर्वः, न तु प्रकृतपद्य इव नास्त्येव महीतले मदन्य इति स्फुटोदितेन सोल्लुण्ठवचनेनानुभावेन प्राधान्येन प्रतीयमानः ।
श्रमादिप्रयोज्यं चेतःसंमीलनं निद्रा ।।
नेत्रनिमीलनगात्रनिष्क्रियत्वादयोऽस्या अनुभावाः ।
उदाहरणम्--
बोधितापि बुबुधे मधूपैर्न प्रातराननजसौरभलुब्धैः ।।'
रात्रिजागरणश्रमोऽत्र विभावः । मधुपैर्बोधाभावोऽनुभावः ।
शास्त्रादिविचारजन्यं अर्थनिर्धारणं मतिः ।।
अत्र निःशङ्कतदर्थानुष्ठानसंशयोच्छेदादयोऽनुभावाः ।
उदाहरणम्--
अथ तस्य कृते कियानयं क्रियते हन्त मया परिश्रमः ।।'
'शरीरं एतज्जलबुद्बुदोपमम्' इत्यादिशास्त्रपर्यालोचनं अत्र विभावः । हन्तपदगम्या स्वनिन्दा राजसेवादिविरतिर्वितृष्णता चानुभावः । झगिति मतेरेव चमत्काराद्ध्वनिव्यपदेशहेतुता, न शान्तस्य, विलम्बेन प्रतितेः ।
रोगविरहादिप्रभवो मनस्तापो व्याधिः ।।
गात्रशैथिल्यश्वासादयोऽत्रानुभावाः ।
यदाहुः--
वातपित्तकफानां स्युर्व्याधयो ये ज्वरादयः ।।
उदाहरणम्--
तदुदन्तपरे मुखे सखीनां अतिदीनां इयं आदधाति दृष्टिम् ।।'
विरहोऽत्र विभावः । अङ्गक्षेपादिरनुभावः ।
भीरोर्घोरसत्त्वदर्शनस्फूर्जथुश्रवणादिजन्मा चित्तवृत्तिविशेषस्त्रासः ।।
अनुभावाश्चास्य रोमाञ्चकम्पस्तम्भभ्रमादयः ।
यदाहुः--
उदाहरणम्--
आरादुपाकर्ण्य गिरं मदीयां सौदामिनीयां सुषमा मयासीत् ।।
अत्र पत्या स्ववचनाकर्णनं विभावः । पलायनं अनुभावः । न चात्र लज्जाया व्यङ्ग्यत्वं आशङ्कनीयम् । शैशवेनैव तस्या निरासात् ।
इदं वा विविक्तं उदाहरणम्--
खेलन्न जातु गोपैरम्ब विलम्बं करिष्यामि ।।'
एषा भगवतो लीलागोपकिशोरस्योक्तिः ।
निद्राविभावोत्थज्ञानं सुप्तम् ।।>#
स्वप्न इति यावत् । अस्यानुभावः प्रलापादिः । नेत्रनिमीलनादयस्तु निद्राया एवानुभावा न त्वस्य, अनिदंजन्यत्वात् । यत्तु प्राचीनैः 'अस्यानुभावा निभृतगात्रनेत्रनिमीलनं' इत्याद्युक्तं तदन्यथासिद्धानां अपि तेषां एतद्भावव्यापकत्वादिति ध्येयम् ।
उदाहरणम्--
तव परिचितः स्नेहः सम्यङ्मयेत्यनुभाषिणीम् ।
अविरलगलद्बाष्पां तन्वीं निरस्तविभूषणां
एषा प्रवासगतस्य स्वप्नेऽपि प्रियां एवंभाषिणीं दृष्टवतो निद्रां प्रति कस्यचिदुक्तिः । यद्यप्येवंभूतायाः प्रियतमावस्थाया निवेदनेन निद्रे मम भवत्या महानुपकारः कृत इति वस्तु, विप्रलम्भशृङ्गारश्चात्र प्रतीतिपथं अवतरति, तथापि पुरःस्फूर्तिकतया स्वप्नध्वननं अत्रोदाहृतं, न प्रान्ते तयोर्ध्वननं निरोद्धुं ईष्टे ।
निद्रानाशोत्तरं जायमानो बोधो विबोधः ।।
निद्रानाशश्च तत्पूर्तिस्वप्नान्तबलवच्छब्दस्पर्शादिभिर्जायत इति त एवात्र विभावाः । अक्षिमर्दनगात्रमर्दनादयोऽनुभावाः ।
तत्र संक्षेपेणोदाहरणम्--
सुदृशो वचनं शृणोमि यावन्मयि तावत्प्रचुकोप वारिवाहः ।।'
अत्र गर्जितश्रवणं विभावः । प्रियावचनश्रवणोल्लासनाशोऽनुभावस्तून्नेयः । केचिदविद्याध्वंसजन्यं अप्यमुं आमनन्ति । तेषां मते--
स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ।।'
इति गीतापद्यं उदाहार्यम् । न तु वारिवाहविषयाया असूयाया एवात्र वाक्यार्थतेति शङ्क्यम् । विबोधप्रतीतौ हि सत्यां तस्मिन्ननौचित्यावगमे सत्यनुचितविबोधजनकत्वेन वारिवाहेऽसूयाया विलम्बेन प्रतीतेः, परमुखनिरीक्षकत्वात् । स्यादपि तस्या अपि प्राधान्यम्, यदि वारिवाहे निष्करुणत्वादिबोधकं किंचिदपि स्यात् । नापि स्वप्नस्य, वारिवाहनादेन तन्नाशस्यैव प्रतिपत्तेः । अस्तु वा स्वप्नभावप्रशमेनासूयया च सहास्य संकरः ।
इदं तु नोदाहार्यम्--
निद्रां विहाय स प्रातरालिलिङ्गाथ चेतनाम् ।।'
विबोधस्य चेतनापदवाच्यत्वात् । यथा कश्चित्सत्यप्रतिज्ञो द्वाभ्यां नायिकाभ्यां द्वौ कालावुपभोगार्थं दत्त्वा यथोचिते काल एकां उपभुज्य कालकन्तरे प्रवृत्ते तां विहायापरां भुङ्क्ते, तथैवायं रात्रौ निद्रां प्रातश्चेतनां इति समासोक्तेरेवेह प्रकाशनात् ।
परकृतावज्ञादिनानापराधजन्यो मौनवाक्पारुष्यादिकारणीभूतश्चित्तवृत्तिविशेषोऽमर्षः ।।
प्राग्वत्कारणानां कार्याणां च क्रमेण विभावानुभावत्वम् ।
उदाहरणम्--
शोणाग्राभ्यां भामिनी लोचनाभ्यां जोषं जोषं जोषं एवावतस्थे ।।'
इह त्वाकस्मिकस्तनाग्रस्पर्शो विभावः । नयनारुण्यनिर्निमेषनिरीक्षणे अनुभावौ । ननु क्रोधामर्षयोः स्थायिसंचारिणोर्भावयोः किं भेदकं इति चेत्, विषयतावैलक्षण्यं एवेति गृहाण । तत्र तु गमकं झटिति परविनाशादौ प्रवृत्तिर्वचनवैमुख्यादिकं चेति कार्यवैलक्षण्यम् ।
व्रीडादिभिर्निमित्तैर्हर्षाद्यनुभावानां गोपनाय जनितो भावविशेषोऽवहित्थम् ।।
तदुक्तम्--
तद्विभाव्यं भयव्रीडाधार्ष्ट्यकौटिल्यगौरवैः ।।'
यथा--
उपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः ।
विषज्वालाजालं झगिति वमतः पन्नगपतेः
अत्र व्रीडा विभावः । तादृशकालियकथाप्रसङ्गोऽनुभावः । एवं भयादिप्रयोज्यं अप्युदाहार्यम् ।
अधिक्षेपापमानादिप्रभवा किं अस्य करोमीत्याद्याकारा चित्तवृत्तिरुग्रता ।।
यदाहुः--
विभावाः स्युरथो बन्धो वधस्ताडनभनभर्त्सने ।।
यथा--
परप्रभावं मम गाण्डिवं धनुर्विनिन्दतस्ते हृदयं न कम्पते ।।'
एषा कर्णेन पराभूतं गाण्डिवं निन्दन्तं युधिष्ठिरं प्रति धनंजयस्योक्तिः । युधिष्ठिरकर्तृका गाण्डिवनिन्दात्र विभावः । वधेच्छानुभावः । न चामर्षोग्रतयोर्नास्ति भेद इति वाच्यम् । प्रागुदाहृतेऽमर्षध्वनावुग्रताया अप्रतीतेः । नाप्यसौ क्रोधः । तस्य स्थायित्वेनास्याः संचारिणीत्वेनैव भेदात् ।
विप्रलम्भमहापत्तिपरमानन्दादिजन्माऽन्यस्मिन्नन्यावभास उन्मादः ।।
शुक्तिरजतादिज्ञानव्यावृत्तये जन्मान्तम् ।
उदाहरणम्--
इत्यालपति कराम्बुजं आदायालीजनस्य विकला सा ।।'
एषा प्रवासगतं स्वनायिकावृत्तान्तं पृच्छन्तं नायकं प्रति कस्याश्चित्संदेशहारिण्या उक्तिः । प्रियविरहोऽत्र विभावः । असंबद्धोक्तिरनुभावः । उन्मादस्य व्याधावन्तर्भावे संभवत्यपि पृथगुपादानं व्याध्यन्तरापेक्षया वैचित्र्यविशेषस्फोरणाय ।
रोगादिजन्या मूर्छारूपा मरणप्रागवस्था मरणम् ।।>#
न चात्र प्राणवियोगात्मकं मुख्यं मरणं उचितं ग्रहीतुम् । चित्तवृत्त्यात्मकेषु भावेषु तस्याप्रसक्तेः । भावेषु च सर्वेषु कार्यसहवर्तितया शरीरप्राणसंयोगस्य हेतुत्वात् ।
उदाहरणम्--
'दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकितासीत् ।
अधुना खलु हन्त सा कृशाङ्गी गिरं अङ्गीकुरुते न भाषितापि ।।'
प्रियविरहोऽत्र विभाव । वचनविरामोऽनुभावः । हन्तपदस्यात्रात्यन्तं उपकारकत्वाद्वाक्यव्यङ्ग्योऽप्ययं भावः पदव्यङ्ग्यतां आवहति । एतेन भावस्य पदव्यङ्ग्यतायां नात्यन्तं वैचित्र्यं इति परास्तम् । दयितस्य गुणाननुस्मरन्तीत्यनेन व्यज्यमानं 'चरमावस्थायां अपि तस्या दयितगुणविस्मरणं नाभूद्' इति वस्तु, विप्रलम्भस्य शोकस्य वा चरमं अभिव्यक्तस्य पोषकम् । अयं च भावः स्वव्यञ्जकवाक्योत्तरवर्तिना वाक्यान्तरेण संदर्भघटकेन नायिकादेः प्रत्युज्जीवनवर्णने विप्रलम्भस्य, अन्यथा तु करुणस्य पोषक इति विवेकः । कवयः पुनरमुं प्राधान्येन न वर्णयन्ति, अमङ्गलप्रायत्वात् ।
संदेहाद्यनन्तरं जायमान ऊहो वितर्कः ।।
स च निश्चयानुकूलः ।
अथ मे कथं अस्ति जीवितं न विनालम्बनं आश्रितस्थितिः ।।'
स्वात्मनि भगवतो रामस्यैषोक्तिः । भुवि सीतास्ति न वेति संदेहोऽत्र विभावः । भ्रूक्षेपशिरोङ्गुलिनर्तनं आक्षिप्तं अनुभावः । न चासौ चिन्तेति शक्यं वदितुम्, चिन्ताया नियमेन निश्चयं प्रत्यप्रयोजकत्वात् । किं भविष्यति कथं भविष्यतीत्याद्याकारायाश्चिन्तायाः, इदं इत्थं भवितुं अर्हति प्रायश इत्याकारस्य वितर्कस्य विषयवैलक्षण्योपलम्भाच्च । न विनेत्यादिनोक्तोऽर्थान्तरन्यासोऽप्यस्मिन्नेवानुकूलः ।
इष्टासिद्धिराजगुर्वाद्यपराधादिजन्योऽनुतापो विषादः ।।
उदाहरणम्--
दुर्योधनस्य जीवित कथं इव नाद्यापि निर्यासि ।।'
अत्र स्वापकर्षपरोत्कर्षयोर्दर्शनं विभावः । जीवितनिर्याणाशंसा, तदाक्षिप्तं वदननमनादि चानुभावः । अस्मिन्नेव च विषादध्वनौ दुर्योधनस्येत्यर्थान्तरसंक्रमितवाच्यध्वनिरनुग्राहकः । न चात्र त्रासभावध्वनित्वं शक्यम्, परवीरस्य दुर्योधनस्य त्रासलेशस्याप्ययोगात् । नापि चिन्ताध्वनित्वम्, युद्ध्वा मरिष्यामीति तस्य व्यवसायात् । नापि दैन्यध्वनित्वम्, सकलसैन्यक्षयेऽपि विपदस्तेनागणनात् । न वा वीररसध्वनित्वम्, मरणस्य शरणीकरणे परापकर्षजीवितस्योत्साहस्याभावात् ।
इदं पुनरत्र नोदाहार्यम्--
श्लथय गतिं अहं नो संगरं द्रष्टुं ईहे ।
श्रुतिविवरं अमी मे दारयन्ति प्रकुप्यद्
अत्र त्रासस्यैव प्रतीयमानत्वेन विषादस्याप्रतीतेः । लेशतया प्रतितौ वा त्रास एवानुगुण्यौचित्येन ध्वनिव्यपदेशायोग्यत्वात् ।
अधुनैवास्य लाभो ममास्त्वितीच्छा औत्सुक्यम् ।।
इष्टविरहादिरत्र विभावः । त्वराचिन्तादयोऽनुभावाः ।
यदाहुः--
निद्रया तन्द्रया गात्रगौरवेण च चिन्तया ।।
उदाहरणम्--
कदा नयननीलाब्जं आलोकेय मृगीदृशः ।।'
अनर्थातिशयजनिता चित्तस्य संभ्रमाख्या वृत्तिरावेगः ।।
उदाहरणम्--
दर्पदुर्विलसितो दशाननः कुत्र यामि निकटे कुलक्षयः ।।
एषा स्वात्मनि मन्दोदर्या उक्तिः । रघुनन्दनागमनं अत्र विभावः ।
कुत्र यामीत्येतद्व्यङ्ग्यः स्थैर्याभावोऽनुभावः । न चात्र चिन्ता प्राधान्येन व्यज्यत इति शक्यते वक्तुम्, कुत्र यामीति स्फुटं प्रतीतेन स्थैर्याभावेनोद्वेगस्येव चिन्ताया अप्रत्यायनात् । परं त्वावेगचर्वणायां तत्परिपोषकतया गुणत्वेन चिन्तापि विषयीभवति ।
चिन्तोत्कण्ठाभयविरहेष्टानिष्टदर्शनश्रवणादिजन्यावश्यकर्तव्यार्थप्रतिसंधानविकला चित्तवृत्तिर्जडता ।।
इयं च मोहात्पूर्वतः परतश्च जायते ।
यदाह--
तद्विभावाः प्रियानिष्टदर्शनश्रवणे रुजा ।।
अनुभावास्त्वमी तूष्णीं भावविस्मरणादयः ।
उदाहरणम्--
'यदवधि दयितो विलोचनाभ्यां सहचरि दैववशेन दूरतोऽभूत् ।
तदवधि शिथिलीकृतो मदीयैरथ करणैः प्रणयो निजक्रियासु ।।'
प्रियविरहोऽत्र विभावः । करणैश्चक्षुःश्रवणादिभिः क्रियासु तत्तत्प्रमितिषु प्रणयस्य शिथिलीकरणं अनुभावः । मोहे चक्षुरादिभिश्चाक्षुषादेरजननम्, इह तु प्रकारविशेषवैशिष्ट्येन बाहुल्येनाजननं इति तस्मादस्य विशेषः । अत एवोदाहरणे शिथिलीकृत इत्युक्तम्, न तु त्यक्त इति ।
अतितृप्तिगर्भव्याधिश्रमादिजन्या चेतसः क्रियानुन्मुखतालस्यम् ।।
अत्र च नासामर्थ्यम् । नापि कार्याकार्यविवेकशून्यत्वम् । तेन कार्याकरणरूपस्यानुभावस्य तुल्यत्वेऽपि ग्लानेर्जडतायाश्चास्य भेदः ।
उदाहरणम्--
'निखिलां रजनीं प्रियेण दूरादुपयातेन विबोधिता कथाभिः ।
अधिकं न हि पारयामि वक्तुं सखि मा जल्प तवायसी रसज्ञा ।।'
एषा हि प्रियागमनद्वितीयदिवसे मुहुर्निशावृत्तान्तं पृच्छन्तीं सखीं प्रति रजनिजागरणजनितालस्यायाः कस्याश्चिदुक्तिः । अत्र रजनिजागरणं विभावः । अधिकसंभाषणाभावोऽनुभावः । जडतायां मोहात्पूर्ववर्तित्वं उत्तरवर्तित्वं वा नियतम्, न त्वत्रेत्यपरो विशेषः । गोपनीयविषयत्वाद्यदि कथाभिरित्यविवक्षितवाच्यं तदा श्रमोऽस्तु परिपोषकः । श्रमजन्ये ह्यालस्ये श्रमस्य पोषकताया अवार्यत्वात् । अतितृप्त्यादिजनिते त्वालस्ये श्रमाद्विविक्तविषयत्वं बोध्यम् ।
परोत्कर्षदर्शनादिजन्यः परनिन्दादिकारणीभूतश्चित्तवृत्तिविशेषोऽसूया ।।
इमां एवासहनादिशब्दैर्व्यवहरन्ति ।
यथा--
भङ्गस्तु सर्वसंहर्त्रा कालेनैव विनिर्मितः ।।'
एषा भग्नहरकार्मुकस्य भगवतो रामस्य पराक्रमं असहमानानां तत्रत्यानां राज्ञां उक्तिः । अत्र च श्रीमद्दाशरथिबलस्य सर्वोत्कृष्टताया दर्शनं विभावः । प्राकृतशिशुपदगम्या निन्दा अनुभावः ।
मौनं मुञ्चति किं च कैरवकुले कामे धनुर्धुन्वति ।
माने मानवतीजनस्य सपदि प्रस्थातुकामेऽधूना
अत्रापि यद्यपि तदीयोच्छृङ्खलतादिदर्शनजन्या अनुचितकारित्वरूपनिन्दाप्रकाशानुभाविता
कविगता विधात्रालम्बनासूया व्यज्यत इति शक्यते वक्तुम्, तथापि कार्यकारणयोस्तुल्यत्वादभिव्यक्तेनामर्षेण शबलितैवासौ
न विविक्ततया प्रतियते । नहि विधातुरपराध इव भगवतो रामस्यापराधोऽस्ति येन कवेरिव वीराणां अप्यमर्षोऽभिव्यज्येत । स्वभावो हि महोन्नतक्रियानिष्पादनं वीराणाम् । अत्राप्रस्तुतचन्द्रवृत्तान्तेन प्रस्तुतराजकुमारादिवृत्तान्तस्य ध्वननान्नास्त्यसूयाध्वनित्वं इति तु न वाच्यम् । एकध्वनेर्ध्वन्यन्तराविरोधित्वात् । अन्यथा महावाक्यध्वनेरवान्तरवाक्यध्वनिभिः, तेषां च पदध्वनिभिः सह सामानाधिकरण्यं कुत्रापि न स्यात् ।
वियोगशोकभयजुगुप्सादीनां अतिशयाद्ग्रहावेशादेश्चोत्पन्नो व्याधिविशेषोऽपस्मारः ।।
व्याधित्वेनास्य कथनेऽपि विशेषाकारेण पुनः कथनं बीभत्सभयानकयोरस्यैव व्याधेरङ्गत्वं नान्यस्येति स्फोरणाय । विप्रलम्भे तु व्याध्यन्तरस्यापि च ।
उदाहरणम्--
कम्पमानः श्वसन्कंसो निपपात महीतले ।।'
अत्र भयं विभावः । कम्पनिःश्वासपतनादयोऽनुभावाः ।
अमर्षादिजन्यवाक्पारुष्यादिकारणीभूता चित्तवृत्तिश्चपलता ।।
यदाहु--
इति यत्र विभावाः स्युरनुभावस्तु भर्त्सनम् ।।
वाक्पारुष्यं प्रहारश्च ताडनं वधबन्धने ।
उदाहरणम्--
आत्मानं हन्तुं इच्छामि येन त्वं असि भावितः ।।'
एषा भगवदनुरक्तिविघटनोपायं अपश्यतः प्रह्लादं प्रति हिरण्यकशिपोरुक्तिः । भगवद्द्वेषोत्थापितः पुत्रद्वेषोऽत्र विभावः । आत्मवधेच्छा परुषवचनं चानुभावः । न चामर्ष एवात्र व्यज्यत इति वाच्यम् । सदैव भगवदनुरागिणि प्रह्लादे हिरण्यकशिपोरमर्षस्य चिरकालसंभृतत्वेनात्मवधेच्छाया इदंप्रथमतानुपपत्तेः । इदंप्रथमकार्यस्य चेदंप्रथमकारणप्रयोज्यतया प्राचीनचित्तवृत्तिविलक्षणाया एव चपलताख्यचित्तवृत्तेः सिद्धेः । न चामर्षप्रकर्ष एवात्मवधेच्छादिकारणं अभिव्यज्यतां इति वाच्यम् । प्रकर्षस्यापि स्वाभाविकविलक्षणलक्षणताया आवश्यकतया तस्यैव चपलतापदार्थत्वात् ।
नीचपुरुषेष्वाक्रोशनाधिक्षेपव्याधिताडनदारिद्र्येष्टविरहपरसंपद्दर्शनादिभिः, उत्तमेषु त्ववज्ञादिभिर्जनिता विषयद्वेषाख्या रोदनदीर्घश्वासदीनमुखतादिकारिणी चित्तवृत्तिर्निर्वेदः ।
उदाहरणम्--
अमुना जडजीवितेन मे जगता वा विफलेन किं फलम् ।।'
नित्यानित्यवस्तुविवेकजन्यत्वाभावान्नासौ रसव्यपदेशहेतुः ।
देवादिविषया रतिर्यथा--
किरीटास्ते कीटा इव विधिमहेन्द्रप्रभृतयः ।
वितिष्ठन्ते युष्मन्नयनपरिपातोत्कलिकया
अत्रापमानसहनभगवद्द्वारनिषेवणभगवत्कटाक्षपाताभिलाषादिभिर्ब्रह्मादिगता भगवदालम्बना रतिर्नाभिव्यज्यते, अपि तु भगवदैश्वर्यं अवाङ्मनसगोचर इति चेत्तथापि तादृशभगवदैश्वर्यवर्णनानुभावितया कविगतभगवदालम्बनरत्या ध्वनित्वं अक्षतं एव ।
इदं वोदाहरणम्--
मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ।।'
अत्र धनाद्यपेक्षाशून्यस्य भगवद्दृगन्तपाताभिलाषो हि भगवत्यत्यन्तानुरक्तिं व्यनक्ति । एवं संक्षेपेण निरूपिता भावाः ।।
अथ कथं अस्य संख्यानियमः । मात्सर्योद्वेगदम्भेर्ष्याविवेकनिर्णयक्लैब्यक्षमाकुतुकोत्कण्ठाविनयसंशयधार्ष्ट्यादीनां अपि तत्र तत्र लक्ष्येषु दर्शनातिति चेत्, न । उक्तेष्वेवैषां अन्तर्भावेण संख्यान्तरानुपपत्तेः । असूयातो मात्सर्यस्य, त्रासादुद्वेगस्य, अवहित्थाख्याद्भावाद्दम्भस्य, अमर्षादीर्ष्यायाः, मतेर्विवेकनिर्णययोः, दैन्यात्क्लैब्यस्य, धृतेः क्षमायाः, औत्सुक्यात्कुतुकोत्कण्ठयोः, लज्जाया विनयस्य, तर्कात्संशयस्य, चापलाद्धार्ष्ट्यस्य च वस्तुतः सूक्ष्मे भेदेऽपि नान्तरीयकतया तदनतिरिक्तस्यैवाध्यवसायात् । मुनिवचनानुपालनस्य संभव उच्छृङ्खलताया अनौचित्यात् । एषु च संचारिभावेषु मध्ये केचन केषांचन विभावा अनुभावाश्च भवन्ति । तथा हि-- ईर्ष्याया निर्वेदं प्रति विभावत्वम्, असूयां प्रति चानुभावत्वम् । चिन्ताया निद्रां प्रति विभावत्वम्, औत्सुक्यं प्रति चानुभावतेत्यादि स्वयं ऊह्यम् ।
अथ रसाभासः-- तत्र
अनुचितविभावालम्बनत्वं रसाभासत्वम् ।।
विभावादावनौचित्यं पुनर्लोकानां व्यवहारतो विज्ञेयम् । यत्र तेषां अयुक्तं इति धीरिति केचिदाहुः । तदपरे न क्षमन्ते । मुनिपत्न्यादिविषयकरत्यादेः संग्रहेऽपि बहुनायकविषयाया अनुभयनिष्ठायाश्च रतेरसंग्रहात् । तत्र विभावगतस्यानौचित्यस्याभावात् । तस्मादनौचित्येन रत्यादिर्विशेषणीयः । इत्थं चानुचितविभावालम्बनाया बहुनायकविषयाया अनुभयनिष्ठायाश्च संग्रह इति । अनौचित्यं च प्राग्वदेव । तत्र रसाद्याभासत्वं रसत्वादिना न समानाधिकरणम् । निर्मलस्यैव रसादित्वात् । 'हेत्वाभासत्वं इव हेतुत्वेन' इत्येके । 'न ह्यनुचितत्वेनात्महानिः, अपि तु सदोषत्वादाभासव्यवहारः । अश्वाभासादिव्यवहारवत्' इत्यपरे ।
उदाहरणम्--
सुधाफेनस्वच्छे रहसि शयितां पुष्पशयने ।
विबोध्य क्षामाङ्गीं चकितनयनां स्मेरवदनां
अत्रालम्बनं अनुचितप्रणया राजरमणी । रहोरजन्याद्युद्दीपनम् । साहसेन राजान्तःपुरे गमनम्, प्राणेषूपेक्षा, निःश्वासाश्लेषादयश्चानुभावाः । शङ्कादयः संचारिणः । निषिद्धालम्बनकत्वाच्चास्या रतेः, आभासत्वं रसस्य । न चात्र चकितनयनां इत्यनेन परपुरुषस्पर्शत्रासाभिव्यक्त्या रतेरनुभयनिष्ठतेत्याभासताहेतुर्वाच्यः । अस्याश्च चिराय तस्मिन्नासक्ताया अन्तःपुरे परपुरुषागमनस्यात्यन्तं असंभावनया क एष मां बोधयतीत्यादावुचित एव त्रासः । अनन्तरं च परिचयाभिव्यक्त्या सोऽयं मत्प्रियो मदर्थं प्राणानपि तृणीकृत्यागत इति ज्ञानादुत्पन्नं हर्षं अभिव्यञ्जयत्स्मेरवदनां इति विशेषणं रतिं तदीयां अपि व्यनक्ति । परं तु प्राधान्यं नायकनिष्ठाया एव रतेः, सकलवाक्यार्थत्वात् ।
यथा वा--
तरुणेषु विलोचनाब्जमालां अथ बाला पथि पातयांबभूव ।।
अत्र कुतश्चिदागच्छन्त्याः पथि तदीयरूपयौवनगृहीतमानसैर्युवभिरनुगम्यमानायाः कस्याश्चिद्भवनप्रवेशसमये निजसेवासार्थक्यविज्ञानाय गमनाज्ञापनरूपलाभलालसेषु तेषु परमपरिश्रमस्मरणसंजातकरुणाया गमनाज्ञादाननिवेदकस्य विलोचनाम्बुजमालापरिक्षेपस्यानुभावस्य वर्णनादभिव्यज्यमाना रतिर्बहुवचनेन बहुविषया गम्यत इति भवत्ययं अपि रसाभासः ।
यथा वा--
तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम् ।।'
अत्र रतेर्नववध्वा मनागप्यस्पर्शादनुभयनिष्ठत्वेनाभासत्वम् ।
तथा चोक्तम्--
बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम् ।।' इति ।
अत्र मुनिगुरुशब्दयोरुपलक्षणपरतया राजादेरपि ग्रहणम् ।
अथात्र किं व्यङ्ग्यम्--
पाण्डुपुत्रेषु पाञ्चाल्याः पतन्ति प्रथमा दृशः ।।'
अत्र व्यानम्रतया धर्मात्मताप्रयोज्यं युधिष्ठिरे सभक्तित्वम्, चलिततया स्थूलाकारताप्रयोज्यं भीमसेने सत्रासत्वम्, स्फारिततया अलौकिकशौर्यश्रवणप्रयोज्यं अर्जुने सहर्षत्वम्, परमाकुलतया परमसौन्दर्यप्रयोज्यं नकुलसहदेवयोरौत्सुक्यं च व्यञ्जयन्तीभिर्दृग्भिः पाञ्चाल्या बहुविषयाया रतेरभिव्यञ्जनाद्रसाभास एवेति नव्याः । प्राञ्चस्त्वपरिणेतृबहुनायकविषयत्वे रतेराभासतेत्याहुः । तत्र शृङ्गाररस इव शृङ्गाराभासोऽपि द्विविधः । संयोगविप्रलम्भभेदात् । संयोगाभासस्त्वनुपदं एवोदाहृतः ।
विप्रलम्भाभासो यथा--
सर्वस्मिन्विदधाति किं च विषये दृष्टि निरालम्बनाम् ।
श्वासं दीर्घं उरीकरोति न मनागङ्गेषु धत्ते धृतिं
अत्र सीतालम्बनेयं लङ्केशगता विप्रलम्भरतिरनुभयनिष्ठतया जगद्गुरुपत्नीविषयकतया चाभासतां गता, व्यत्यस्तं लपतीत्यादिभिरुक्तिभिर्व्यज्यमानैरुन्मादश्रममोहचिन्ताव्याधिभिस्तथैवाभासतां गतैः प्राधान्येन परिपोष्यमाणा ध्वनिव्यपदेशहेतुः । एवं कलहशीलकुपुत्राद्यालम्बनतया वीतरागादिनिष्ठतया च वर्ण्यमानः शोकः, ब्रह्मविद्यानधिकारिचाण्डालादिगतत्वेन च निर्वेदः, कदर्यकातरादिगतत्वेन पित्राद्यालम्बनत्वेन वा क्रोधोत्साहौ, ऐन्द्रजालिकाद्यालम्बनत्वेन च विस्मयः, गुर्वाद्यालम्बनतया च हासः,
महावीरगतत्वेन भयम्, यज्ञीयपशुवसासृङ्मांसाद्यालम्बनतया वर्ण्यमाना जुगुप्सा च रसाभासाः । विस्तृतिभयाच्चामी नेहोदाहृताः सुधीभिरुन्नेयाः ।
एवं एवानुचितविषया भावाभासाः ।
यथा--
विद्यापि खेदकलिता विमुखीबभूव ।
सा केवलं हरिणशावकलोचना मे
गुरुकुले विद्याभ्याससमये तदीयकन्यालावण्यगृहीतमानसस्यान्यस्य वा कस्य चिदप्रतिषिद्धगमनां स्मरतो देशान्तरं गतस्येयं उक्तिः । अत्र च स्वात्मत्यागात्यागाभ्यां स्रक्चन्दनादिषु विषयेषु, चिरसेवितायां विद्यायां च कृतघ्नत्वम्, अस्यां च लोकोत्तरत्वं अभिव्यज्यमानं व्यतिरेकवपुःस्मृतिं एव पुष्णातीति सैव प्रधानम् । एवं च त्यागाभावगतं सार्वदिकत्वं व्यञ्जयन्त्यधिदेवतोपमापि । एषा चानुचितविषयकत्वादनुभयनिष्ठत्वाच्च भावाभासः । यदि पुनरियं तत्परिणेतुरेवोक्तिस्तदा भावध्वनिरेव ।।
अथ भावशान्तिः--
भावस्य प्रागुक्तस्वरूपस्य शान्तिर्नाशः ।।
स चोत्पत्त्यवच्छिन्न एव ग्राह्यः, तस्यैव सहृदयचमत्कारित्वात् ।
उदाहरणम्--
इति तन्व्याः पतिवचनैरपायि नयनाब्जकोणशोणरुचिः ।।'
इह तादृशप्रियवचनश्रवणं विभावः । नयनकोणगतशोणरुचेर्नाशः, तदभिव्यक्तः प्रसादो वानुभावः । उत्पत्तिकालावच्छिन्नो रोषनाशो व्यङ्ग्यः ।
तथा--
भावोदयो भावस्योत्पत्तिः ।।
उदाहरणम्--
अंसदेशवलयीकृतां क्षणादाचकर्ष निजबाहुवल्लरीम् ।।'
अत्रापि दयितवक्षोगतविपक्षकामिनीहारलक्ष्मदर्शनं विभावः । प्रियांसदेशवलयीकृतनिजबाहुलताकर्षणं अनुभावः । रोषोदयो व्यङ्ग्यः । यद्यापि भावशान्तौ भावान्तरोदयस्य, भावोदये वा पूर्वं भावशान्तेरावश्यकत्वान्नानयोर्विविक्तो व्यवहारस्य विषयः, तथापि द्वयोरेकत्र चमत्कारविरहात्, चमत्काराधीनत्वाच्च व्यवहारस्य, अस्ति विषयविभागः ।
एवम्--
भावसंधिरन्योन्यानभिभूतयोरन्योन्याभिभवनयोग्ययोः सामानाधिकरण्यम् ।।
उदाहरणम्--
संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ।।'
अत्र भगवद्दाशरथिगतस्य लोकोत्तरयौवनोद्गमस्य, तादृशस्यैव शीलशौर्यादेश्च दर्शनं विभावः । नयनगतसंकोचविकासावनुभावः । व्रीडौत्सुक्ययोः संधिर्व्यङ्ग्यः ।
तथा--
भावशबलत्वं भावानां बाध्यबाधकभावं आपन्नानां उदासीनानां वा व्यामिश्रणम् ।।
एकचमत्कृतिजनकज्ञानगोचरत्वं इति यावत् ।
उदाहरणम्--
सा मां इन्दुमुखी विना बत वने किं जीवितं धास्यति ।
आलोकेय कथं मुखानि कृतिनां किं ते वदिष्यन्ति मां
अत्र मत्यसूयाविषादस्मृतिवितर्कव्रीडाशङ्कानिर्वेदानां प्रागुक्तस्वस्वविभावजन्मनां शबलता । यत्तु काव्यप्रकाशटीकाकारैः 'उत्तरोत्तरेण भावेन पूर्वपूर्वभावोपमर्दः शबलता' इत्यभ्यधीतय, तन्न । 'पश्येत्कश्चिच्चल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः क्वासि यासि' इत्यत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यमत्यौत्सुक्यानां उपमर्दलेशशून्यत्वेऽपि शबलताया राजस्तुतिगुणत्वेन पञ्चमोल्लासे मूलकृतैव निरूपणात् । स्वोत्तरविशेषगुणेन जायमानस्तु नाशो न व्यङ्ग्यः । न वोपमर्दपदवाच्यः, नापि चमत्कारी तस्मात् ।
विलक्षणो तथास्वादो भावानां संहतौ तथा ।।'
अत्रेदं बोध्यम्-- य एते भावशान्त्युदयसंधिशबलताध्वनय उदाहृतास्तेऽपि भावध्वनय एव । विद्यमानतया चर्व्यमाणेष्विवोत्पत्त्यवच्छिन्नत्वविनश्यदवस्थत्वसंधीयमानत्वपरस्परसमानाधिकरणत्वैः प्रकारैश्चर्व्यमाणेषु भावेष्वेव प्राधान्यस्यौचित्यात्, चमत्कृतेस्तत्रैव विश्रान्तेः । यद्यप्युत्पत्तिविनाशसंधिशबलतानां तत्संबन्धिनां भावानां च समानायां चर्वणाविषयतायां न प्राधान्यं विनिगन्तुं शक्यते, तथापि स्थितौ भावेषु प्रधानतायाः क्ल्प्तत्वात्, भावशान्त्यादिष्वपि तेष्वेव शान्तिप्रतियोगित्वादिभिर्व्यज्यमानेषु तस्याः कल्पयितुं औचित्यात् । किं च यदि भावशान्त्यादौ भावो न प्रधानम्, किं तु तदुपसर्जनकशान्त्यादिरेवेत्यभ्युपेयते तदा व्यज्यमानभावेष्वभिहिततत्प्रशमादिषु काव्येषु भावप्रशमादिध्वनित्वं न स्यात् ।
तथा हि--
सुदृशो नयनाब्जकोणयोरुदियाय त्वरयारुणद्युतिः ।।'
अत्रोत्पूर्वकेणैतिना भावोदयस्य वाच्यतयैव प्रत्यायनात् । (ननु)उदयस्य वाच्यत्वेऽपि भावस्यावाच्यत्वाद्धनित्वं सुस्थं इति चेत्, प्रधानस्य व्यपदेशानौपयिकत्वेऽप्रधानकृतव्यपदेशानुपपत्तेः । अस्मन्मते तूत्पत्तेर्वाच्यत्वेऽप्युत्पत्त्यवच्छिन्नस्यामर्षस्य प्रधानस्यावाच्यत्वाद्युक्त एव भावोदयध्वनिव्यपदेशः ।
एवं व्यज्यमानभावप्रतियोगिकस्य प्रशमस्य वाच्यत्वे भावशान्तिध्वनित्वं न स्यात् ।
यथा--
शेमुः सरोजनयनानयनारुणकान्तयः ।।'
ननु शब्दवाच्यानां प्रशमादीनां अरुणकान्त्यैवान्वयातरुणकान्तिप्रशमादेरेव वाच्यत्वं पर्यवसितम्, न तु तादृशप्रशमादिव्यङ्ग्यस्य रोषप्रशमादेः, व्यङ्ग्यव्यञ्जकभेदस्यावश्यकत्वात् । न चारुण्यव्यङ्ग्यरोषस्यैव वाच्यीभूतप्रशमाद्यन्वय इति वाच्यम् । वाच्यव्यङ्ग्यप्रतीत्योरानुपूर्व्येण सिद्धतया वाच्यान्वयबोधवेलायां वाच्यैः सह व्यङ्ग्यान्वयानुपपत्तेः । अन्यथा 'सुदृशो नयनाब्जकोणयोः' इत्यस्यान्वयो न स्यात् । मैवम् । एवं अपि--
चिरापराधस्मृतिमांसलोऽपि रोषः क्षणप्राघुणिको बभूव ।।'
इत्यादावपि भावप्रशमध्वनित्वापत्तेः, भावस्य वाच्यत्वेऽपि प्रधानस्य तत्प्रशमस्य व्यङ्ग्यत्वात् । उभयोरप्यवाच्यत्वं अपेक्षितं इति चेत्, प्रागुक्तपद्यद्वये शमत्वोदयत्वाभ्यां शमोदययोर्वाच्यत्वादनुदाहरणत्वापत्तेः । इष्टापत्तिस्तु सहृदयानां अनुचितैव । तस्माद्भावप्रशमादिष्वपि प्राधान्येन भावानां एव चमत्कारित्वम्, प्रशमादेस्तूपसर्जनत्वं अतो न तस्य वाच्यतादोषः ।
इदं पुनर्भावध्वनिभ्यो भावशान्त्यादिध्वनीनां चमत्कारवैलक्षण्ये निदानम्-- यदेकत्र चर्वणायां भावेषु स्थित्यवच्छिन्नामर्षादित्वम्, अमर्षादित्वं एव वा प्रकारः । अन्यत्र तु प्रशमावस्थत्वादिरपीति । रसस्य तु स्थायिमूलकत्वात्प्रशमादेरसंभवः, संभवे वा न चमत्कारः, इति न स विचार्यते ।
सोऽयं निगदितः सर्वोऽपि रत्यादिलक्षणो व्यङ्ग्यप्रपञ्चः स्फुटे प्रकरणे झगिति प्रतितेषु विभावानुभावव्यभिचारिषु सहृदयतमेन प्रमात्रा सूक्ष्मेणैव समयेत प्रतीयत इति हेतुहेतुमतोः पौर्वापर्यक्रमस्यालक्षणादलक्ष्यक्रमो व्यपदिश्यते । यत्र तु विचारवेद्यं प्रकरणम्, उन्नेया वा विभावादयस्तत्र सामग्रीविलम्बाधीनं चमत्कृतेर्मान्थर्यं इति संलक्ष्यक्रमोऽप्येष भवति । यथा-- 'तल्पगतापि च सुतनुः' इति प्रागुदाहृते पद्ये 'संप्रति' इत्येतदर्थावगतिर्विलम्बेन । न खलु धर्मिग्राहकमानसिद्धं रत्यादिध्वनेरलक्ष्यक्रमव्यङ्ग्यत्वम् । अत एव लक्ष्यक्रमप्रसङ्गे--
लीलाकमलपत्राणि गणयामास पार्वती ।'
इत्यत्र कुमारीस्वाभाव्यादप्यधोमुखत्वविशिष्टस्य लीलाकमलपत्त्रगणनस्योपपत्त्या मनाग्विलम्बेन नारदकृतविवाहादिप्रसङ्गविज्ञानोत्तरं व्रीडायाश्चमत्करणाल्लक्ष्यक्रमोऽयं ध्वनिः' इति प्राहुरानन्दवर्धनाचार्याः । रसभावादिरर्थो ध्वन्यमान एव, न वाच्यः । तथापि न सर्वोऽलक्ष्यक्रमस्य विषयः' इति चाभिनवगुप्तपादाचार्याः । स्यादेतत्, यद्ययं रसादिः संलक्ष्यक्रमस्य विषयः स्यात् । अनुरणनभेदगणनप्रस्तावे 'अर्थशक्तिमूलस्य द्वादशभेदाः' इत्यभिनवगुप्तोक्तिः, 'तेनायं द्वादशात्मकः' इति मम्मटोक्तिश्च न संगच्छेत, वस्त्वलंकारात्मना द्विविधेन वाच्येन स्वतःसंभवित्वकविप्रौढोक्ति-निष्पन्नत्वकविनिबद्धवक्तृप्रौढोक्तिनिष्पन्नत्वैस्त्रिभिरुपाधिभिस्त्रैविध्यं आपन्नेन षडात्मना वस्त्वलंकारयोरिव रसादेरप्यभिव्यञ्जनादष्टादशत्वप्रसङ्गात् ।
अत्रोच्यते-- प्रकटैर्विभावानुभावव्यभिचारिभिरलक्ष्यक्रमतयैव व्यज्यमानो रत्यादिः स्थायिभावो रसीभवति, न संलक्ष्यक्रमतया । रसीभावो हि नाम झगिति जायमानालौकिकचमत्कारविषयस्थायित्वम् । संलक्ष्यक्रमतया व्यज्यमानस्य रत्यादेस्तु वस्तुमात्रतैव, न रसादित्वं इति तेषां आशयस्य वर्णनेन न तदुक्तीनां विरोधः । उपपत्तिस्त्वर्थेऽस्मिन्विचारणीया । रसभावादिरर्थ इत्यत्र रसादिशब्दो रत्यादिपरः ।
तदित्थं निरूपितस्यास्य रसादिध्वनिप्रपञ्चस्य पदवर्णरचनावाक्यप्रबन्धैः पदैकदेशैरवर्णात्मकै रागादिभिश्चाभिव्यक्तिं आमनन्ति । तत्र वाक्यगतानां पदानां सर्वेषां अपि स्वार्थोपस्थितिद्वारा वाक्यार्थज्ञानोपायत्वे समानेऽपि कुर्वद्रूपतया चमत्कारायोगव्यवच्छिन्नत्वेन कस्यचिदेव ध्वनिव्यपदेशहेतुत्वम् । यथा 'मन्दं आक्षिपति' इत्यत्र मन्दं इत्यस्य । रचनावर्णानां तु पदवाक्यान्तर्गतत्वेन व्यञ्जकतावच्छेदककोटिप्रविष्टत्वं एव न तु व्यञ्जकत्वं इति यद्यपि सुवचम्, तथापि पदवाक्यविशिष्टरचनात्वेन, रचनाविशिष्टपदवाक्यत्वेन वा व्यञ्जकत्वं इति विनिगमनाविरहेण घटादौ दण्डचक्रादेः कारणत्वस्येव प्रत्येकं एव व्यञ्जकतायाः सिद्धिरिति प्राञ्चः ।
वर्णरचनाविशेषाणां माधुर्यादिगुणाभिव्यञ्जकत्वं एव न रसाभिव्यञ्जकत्वम्, गौरवान्मानाभावाच्च । न हि गुण्यभिव्यञ्जनं विना गुणाभिव्यञ्जकत्वं नास्तीत्यस्ति नियमः, इन्द्रियत्रये व्यभिचारात् । इत्थं च स्वस्वव्यञ्जकोपनीतानां गुणिनां गुणानां उदासीनानां च यथा परस्परोपश्लेषेणौदासीन्येन वा तत्तत्प्रमितिगोचरता तथा रसानां तद्गुणानां चाभिव्याक्तिविषयतेति तु नव्याः । उदाहरणं तु 'तां तमाल' इत्यादि प्रागुक्तं एव वाक्यस्य व्यञ्जकतायां अपि 'आविर्भूता यदवधि' इत्यादि च । प्रबन्धस्य तु योगवासिष्ठरामायणे शान्तकरुणयोः, रत्नावल्यादीनि च शृङ्गारस्य व्यञ्जकत्वान्निदर्शनानि प्रसिद्धानि । मन्निर्मिताश्च पञ्ज लहर्यो भावस्य । पदैकदेशस्य च 'निखिलं इदं जगदण्डकं वहामि' इति करूपतद्धितो वीररसस्य प्रागेवोदाहृतः । एवं रागादिभिरपि व्यङ्ग्यत्वे सहृदयहृदयं एव प्रमाणम् । एवं एषां रसादीनां प्राधान्येन निरूपितान्युदाहरणानि । गुणीभावे तु वक्ष्यन्ते, नामानि च । तत्र प्राधान्य एवैषां रसादित्वम्, अन्यथा तु रत्यादित्वं एव । नामनि रसपदं तु रत्यादिपरं इत्येके । अस्त्येव रसादित्वं, किं तु न ध्वनिव्यपदेशहेतुत्वं इत्यपरे ।।